६२ कर्माधिकार-प्रसाधनम्

यदिव्या विसरोज सेवनमहा सौभाग्यमाप्यं परम् यज्ञाद्यं शुचि कर्म कार्यमनिशं प्राज्ञैरगासीच्च यः । कुर्वन्नेव शतं समाः श्रुतिमतान् धर्मास्तथा वर्तयन् यद्भक्ति पुरुषो न नातु पुनरावर्तेत सेवेय तम् ॥ तत्त्वज्ञानिभिरपि कर्मानुष्ठेयमिति स्थाष्यतेऽत्र वादे शतदूषण्या । अद्वैतिभिस्तदभभ्युपगमो विकल्प्य निरस्तः । तत्र शतभूषण्याह-शानिभिः कर्माननुष्ठानं कर्मयोगाधिकारकारणदेहात्माभिमानविरहेण कर्मयोगवेदनाभावात्, कर्तृत्वाभिमानघटितसामम्यभावाच्च । शारीरकर्मसु देहधारणाथर्थेषु तु दृष्टार्थेषु बाधितानुवृत्त्या प्रवृत्तिः । अत्र तत्त्वज्ञानिपदेन निष्पन्नज्ञानस्य सिद्धावस्थस्य ग्रहणम् । तादृशं जीवन्मुक्त विनाऽन्येषां कर्मयोगत्यागो नास्ति । ननु तम्य विधिवश्यत्वाभावे तुल्यनयान्निषेधवश्यत्वमपि न कर्माधिकारवाचनः २०६१ स्यादिति स्वैरितापत्तिः । नैवम् — भामत्यां विधिनिषेधवैषम्यस्योपपादितस्वात् । विधिषु श्राद्धोऽधिकारी । अतोऽभिमान विशेषादिशाली विधिना अधिक्रियते ; निषेधस्तु सर्वविषय इति । अथवा वार्तिकोक्तरीत्या विरक्तस्याधमनुष्ठानप्रसंग एव नास्तीति न दोष इति । एतदुक्तं भवति गीतासु प्रथमं षट्कं त्वम्पदार्थशोधकम्, मध्यमं तत्पदार्थस्य, तृतीय तत्त्वम सिवाक्यार्थदर्शि । तत्र कर्मयोगः, सांख्ययोग, भक्तियोग, ज्ञानयोग इति चतुर्विधो योग उपदिश्यते । तत्र सांख्ययोगः प्रत्यगात्मज्ञानम् ; तद्वान् स्थितप्रज्ञः । तस्य कर्मत्यागो नेष्यते । समाधिस्थानामपि कर्मयोगकाले समाधेरव्युत्थानं न श्रेयसे कल्पते । सांख्ययोगरूपान्तरङ्गोपायसाध्यो ज्ञानयोगस्त्वन्यः, शुद्धब्रह्मात्मैक्यसाक्षात्कारः । तं प्राप्तवत एव न कर्म । सांख्ययोगभक्तियोगयोस्तु — “विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते " इति कर्मसमुच्चयः शिष्यते । अतः सांख्यानाम्, भक्तियोगनिष्ठानाम्, आधिकारिकाणाम्, अवतारपुरुषाणाश्च खखवर्णाश्रम धर्म त्यागः तामसत्याग एव । सांख्यातिरिक्तज्ञानयोगसंपन्न एव कर्मणामभाव इति । एवमुपपादयतश्चायं भावः विशिष्टाद्वैतिभिरिवाद्वैतिभिरपि कर्मणः प्रायेणामीकृतत्वात् विशेषवैषम्यं न भविष्यतीति । अत्र तदुक्तांशे किञ्चिद् विवेचनीयमादौ विविच्य ततः कर्मत्यागविषये अद्वैतितदितर वैलक्षण्यं विवक्षामः -भामत्यां विधिनिषेधवैषम्यप्रदर्शनं न घटते इति पूर्ववादे जीवन्मुक्ति-भङ्गवादे च व्युदपादि । विरक्तस्याधर्मानुष्ठानप्रसंगो नास्तीति वार्तिकोक्तं यद्यपि युक्तम्, अथापि बाधितानुवृत्त्या देहरक्षणे वासनावशात्प्रवर्तमानस्य शुच्यशुचि प्रतिग्राह्या प्रतिग्राह्यसंगम सल्ला पाहनहबिवेकेन प्रवृत्तिरापतिता दोषाय न स्यात् । मनुष्यदेहात्माभिमानराहित्यान्मृगयायस्य विधिभिरिव निषेवैरप्यनधिकृतत्वात् । निषेधवश्यत्वोपपादने’ तु विधिवश्यत्वमप्यवर्जनीयम् । तत्र करणे प्रत्यवाय इवात्राकरणे प्रत्यवायः प्रामाणिकः । यतु / २०६१

सांख्यनिष्ठः कर्मकाले योगाद् व्युत्थाय कर्मैव कुर्यादिति तत्रास्यायं कर्मकाल इति विवेके वर्तमाने तत्करणं युक्तमेव । योगमम्नं कालविशेषस्फूतिरहितं प्रति व्युत्थातव्यमिति विधिः कथं भविष्यति । यश्च सांख्ययोगज्ञानयोग विवेकः, स नूनं स्थितप्रज्ञस्य वैदिकलौकिक सर्वकर्मत्यागस्य भाष्येऽनि ष्टतया तन्निर्वाहार्थं कल्पितः । तथाहि सांख्ययोगे हि, ‘न जायते म्रियते वा विपश्चित्’, ‘आश्चर्यवत् पश्यति कश्चिदेनम्’ इत्येवं देहान्तःकरणाद्यतीतशुद्धात्मविषय एव प्रागुक्तः ‘एषा तेऽभिहिता साख्ये’ इति निगम्यते । तच्छ्लोकभाष्ये च, ‘ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्’ इति सांख्ययोगज्ञानयोगैक्यं गीतावाक्यमूलकं व्यक्तमुक्तम् । न च भवतामात्मनि केचन विशेषाः सन्ति, येन देहातिरिक्तत्वाकारेणात्मज्ञानं सांख्यम, ब्रह्मान्तर्यामिकत्व ब्रह्माभिन्नत्वादिविषयकस्तु ज्ञानयोग इति वैलक्षण्यं सुवचम् । निर्विशेषे वस्तुनि क्रियमाणस्य चिन्तनस्य शुद्धधर्मिमात्रविषयकत्वाविशेषात् । अन्यथा कस्यचित्किञ्चिद्धर्म विशिष्टविषयकत्वे तत्त्वज्ञानता न स्यात् । न च सांख्ययोगनिष्ठस्य धर्मानुष्ठानम्, ‘सुखदुःखे समे कृत्वा’ इत्युपदिष्टमिति नैष ब्रह्मात्मैकत्वज्ञानशाली, किंतु भगवदर्पण बुद्धया कर्मानुष्ठातेति वाच्यम्’शोकमोहापनुत्तये लौकिको न्यायः, ‘खधर्ममपि चावेक्ष्य’ इत्याद्यैः श्लोकैरुक्तः, न तु तात्पर्येणे’ ति भाष्ये सांख्यस्यापि कर्माभावप्रत्यायनात् । किञ्चायं सांख्यो मीमांसितवेदान्तोऽन्यो वा । आद्ये तस्य ब्रह्मत्मैक्यज्ञानमपि जातमेव । अन्त्ये अन्तःकरणापरपर्यायाहमर्थरूपात्मवेदी परं स स्यात् स्वर्गाद्यामुष्मिक फलप्रतिलम्भायेति सोऽतत्त्वज्ञो न सांख्यो भवितुमर्हति । षष्ठाध्यायान्ते च ‘योगी युञ्जीत सततमात्मानं रहसि स्थितः ‘, ‘यत्र चैवात्मनाऽऽत्मानं पश्यनात्मनि तृप्यति । सुखमात्यन्तिकं यत् तत्’ इति शुद्धात्मसाक्षात्कार एव सांख्यस्योक्त इति सांख्ययोगाद् ज्ञानयोगस्य भेदो न युज्यते । भवन्मते भक्तियोगात् ज्ञानयोगस्यातिशयस्तावदास्ताम् । भक्तियोगान्निकृष्टः सांख्ययोगो विशिष्टाद्वैर्तिमत इव न वक्तुं शक्यते । नाप्यैश्वर्यानुभवाति कमधिकारप्रसाधनः 10 रिक्तः भगवत्प्राप्तिविलक्षणश्च सांख्ययोगजन्यः पुरुषार्थो ज्ञानयोगलभ्यविलक्षणः कश्चिदस्ति । एवं तु स्यात्, ज्ञानयोगशब्देन साक्षात्कारदशोच्यते । तत्पूर्वभा विचिन्तनधारा सांख्ययोग इति । तावता पूर्वस्मिन् कर्म न त्याज्यम्, उत्तरत्र तु त्यज्यत इति विभागे किं मानम् । चिन्तनधाराकाले देहात्माभिमानाभावस्तस्याप्यस्ति । साक्षात्कृततत्त्वस्यापि व्युत्थानकाले तादृशाभिमानानुवृत्तिरस्त्येव यस्या एव बाधितानुवृत्तिरिति नाम पृथक्कल्ष्यते, अविद्यारूपस्य मूलस्योच्छिन्नत्वमात्रेण । अभिमानानुवृत्तौ च कर्मकरणमनुपेक्ष्यम् । न च असाक्षात्कृततत्त्वस्य साक्षात्कारप्रतिबन्धः प्रत्यवायवशान्मा भूदिति कर्मानुष्ठानम्, न त्वेवं साक्षात्कारिण इति वाच्यम् -तस्यापि जातस्यापि साक्षात्कारस्य प्रत्यवायवशादननुवृत्तिशंकया तदनुष्ठानौचित्यात् । . अन्तःकरणं हि दुष्टं सत् वृत्तिमपरोक्षां नानुवर्तयेदिति भवत्येव मतिः । अन्यथा बाधितानुवृत्तिर्जीवन्मुक्तिश्च नैषितव्या तदा चं देहवियोगकाल एव सर्वोच्छेदी साक्षात्कारो भविष्यतीति यावद्देहं कर्मानुष्ठानमस्मद्विवक्षितमपरिहार्यम् । अपिच यथा तत्त्वसाक्षात्कारी भगवान् अवतारेषु अवश्यमाचरति, तथा साक्षा त्कृततत्त्वा आधिकारिका अपीति भवदिष्टम् । तेषां भेदज्ञानानुवृत्तिः कथम् । तेषा मेवास्ति चेत्, ततोऽर्वाचां कथं तदभावः कर्मत्यागश्च, लोकसंग्रहो यदीश्वरेणापि नोपेक्ष्यते, किमुत प्रत्यवायार्हेण जीवेन । तस्मात् संन्यासिनां गृहस्थधमनाचरण इव साक्षात्कृततत्त्वव्यपदिष्टकतिपयविषये कर्मानाचरणे शास्त्र मेव यावन्न प्रदर्श्यते तावत् तत्त्यागस्तामसत्याग एव । शास्त्र तु सर्वसंप्रतिपन्नं विवक्षितार्थकं न किञ्चित् । एवं शतभूषणी वर्णितांशविमर्शो व्यधायि । अथाद्वैतगमनिका यथावदत्र विविच्यते । ‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति वाक्ये विविदिषोद्देशेन कर्मविधिरिति भामतीपक्षः । विद्यारूपधात्वर्थोद्देशेन तद्विधिरिति विवरणानुसारिणां पक्षः । १०६४

अस्मिन् द्वितीयपक्षेऽपि न विद्याप्राप्तिपर्यन्तं कर्मानुष्ठानानुवृत्तिः, “त्यजतैव हि तत् ज्ञेयम्” इति कर्मत्यागेनैव ब्रह्मणो ज्ञेयत्वविधानात् । कर्मणां तत्त्या 1 गस्य चेत्युभयस्य ब्रह्मज्ञानार्थता कथमिति चेत् — कर्षणाकर्षणाभ्यां व्रीह्मादिनिष्पत्तिरिति यथेति गृह्यताम् । तथाच गीयते ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते’ इति । कर्मतदभावयोरेवं क्रमेण साधनत्ववचनात् चेतः शुद्धया विविदिषारूपप्रत्यक्प्रावप्योदयपर्यन्तमेव कर्मानुष्ठानम् । न च विविदिषार्थत्वपक्षादस्य पक्षस्याविशेषः । विविदिषार्थत्वपक्षे कर्माणि विविदिषामुत्पाद्य कृतार्थानि निवर्तन्ते; एतत्पक्षे तु विविदिषाप्राक्कालकृतान्येव कर्माणि विविदिषापाश्चात्यविशिष्टगुरुला भनिर्विघ्नश्रवणमननादिविद्योत्पत्तिसाधनपर्यन्तेऽपि व्याप्रियन्त इति विशेपात् । सर्वथा विविदिषोत्पत्तिपर्यन्तमेव कर्माचरणम् । जन्मान्तरानुष्ठितकर्मबलाच्च केषाञ्चिदादावेव विविदिषेति न ते कर्म चरेयुः । अतो जातायां विविदिषायां सन्यस्यैव वेदने प्रवृत्तिर्विधेया । “त्यक्ताशेषक्रियस्यैव संसारं प्रजिहासतः । जिज्ञासारेव चैकात्म्यं वय्यन्तेय्वधिकारिता” इति वार्तिको केः सन्न्यासापूर्वस्य वेदान्तश्रवणाधिकारिविशेषणत्वमवसीयते । दृष्टे संभवत्यहष्टकल्पनाया अन्याय्यत्वात् संन्यासः अनन्यव्यापारतामुखेन श्रवणादि निष्पादयतीति वाऽस्तु । गृहस्थादीनां कर्मच्छिद्रेषु वेदान्तश्रवणमनुतिष्ठतां तु जन्मान्तरे सन्न्यास लब्ध्वैव यथावच्छ्रवण निप्पत्तिः । संन्यासानधिकृतयोः क्षत्रियवैश्ययोः कथं विद्याधिकार इति चेत् — ( तयोरपि संन्यासो विद्यारण्य संमत इति ज्ञायते । अथवा ) अस्तु तद्विषये परं संन्यासानपेक्षा । तयोविद्वत्संन्यासानुमतावपि विविदिषा संन्यासाननुमतेः । अथवा तयोरप्यमुख्य एवाधिकारः, शूद्रवत् तद्विषये विशेषप्रतिषेधाभावात् । अत रव गृहस्थब्राह्मणेनापि श्रवणं क्रियते । तदुक्तं विधुराधिकरणभाष्येऽपि, “दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोति श्रवणादिषु” इति । ईदृशस्यापि श्रवणस्य प्राम्भवीयविविदिषार्थानुष्ठितकर्म प्रभाववशात् जन्मान्तरीय विद्यो । कमधिकारप्रसाधन २०६५ त्पत्तौ सहकारित्वं नायुक्तम् । श्रवणस्याप्यदृष्टद्वारा फलोपयोगो भवितुमर्हति,. " दिनेदिने तु वेदान्तश्रवणात् भक्तिसंयुतात् । गुरुशुश्रूषया लब्धात् कृच्छ्राशीतिफलं लभेत्” इति वचनादिति । सर्वमिदं सिद्धान्तलेशसंग्रहतो “विशदमवसेयम् । एवं श्रवणात् प्रागेव सर्वकर्मत्यागेन संन्यासस्य कर्तव्यत्वे सति जीवन्मुक्तव्यतिरिक्तानां तत्त्वज्ञानिनामपि कर्मानुष्ठानमद्वैति संमतमिति कथमुच्येत ? अमुख्याधिकारिणः खलु गृहस्थाः जन्मान्तरे तत्त्वज्ञानसंपत्त्यभिलाषिणः अप्रतिषेधमात्रेण श्रवणादिकमाद्रियन्ते इति तेषाममुमुक्षुलौकिकफलप्रवणगृहस्था विशेष एवेति उत्पन्न तत्त्वज्ञानपुरुषकार्यत्वं कर्मणां तावता नाद्वैतीष्टं भवति । अत एव कर्मणां भेदबुद्धिवर्धकत्वात् विरोधात् परिहाततया अथातो ब्रह्मचिज्ञासेत्यत्रायशब्दस्य कर्मर्नियानन्तर्य रूपोऽर्थस्तस्त्यज्यते । इति व्यक्तं सूत्रभाष्यादौ । 1 एवं संन्यस्तकर्मणामेव वेदान्तश्रवणेऽप्यधिकार इतीदं सर्ववेदान्तगमनिका विरुद्धम् । तथाहि ईशोपनिषदि, ‘तेन त्यक्तेन भुञ्जीथाः’ इति त्यागपुरस्सरब्रझानुभवं कर्तव्यमुक्त्वा ‘कुर्वन्नेवेह कर्माणी ‘ति यावज्जीवं कर्मानुष्ठानमुक्तम् । केनोपनिषदि, ‘तस्यै तपो दमः कर्मेति प्रतिष्ठा’ इति विद्यामुपदिष्टां वर्धयितुं कर्मानुष्ठानमुदितम् । एतदभिप्रायेणैव, “तपांसि सर्वाणि च यद्वदन्ति " इति कठोपनिषदि । न च मृत्युर्नचिकेतसे तत्त्वमुपदिष्टवान् अमुख्याधिकारित्वेन सर्वकर्म त्यागित्वेन वा गणनीयः । ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’, ‘तिस्रो रात्रीर्यदवात्सीगृहे मे’ इति स्वस्य ब्रह्मवित्तमत्वं शास्त्रवश्यगृहस्वत्वञ्च हि स्पष्टमाह । प्रश्ने च, ‘तेषामसौ विरजो ब्रह्मलोकः नं येषु जिझ-. मनृतं न माया च’ इति कृत्याकरणाकृत्यकरणाभावः ब्रह्मप्राप्तयेऽपेक्षितत्वेनोक्तः । मुण्डके, ‘क्रियावानेष ब्रह्मविदां वरिष्ठः’ इति ब्रह्मज्ञानिनां मध्ये क्रियावतो ब्रह्मविदो वरिष्ठत्वोतया ब्रह्मज्ञानात् पश्चादपि क्रियावत्त्वमक्रियस्य निकृष्टत्वश्च स्फुटम् । छान्दोग्ये बृहदारण्यके चासंन्यासिन एव ब्रह्मवित्तमाः विपक्षत्ररूपाः गुरवः शिष्याश्च कर्मपरायणाः रैक केकयगौतमजानश्रुतिश्वेतकेतुप्रभृ। 134 oct

तयः श्राविता इति किं तद्विस्तरेण । एवमुपनिषदुदितानां सर्वेषाममुख्याधिकारित्वकल्पनच महत् साहसम् । “कुटुम्बे सुवौ देशे खाध्यायमधीयानो धार्मिकान् विदधत् अहिंसन् सर्वा भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते " इति श्रुतिश्च गृहस्थो निराशीः कर्मब्रह्मज्ञानसंपन्न एव सन् आयुरवसाने मुच्यत इति वदन्ती गृहस्थ संपादितज्ञानस्य जन्मान्तरसंपाद्यसंन्यासपूर्वक विद्योत्पत्त्यर्थत्वपक्षं प्रत्याख्याति । ‘यो वा एतदक्षरं गार्गि अविदित्वा तपस्तष्यते बहूनि वर्षसहस्राणि अन्तवदेवास्य तद् भवति’ इति च कर्मणां ब्रह्मज्ञानविनाकृतानामन्तवत्त्वमुक्त्वा तेषामेवोपरि ब्रह्मज्ञानुष्ठितनां प्रशंसां करोति श्रुतिरिति न ज्ञानात् प्रागेव कर्मत्यागः । 邮 1 “कृत्स्नभावातु गृहिणोपसंहारः” इति च सूत्रकारो गृहस्थं मुख्यब्रह्मविदं दर्शयति । ‘गृहस्थस्यैव ब्रह्मवित्त्वमपि न संन्यासो नामाश्रम’ इति मर्ति निरस्य प्रयासेन सोऽपि स्थापयते बादरायणेन, गृहस्थनैष्ठिकब्रह्मचारिणोर्मुख्याधिकारित्वे विवादविरहं निश्चितवता । अद्वैतिनस्तु वसिष्ठशक्तिपराशरबादरायणादीनामाचार्याणामप्यमुख्याधिकारित्वमाकलयन्तीति विचित्रमेतत् । एवंरूपं वैपरीत्यं व्युदसितुमेव शतदूषण्यामत्र वादे तत्त्वज्ञानिनामपि कर्मानुष्ठानमवस्थाष्यते । जातायां विविदिषायां कर्म क्रियमाणं व्ययमेवेति न मन्तव्यम् तत्पक्षेऽपि विविदिषानुस्यूतत्वायैव तत्संभवादिति भाषितमेव ह्यन्वारुह्य । वेदनार्थत्वे तस्याह र हरभ्यासाधेयातिशयस्वात् वेदनव्यक्ति मेदाच्च भविष्यद्वेदनसंपत्तये पूर्वपूर्व कर्मेति सुवचमेव । ‘कर्म स्वजतैव तत् ज्ञेय’ मिति वाक्यं तु यादृशः कर्मत्यागो गीतायां क्रियासमभिहारेण शिक्षितः, तादृशं सात्त्विकमेव वक्ष्यति । ‘सर्वकर्मफलत्यागं प्राहुस्याग विपक्षणाः; त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः’, ‘यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत्’ इति हि गीयते । संन्यासाश्रमसद्भावमात्रेण च कर्मानकत्वं विद्यायाः प्रतिषेद्धुं न शक्यते । तत्तदाश्रमविहितकर्माङ्गकत्वस्य तत्र प्रामाणिकत्वात् । अतस्त्यक्तकर्मैव वेदान्तश्रवणे मुख्याधिकारी, सुतरां तत्त्वज्ञाने जाते इति वादो वेदस्मृतीतिहासपुराणप्राचीनसंप्रदायविरुद्ध इत्यलं बहुना । कर्माधिकार-प्रसाधनम् भेदज्ञानविवर्धित्वात् कर्म त्याज्यमिति ब्रुवन् । शारीरं कौकिकं कर्म कथं कुर्यादनारतम् ॥ श्येनयागो हि मान्यः स्यादभिचाराय लौकिकात् । तथा वा वैदिकं ग्राह्यं लौकिकाव्यप्रचेतसा ॥ वित्तलोकैषणा पूर्णवृथा संन्याससंग्रहात् । वरं गार्हस्थ्यमास्थाय वेदान्तार्थविचिन्तनम् ॥ यथा परमहंसत्वाभिमानोचितधर्मता । तथा गृहस्थधर्माश्च न तत्त्वज्ञप्तिबाधकाः ॥ ऐषणात्रय निर्मोको यथावत् यस्य लक्ष्यते । एकान्तशीलो निर्विण्णः स सम्यसितुमर्हति ॥ विचिन्त्य वेदान्तमवेत्य दैव विधाय कर्माणि तदर्पणानि । विशुद्धचित्ताः यतिधर्मनिष्ठां क्रमागता ये कृतकृत्यतैषाम् ॥ शुभमस्तु १०६७ श्रीः