०१ समर्पणम्

“ये नाम केचिदिह नः प्रथयन्त्य् अवज्ञां
जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते मम तु कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ "

इति निराशाया निरीक्षाया वा नावकाशः,
यतो निरीक्षैव काचिद् इह न लेशतो ऽप्य् अस्ति । एवम्-

" ग्रन्थ-ग्रन्थिर् इह क्वचित् क्वचिद् अपि न्यासि प्रयत्नान् मया
प्राज्ञं-मन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु ॥ "

इति दर्पस्य धार्ष्टयस्य वा न गन्धलेशः,
यतोऽयं व्याख्याकारः +++(दासस्य दासस्य … दास इति)+++ सप्त-पर्व-दास्य-सुखाकाङ्क्षी । किन्तु-

सारासारविवेकज्ञाः
गरीयांसो विमत्सराः ।
प्रमाणतन्त्रास् सन्तीति
तेभ्यस् त्वैतत् समर्पितम् ॥

नव्यमङ्गलाभिजनः
वरदाचार्यः
व्याख्याता महामहोपाध्याय-शास्त्ररत्नाकर-सर्वशास्त्रकलानिधि-पण्डितरत्नेत्यादि-बिरुद-भूषितः भारत-राष्ट्रपति-संमानितः नव्यमङ्गलाभिजनः वरदाचार्यः ॥