६३ यतिलिङ्गभेद-भङ्ग-प्रसाधनम्

श्रिया सह वृषाचले विहरतः पदाब्जं हरेः श्रये यदिदमीप्सवः परमहंस एवं परः । बहूदककुटीचकावपि लसन्ति मुक्तैषणाः त्रिदण्डमुपवीतमप्यपि शिखां वहन्तो यताः ॥ “काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी” इति दत्तात्रेयस्तिदण्डधारी त्रयीधर्मं ररक्षेति स्मर्यते । अत्र त्रिदण्डधारिणा रक्षितेत्युक्तत्वात, जातु संन्यासिषु विदण्डधारणाचारविपरीताचारप्रवर्तनेन संध्या पोसनादित्रयीधर्मविलोपनं पाषाण्डादिपरिचयमूलमापतितमिति ज्ञायते । अतः संन्यासिपर्यन्त सर्वाश्रमिसाधारण्यं त्रयीधर्मस्य प्रख्याप्य तदुपयोगि शिखा त्रिदण्डोपवीतधारणमाप्यावश्यकमिति स ग्राहयामासेति सिद्ध्यति । पराशरमाघवीये च, “हारीत दत्तात्रेय पितामहाः कुटीचकादीन् चतुरोऽप्युपन्यस्य सर्वेषां त्रिदण्डमेव विदधते, ‘वृत्तिभेदेन भिन्नाश्च नैव " लिङ्गेन ते द्विजाः । लिङ्ग तु वैणवं तेषां त्रिदण्डं सपवित्रकम् ’ इति । अत्रिरपि, ‘शिखिनस्तु श्रुताः केचित् केचिन्मुण्डाश्च भिक्षुकाः । चतुर्धा भिक्षुकाः प्रोक्ताः सर्वे चैव त्रिदण्डिनः’ इति” इत्यन्ववादि । अनेन मुण्डत्वकदण्डत्वयोर्न संनियोगनियम इत्य् अपि ज्ञापितम् । अत्र वैणवमिति विशेषणात्, “वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च" इति दक्षोक्तमनोवाक्कायदण्डमात्रतस्त्रिदण्डित्वसिद्धेयुदासः स्पष्टः । अत एव परमहंसस्य त्रिदण्डित्ववचनानां वाग्दण्डादिलाक्षणिकार्थपरतया माधवीये नयनमनुपपन्नम् । एतद्वचनैकरस्येन स्वरसार्थग्रहणस्योपेक्षणं यभिनिवेशमेव दर्शयेत् । वाग्दण्डादिविधायकवाक्यं तु सर्वेष्वाश्रमेषु, “न लिङ्गं धर्मकारणम्” इति वचनवत् तदावश्यकत्वाभिप्रायम्, न वैणवत्रिदण्ड परिसंख्यानम् । उपाते वाक्ये सर्वेषामपि यतीनां वृत्तिभेदमात्रम्, न लिङ्गभेद इति वर्णनं मतिसिननंद नज-प्रसाधनम् १०६९ हि लिङ्गभेदप्रतिपादकतया प्रतीतानां वचनानां तदैदम्पर्यं न मन्तव्यमिति ज्ञापयत् तेषामर्थान्तरतात्पर्यं ग्राहयति । वृत्तिभेदश्च माधवीयेऽपि मात्रया दर्शितः -कुटीचकस्य स्वकगृहे वर्तनम् आहिताभिषु बन्ध्वादिषु भिक्षाचररणम्, बहूदकस्य बन्धुपुत्रादिवर्जनेन साधुवृत्त ब्राह्मणगृहेषु भैक्षचरणम्, हंसस्य त्रिषवणस्नान ग्रामतीर्थैकरात्र नगरपश्ञ्चरात्रभाव. कृच्छचान्द्रायणादिकृतशरीरकर्शनादि, परमहंसस्य माधुकरतात्कालिकोपपन्नादिभैक्षचरणमित्येवम् । एवं लिङ्गभेदशङ्का न कार्येति वचनेनैवोक्तत्वात् कचित् तल्लिङ्गभेदप्रतिपादनमन्यथा नेयमिति सिद्धम् । हंसपरमहंसयोरुपवीतं नास्तीति चात एवायुक्तम् । “यज्ञोपवीतं दण्डञ्च वस्त्र जन्तुनिवारणम् । तावान् परिग्रहः प्रोक्तो नान्यो हंसपरिग्रहः” इति माधवी योद्धतविष्णुवचनेनैव हंसेऽपि तत्सिद्धेः । अत्र दण्डमिति कथनात् एकदण्डधारणप्रसक्तावप्युपवीतत्यागो नास्तीति ज्ञायते ।

9 यत्तु माध्वीये, ‘अत्र केचित् श्रद्धाजाडयेन सन्ध्यावन्दनोपवीतादित्यागमसहमानाः अन्यादृशं पारमहंस्यं विद्विषन्ती ‘ति प्रक्रम्य, उपवीतसन्ध्योपासनत्यागनिन्दावाक्यानां परमहंसव्यतिरिक्तविषयतया संकोचनम्, तदप्यत एवं लिङ्ग-भेदनिषेधवाक्यत एवायुक्त सिद्धम् । जाबालश्रुतिआरुणिश्रुति मैत्रावरुणश्रुतिं पिप्पलादशाखावचनानि परमहंसस्योपवीतादित्यागपराणि तदुपवीतादिविधायिवाक्याविरोधेन निर्वाह्माणि । मैत्रावरुणश्रुतिरेव हि, “त्रीन् वैणवान् दण्डान् दक्षिणपाणौ घारयेत् एकं वा । यद्येकम्, तदः सशिखं वपनं कृत्वा विसृज्य यज्ञोपवीतम्” इति त्रिदण्डधारणमुपवीतधारणञ्च परमहंसस्यापि स्वरसप्राप्तमिति, एकदण्डादिधारणप्रसक्तिः कदाचिदिति च दर्शयति । व्यासविश्वामित्रादिस्मृतिवचनग तिरप्येतदनुरोधेन भाव्या । तत्र व्यासवचनं यज्ञोपवीतत्यागिना कर्मापि त्यक्तव्यं भवतीति बोधयति ; नै पुनरुभयत्यागस्याऽऽवश्यकत्वम् । विश्वामित्रवचनमप्यावश्य कपारिव्राजक लिङ्गविपरीताकारसंभावनामपि कदाचित् दर्शयत तदा कर्तव्य क्रममाह ; न तु लिङ्गस्य त्याज्यत्वम् । स्मृत्यन्तरमपि तत्रोपात्तं ब्रह्मवेद नस्यानिष्पन्नत्वे मुख्यलिङ्गपरित्यागः सर्वथा न युक्त इति दर्शयितुं प्रवृत्तम् ।१०७०

अथ माधवीये, परमहंसोपनिषद्दर्शने एकदण्डधारणमप्यमुख्यं प्रतीयते, ‘ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते’ इति यथा ज्ञानमेव शिखा चोपवीतञ्च, तथा दण्डश्चेत्यवगमादित्याशङ्कय, ‘सत्यम्, विविदिषोरेव संन्यासिन एकदण्डः; न तु विद्वत्संन्यासिनः’ इःि समाहितम् । तथासति, " यदा तु विदितं तत् स्यात् परं ब्रह्म सनातनम् । तदेकदण्डं संगृह्य उपवीतं शिखां त्यजेत्" इति विदुष एकदण्डधारणवचनं विरुध्यते । विविदिषोश्चेदेकदण्डः, तर्हि त्रिदण्डः कस्य ? स किं त्रिवर्गपरस्य । तस्मादेवं वचननिर्वाह प्रयासो व्यर्थः 1 " एकदण्डी भवेद्वापि त्रिदण्डी वा मुनिर्भवेत्" इत्येतादृशवचनं तु यति लिङ्गन्यूनान्यून भावेऽपि युक्तमिति बोधयति । मननरूपस्वकार्यब्रह्ममननवैयक्रयवैधुर्य यतेर्न हंसपर्यन्तानां शिखायज्ञोपवीतधारणं माधवेष्टम् । शतभूषणीकारस्तु परमहंसस्य त्रिदण्डोपवीतादि नास्तीति पक्षं नाभ्युपैति । शाट्यायनोपनिषदि पराशरहारीतात्रिदत्तात्रेयादिवचनेषु कुटीचकबहूदकहं सपरमहंसरूपेण चतुर्वि घानामपि त्रिदण्डयज्ञोपवीतादिविधानादिति शतदूषणीदर्शितवचनानुसारेण सर्व संमत्य वैष्णवावैष्णव भेदेनोपवीतादिसदसद्भावव्यवस्थां वाञ्छति । वैष्णवयतयस्त्रिदण्डोपवीतधारिणो लक्ष्यन्ते, अन्ये चान्यथेति लोके दृष्टमेव शास्त्रार्थत्वेन संपिपादयिषतीव । व्यवस्था चेयं निर्मूला । यत्तु वचनमदर्शि, “लिङ्गं तु वैष्णवं तेषां त्रिदण्डं सपवित्रकम् " इति, तत्रोच्यतेवैष्णवमित्यत्र वैणवमिति पदमटितोऽपि श्लोकोऽस्ति ; माधवीये तथैवोदाहृत्य निर्वहणात् । वैष्णवमितिपदघटितं वचनमपि, ‘नमस्यो भक्तिभावेन विष्णुरूपी त्रिदण्दधृक्’ इत्येतदनुसारात् सर्वस्यापि यतैर्वैष्णवत्वमेव दर्शयेत् । त्रिदण्डं वैष्णवम्, एकदण्डस्त्ववैष्णव इति न कुत्राप्यदर्शि । शाट्यायनीयोपनिषदि, ‘सर्व एते विष्णुलिङ्गं दधानाः ’ इति श्रवणमपि सन्न्यासिसामान्यस्य विष्णुचिह्नवहत्वमेव वेदयेत् ; न तु वैष्ण वावैष्णवभेदम् । आश्रमन्तरेषु काम्यकर्मप्रावण्यस्यापि प्रसतया " का मैस्तैस्तैहृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः” इत्युक्तरीत्या कदाचित् देवतान्तर चिह्नधारण I यति लिङ्गमेद-भङ्ग-प्रसाधनम् १०७१ मपि संभाव्यते । मोक्षाश्रमिणां तु सर्वेषणा विनिर्मुक्तानां देवतान्तरासंश्रयणप्रसत्यभावात् मोक्षप्रद मुकुन्दमात्रनिष्ठतेति संन्यासिधार्यस्य लिङ्गस्य विष्णुलिङ्गत्वेन परिगणनम् । अनूदितञ्च माधवीये, ‘सन्यस्यन्तं द्विजं दृष्ट्रा स्थानाच्च लति भास्करः । एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ॥” इति, " यतीनां व्रतवृद्धानां स्वधर्ममनुवर्तिनाम् । विष्णुरूपेण वै कुर्यान्नमस्कारं विधानतः " इति च । विष्णुचिह्नविहीना अद्यतनाः शाङ्करपीठाधिपतयोऽपि नारायणस्मृतिमेव निर्दिशन्ति । एवं वैष्णवाश्रमं प्रविश्य वेषान्तरधारर्णमा’नायप्रतिकूलमेव । अवैष्णवो न ब्राह्मणो भवितुमर्हतीत्यपि केचिदखिलतन्त्रपारहश्वान एवाद्वैतिनो निबन्धमुखेन स्वाशयमा विरकार्षुः । सर्वथा तावत् अवैष्णवस्य वैदिकयतित्वमेव न भवतीति तु सप्रधारणीयम् । यावच्च विष्णोरेव देवतासार्वभौमत्वम्, वैष्णवपरमपदप्राप्तेरेवार्चिरादिसाध्यायाः मुख्यमुक्तित्वं स्थास्यति तावत् वैष्णवैरेव यतिभिर्मोक्षाश्रमिभिर्भाव्यमित्यत्र न विप्रतिपत्तेरवकाशः । विष्णुभक्तेस्तत्त्वज्ञानसाधनत्ववादिभिरद्वैतिभिरपि विष्णुचिह्नधारणमवर्जनीयम् । परमहंस परिव्राजकोपनिषदि प्रथमतो दण्डकमण्डल्वादिपरिग्रहम्, अथ, ’ यदाऽलम्बुद्धिर्भवेत् तदा कुटीचको वा बहूदको वा हंसो वा परमहंसो वा सर्व विसृज्य जातरूपधरश्वरेत्’ इति त्यागमपि विधाय, ‘भगवन् कथमयज्ञोपवीती अशिखी सर्वकर्ममरित्यक्तः, कथं ब्रह्मनिष्ठापरः, कथं ब्राह्मणः’ इति प्रश्नमुपक्षिप्य, “विष्णुर्भोभो अर्भक यस्यास्त्यद्वैतमात्मज्ञानम्, तदेव यज्ञोपवीतम्” इत्यादिना प्रकारान्तरेणोपवीतादिनिर्वाहावसरे विष्णुशब्दनिर्देशात् ईसस्यापि यतेर्वैष्णवत्वमेवावसीयते । आरुणिकोपनिषद्यपि दण्डाच्छादनकौपीनपरिग्रह प्रागुक्त्वा ततः, पालाशमित्यादिना दण्डादित्यागमप्यभिधाय, “तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति श्रवणात् वैष्णवत्वमीदृशयते स्पष्टम् । तस्माद् वैष्णवावेष्णव भेदकल्पनं यतिष्वयुक्तम् । त्रिदण्डधारणाधिकृतानामेवापदि एकदण्डविधानात् वैष्णवस्यापि तत्सिद्धेश्च । आस्तामेतत् । परमहंसपर्यन्तानां त्रिदण्डोपवीतादिधारणस्य श्रुतिस्मृति १०७२ परमभूषणे प्रमाणकत्वं यथा, तथा परमहंसविवये तत्त्यागस्यापि प्रामाणिकत्वं प्रतीयत इति कयमुभयनिर्वाह इति चेत् किं व्यवस्थित विकल्पाभाचेऽपि अव्यवस्थितविकल्प एवास्तु । तथाचोभयोऽप्याचारोऽनुमंस्यते इति वक्तुमध्यवसितोऽसि । तन्न युज्यते; अष्टदोषदुष्टत्वात् । त्रिदण्डालाभे एकदण्ड इति वचनेनापद्विषयत्वस्यैकदण्डेऽवगमाच्च । “वृतिभेदेन भिन्नास्ते नेव लिङ्गेन" इति लिङ्गमेदविषये वाचनिकनिषेधे जाग्रति मुख्यवैकल्पिकलिङ्गद्वयकल्पनस्यायोगाच्च । तद्वचनं कुटीचकत्रहूदकमात्रविषयमिति माधवमनोरथस्तु सर्वविषयकतायाः स्पष्टं तत्रैव कण्ठोक्कतया निष्फल एव । शतभूषणीदर्शनेऽपि तद्वचनं सर्वविषयकमिति स्पष्टम् । तर्हि कथं विरुद्धार्थकानां वचनानामविरोधसंपादनमिति चेत् तदिदं शतभूषणीविचारविमरीपूर्वमभिधीयते शतभूषण्युपात्ताः श्रुतयः सर्वाः सामस्त्येन प्रमाणभूता एवेत्येतदेव न प्रतिपन्नम् । पूर्वैरनुदाहृतेषु विस्रम्भायोगात् । अष्टोत्तरशतोपनिषत्सु अनेकत्र प्रक्षेपादिना अनाश्वसस्य सर्वसंमतत्वात् । एवञ्च नारदपरिव्राजकोपनिषदि संन्यासषाडिध्यै निर्दिश्य परमहंसोपरि तुरीयातीतस्यावधूतस्य च पृथक्परिगणनं सर्वसंमतचातुर्विध्यविरोधान्नातीव विलम्भगीयम् । परमहंसस्यैव तुरीयातीतावधूतविषये निर्दिष्टा रीतिः कदाचिद्भवितुमर्हति न त्विमौ अपरमहंसौ । एवं तत्र कुटीचकस्योर्ध्वपुण्डधारणम्, बहूदकस्य त्रिपुण्डधारणम्, हंसस्य त्रिपुण्ड्रोंपुण्ड्रधारणमित्यादिकमपि न विश्वसनीयम् । मुमुक्षोः संन्यासिनो वैष्णवत्वस्य विष्णुसाम्यस्य च सर्वत्रोक्तत्वात् । माधवादिसमतत्वाच्च । एवञ्च तुरीयातीतोपनिषदपि न श्रद्धेया । परंतु तत्रोक्तोऽवधूतो दिगम्बरो महापुरुषो नारायणैकचित्त इति नारायणप्रशस्यमान एव श्राव्यत इति नायमवैष्णवः । भिक्षुकोपनिषदि, हंसे परमहंसे च दण्डयज्ञोपवीताद्यनुक्तिमात्रेण तयोस्तदभावः, तत्रापि हंसे त्रिदण्डस्य, परमहंसे एकदण्डस्यापि चाभावः सिद्ध्यतीति शतभूषणी कल्पनं न स्थास्यति । कुटीचकेऽपि त्रिदण्डाद्यनुत्तया तदसिद्धिप्रंसगात् । यदि च बहूदकविषये प्रयुक्तम्, “त्रिदण्डकमण्डलु शिखायज्ञोपवीतकाषायवस्त्रधारिण" यतिलिङ्गद-भङ्ग प्रसाधनम् इति पदं कुटीचकवाक्य एव ं प्रथम पठनीयमिति मन्यते । तर्हि तत् बंदं हंसपरमहंस विषयेऽप्यनुवर्तिष्यते, विपरीताकारानिर्देशात् । अतः शाट्यायनकोपनिषदिवेयमपि सर्वेषां त्रिदण्डादिसद्भावाभिप्रायेत्येव साम्प्रतम् । अब एवानुपवीतत्वादिशङ्का व्युदासायेव पराशरेण स्पष्टमेव सर्वेषां त्रिदण्डोपवीनादिकम्, अनुवृत्त्या अर्थलभ्यत्ववर्णनप्रयासव्यपोहेन प्रतिपदपाठेन प्रादर्शि । तत्र परमहंसविषयेऽपि, “ब्राह्मणकुलादेव भैक्षं गृहीत्वा” इति स्मरणात् वर्णान्तराद् भैक्षानुमतिवचनानि आपद्विषयाणि कुटीचकाद्यपेक्षया परमहंसविषय अबाधकत्वातिशयपरतयैव नेयानि । यथैतत्, तथैव त्रिदण्डाद्यभाववर्णनमपि तत्रतत्र कथितं नेयम् । नीतञ्च त्रिदण्डादीनामप्सु त्यागविधानम्, “गृहीतं यत् त्रिदण्डादेरविनएं तु न त्यजेत् । समुद्रं गच्छ स्वाहेति विनष्ट प्रक्षिपेज्जले” इति वचनविशेषसिद्धविनष्टविदण्डादिविषयमपि भवितुमर्हति । उपवीतत्यागश्च विनष्टविषय इव गार्हस्थ्यद शागृहीतद्वितीयोपवीतविषयोऽपीत्येवं शतदूषण्याम् । माधवोपात्तयासवचन दिकमभिसंधाय चाभ्यधायि, " तदपि तत्तत्कोशेषु न पश्यामः । न चोदाहरन्ति पूर्वे निरूपकाः । …….. तत्तद्वचनकारिषु व्यासादिसमाख्यां संकेतेन प्रक्षिप्य धर्मसूनुरिव सत्यवादी भव…….. अतो युष्मत्कूटस्थपक्षपातिनां प्रक्षेपस्तथा स्याद्वा न वेति समीचीनदृष्टया भावय" इत्येवम् । परमहंसविषये चोपवीतादित्यागपराणि यानि कानि चिदू बचनानि सन्ति तेषां निर्वाहप्रकारश्च अलेपकमत-भङ्गवादे दर्शित एव । यत्तु वचनबला देवेहशांशत्यागात्, ‘मोहात् तस्य परित्यागः तामसः परिकीर्तितः’ इत्युक्तत्तामसत्यागदोषो नास्तीति – तदिदं त्यागविधिसद्भावनिर्णये शोभेत । ‘वृत्तिभेदेन भिन्नास्ते नैव लिङ्गेन’ इति लिङ्गभेदस्य वाचनिके निषेधे जाग्रति लिङ्गत्यागविधिर्हि न भवति । यदि च त्यागोऽपि शास्त्रार्थः, तर्हि जाबालोपनिषदादिषु परमहंसप्रस्तावे “अव्यक्तलिङ्गाः अव्यक्ताचाराः अनुन्मता उन्मत्तवदाचरन्तः” इति किमित्यव्यक्त लिङ्गतायुक्तिः ; भलिङ्गा 135 १०७४

अनाचारा इत्येव निर्देशसंभवात् । “अनाविष्कन्नन्वयात्” इति सूत्रकारेण बाल्ये माहात्म्यानाविष्कार रूप मेवोक्तम् ; सर्वान्नानुमतिश्चानादि निराकृता । तेनेदृशपरमहंसासद्भावः सिद्धः । यतिधर्मसमुच्चये चासमीक्षादशाकृतानुपवीत संन्यासपद्धतिमुत्सृज्य प्रायश्चित्तपूर्वकृतयथावस्थितसंन्यासेन यादवप्रकाशाचार्येण विरचिते, “मौण्ड्यं शिखा वेति विकल्पः । यज्ञोपवीतं तु सर्वेषां नित्यमेव । तथाऽत्रिः पारीवाज्यमेवाधिकृत्याऽऽद् ” — इत्यादिना ब्रह्मसूत्रत्यागे पातित्यं प्रादर्शि । अन्यच्चोक्तम्, “द्विधा च परित्राट् ज्ञानाभ्यासशीलो योगमारुरुक्षुरेकः, अपरस्त्वारूढयोगः तत्त्वदर्शी अव्यक्तलिङ्गः अव्यक्ताचारः उन्मत्तवदाचरन् …….. । सम्यग् ज्ञानिनामपि पञ्चमालाधारणमवश्यं कर्तव्यम् । …. संग्रहो नवसूत्रस्य द्विजानां मुक्तिसाधनम् । विना तेन भवेत् सद्यः सर्वधर्म बहिष्कृतः । ( अत्र मुक्तिसाधनमिति पदं मोक्षाश्रमेत्युपवीतावश्यकत्वप्रदर्शि ।) कुचित् त्रिदण्डनाशे तु एकदण्डो विधीयते …….. केचित्तु चतुविधत्वं वर्णयन्ति, चतुर्विया भिक्षवस्तु कुटीचकबहूदकौ । हंसः परमहंसश्च गोयः पश्चात् स उत्तमः’ इति । एतदपि पञ्चरात्रसिद्धम्, सांख्यसिद्धञ्च; न वेदसिद्धमिति केचिदाहुः” इति । अनेन वाक्येन यतीनां चातुर्विध्यप्रतिपादिकाः परैरुपात्ता उपनिषदः श्रुतयः स्मृतिविरोधे सति न विस्रम्भणीयाः । पूर्वाचार्यपरिग्रहद्रढिमाभावेन प्रक्षेपशङ्कास्पदत्वादिति ज्ञापितम् । ‘न वेदसिद्धम् ’ इति वदतामयमाशयः यदि बहूनीदृशानि श्रुतिवाक्यानि निर्वि चिकित्सप्रमाणभूतानि स्युः, तदा परामर्श जैमिनिरिति सन्न्यासाभावपूर्वपक्षः, विधिर्वा धारणवदिति स्थापनक्लेशश्चान्यादृशः सूत्रकृता नैवोढः स्यात् । जाबालवाक्यमेकं तु स्थितमपि नातीवाहतमिति । भाष्ये तन्मात्रग्रहणादेवान्याभावोपि ज्ञायत इति । आस्तामेतत् । सर्वथा तावदुपवीतादित्यागः परमहंसस्य न प्रामाणिकः । विशिष्य चाद्वैतिभिरप्यवधेयानि वाक्यानीमानि, " ब्रह्माणं केशवं शम्भुं ध्यायेन्मुच्येत बन्धनात् । रक्तं पितामहं ध्यायेत् विष्णुं नीलोत्पलप्रभम् । श्वेतं त्रिलोचनं शम्भुं संसारार्णवतारणम् । वासुदेवः परं ब्रह्म परमात्मा t. यति लिङ्ग मेद-भङ्ग-प्रसाधनम् १०७५ जगन्मयः । तस्यैव मूर्तयस्त्वेता भिद्यन्तेऽभिख्यया विधा । …. सर्वतेजोमयं पुण्यं शरण्यं शरणार्थिनाम् । चिन्तयेत् पुण्डरीकाक्षं नारायणमयं हरिम् । …….. एवं हि ध्यायतस्तस्य ब्रह्मनिष्ठस्य योगिनः । सौख्यमानन्दमद्वैतं परं ब्रह्म प्रकाशते । प्रकाशितेन तत्त्वेन मुक्तिरुक्ता मनीषिणाम्" इत्येवम् । तस्मादनुपवीतिनामनारायणपरायणानां न संन्यासाश्रमः श्रुतिस्मृतिसंमत इति ज्ञायते । SA.. I अत्रे बोध्यम् -‘जनेनावमतो योगी योगसिद्धिश्च विन्दति । तस्माचरेत वै योगी सनां वर्त्म न दूषयेत् । जना यथाऽवमन्येरन् गच्छेयुर्नैव संगतिम्’ इत्युक्तमनुसृत्य जनसंगति परिहाराय " गूढधर्माश्रितो विद्वान् अज्ञानकरणे स्थितः । अमूढो मूढरूपेण चरेत् धमिदूषयन्" इत्याद्यनतिलङ्घनेन सन्मार्गादूषणेनैव कालं क्षिपत्सु योगिषु, “क्लिन्नदन्तान्तरः सभ्यैः परिभूतः स नागरैः” इत्युक्तरीत्या नागरैरपि परिभूयमानत्वे मूर्खाविवेकिदुर्जनं परिभूयमानत्वं दण्डापूपायितम् । वर्णितश्च श्रीभागवते. दण्डकमण्डल्वाद्यपहरण विभञ्जनादिनाऽपि यतिपरिभवः । ईदृश्यां दण्डोपवीतादिसंरक्षणं कथं तावत् परमुखप्रतीक्षणैकप्राप्य सर्वांशाः यतयः कर्तुं प्रभवन्ति । दुर्दशायामस्यामा श्रम धर्मभ्रंशेन बिभ्यतः कांश्चित् परमहंसान् आश्वासयितुं प्रवृत्तानीहशानि कानिच्चिनानि एवमगत्यां दुरुपयोजानि लिङ्गानि यथाविध्यप्सु प्रक्षिप्य नव्यलिङ्गधारणस्य च कर्तव्यस्योपकारिसाधुजनाला मेनाशक्यत्वे प्राप्ते उपवीताद्यभावेन संध्योपासनादावप्यनधिकारादकरणे आपतितेऽप्यात्मा न क्लेशयितव्यः । ज्ञानमेव शिखा, तदेवोपवीतम्, तदेव त्रिदण्डादि सर्वमिति विभाव्य, “अपि चेत् पातकं किञ्चित् योगी कुर्यात् प्रमादतः । योगमेव निषेवेत नान्य यत्नं समाचरेत्”, “प्राणायामात्मकात् ध्यानात् नान्यद् भिक्षोर्विशोधनम् " इति विभाव्य ज्ञानतो वाऽज्ञानतो वा विहितपरित्यागः आपद्दशाभावितो न दोषायेति विश्वस्य शमस्य योगस्य च मुख्यत्वमंभिलक्ष्य आदेहपातमप्येवं भवेयुः तावता न कापि हानिरिति तैर्वचनैः प्रतिबोध्यते । सर्वत्रार्थवादा १०७८

यति लिङ्गावश्यकत्वपरवाक्याविरोधी कश्चिन्नर्वाह एवेदृशो ज्यायानिति न सर्वत्यागविधायित्वमुचितम् । स्वीकृतेऽपि त्यागविधौ यतिलिङ्गावश्यकत्ववचनामपि सद्भावात् सर्वयतिलोकसंग्रहाय लिङ्गधारणपक्ष एव श्रेयान् । " नास्ति चेन्नास्ति नो हानिरस्ति चेन्नास्तिको हतः” इति न्यायेन लिङ्गधारणनियमें आहते हि न फल-भङ्गः । त्यागे तु तस्थाशास्त्रार्थत्वे भ्रष्टतापत्तिः । अत एवाद्वैतप्रस्थानमा स्थितैरपि भास्करयादवप्रकाशादिभिः त्रिदण्डादिधारणसमाचार एव समादृतः । यादवप्रकाशाचाश्च तदनुरोधेन यतिधर्मसमुच्चयग्रन्थग्रथनपूर्वकम् अलिङ्गसन्न्यासस्य गृहीतस्य त्यागेन सलिङ्गसंन्यासपरिग्रहेण स्वात्मा पावितः । तदिदम् तथा शतदूषणीकृतां परमाचार्यैर्यति लिङ्गसमर्थनाख्यस्य ग्रन्थस्य निर्मितत्वं च यतिलिङ्गभेदवादिमतनिरासार्थप्रवृत्तेऽस्मिन् यतिलिङ्गभेद-भङ्गवादे व्यक्तमुदितमाचार्यैरपि । इतः पुनरलेपकमतमाहृत्यैव प्रत्यवस्थानं भवद्भिः कार्यम् । तदा च सर्ववर्णसर्वाश्रमधर्माः सर्वमिथ्यात्वाध्यवसायबलात् संत्यक्तमर्हाः; पुण्यपाप शिक्षणमप्युपेक्षितुमुचितम् ; स्वैरिता च समादर्तव्येति चार्वाकादिवेदबाह्या विशिष्टत्वमेव प्रतिष्ठापितं भवेत् । तथाच " इह के चित् अवधूतसकलवर्णाश्रमधर्माश्चार्वाक सधर्माणः …. , L 6 विधिनिषेधयन्त्रणामतन्त्रयन्तः पारिभाषिकब्रह्मविदो विश्वमाविलयन्ति" इति शतदूषण्याम् अलेपकमत-भङ्गारम्भोक्तमेव सत्यापितं भवेत् । न खल्वद्यतनाः अद्वैतसंन्यासिनो जीवन्मुक्ताः; न च योगनिष्णाताः ; न च ब्रह्मचिन्तनव्यतिरिक्तेषु लौकिकेषु सर्वेष्वप्यर्थेष्वप्रवृत्तमनसः, येन संध्याकालादिदृष्टिविरहात् संध्यावन्दनादेरनाचरणं समर्थ्येत । विविदिषायां जातायां विधिकिङ्करत्वाभावात् कर्मणामकर्तव्यत्वे सिद्धे कर्माङ्गभूतमुपवीतादिकमपि त्यज्यत इति चेन्न एवं तर्हि एकदण्डविधिकिङ्करत्वमपि मा भूत् । परमहंस प्रत्येव तद्विधानात् तदनुरोध इति चेत् — परमहंसं प्रत्येव त्रिदण्डादिधारणविधिरपि शाटयायनका दिश्रुतिस्मृतिगतः प्रादर्शीति तुल्यमेतत् । एकविधिकिकरत्वे यत् नियामकम् तदेवान्यविषयेऽप्यनुपेक्ष्यम्। वर्णानामाश्रमाणाच यतिलिङ्ग मेद भङ्ग प्रसाधनम १०७९ • सर्वेषां देहोपाधिकत्वं शुद्धात्मा सबन्धित्वञ्च सर्वदैवेति संन्यासविधिरपि न घटेत । दण्डकाषाय सत्यागः स्यात् विधेर्यद्यकिङ्करः । शिखोपवीत संध्योपास्त्याद्यप्यत्याज्यमन्यथा ॥ 364 तस्मात् सर्वैरपि संन्यासिभिः समादृतविष्णुभक्तिमार्गैः शाट्यायनश्रुत्युक्तश्वेतोर्ध्वपुण्ड्रमन्यादृशं वोर्ध्वपुण्ड्रमेव धारयद्भिः शिखात्रिदण्डोपवीतादिसंभूषितैः संध्यावन्दनादित्रयीधर्मानुष्ठायिभिश्च भाव्यम् । शतभूषण्यामलेपकमत-भङ्गवादपरीक्षणमुपेक्षितम्, निष्प्रपञ्चीकरणनियोग-भङ्गः अलेपकमत-भङ्गश्वाद्वैतिनामिष्ट एवेति । उक्तं हि भूमिकायाम्, “भगवत्वादा अपि न संमन्यन्ते असमञ्जसमिति मत्वा" इति । एवं तर्हि गूढवेषाचारा वा संत्यक्तसंध्यावन्दनादयो वा परमहंसा नाङ्गीकर्तव्या भवेयुः । अलेपकमत-भङ्गवादस्य तदर्थमेव प्रवृत्तत्वात् । तदा च माधवीयादिग्रन्थ विरोधः स्वोक्तिव्याघातश्च । तस्मात् अलेपकमत-भङ्गस्य शतदूषणीकृतस्यानुमतत्वाद्वा स्यादपरीक्षणम्, अशक्यसमाधित्वाद्वा । सर्वथा सहृदयैः सन्न्यासिभिर द्वैतिभिरपि भास्कर यादवप्रकाशादिपूर्वदेशिकदर्शित एव पन्थाः श्रेयः प्राप्तये समादर्तव्य इति ॥ निगमैरप्यवेद्यस्य निर्विशेषस्य लब्धये । • • निर्धूताश्रमधर्माणामनुरूपा त्वधिक्रिया ॥ 365 यतिलिङ्ग मेक-भङ्गप्रसाधनं स्यादले पमत-भङ्गे । प्रोक्तस्यापि च संग्रहरूपम् ; तस्मात् प्रसाधित सर्वम् ॥ 366 सविशेषं ब्रह्मेष्टम, वर्णाश्रमधर्म एवमेवेष्टः । मूलः पुरुषार्थः श्रेष्ठः किं निर्विशेषेण ॥ 367 ऐकरस्यमधिगन्तुमिच्छता मागमार्थपरिरक्षणैषिणाम् । आगमान्तगुरुसूक्तितः परं दर्शनं न हितमित्यसंशयम् ॥ 368 अद्वैतं मतमतिदुर्बलं तथापि श्रुत्यन्तप्रतिकथकोक्तिखण्डनायें । प्रख्यातैः प्रथमपरिग्रहात् प्रचारादुर्वाञ्चस्तदभिनिवेशमावहन्ति ॥ 869 १०८० इति परमायभूषणम् कासौ गभीरगतिरत सर्वतन्त्र स्वातन्त्र्यवित्त निगमान्तगुरू दूधसूक्तिः । काहम् ; तथाप्यभिनिवेशिपरोक्तिदोष प्रख्यापने मदवरोऽप्यलमित्यकम्प्यम् ॥ वीक्षारण्यशालिहोलमुखसद्धतापनाश्याशय स्थायिश्रीजयवीरराघवम हो वीक्षाप्तजन्मस्थितिः । ख्यातस्तेन तु वीरराघव इति श्री चक्रवर्त्यात्मजो व्यातानीदिदमत्र मद्रनगरे वर्षे विलम्ब्याइये ॥ उत्तमूरभिजनेन वत्ससचक्रवर्ति कुल रत्नजन्मना । वीरराघवसमाह्वयेन संद्देशिका त्रियुग नित्यभक्तिना ॥ तर्कतन्त्रमुखनेकशास्त्र सद्ग्रन्थ निर्मितिनिरूढ कीर्तिना । भव्ययाऽभिनवदेशिकाख्यया सज्जनैर्बहुमतेन संसदि ॥ 370 371 372 378 देशिकः स्वशतदूषणीकृतिज्ञापितार्थविशदीकृतीच्छया । अन्तरङ्गमुषगम्य लेखने तूलिकामकलयत् स्विकां स यम् ॥ 374 साधु तेन शतभूषणीमुखाद्वैतनै कृतिखण्डनात्मना । इत्यकार परमार्थवेदिसत्प्रीणनाय परमार्थभूषणम् ॥ नाथ-यामुन-यतीश-देशिकाद्यद्भुतार्यमुखरक्षितं निजम् । स्थापयन्ननघमत्र दर्शनं श्रीनिधियमुखः समेताम् ॥ श्रीमते निगमान्तमहा देशिकाय नमः श्रीवेदान्तरामानुजयतीन्द्रमहादेशिकचरणारविन्दचञ्चरीकस्य, श्रीरङ्गरामानुजयतिवरमहा देशिकपदारविन्द वरिवस्याप्राप्त सर्ववेदान्तार्थस्य शिरोमणेस्तर्कार्णवस्य पण्डितरत्नस्य पूर्वोत्तरमीमांसाप्रदीपस्य देशिक दर्शनधुरन्धरस्य उभयमीमांसावल्लभस्य उत्तमूरभिजनस्य वात्स्यसचक्रवर्तिनः वीरराघवाचार्यस्व अभिनव देशिकस्य कृतिषु परमार्थभूषणं संपूर्णम् श्रीरस्तु । शुभमस्तु 375 -376 शोधनिका दूध इत्यस्य स्थाने द्ध इत्येव सर्वत्र सुद्रितम् अपेक्षिताक्षरालाभेन । इमामेवंविधा अन्या अशुद्धीश्च साहाय्याभावात् कार्यान्तरगौरवात् यन्त्रासां निध्याश्च प्रसक्ताः, प्रियपाठकाः स्वयमेव विज्ञाय यथार्ह वाचयिष्यन्तीति प्रत्येमि । 13-15 अनुपास्य 148-11 भविद्यावच्छिन्न 17-15 शब्दवृत्त्यनुपपत्ति 159-10 स्याकारस्यापि 21-2 परिणामित्व 178-21 जिज्ञासायाः 22-15 समन्वयाधि 181-9 शक्रयाम 23-11-22 शारीरक 16 प्रतिबध्नात्येव 41-18 ज्ञानस्यसत्त्वम् अध्ययन 185-1 19 जीवातिरि 191-5 मूलोऽर्यक्रमो आचार्येण भगवता 44-4 जाग्रदायवस्था 11 पुरुषार्थवाद 55-1 प्रत्येक मतद्वचनात् 15 मन्तव्य 36-18 वाय्वाकाश 192-20 मित्यादि 58-15 परिणामा हेतुत्व 24 ब्रह्माणोऽपि 60-11 प्रकृतिपरिणाम 198-4 स्थापयिष्यते 61-12 कात्स्न्येनाभिव्यक्त 200-18 कारात् । अतो 64-7 तच्छलोकार्थ 201-11 तद्दृष्ट्या 64-17-. • स्वमस्ति 18 मुपन्यस्तम् 68-2 मात्रपदं तुशब्दो वा 202-21 राशिसंघस्यैकैक 89-23 निःश्रेयस 208-11 क्रमेणैव भोक्तव्यानीति 128-5 विषयत्वं यथायथं 12 फलानित्यत्व 7 नुभावकत्वरूपा 13 निश्चिते 20. रक्षायै यदि प्रयतेत 20 विचारेच्छा 133-1 व्यवहारः 21 निष्पन्नत्वाद्वा स्यात् 140-14 रित्यशक्तिरेव 211-5 शास्त्रप्रमुखे 163-8 बाध्यमानः 212-19 कर्म विचारात् 147-17 भवितुमर्हति च तत् । 216-14 आवश्यकम् 136૧૦૯૨ शोधनिका 241-14 सिद्धान्तः 338-17 16 पश्चात् 340-7 विशेषसमवा सिद्धयेत् 243-21 बाधितत्वं 15 वस्तुन्यनु 257-13 ज्ञानं प्रत्यक्षमिति 341-8 मित्युक्त्वा . 260-13 पादकाज्ञाननिवर्त 342-2 इदमर्थस्य 262-21 शास्त्रदृष्टविरो 3 यत्तु 278-23 अनुभूयमानस्य 344-6 इत्युदाहर 279-5 विरागं 18 सामानाधिकर 12 विरतिः इह 345-19 निर्विकल्पख 280-12 विहितः, तद्वाव 347-10 न्द्रियकल्पक 280-17 वसरे । एवं 16 तुल्यत्वं 284-2 शमदमाद्युपेतः 24 नेतिनेति 289-9 स्वामिना 351-1 इत्यनुवर्तमान 295-14 फलखा 19 आत्माश्रया 296-13 निर्णयस्य 353-4 तच्छलोक 293-19 प्रकारताशालि 10 कथञ्चिदयं 301-15 व्यवहारस्य 361-23 तदन्तरवय 302-18 स्खलनमिति 362-11 निरस्तम् 307-7 ‘प्रामाणिक 363-2 घटवद्भूतल 309-13, 15 व्यावहारि 364-18 तादात्म्यस्य 311-7 प्रपञ्चाधिष्ठान 365-10 सतिसत्रे 312-20 प्रत्यध्यास्तिक 368-6 सूत्रकार 316-1 छिन्नसंशयाः 370-18 सौगताबागमा 320-7 स्वाभाविक 371-2 मात्मनिरू 325-13 मणेः । 373-17 चार्याणाः 14 गुणाः । प्रकाश्यन्त 375-22 मूलक एव । 328-23 करणवाक्येषु 385-17 पारमार्थिक 329-10 प्रतियोगिक. 388-16 प्रपश्चबाधो 11 तात्पर्यविषयत्व 393-3 कल्तितत्वेन 335-2 नैयायिके 405-4 रूप्यदृष्टान्तो शोधनिका. 406-20 इयत्वानुमान 580-4 चैतन्य 407-13 मिध्यात्वे 11 प्रामाण्य 410-22 ज्ञानस्य 582-10 411-3 . पुनरनैकान्त्य 584-8 12 शुद्धब्रम 587-24 *412-17 दुपेक्ष्यम् 588-21 413-14 मिथ्यात्वासिद्धि 607-23 भेदादयो नामु ल्पनिरासवाद विवत्रे । विमुक्तात्माऽत्रभवता चैतन्यविषयिणी 416-18 सत्पदेन 609-25 व्यसंमवी । 419-15 तदितरत्वा 610-5 गृह्यमाणत्वात् 437-22 दृश्यत्वकल्पेषु 611-15 विषयत्वाश्रयत्वोभय 438-11 अखण्डाकार 22 यतया 449-21 लयापारो 612-11 विषयतत्त्व एव … 509-9 अविद्याव 613-19 शब्दादावपि 515-4 प्रमाणम, अज्ञान 617-19 श्रद्धालुभ्यो 24 दत्तीयपटाज्ञा 678-18 विषयत्वाग्ने 516-1 दत्तीयघटा 680-18 दुःखे 25 यविषयि

688-22 क्षपणचण 517-20 मिथ्यात्ववादि 692-5 द्यश्लेषविनाशोप 520-25 प्रकृत्याश्रयेऽ 13 अनारब्धकार्य 529-21 अननुभूतित्व 694-8 ज्ञानानाश्यत्वा 530-10 विषयत्वतद 695-23 540-14 दनुत्पत्ति-भङ्गवादं 24 ब्रह्मसमभूते समन्वयाधिकरण 541-3 प्रस्तुतान् 701-6 मापादयति 560-18 संवित्पदेनात्मनो 703-16 अभिन्नधर्म्यर्थ 571-17: दर्शन भेदः 709-7 स्वर्थवाद + 19 574-8 तलै कदा अवगमित 712-3 प्रकृतेऽपि 20 प्रतिज्ञामात्रं 24 सिद्धयुक्त 24 वाक्यान्यथाकर 576-12 अन्यथा 720-2 गोचर इति 577-16 प्रसिद्ध 729-10 बाधितत्वेपि १०८४. शायानका 803-13 बोधायनेन 964-15 कारकाधीन 827-23 प्रायम्, तदेव 967-10 प्राणनिषेध 828-10 पाधिकम्, तत् 1016 24 त्वमुच्यनेऽस्मिन् बादे 830-5 ज्ञानमूरी कर्तव्य 1043-19 न्तरेष्वन्यथाs 831-5 मस्मद्भाव्येsa 1059-6 अतिक्रान्त 834-8 शिष्टा विद्याभिः 20 श्रीभाष्यशतदू 861-2 मायायाः 1064-14 जिज्ञासोरेव 890-5 बोधयन्तीति 1065-10 र्यतयाजिज्ञा 891-7 मिथ्यात्वसाधनं 1066-8 ष्ठितानां 903-13 दुदतमिति 1069-5 कृच्छ्र 16 सर्वाप्रामाण्य 1071 10 संप्रधारणीयम् 958-22 दूषितत्वम् 23 वैष्णव वैष्णव 24 सदुपयपि 10/8-3 नानामपि 760-8 वयाधिक्य शुभमस्तु