श्रिया सह वृषाचले विहरतः पदाब्जं हरेः
श्रये यद् इदम् ईप्सवः परमहंस एवं परः ।
बहूदक-कुटीचकाव् अपि लसन्ति मुक्तैषणास्
त्रिदण्डम् उपवीतम् अप्य् अपि शिखां वहन्तो यताः ॥
“काणाद-शाक्य-पाषण्डैस्
त्रयी-धर्मो विलोपितः ।
त्रिदण्ड-धारिणा पूर्वं
विष्णुना रक्षिता त्रयी”
इति दत्तात्रेयस् त्रिदण्डधारी त्रयी-धर्मं ररक्षेति स्मर्यते ।
अत्र त्रिदण्ड-धारिणा रक्षितेत्य् उक्तत्वात्,
जातु संन्यासिषु विदण्ड-धारणाचार-विपरीताचार-प्रवर्तनेन
संध्योपासनादि-त्रयी-धर्म-विलोपनं
पाषाण्डादि-परिचय-मूलम् आपतितम्
इति ज्ञायते ।
अतः संन्यासि-पर्यन्त-सर्वाश्रमिसाधारण्यं त्रयी-धर्मस्य प्रख्याप्य
तद्-उपयोगि शिखा-त्रिदण्डोपवीत-धारणम् अप्य् आवश्यकम्
इति स ग्राहयामासेति सिद्ध्यति ।
पराशर-माधवीये च,
“हारीत-दत्तात्रेय-पितामहाः
कुटीचकादींश् चतुरो ऽप्य् उपन्यस्य
सर्वेषां त्रिदण्डम् एव विदधते,‘वृत्ति-भेदेन भिन्नाश् च
नैव लिङ्गेन ते द्विजाः ।
लिङ्गं तु वैणवं तेषां
त्रिदण्डं स-पवित्रकम्’इति । अत्रिर् अपि,
‘शिखिनस् तु श्रुताः केचित्
केचिन् मुण्डाश् च भिक्षुकाः ।
चतुर्धा भिक्षुकाः प्रोक्ताः
सर्वे चैव त्रिदण्डिनः’इति”
इत्य् अन्व्-अवादि । अनेन मुण्डत्वैकदण्डत्वयोर् न संनियोग-नियम इत्य् अपि ज्ञापितम् ।
अत्र वैणवम् इति विशेषणात्, “वाग्-दण्डो ऽथ मनो-दण्डः कर्म-दण्डस् तथैव च" इति दक्षोक्त-मनो-वाक्-काय-दण्ड-मात्रतस् त्रिदण्डित्व-सिद्धेर् [[युदासः|व्युदासः]] स्पष्टः । अत एव परमहंसस्य त्रिदण्डित्व-वचनानां वाग्-दण्डादि-लाक्षणिकार्थ-परतया माधवीये नयनम् अनुपपन्नम् । एतद्-वचनैकरस्येन स्वरसार्थ-ग्रहणस्योपेक्षणं यद्-अभिनिवेशम् एव दर्शयेत् । वाग्-दण्डादि-विधायक-वाक्यं तु सर्वेष्व् आश्रमेषु, “न लिङ्गं धर्म-कारणम्” इति वचनवत् तद्-आवश्यकत्वाभिप्रायम्, न वैणव-त्रिदण्ड-परिसंख्यानम् । उपात्ते वाक्ये सर्वेषाम् अपि यतीनां वृत्ति-भेद-मात्रम्, न लिङ्ग-भेद इति वर्णनं [[P1069]] हि लिङ्ग-भेद-प्रतिपादकतया प्रतीतानां वचनानां तद्-ऐदम्पर्यं न मन्तव्यम् इति ज्ञापयत् तेषाम् अर्थान्तर-तात्पर्यं ग्राहयति । वृत्ति-भेदश् च माधवीये ऽपि मात्रया दर्शितः—कुटीचकस्य स्वक-गृहे वर्तनम् आहिताग्निषु बन्ध्व्-आदिषु भिक्षाचरणम्, बहूदकस्य बन्धु-पुत्रादि-वर्जनेन साधु-वृत्त-ब्राह्मण-गृहेषु भैक्ष-चरणम्, हंसस्य त्रि-सवण-स्नान-ग्राम-तीर्थैक-रात्र-नगर-पञ्च-रात्र-भाव-कृच्छ्र-चान्द्रायणादि-कृत-शरीर-कर्षणादि, परमहंसस्य माधुकर-तात्कालिकोपपन्नादि-भैक्ष-चरणम् इत्य् एवम् । एवं लिङ्ग-भेद-शङ्का न कार्येति वचनेनैवोक्तत्वात् क्वचित् तल्-लिङ्ग-भेद-प्रतिपादनम् अन्यथा नेयम् इति सिद्धम् । हंस-परमहंसयोर् उपवीतं नास्तीति चात एवायुक्तम् । “यज्ञोपवीतं दण्डं च वस्त्रं जन्तु-निवारणम् । तावान् परिग्रहः प्रोक्तो नान्यो हंस-परिग्रहः” इति माधवीयोद्धृत-विष्णु-वचनेनैव हंसे ऽपि तत्-सिद्धेः । अत्र दण्डम् इति कथनाद् एक-दण्ड-धारण-प्रसक्ताव् अप्य् उपवीत-त्यागो नास्तीति ज्ञायते ।
यत् तु माधवीये,
‘अत्र केचित् श्रद्धा-जाड्येन
सन्ध्या-वन्दनोपवीतादि-त्यागम् असहमानाः
अन्यादृशं पारमहंस्यं विद्विषन्ति '
इति प्रक्रम्य,
उपवीत-सन्ध्योपासन-त्याग-निन्दा-वाक्यानां
परमहंस-व्यतिरिक्त-विषयतया सङ्कोचनम्,
तद् अप्य् अत एव लिङ्ग-भेद-निषेध-वाक्यत एवायुक्तं सिद्धम् ।
जाबाल-श्रुतिर् आरुणि-श्रुतिर् मैत्रावरुण-श्रुतिः पिप्पलाद-शाखा-वचनानि परमहंसस्योपवीतादि-त्याग-पराणि तद्-उपवीतादि-विधायि-वाक्याविरोधेन निर्वाह्याणि । मैत्रावरुण-श्रुतिर् एव हि, “त्रीन् वैणवान् दण्डान् दक्षिण-पाणौ धारयेत् एकं वा । यद्य् एकम्, तदा सशिखं वपनं कृत्वा विसृज्य यज्ञोपवीतम्” इति त्रिदण्ड-धारणम् उपवीत-धारणं च परमहंसस्यापि स्वरस-प्राप्तम् इति, एक-दण्डादि-धारण-प्रसक्तिः कदाचिद् इति च दर्शयति । व्यास-विश्वामित्रादि-स्मृति-वचन-गतिर् अप्य् एतद्-अनुरोधेन भाव्या । तत्र व्यास-वचनं यज्ञोपवीत-त्यागिना कर्मापि त्यक्तव्यं भवतीति बोधयति; नै पुनर् उभय-त्यागस्यावश्यकत्वम् । विश्वामित्र-वचनम् अप्य् आवश्यक-पारिव्राजक-लिङ्ग-विपरीताकार-सम्भावनाम् अपि कदाचित् दर्शयत् तदा कर्तव्य-क्रमम् आह; न तु लिङ्गस्य त्याज्यत्वम् । स्मृत्य्-अन्तरम् अपि तत्रोपात्तं ब्रह्म-वेदनस्यानिष्पन्नत्वे मुख्य-लिङ्ग-परित्यागः सर्वथा न युक्त इति दर्शयितुं प्रवृत्तम् ।[[P1070]]
अथ माधवीये, परमहंसोपनिषद्-दर्शने एक-दण्ड-धारणम् अप्य् अमुख्यं प्रतीयते, ‘ज्ञान-दण्डो धृतो येन एक-दण्डी स उच्यते’ इति यथा ज्ञानम् एव शिखा चोपवीतं च, तथा दण्डश् चेत्य् अवगमाद् इत्य् आशङ्क्य, ‘सत्यम्, विविदिषोर् एव संन्यासिन एक-दण्डः; न तु विद्वत्-संन्यासिनः’ इति समाहितम् । तथासति, “यदा तु विदितं तत् स्यात् परं ब्रह्म सनातनम् । तदैक-दण्डं संगृह्य उपवीतं शिखां त्यजेत्” इति विदुष एक-दण्ड-धारण-वचनं विरुध्यते । विविदिषोश् चेद् एक-दण्डः, तर्हि त्रि-दण्डः कस्य? स किं त्रि-वर्ग-परस्य । तस्माद् एवं वचन-निर्वाह-प्रयासो व्यर्थः । “एक-दण्डी भवेद् वापि त्रि-दण्डी वा मुनिर् भवेत्” इत्य् एतादृश-वचनं तु यति-लिङ्ग-न्यूनान्यून-भावे ऽपि युक्तम् इति बोधयति ।
हंस-पर्यन्तानां शिखा-यज्ञोपवीत-धारणं माधवेष्टम् । [[शतभूषणीकारस्तु|शतदूषणीकारस्तु]] परमहंसस्य त्रि-दण्डोपवीतादि नास्तीति पक्षं नाभ्युपैति । शाट्यायनोपनिषदि पराशर-हारीतात्रि-दत्तात्रेयादि-वचनेषु कुटीचक-बहूदक-हंस-परमहंस-रूपेण चतुर्विधानाम् अपि त्रि-दण्ड-यज्ञोपवीतादि-विधानाद् इति शतदूषणी-दर्शित-वचनानुसारेण सर्व-संमत्यै वैष्णवावैष्णव-भेदेनोपवीतादि-सद्-असद्-भाव-व्यवस्थां वाञ्छति । वैष्णव-यतयस् त्रि-दण्डोपवीत-धारिणो लक्ष्यन्ते, अन्ये चान्यथेति लोके दृष्टम् एव शास्त्रार्थत्वेन सम्पिपादयिषतीव । व्यवस्था चेयं निर्मला । यत् तु वचनम् अदर्शि, “लिङ्गं तु वैष्णवं तेषां त्रि-दण्डं स-पवित्रकम्” इति, तत्रोच्यते—वैष्णवम् इत्य् अत्र वैणवम् इति पद-घटितो ऽपि श्लोको ऽस्ति; माधवीये तथैवोदाहृत्य निर्वहणात् । वैष्णवम् इति पद-घटितं वचनम् अपि, ‘नमस्यो भक्ति-भावेन विष्णु-रूपी त्रि-दण्ड-धृक्’ इत्य् एतद्-अनुसारात् सर्वस्यापि यतैर् वैष्णवत्वम् एव दर्शयेत् । त्रि-दण्डं वैष्णवम्, एक-दण्डस् त्व् अवैष्णव इति न कुत्राप्य् अदर्शि । शाट्यायनीयोपनिषदि, ‘सर्व एते विष्णु-लिङ्गं दधानाः’ इति श्रवणम् अपि संन्यासि-सामान्यस्य विष्णु-चिह्न-वहत्वम् एव वेदयेत्; न तु वैष्णवावैष्णव-भेदम् । आश्रमान्तरेषु काम्य-कर्म-प्रावण्यस्यापि प्रसक्तया “कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः” इत्य् उक्त-रीत्या कदाचित् देवतान्तर-चिह्न-धारणम् [[P1071]] अपि सम्भाव्यते । मोक्षाश्रमिणां तु सर्वेषणा-विनिर्मुक्तानां देवतान्तरासंश्रयण-प्रसक्त्य्-अभावात् मोक्ष-प्रद-मुकुन्द-मात्र-निष्ठतेति संन्यासि-धार्यस्य लिङ्गस्य विष्णु-लिङ्गत्वेन परिगणनम् । अनूदितं च माधवीये, ‘सन्यस्यन्तं द्विजं दृष्ट्वा स्थानाच् चलति भास्करः । एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ॥” इति, “यतीनां व्रत-वृद्धानां स्व-धर्मम् अनुवर्तिनाम् । विष्णु-रूपेण वै कुर्यान् नमस्कारं विधानतः” इति च । विष्णु-चिह्न-विहीना अद्यतनाः शाङ्कर-पीठाधिपतयो ऽपि नारायण-स्मृतिम् एव निर्दिशन्ति । एवं वैष्णवाश्रमं प्रविश्य वेषान्तर-धारणम् आम्नाय-प्रतिकूलम् एव । अवैष्णवो न ब्राह्मणो भवितुम् अर्हतीत्य् अपि केचिद् अखिल-तन्त्र-पार-दृश्वान एवाद्वैतिनो निबन्ध-मुखेन स्वाशयम् आविर् अकार्षुः । सर्वथा तावद् अवैष्णवस्य वैदिक-यतित्वम् एव न भवतीति तु स-प्रधारणीयम् । यावच् च विष्णोर् एव देवता-सार्वभौमत्वम्, वैष्णव-परम-पद-प्राप्तेर् एवार्चिरादि-साध्यायाः मुख्य-मुक्तित्वं स्थास्यति तावद् वैष्णवैर् एव यतिभिर् मोक्षाश्रमिभिर् भाव्यम् इत्य् अत्र न विप्रतिपत्तेर् अवकाशः । विष्णु-भक्तेस् तत्त्व-ज्ञान-साधनत्व-वादिभिर् अद्वैतिभिर् अपि विष्णु-चिह्न-धारणम् अवर्जनीयम् । परमहंस-परिव्राजकोपनिषदि प्रथमतो दण्ड-कमण्डल्वादि-परिग्रहम्, अथ, ‘यदाऽलं-बुद्धिर् भवेत् तदा कुटीचको वा बहूदको वा हंसो वा परमहंसो वा सर्वं विसृज्य जात-रूप-धरश् चरेत्’ इति त्यागम् अपि विधाय, ‘भगवन् कथम् अयज्ञोपवीती अशिखी सर्व-कर्म-परित्यक्तः, कथं ब्रह्म-निष्ठा-परः, कथं ब्राह्मणः’ इति प्रश्नम् उपक्षिप्य, “विष्णुर् भो भो अर्भक यस्यास्त्य् अद्वैतम् आत्म-ज्ञानम्, तद् एव यज्ञोपवीतम्” इत्यादिना प्रकारान्तरेणोपवीतादि-निर्वाहावसरे विष्णु-शब्द-निर्देशाद् ईदृशस्यापि यतेर् वैष्णवत्वम् एवावसीयते । आरुणिकोपनिषद्य् अपि दण्डाच्छादन-कौपीन-परिग्रहं प्राग् उक्त्वा ततः, पालाशम् इत्य् आदिना दण्डादि-त्यागम् अप्य् अभिधाय, “तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः” इति श्रवणाद् वैष्णवत्वम् ईदृश-यतेः स्पष्टम् । तस्माद् वैष्णवावैष्णव-भेद-कल्पनं यतिष्व् अयुक्तम् । त्रि-दण्ड-धारणाधिकृतानाम् एवापदि एक-दण्ड-विधानाद् वैष्णवस्यापि तत्-सिद्धेश् च ।
आस्ताम् एतत् । परमहंस-पर्यन्तानां त्रि-दण्डोपवीतादि-धारणस्य श्रुति-स्मृति- [[P1072]] प्रमाणकत्वं यथा, तथा परमहंस-विषये तत्-त्यागस्यापि प्रामाणिकत्वं प्रतीयत इति कथम् उभय-निर्वाह इति चेत् किं व्यवस्थित-विकल्पाभावे ऽपि अव्यवस्थित-विकल्प एवास्तु । तथाचोभयो ऽप्य् आचारो ऽनुमंस्यते इति वक्तुम् अध्यवसितो ऽसि । तन् न युज्यते; अष्ट-दोष-दुष्टत्वात् । त्रि-दण्डालाभे एक-दण्ड इति वचनेनापद्-विषयत्वस्यैक-दण्डे ऽवगमाच् च । “वृत्ति-भेदेन भिन्नास् ते नैव लिङ्गेन" इति लिङ्ग-भेद-विषये वाचनिक-निषेधे जाग्रति मुख्य-वैकल्पिक-लिङ्ग-द्वय-कल्पनस्यायोगाच् च । तद्-वचनं कुटीचक-बहूदक-मात्र-विषयम् इति माधव-मनोरथस् तु सर्व-विषयकतायाः स्पष्टं तत्रैव कण्ठोक्ततया निष्फल एव । [[शतभूषणीदर्शनेऽपि|शतदूषणीदर्शनेऽपि]] तद्-वचनं सर्व-विषयकम् इति स्पष्टम् । तर्हि कथं विरुद्धार्थकानां वचनानाम् अविरोध-सम्पादनम् इति चेत् तद् इदं शतदूषणी-विचार-विमर्श-पूर्वम् अभिधीयते—
[[शतभूषणीपात्ताः|शतदूषणीपात्ताः]] श्रुतयः सर्वाः सामस्त्येन प्रमाण-भूता एवेत्य् एतद् एव न प्रतिपन्नम् । पूर्वैर् अनुदाहृतेषु विस्रम्भायोगात् । अष्टोत्तर-शतोपनिषत्सु अनेकत्र प्रक्षेप-आदिना अनाश्वासस्य सर्व-संमतत्वात् । एवं च नारद-परिव्राजकोपनिषदि संन्यास-षाड्विध्यं निर्दिश्य परमहंसोपरि तुरीयातीतस्यावधूतस्य च पृथक्-परिगणनं सर्व-संमत-चातुर्विध्य-विरोधान् नातीव विस्रम्भणीयम् । परमहंसस्यैव तुरीयातीतावधूत-विषये निर्दिष्टा रीतिः कदाचिद् भवितुम् अर्हति न त्व् इमौ अपरमहंसौ । एवं तत्र कुटीचकस्योर्ध्व-पुण्ड्र-धारणम्, बहूदकस्य त्रि-पुण्ड्र-धारणम्, हंसस्य त्रि-पुण्ड्रोर्ध्व-पुण्ड्र-धारणम् इत्य् आदिकम् अपि न विश्वसनीयम् । मुमुक्षोः संन्यासिनो वैष्णवत्वस्य विष्णु-साम्यस्य च सर्वत्रोक्तत्वात् । माधवादि-संमतत्वाच् च । एवं च तुरीयातीतोपनिषद् अपि न श्रद्धेया । परं तु तत्रोक्तो ऽवधूतो दिगम्बरो महा-पुरुषो नारायणैक-चित्त इति नारायण-प्रशस्यमान एव श्राव्यत इति नायम् अवैष्णवः । भिक्षुकोपनिषदि, हंसे परमहंसे च दण्ड-यज्ञोपवीताद्य्-अनुक्ति-मात्रेण तयोस् तद्-अभावः, तत्रापि हंसे त्रि-दण्डस्य, परमहंसे एक-दण्डस्यापि चाभावः सिद्ध्यतीति शतदूषणी-कल्पनं न स्थास्यति । कुटीचके ऽपि त्रि-दण्डाद्य्-अनुक्त्या तद्-असिद्धि-प्रसङ्गात् । यदि च बहूदक-विषये प्रयुक्तम्, “त्रि-दण्ड-कमण्डलु-शिखा-यज्ञोपवीत-काषाय-वस्त्र-धारिण" [[P1074]] इति पदं कुटीचक-वाक्य एव प्रथमं पठनीयम् इति मन्यते । तर्हि तत् पदं हंस-परमहंस-विषये ऽप्य् अनुवर्तिष्यते, विपरीताकारानिर्देशात् । अतः शाट्यायनकोपनिषद् इवेयम् अपि सर्वेषां त्रि-दण्डादि-सद्भावाभिप्रायेत्य् एव साम्प्रतम् । अत एवानुपवीतत्त्वादि-शङ्का-व्युदासायेव पराशरेण स्पष्टम् एव सर्वेषां त्रि-दण्डोपवीतादिकम्, अनुवृत्त्यार्थ-लभ्यत्व-वर्णन-प्रयास-व्यपोहेन प्रतिपद-पाथेन प्रादर्शि । तत्र परमहंस-विषये ऽपि, “ब्राह्मण-कुलाद् एव भैक्षं गृहीत्वा” इति स्मरणाद् वर्णान्तराद् भैक्षानुमति-वचनानि आपद्-विषयाणि कुटीचकाद्य्-अपेक्षया परमहंस-विषये ऽबाधकत्वातिशय-परतयैव नेयानि । यथैतत्, तथैव त्रि-दण्डाद्य्-अभाव-वर्णनम् अपि तत्र-तत्र कथितं नेयम् । नीतं च त्रि-दण्डादीनाम् अप्सु त्याग-विधानम्, “गृहीतं यत् त्रि-दण्डादेर् अवि नष्टं तु न त्यजेत् । समुद्रं गच्छ स्वाहेति विनष्टं प्रक्षिपेज् जले” इति वचन-विशेष-सिद्ध-विनष्ट-विदण्डादि-विषयम् अपि भवितुम् अर्हति । उपवीत-त्यागश् च विनष्ट-विषय इव गार्हस्थ्य-दशा-गृहीत-द्वितीयोपवीत-विषयो ऽपीत्य् एवं शतदूषण्याम् । माधवोपात्त-व्यास-वचनादिकम् अभिसन्धाय चाभ्यधायि, “तद् अपि तत्-तत्-कोशेषु न पश्यामः । न चोदाहरन्ति पूर्वे निरूपकाः । … तत्-तद्-वचन-कारिषु व्यासादि-समाख्यां सङ्केतेन प्रक्षिप्य धर्म-सूनुर् इव सत्यवादी भव … अतो युष्मत्-कूटस्थ-पक्षापातिनां प्रक्षेपस् तथा स्याद् वा न वेति समीचीन-दृष्ट्या भावय” इत्य् एवम् । परमहंस-विषये चोपवीतादि-त्याग-पराणि यानि कानिचिद् वचनानि सन्ति तेषां निर्वाह-प्रकारश् च अलेपक-मत-भङ्ग-वादे दर्शित एव ।
यत् तु वचन-बलाद् एवेदृशांश-त्यागात्, ‘मोहात् तस्य परित्यागस् तामसः परिकीर्तितः’ इत्य् उक्त-तामस-त्याग-दोषो नास्तीति—तद् इदं त्याग-विधि-सद्भाव-निर्णये शोभेत । ‘वृत्ति-भेदेन भिन्नास् ते नैव लिङ्गेन’ इति लिङ्ग-भेदस्य वाचनिके निषेधे जाग्रति लिङ्ग-त्याग-विधिर् हि न भवति । यदि च त्यागो ऽपि शास्त्रार्थः, तर्हि जाबालोपनिषदादिषु परमहंस-प्रस्तावे “अव्यक्त-लिङ्गाः अव्यक्ताचाराः अनुन्मत्ता उन्मत्तवद् आचरन्तः” इति किम् इत्य् अव्यक्त-लिङ्गता-युक्तिः; अलिङ्गा [[P1075]] अनाचारा इत्य् एव निर्देश-सम्भवात् । “अनाविष्कुर्वन्न् अन्वयात्” इति सूत्र-कारेण बाल्ये माहात्म्यानाविष्कार-रूपम् एवोक्तम्; सर्वान्नानुमतिश् चानादौ निराकृता । तेनेदृश-परमहंसासद्भावः सिद्धः ।
यति-धर्म-समुच्चये चासमीक्षा-दशा-कृतानुपवीत-संन्यास-पद्धतिम् उत्सृज्य प्रायश्चित्त-पूर्व-कृत-यथावस्थित-संन्यासेन यादवप्रकाशाचार्येण विरचिते, “मौण्ड्यं शिखा वेति विकल्पः । यज्ञोपवीतं तु सर्वेषां नित्यम् एव । तथाऽत्रिः पारीव्राज्यम् एवाधिकृत्याह”—इत्यादिना ब्रह्म-सूत्र-त्यागे पातित्यं प्रादर्शि । अन्यच् चोक्तम्, “द्विधा च परिव्राट् ज्ञानाभ्यास-शीलो योगम् आरुरुक्षुर् एकः, अपरस् त्व् आरूढ-योगस् तत्त्व-दर्शी अव्यक्त-लिङ्गः अव्यक्ताचारः उन्मत्तवद् आचरन् … । सम्यग्-ज्ञानिनाम् अपि पञ्च-माला-धारणम् अवश्यं कर्तव्यम् । … संग्रहो नव-सूत्रस्य द्विजानां मुक्ति-साधनम् । विना तेन भवेत् सद्यः सर्व-धर्म-बहिष्कृतः । (अत्र मुक्ति-साधनम् इति पदं मोक्षाश्रमे ऽप्य् उपवीतावश्यकत्व-प्रदर्शि ।) क्वचित् त्रि-दण्ड-नाशे तु एक-दण्डो विधीयते … केचित् तु चतुर्विधत्वं वर्णयन्ति, ‘चतुर्विधा भिक्षवस् तु कुटीचक-बहूदकौ । हंसः परमहंसश् च यो यः पश्चात् स उत्तमः’ इति । एतद् अपि पाञ्चरात्र-सिद्धम्, सांख्य-सिद्धं च; न वेद-सिद्धम् इति केचिद् आहुः” इति । अनेन वाक्येन यतीनां चातुर्विध्य-प्रतिपादिकाः परैर् उपात्ता उपनिषदः श्रुतयः स्मृति-विरोधे सति न विस्रम्भणीयाः । पूर्वाचार्य-परिग्रह-द्रढिमाभावेन प्रक्षेप-शङ्कास्पदत्वाद् इति ज्ञापितम् । ‘न वेद-सिद्धम्’ इति वदताम् अयम् आशयः—यदि बहूनीदृशानि श्रुति-वाक्यानि निर्विचिकित्स-प्रमाण-भूतानि स्युः, तदा ‘परामर्शं जैमिनिर्’ इति संन्यासाभाव-पूर्व-पक्षः, ‘विधिर् वा धारणवद्’ इति स्थापन-क्लेशश् चान्यादृशः सूत्र-कृता नैवोढः स्यात् । जाबाल-वाक्यम् एकं तु स्थितम् अपि नातीवाहतम् इति । भाष्ये तन्-मात्र-ग्रहणाद् एवान्याभावो ऽपि ज्ञायत इति । आस्ताम् एतत् । सर्वथा तावद् उपवीतादि-त्यागः परमहंसस्य न प्रामाणिकः । विशिष्य चाद्वैतिभिर् अप्य् अवधेयानि वाक्यानीमानि, “ब्रह्माणं केशवं शम्भुं ध्यायेन् मुच्येत बन्धनात् । रक्तं पितामहं ध्यायेत् विष्णुं नीलोत्पल-प्रभम् । श्वेतं त्रि-लोचनं शम्भुं संसारार्णव-तारणम् । वासुदेवः परं ब्रह्म परमात्मा [[P1076]] जगन्-मयः । तस्यैव मूर्तयस् त्व् एता भिद्यन्ते ऽभिख्यया विधा । … सर्व-तेजो-मयं पुण्यं शरण्यं शरणार्थिनाम् । चिन्तयेत् पुण्डरीकाक्षं नारायण-मयं हरिम् । … एवं हि ध्यायतो ऽस्य ब्रह्म-निष्ठस्य योगिनः । सौख्यम् आनन्दम् अद्वैतं परं ब्रह्म प्रकाशते । प्रकाशितेन तत्त्वेन मुक्तिर् उक्ता मनीषिणाम्” इत्य् एवम् । तस्माद् अनुपवीतिनाम् अनारायण-परायणानां न संन्यासाश्रमः श्रुति-स्मृति-संमत इति ज्ञायते ।
अत्रेदं बोध्यम्—‘जनेनावमतो योगी योग-सिद्धिं च विन्दति । तस्माच् चरेत वै योगी सतां वर्त्म न दूषयेत् । जना यथावमन्येरन् गच्छेयुर् नैव सङ्गतिम्’ इत्य् उक्तम् अनुसृत्य जन-सङ्गति-परिहाराय “गूढ-धर्माश्रितो विद्वान् अज्ञान-करणे स्थितः । अमूढो मूढ-रूपेण चरेद् धर्मम् अदूषयन्” इत्य् आद्य् अनतिलङ्घनेन सन्-मार्गादूषणेनैव कालं क्षिपत्सु योगिषु, “क्लिन्न-दन्तान्तरः सभ्यैः परिभूतः स नागरैः” इत्य् उक्त-रीत्या नागरैर् अपि परिभूयमानत्वे मूर्खाविवेक-दुर्जनैः परिभूयमानत्वं दण्डापूपायितम् । वर्णितश् च श्री-भागवते दण्ड-कमण्डल्वाद्य्-अपहरण-विभञ्जनादिनापि यति-परिभवः । ईदृश्यां दण्डोपवीतादि-संरक्षणं कथं तावत् पर-मुख-प्रतीक्षणैक-प्राप्य-सर्वांशाः यतयः कर्तुं प्रभवन्ति । दुर्दशायाम् अस्याम् आश्रम-धर्म-भ्रंशेन बिभ्यतः कांश्चित् परमहंसान् आश्वासयितुं प्रवृत्तानीदृशानि कानिचिद् वचनानि एवम्-अगत्यां दुरुपयोज्यानि लिङ्गानि यथा-विध्य् अप्सु प्रक्षिप्य नव्य-लिङ्ग-धारणस्य च कर्तव्यस्योपकारि-साधु-जनालाभेनाशक्यत्वे प्राप्ते उपवीताद्य्-अभावेन सन्ध्योपासनादाव् अप्य् अनधिकाराद् अकरणे आपतिते ऽप्य् आत्मा न क्लेशयितव्यः । ज्ञानम् एव शिखा, तद् एवोपवीतम्, तद् एव त्रि-दण्डादि सर्वम् इति विभाव्य, “अपि चेत् पातकं किञ्चित् योगी कुर्यात् प्रमादतः । योगम् एव निषेवेत नान्यं यत्नं समाचरेत्”, “प्राणायामात्मकाद् ध्यानान् नान्यद् भिक्षोर् विशोधनम्” इति विभाव्य ज्ञानतो वाज्ञानतो वा विहित-परित्यागः आपद्-दशा-भावितो न दोषायेति विश्वस्य शमस्य योगस्य च मुख्यत्वम् अभिलक्ष्य आ-देह-पातम् अप्य् एवं भवेयुः तावता न कापि हानिर् इति तैर् वचनैः प्रतिबोध्यते । सर्वत्रार्थवादा- [[P1078]] यति-लिङ्गावश्यकत्व-पर-वाक्याविरोधी कश्चिन् निर्वाह एवेद्रशो ज्यायान् इति न सर्व-त्याग-विधायित्वम् उचितम् । स्वीकृते ऽपि त्याग-विधौ यति-लिङ्गावश्यकत्व-वचनानाम् अपि सद्भावात् सर्व-यति-लोक-संग्रहाय लिङ्ग-धारण-पक्ष एव श्रेयान् । “नास्ति चेन् नास्ति नो हानिर् अस्ति चेन् नास्तिको हतः” इति न्यायेन लिङ्ग-धारण-नियमे आहते हि न फल-भङ्गः । त्यागे तु तस्याशास्त्रार्थत्वे भ्रष्टतापत्तिः । अत एवाद्वैत-प्रस्थानम् आस्थितैर् अपि भास्कर-यादवप्रकाशादिभिस् त्रि-दण्डादि-धारण-समाचार एव समादृतः । यादवप्रकाशाचार्याश् च तद्-अनुरोधेन यति-धर्म-समुच्चय-ग्रन्थ-ग्रथन-पूर्वकम् अलिङ्ग-संन्यासस्य गृहीतस्य त्यागेन स-लिङ्ग-संन्यास-परिग्रहेण स्वात्मा पावितः । तद् इदं तथा शतदूषणी-कृतां परमाचार्यैर् यति-लिङ्ग-समर्थनाख्यस्य ग्रन्थस्य निर्मितत्वं च यति-लिङ्ग-भेद-वादि-मत-निरासार्थ-प्रवृत्ते ऽस्मिन् यति-लिङ्ग-भेद-भङ्ग-वादे व्यक्तम् उदितम् आचार्यैर् अपि । इतः पुनर् अलेपक-मतम् आहृत्यैव प्रत्यवस्थानं भवद्भिः कार्यम् । तदा च सर्व-वर्ण-सर्वाश्रम-धर्माः सर्व-मिथ्यात्वाध्यवसाय-बलात् संत्यक्तुम् अर्हाः; पुण्य-पाप-शिक्षणम् अप्य् उपेक्षितुम् उचितम्; स्वैरिता च समादर्तव्येति चार्वाकादि-वेद-बाह्याविशिष्टत्वम् एव प्रतिष्ठापितं भवेत् । तथाच “इह केचित् अवधूत-सकल-वर्णाश्रम-धर्माश् चार्वाक-सधर्माणः … विधि-निषेध-यन्त्रणाम् अतन्त्रयन्तः पारिभाषिक-ब्रह्म-विदो विश्वम् आविलयन्ति” इति शतदूषण्याम् अलेपक-मत-भङ्गारम्भोक्तम् एव सत्यापितं भवेत् । न खल्व् अद्यतनाः अद्वैत-संन्यासिनो जीवन्-मुक्ताः; न च योग-निष्णाताः; न च ब्रह्म-चिन्तन-व्यतिरिक्तेषु लौकिकेषु सर्वेष्व् अप्य् अर्थेष्व् अप्रवृत्त-मनसः, येन सन्ध्या-कालादि-दृष्टि-विरहात् सन्ध्या-वन्दनादेर् अनाचरणं समर्थ्येत । विविदिषायां जातायां विधि-किङ्करत्वाभावात् कर्मणाम् अकर्तव्यत्वे सिद्धे कर्माङ्ग-भूतम् उपवीतादिकम् अपि त्यज्यत इति चेन् न—एवं तर्हि एक-दण्ड-विधि-किङ्करत्वम् अपि मा भूत् । परमहंसं प्रत्य् एव तद्-विधानात् तद्-अनुरोध इति चेत्—परमहंसं प्रत्य् एव त्रि-दण्डादि-धारण-विधिर् अपि शाट्यायनकादि-श्रुति-स्मृति-गतः प्रादर्शीति तुल्यम् एतत् । एक-विधि-किङ्करत्वे यन् नियामकम् तद् एवान्य-विषये ऽप्य् अनुपेक्ष्यम् । वर्णानाम् आश्रमाणां च [[P1079]] सर्वेषां देहोपाधिकत्वं शुद्धात्म-संबन्धित्वं चासर्वदैवेति संन्यास-विधिर् अपि न घटेत ।
दण्ड-काषाय-सत्यागः स्याद् विधेर् यद्य् अकिङ्करः ।
शिखोपवीत-सन्ध्योपास्त्य्-आद्य्-अप्य् अत्याज्यम् अन्यथा ॥ 364 ॥
तस्मात् सर्वैर् अपि संन्यासिभिः समादृत-विष्णु-भक्ति-मार्गैः शाट्यायन-श्रुत्य्-उक्त-श्वेतोर्ध्व-पुण्ड्रम् अन्यादृशं वोर्ध्व-पुण्ड्रम् एव धारयद्भिः शिखा-त्रि-दण्डोपवीतादि-सभूषितैः सन्ध्या-वन्दनादि-त्रयी-धर्मानुष्ठायिभिश् च भाव्यम् ।
शतभूषण्याम् अलेपक-मत-भङ्ग-वाद-परीक्षणम् उपेक्षितम्, निष्प्रपञ्चीकरण-नियोग-भङ्गः अलेपक-मत-भङ्गश् चाद्वैतिनाम् इष्ट एवेति । उक्तं हि भूमिकायाम्, “भगवत्-पादा अपि न संमन्यन्ते असमञ्जसम् इति मत्वा” इति । एवं तर्हि गूढ-वेषाचारा वा संत्यक्त-सन्ध्या-वन्दनादयो वा परमहंसा नाङ्गीकर्तव्या भवेयुः । अलेपक-मत-भङ्ग-वादस्य तद्-अर्थम् एव प्रवृत्तत्वात् । तदा च माधवीयादि-ग्रन्थ-विरोधः स्वोक्ति-व्याघातश् च । तस्माद् अलेपक-मत-भङ्गस्य शतदूषणी-कृतस्यानुमतत्वाद् वा स्याद् अपरीक्षणम्, अशक्य-समाधित्वाद् वा । सर्वथा सहृदयैः संन्यासिभिर् अद्वैतिभिर् अपि भास्कर-यादवप्रकाशादि-पूर्व-देशिक-दर्शित एव पन्थाः श्रेयः प्राप्तये समादर्तव्य इति ॥
निगमैर् अप्य् अवेद्यस्य निर्विशेषस्य लब्धये ।
निर्धूताश्रम-धर्माणाम् अनुरूपा त्व् अधिक्रिया ॥ 365 ॥
यति-लिङ्ग-भेद-भङ्ग-प्रसाधनं स्याद् अलेपक-मत-भङ्गे ।
प्रोक्तस्यापि च संग्रह-रूपम्; तस्मात् प्रसाधितं सर्वम् ॥ 366 ॥
स-विशेषं ब्रह्मेष्टम्, वर्णाश्रम-धर्म एवम् एवेष्टः ।
मूलः पुरुषार्थः श्रेष्ठः किं निर्विशेषेण ॥ 367 ॥
ऐकरस्यम् अधिगन्तुम् इच्छताम् आगमार्थ-परिरक्षणैषिणाम् ।
आगमान्त-गुरु-सूक्तितः परं दर्शनं न हितम् इत्य् असंशयम् ॥ 368 ॥
अद्वैतं मतम् अति-दुर्बलं तथापि श्रुत्य्-अन्त-प्रतिकथकोक्ति-खण्डनायै ।
प्रख्यातैः प्रथम-परिग्रहात् प्रचाराद् उर्वाञ्चस् तद्-अभिनिवेशम् आवहन्ति ॥ 369 ॥
[[P1080]] इति परमार्थभूषणम्
कासौ गभीर-गतिर् अत सर्व-तन्त्र-स्वातन्त्र्य-वित्त-निगमान्त-गुरूक्ति-सूक्तिः ।
काहम्; तथाप्य् अभिनिवेशि-परोक्ति-दोष-प्रख्यापने मद्-अवरो ऽप्य् अलम् इत्य् अकम्प्यम् ॥ 370 ॥
वीक्षारण्य-शालिहोत्र-मुख-सद्-धोता-पनाश्याशय-स्थायि-श्री-जय-वीर-राघव-महो-वीक्षाप्त-जन्म-स्थितिः ।
ख्यातस् तेन तु वीर-राघव इति श्री-चक्रवर्त्य्-आत्मजो व्यातानीद् इदम् अत्र मद्र-नगरे वर्षे विलम्ब्याह्वये ॥ 371 ॥
उत्तमूर्-अभिजनेन वत्स-सच्-चक्रवर्ति-कुल-रत्न-जन्मना ।
वीर-राघव-समाह्वयेन सद्-देशिकाङ्घ्रि-युग-नित्य-भक्तिना ॥ 372 ॥
तर्क-तन्त्र-मुख-नेक-शास्त्र-सद्-ग्रन्थ-निर्मिति-निरूढ-कीर्तिना ।
भव्ययाभिनव-देशिकाख्यया सज्जनैर् बहु-मतेन संसदि ॥ 373 ॥
देशिकः स्व-शतदूषणी-कृति-ज्ञापितार्थ-विशदी-कृतीच्छया ।
अन्तरङ्गम् उपगम्य लेखने तूलिकाम् अकलयत् स्विकां स यम् ॥ 374 ॥
साधु तेन शत-भूषणी-मुखाद् वैत-नैकृतिक-खण्डनात्मना ।
इत्य् अकारि परमार्थ-वेदि-सत्-प्रीणनाय परमार्थ-भूषणम् ॥ 375 ॥
नाथ-यामुन-यतीश-देशिकाद्य्-अद्भुतार्य-मुख-रक्षितं निजम् ।
स्थापयन्न् अनघम् अत्र दर्शनं श्री-निधिर् यति-मुखः समेधताम् ॥ 376 ॥
श्रीमते निगमान्त-महा-देशिकाय नमः
श्री-वेदान्त-रामानुज-यतीन्द्र-महा-देशिक-चरणारविन्द-चञ्चरीकस्य, श्री-रङ्ग-रामानुज-यतिवर-महा-देशिक-पदारविन्द-वरिवस्या-प्राप्त-सर्व-वेदान्तार्थस्य शिरोमणेस् तर्कार्णवस्य पण्डित-रत्नस्य पूर्वोत्तर-मीमांसा-प्रदीपस्य देशिक-दर्शन-धुरन्धरस्य उभय-मीमांसा-वल्लभस्य उत्तमूर्-अभिजस्य वात्स्य-सच्-चक्रवर्तिनः वीर-राघवाचार्यस्य अभिनव-देशिकस्य कृतिषु परमार्थ-भूषणं सम्पूर्णम्
श्रीर् अस्तु । शुभम् अस्तु