०३ निर्मलदासः

साधु शास्त्री निर्मलदासः

वेदान्ताचार्यः

श्रीः

श्रीमते रामानुजाय नमः । श्रीस्वामिनारायणाय नमः ।

श्रीस्वामिनारायण गुरुकुलम्

राजकोट,

गुजरात्

19-8-2000

श्रीस्वामिनारायणभगवता हि भगवद्रामानुजप्रतिपादितं विशिष्टा (सविशेषा) द्वैततत्त्वमेव स्वसंमतम्, तदेव स्वशिष्यैरध्येयमिति कण्ठत एव शिक्षापत्र्याम् ‘विशिष्टाद्वैतं मतम् मे’ इति, ‘शारीरकाणां भगवद्गीतायाश्चावगम्यताम् । रामानुजाचार्यकृतं भाष्यमाध्यात्मिकं मतम् ॥’ इति चाभिहितमिति ज्ञात्वा इतः प्रायः दशवर्षभ्यः प्राक् गुर्जरप्रदेशात् न्यायविशिष्टाद्वैदवेदान्तादिसंस्कृतशास्त्राध्ययनार्थं महीशूरपुरी यादवाद्रि प्रति च समागतास्स्वामिनारायणसंप्रदायानुयायिनो नैके साधवः । तदात्वे संस्कृतभाषानिबद्धवेदशास्त्रादिज्ञान- रहितानां अज्ञानमात्रधनानां तादृशसाधूनां सच्छास्त्रसद्बोधनद्वारा सन्मार्गप्रदर्शनाय लब्धाः इमे महागुरवः ‘पण्डितरत्नम्’ ‘महामहोपाध्याय’ ‘शास्त्ररत्नाकर’ इत्यादिनानान्वर्थबिरुदभाजः, विदितसकलशास्त्रसाराः, महाज्ञानिनः, अपारकरुणाशालिनः, असूयाऽऽलस्यादिदोषप्रत्यनीकाः, ख्यातिलाभपूजादिविमुखाः, तपोधनाः, ‘के. एस्. वरदाचार्यः’ इति सुगृहीतनामधेयाः महान्तो गुरुवराः । तेषामेतेषां सन्निधौ वर्षपञ्चकपर्यन्तं, न्यायशास्त्रं, उपनिषदः, सांख्यकारिका एवं नानाविशिष्टाद्वैतसम्बद्धा मूलग्रन्थाः, प्रकरणग्रन्थाश्च समधिगतस्तैस्तैस्साधुभिः, तेषामेवासीमकृपया ॥

एवं गुरुवरैः तादृशसाधूनां कृते आमूलचूलं सम्यक् पाठितेषु ग्रन्थेष्वन्यतमः सर्वतन्त्रस्वतन्त्र- कवितार्किकसिंह-श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः । तादृशग्रन्थपाठनावसरे स्वानुपममेधा- प्रज्ञाप्रतिभाविलासवशात् निरुपाधिकभगवद्गुरुभक्तिवशाच स्वदृष्टाः अद्यतनप्राक्तनग्रन्थादिष्वनपलभ्यमानाः, भारतीयसंस्कृतेः, शास्त्राणाम्, अस्मद्वैदिकसप्रदायस्य च मूलस्तम्भा इव विराजमानास्सहस्रशो विचाराः परैरूहितुमप्यशक्याः स्वीयसुधासदृशवाग्भिर्वर्षिताः साधूनामुपरि परमकृपयैव केवलं, आचार्यवर्यैः । पूर्वं ह्यस्माकं मनस्यन्तराले सत्स्वन्केषु मतेषु श्रीशङ्कराचार्यादिभिः प्रतिपादितेषु श्रीस्वामिनारायणभगवता भगवद्रामानुजप्रतिपादितमेव मतं स्वसंमतमितमिति कुत उद्घोषयामासुः ? तादृशं वैशिष्ट्यमस्य किमस्तीति कश्चन संशय आसीत् । एतेषामाचार्याणां सकाश अध्ययनानन्तरमेव स संशयः संपूर्णतया स्वयमेव गळितो बभूव । इदमेव दर्शनमत्यन्तप्रामाणिकं बादरायणादिसंमतमिति निश्चयो बभूव ||

एतादृशाद्भुतमहाविचारश्रवणेनात्मानं धन्यं मन्यमानास्साधवः तदैव, आगामिजिज्ञासुपरम्परायाः कृते यथायथं सर्वेऽप्येते विचाराः ग्रन्थरूपेण परिरक्षणीया इति सप्रश्रयनिर्बन्धं आचार्यवर्यान् बहुधा प्रार्थया - मासुः । एतादृशी प्रार्थनां प्रथममनङ्गीकुर्वन्तोऽपि, लोकस्यास्य सौभाग्यवशादनन्तरं कथञ्चिङ्गीकृत्याचार्यवर्या

ii

1

इमे सर्वङ्कषाख्यां तत्त्वमुक्ताकलापव्याख्यां, सकलशास्त्रीयाध्यात्मिकादिनानाक्षेत्रस्थगहनरहस्यसद्विचारबोधिकां एतत्कालानुगुणवैज्ञानिकविचारशाणविधेयक्षतिरहितां परमया हार्दया च मुदा निबबन्धुः । परं त्वेतद्ग्रन्थमध्ये तत्र तत्र ‘शिष्टं समये स्पष्टीभविष्यति’ इति वाक्यखण्डनदर्शनेन अयमपि ग्रन्थः न समग्रविषयप्रतिपादक इति ज्ञायते । एतदधिकृत्य तैस्साकं विचारकरणे च तैरुक्तं समाधानं न्याय्यमिति चाङ्गीकृतम् । तैः किल - ‘सत्यमिदम्, यत्संपूर्णरीत्या विषया न प्रतिपादिता इति । तत्र च कारणद्वयं वर्तते । एकम्, बहुकालात्पूर्वं विद्वत्सभायामेव मया प्रतिपादितजीवेश्वरभेदविचारं सुदीर्घं संश्रुत्यान्ते सभाध्यक्षाः महाविभूतिपुरुषाः श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रस्वतन्त्रपरकालमहादेशिकाः ‘भोः ! भवदुक्तं सर्वं समीचीनमेव । परं तु अत्यन्तनवीनत्वात् पूर्ववासनापीडितैः पण्डितैर्नाङ्गीकर्तुं शक्यम् । एतादृशी परिस्थितिः भगवद्रामानुजस्या- प्यासीदिति वेदार्थसंग्रहोपसंहारश्लोकव्याख्यायाम् - ‘अस्मत्सवयसानेनोक्तं कथमस्माभिरङ्गीकर्तुं शक्यमिति मन्वानान् प्रत्याह – विमत्सरा’ इति’ इति सुदर्शनसूरिवचनेनावगम्यते । अतस्सावधानेन भवितव्यं भवता’ इति प्राबोधयन् । द्वितीयं च, व्याख्या तत्तादृशस्य कवितार्किकसिंहग्रन्थस्य । ते किल सर्वज्ञा अपि तत्कालानुरोधेन यावद्वक्तुं शक्यं तावदेवावदन्निति तदीयश्लोकात् - (अद्रव्य. 135 ) स्पष्टमवगम्यते । अतस्त- द्व्याख्यायां व्याख्यामर्यादामतीत्य कथनं न युक्तम् । अतस्सूचनामात्रं कृतम् । आवश्यकं चेत्, भगवानपि तथा मन्येत चेत्, पश्यामस्समये इत्यभिहितम् । सोऽपि परमनिर्णयप्रतिपादको ग्रन्थोऽचिरादेव प्रकटो भवतु भगवत आदेशादित्याशास्महे ||

अद्य च एतादृशव्याख्यासहिततत्त्वमुक्ताकलापमुद्रणे यत्किञ्चित् सेवारूपं साह्यमस्माभिः विहितमिति महान् सन्तोषोऽस्माकम् । कलिमहिम्नातीवाधोधोविद्यमानाय जगते विशिष्य संस्कृतशास्त्र- दर्शनाध्येतॄणां एतादृशसद्विचारगर्भेयं व्याख्या मार्गप्रदर्शिका भवतीत्यत्र नास्ति संशीतिलेशोऽपि । एतादृश- महत्पुण्यावहे आत्मनोऽपि भागधेयत्वं, तद्द्वारा महदभ्युदयं च विहितं भवेदित्याशास्यते । एतादृशप्रवृत्तौ स्वसामर्थ्यानुगुणसेवां विधातुं अवकाशं दत्तवद्भ्यः सर्वेभ्यः प्रणामान् विज्ञाप्य विज्ञप्तिरेषा भगवते, गुरुवरेभ्यश्च

सादरं प्रणतिततिनिवेदनपूर्वकं च समर्प्यते ॥

1

स्वामिनारायणसंप्रदायानुयायी

कामशास्त्री वेदान्ताचार्यः साधु निर्मलदासः