६१ अपशूद्रनयविरोध-प्रसाधनम्

उपनिषदुपदिष्टान् भक्तियोगान् यथावि ध्यधिकृत पुरुषैकानुष्ठितान् आत्महृद्यान् । सफलयति विधाता सत्पथैकानुकम्पी य इह जयतु सेतुः सर्वहेतुः स देवः ॥ ब्रह्मविद्यायां शूद्रस्य नाधिकार इति भगवता बादरायणेनापशूद्राधिकरणे निरणात्रि । अयमनधिकारनिर्णयः सगुणविद्याविषय इव निर्गुणविषयेऽपीत्यद्वतिभिः स्वीकृतम् । अद्वैतमतरीत्या तत्त्वज्ञानस्य मिथ्याज्ञाननिवर्तकतया ब्रह्मज्ञानादविद्यानिवृत्तिरिति यदि बादरायणाभिमतं स्यात्, शूद्रस्यानधि कारस्तदुक्तो न घटत इतीदानीं निरूष्यते । तत्र शतदूषणीकृतेषु दूषणेषु यथावद समाहितेषु अधिकरणासामञ्जस्यमेव स्यात् । अतः मुख्यदूषणं खपक्षे’ प्राप्तमपरिहृत्य किमिति शतदूषणी वाक्यान्युच्चावचानि विकीर्य विस्तृणाति । “शूद्राणामध्ययनेऽधिकारं शास्त्रं नानुमन्यत इति सर्वसप्रतिपन्नम् । तत्राध्यय-नेन वेदान्तस्यागृहीततया कथं ब्रह्मविद्याधिकारप्रसक्तिरिति न पर्यनुयोज्यम् । तथासति पूर्वमीमांसागतापशूद्राधिकरणेनैव गतार्थत्वादिहैतदधिकरणमनावश्यकम् । ऐकशात्र्यानभ्युपगमात् तेन न गतार्थतेति चेत् तन्न ऐकशास्त्यस्यासंमतावपि जैमिनीयतन्त्रसिद्धस्य विना कारणं पुनश्चिन्तनमयु’ क्तमित्यस्याद्वैतिभिरप्यङ्गीकृतत्वात् । ‘अप्रतिषिद्धमनुमतं भवतीति च तन्त्रयुक्तिः । इदं न्यायभाष्येऽप्यभाषि । अत एव “स्मृत्यनवकाशदोषप्रसङ्गः” इत्यादौ । गतार्थत्वशङ्कापरिहारादि । अपशूद्राधिकरणभाष्येऽप्यत्र तेनापशूद्राधिकरणेनागतार्थत्वं प्रदश्यैव प्रवृत्ते सति व्यर्थमंत्रकशास्त्र्यादिविमर्शनम् । यस्तु कोलाहलः, “अत्र सावधानं प्रत्युत्तरतु शतदूषणी, किं वा प्रयोजनं भवदीयानां मते अपरस्यापशूद्राधिकरणस्य । यदि मौनमेवोत्तरम्” इत्येवम् अपशूदनयविरोध-प्रसाधनम् १०५५ स श्रीभाष्यमावदर्शिनामपि न भवितुमर्हति । अप्पय्यदीक्षित । दिभिश्च खमाप्यगमनिका स्वारस्यदत्तदृष्टिभिरिवैवमुच्यते, “नाध्यययन विध्यभावमात्रेण शूद्रस्यानधिकारवर्णनं युक्तम् ; किंतु, ‘तस्माच्छूद्रो यज्ञेऽनवक्लृप्तः’ इति यज्ञादौ निषिद्धत्वा देवानधिकारः” इति । आस्तामेतत् कथमपि । अध्ययनविधिसिद्धवेदान्तग्रहणाभावमात्रेण शूदानधिकारः कथं भवन्मत इत्येव विचार्यम् । यत्तु विचारे रागतः प्रवृत्तेः श्रीभाष्येष्टत्वात् तन्मत एव शूद्रस्य विचारेऽधिकारप्रसक्तिः, न पुनरस्मन्मत इति — तन्न अध्ययनमक्षर राशिग्रहणार्थम्, विचारे प्रवृत्तिस्तु रागत इत्यस्य भवत्पक्षेऽपि कैश्चित् स्वीकृतत्वस्य प्रागेव दर्शितत्वात् । रागतः प्रवृत्तिरित्युक्तौ वा कथं शूद्रोऽधिक्रियेत । न हि रागत इत्यस्य स्वेच्छया फलादिविषयिण्या यथाकथञ्चिदुत्पन्नयेत्यर्थः । किन्तु साङ्गवेदाध्ययनजन्यापातप्रतीतिरूप संशयनिरासेच्छया स्वतः प्राप्तयेति । नैष रागः शूद्रस्यास्ति ।

अथ प्रकृतं संगृह्यते सूत्रभाष्ये शूद्रस्यानधिकारं प्रसाध्यान्ते किञ्चिदुक्तम्, इतिहासपुराणादिजनितब्रह्मविद्या शूद्रस्याप्यस्तीति । सिद्धान्तलेशसंग्रहे च तृतीयपरिच्छेदे शूद्रस्य विद्यानधिकारं केषाञ्चिदभिमतं विलिख्य, शूद्रस्यापि विद्यार्थकर्माणि तपःप्रभृतीनि सन्तीति प्रदर्श्य निर्गुणविद्यासाधनवेदान्तश्रवणादिष्वधिकारनिषेधेऽपि विषयसौन्दर्य प्रयुक्तार्थित्वनिषेधासंभवात् अविधेयायां निर्गुणविद्यायां तदतिरिक्ताधिकाराप्रसिद्धेश्च भगवत्पादभाष्यानुरोघेनेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकृतत्वात् ब्रह्मात्मैक्यपरपुराणादिश्रवणमूलं विद्यायामधिकारोऽस्तीति दर्शितम् । परन्त्वेवं सति समाचार-भङ्ग इति .. विमृश्य विद्योत्पत्ति योग्य विमलशरीर निष्पादनद्वारा तदुपयोग इति निगमितम् । तद्व्याख्यात्रा चेदं भाव्यविरुद्धमिवेति परिशील्य, भाष्योक्तमितिहासपुरा-णाधिकारपक्षमेव विमृश्य, श्रीभाष्यगतिमेवानुसृत्य, इतिहासपुराणयोर्वेदोपबृंहणरूपेण प्रवृत्तत्वात् उपबृंहणस्योपबृंहणीयशेषत्वात् अन्यिनधिकृतस्याङ्गसंपादितोपकारविशेषेण कार्यसिध्ययोगात् इतिहासपुराणाधीनं ज्ञानं वेदार्थवैशद्य विधा ४९.१०५६ परमार्थमुपमे ‘नमुखेन वेदार्थविषयप्रवृत्तिपरपुरुषमात्रोपयोगि । अन्यथा, “इतिहासपुराणाभ्यां वेद समुपबृंहयेत् । बिभेत्यल्पश्रुताद् वेदो मामयं प्रतरिष्यति” इति वचनविरोधः । तत्र हि कतिपयवेदभागभावी पुरुषो मामप्यर्थान्तरपरं सभावयेदिति भीतो वेद इति तद्धयापाकरणाय तदर्थस्य मीमांसान्यायसिद्धस्यो पबृंहणायेतिहासादीत्युक्तम् । सूत्रभाष्यं तु एतद्वचनाभावं कृत्वा चिन्तया । अतः शूद्रस्येतिहासपुराणाधीनज्ञानं न स्वातन्त्र्येण मुख्यफलोपयोगि । एवमपि श्रवणविधानात्तु फलं पापक्षयः विद्योत्पत्ति योग्य विमलशरीरारम्भौरयिको भवतीत्य व सेयमित्यप्युक्तम् । एवं ब्रह्मविद्यानधिकार एव दृढीकृतः । एवमपि यदेष व्याख्याता ग्रन्थोपक्रमे श्रवणविधिविचारावसाने एक माह, “तदयं निष्कर्षः विद्याधिकारिणो विचारसमर्थस्य प्रतिषेधाभावे वेदान्तश्रवणमनुष्ठेयम् । सति तु प्रतिषेधे इतिहासपुराणभाषाप्रबन्धादिश्रवणमनुष्ठेयम् । विद्याधिकारिणो विचारासमर्थस्य तु त्रैवर्णिकस्य योगशब्दित निर्गुणोंपासनमनुष्ठेयम् । मार्गद्वया संभवे च तत्संभव योग्यजन्मप्राध्या तदन्यतरानुष्ठानद्वारा ज्ञानलाभः " इति । निर्गुणोपासनरूपयोगकथनञ्चचेदं तृतीयपरिच्छेदवक्ष्यमाणभारतीतिर्थमतानुसारेण । विद्याधिकारित्वञ्चेह विद्याफलार्थित्वम् । ‘सति तु प्रतिषेधे’ इति शूद्राद्यभिप्रायेण । अत्रेतिहासपुराणाभ्यां सह भाषाप्रबन्धादिग्रहणात् अयमर्थ उद्यते इतिहासपुराणयोरुपबृंहणत्वादुपबृंहणीयवैदाधिकारिषु वैशद्याधानमेव तत्कार्यमिति तयोः स्वातन्न्याभावेऽपि तयोः श्रवणमात्रेऽधिकारात् पठनधारणाद्यसंभवेपि स्वतन्त्रतया प्रयुक्तभाषा प्रबन्धमूलमपि तत्त्वज्ञान संभवात् तदर्थे श्रवणमनुष्ठेयमिति । यदि तु वेदान्तगतस्य श्रोतव्य इति विधेरर्थवर्णनपरत्वात् संदर्भस्य स्वातन्त्र्यं न युक्तमिति मन्यते, तर्हि प्रतिबेधविषयशूद्रादिविषये इतिहासादिश्रवणविधानवर्णनमयुक्तम् । प्रासंगिक तत्कथनमिति चेत् तथापि शूद्रस्याधिकारः परिहर्तुं न शक्यते । अस्तु तर्हि शूद्रस्याप्यधिकारः वेदान्तश्रवणमूलविद्याभ्यास निषेध एवापशूद्राधिकरणकृत्यमिति चेत् -तदिदं हार्दं सर्वाद्वैर्तिसमतश्च भवति, न वेति स्वयमेव चिन्त्यताम् ।

अपश्चनयविशेष-प्रसाधनम् एवं निगमनमपि न युक्तमिति तावदत्र श्रीभाष्यशतदूषण्यादिभिः प्रतिपाद्यते—ये त्वद्वैतिनो वेदान्तश्रवणजनितसाक्षात्कारादेव मुक्तिरिति मन्वते तान् प्रत्युच्यते श्रवणविधिरपूर्व विधिर्नियमविधिः परिसंख्या विधिरिति पक्षा उपन्यस्ताः दुष्यन्त एव । तथाहि अध्ययनविधौ विचारस्येतिकर्तव्यतात्वेनान्वितत्वात् विशिष्य श्रवणविधिर्नापेक्षितः । श्रवणश्च ज्ञानमेवेति न तत् विधेयमपि । विध्यभावेपि तत्त्वमस्यादिवाक्यश्रवणमात्रेपि ज्ञानं जायत एव । निर्विचिकित्सस्य सदैव साक्षात्कारोप । संशयानस्तु मननेन निष्कृष्य निश्चिनोतु । विपरीतप्रवृत्तिवैमुख्यकरणमेव श्रवणमनननिध्यानविधिसरूपवाक्यकृत्यमिति भाष्यादिसंमतत्वात् विधिमूलका दृष्टापेक्षाविरहात् वेदान्तवाक्यत इव लौकिकवाक्यतोऽपि दृष्टविधयैतत्सर्व संभवात मिथ्यावस्तुनिवृत्तिं प्रति तत्त्वज्ञानस्यैव कारणतया यथाकथञ्चिदुत्पन्नस्यापि तत्त्वज्ञानत्वादेव कारणत्वसंभवात् वेदान्तवाक्यत एव मुक्तिरिति न युक्तं नियन्तुमिति । श्रवणादिविधिस्वीकारेऽपि दृष्टविधोपयोगिनां तेषामदृष्टार्थत्वं न कलप्यम् । अदृष्टं कल्प्यमानञ्च कुत्रोपयुज्यते । अविहितश्रवणशालिनां मनने अविहितमननशालिनाश्च निध्याने तददृष्टाभावे प्रवृत्तिर्न भवतीति दुर्वचम्. लौकिक वाक्याद द्वैतज्ञानिभिरपि तत्सर्वविषयोद्योगस्य क्रियमाणत्वात् । न च ध्यानस्य साक्षात्कारहेतुत्वमदृष्टे सत्येवेवि युक्तम् अविहितका मिनीभावनादीनां साक्षात्कारहेतुत्वस्यानुभवसिद्धत्वात् । दशमस्त्वमसीत्यादौ निध्यानाभावेऽपि साक्षात्कारे सति अत्र ध्यानानन्तरमपि न भवतीत्यत्र मानाभावात् । असाक्षात्कारे कारणं तु मनसोऽनवधानं वा वस्तुनोऽसंनिकृष्टत्वं वा । तदुभयमप्यत्र न भवति । मेदवासनायाः प्रतिबन्धकत्वस्वीकारे हि कदापि साक्षात्कारो न स्यात् । अमेदभावना च प्रामाण्यपरिबृंहिता मेदवासनां निवारयिष्यति । विचारितं वेद प्रागेव । कामिनीभावनाजन्य साक्षात्कारस्येव अद्वैतभावनानन्यसाक्षात्कारस्याप्यदृष्टनिरपेक्ष जननार्हत्वेन, सांख्यैरपि, " एवं तत्त्वाभ्यासात् नास्ति न मे नाहमित्यपरिशेषम् । अविपर्ययात् विशुध्द्धं केवलमुत्पयते ज्ञानम् " 133 १०५०

· इति वेदाननुसारेऽपि तत्त्वज्ञानाभ्यासतस्तत्साक्षात्कारोत्पत्तेरुक्तत्वाच्च, अदृष्ट सापेक्षध्यानजन्य साक्षात्कारस्य तन्निरपेक्षध्यानजन्यस्य च समानविषयकतया साक्षात्कारतया, एकस्याविद्यानिवृत्तिहेतुत्वम्, न त्वन्यस्येति विनिगन्तुमशक्यत्वाच्च अदृष्टमनपेक्षितमेव । अदृष्टे सति शीघ्रं साक्षात्कार इति यत्-तत्र च न प्रमाणम् । तथापि विलम्बेनापि शूद्रस्य साक्षात्कारोत्पत्तिर्न वार्येत । विहितध्यानप्रवृत्तमहर्षिजनापेक्षया प्रकारान्तरेण ध्यानमा वर्तितवति मारीच एव श्रीराम साक्षात्कारः शीघ्रनिष्पन्नोऽनन्तश्च दृष्टः, यदाह –वृक्षेवृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिवान्तकम् " इति । नापि साक्षात्कारादविद्यानिवृत्तौ जननीयायामदृष्टापेक्षा । अहटस्य दृष्टसामग्रीसंमेलकमात्रार्थतया तस्मिन् सिद्धे सत्यदृष्टवैगुण्यस्य वक्तुमशक्यत्वात् । शुक्तिसाक्षात्कारेऽपि रजतभ्रमानिवृत्तिरित्यस्यादर्शनात् । अत एव प्रतिबन्धक निवृत्त्यर्थमदृष्टमित्यप्ययुक्तम् । प्रतिबन्धकस्यापि मिथ्यापदार्थतया तत्त्वज्ञानस्यैव तन्निवर्तकत्व संभवेनादृष्टानपेक्षणाच्च । अतो न विधिपक्षेपि शूद्रानधिकारः । वस्तुतः श्रवणादिविधिश्रुतीनामविधित्वमेव भवत्परम सिद्धान्त इति न शक्तावकाशोऽपि । तत्सिद्धान्ते स्थित्वा शूद्रतत्त्वज्ञानसंपादनात् । अपिच श्रवणादिविषयो नैव भवितुमर्हन्ति अविधिरूपतत्त्वमस्यादि वाक्यतत्समानार्थलौकिकवाक्यजन्यतत्त्वज्ञानसंपन्नस्य वर्णाश्रमाद्यभिमानाभावेन तन्मूलश्रवणमनननिध्यानविधिवश्यत्वाभावात् । अन्यथा सकलविधिकिकरत्वेन विदुषो दग्धा खिलाधिकारत्वा संभवप्रसंगात् । विधिषु श्राद्धोऽ विकारीति उत्पन्नविविदिषस्य वैधेष्वनधिकार उक्तो भामत्याम् । निषेघेष्वपि, ‘न ब्राह्मणं हन्यात्’, न ब्राह्मणः सुरां पिबेत्’ इत्यादिषु ब्राह्मणवर्णादिभेदभ्रमशालिनामेव निवर्तितुमधिकार इति विध्यतिलंघनवन्निषेधोल्लंघनमपि न दोषायेति चिन्त्यताम् । अतो निषेधः सर्वविषय इत्ययुक्तम् । अपशूवनयविरोध-प्रसाधनम् विचारितमिंद जीवन्मुक्ति-भङ्गेऽपि । अतः, ‘न शूद्राय मतिं दद्यात्’ इति निषेधमुल्लंघ्य तत्त्वज्ञानी सर्वस्मै उपदिशेत् । शूद्रोपि शृणुयात् । न च प्रत्यवायः ; विधेरिव निषेधस्याप्यज्ञ विषयकत्वात् । अत एव श्रवणादेर्विषाबासंभवादपि न तद्विधीनां विधित्वम् । तर्हि गुरूपसदनमपि न स्यादिति चेत् — तदपि न वैधम् । यदृच्छाश्रुताद्वैत वाक्यजन्यज्ञानमपि श्रद्धयाऽऽवर्तित फलिप्यत्येवेति । अतिकान्तनिषेधैरप्युपदिश्येत, गृह्येत च । न च तन्न तत्त्वज्ञानम् । न च तत्त्वज्ञानस्य सहकार्यपेक्षेति । अपिच अधीतवेदस्य कर्मकाण्डोपासना भागाद्यभिहितशब्दै कसम धिगम्यानन्त भेदोपमर्द नस्यावश्यकतया तत्त्वमस्यादिवेदान्तवाक्यं न क्षिप्रं फलेग्रहि भवेत् । अनधीतवेदस्य तु लोकमात्र विदोऽन्यत्रा विश्वासिनः अनुमानसिद्धाद्वैतावधारणस्य परमेश्वरभक्तिपरिचर्यादिमेदबुद्धेरप्यभावात् प्रपश्वोपशमनमीषत्करमिति तस्यैवाधिकारः सुशोभनः । अन्यच्च ‘घटोऽस्ति पटोस्तीत्यादौ सद् ब्रह्मैव भासते; विकल्पाः सर्वे बाध्या’ इति विवेकिनः तत् तत्त्वमभ्यस्यतः ब्रह्म परमात्मपरमेश्वरादिशब्दार्थाज्ञानेऽपि अखण्डवस्तुज्ञानस्याधिगतत्वादनायासेन मुक्तिरिति किमत्र वेदेन विप्रादिवर्णेन च । न चास्मन्मत इव भवन्मते ब्रह्म शब्दैकसमधिगभ्यम् । शब्दावेद्यत्वमेव हि प्रत्युत तस्येष्टम् । स्वयम्प्रकाशञ्च ब्रह्म शूद्रं प्रत्यपि । जगन्मिथ्यात्वं तु बौद्धैरप्युपपादितम् । न चानिर्वचनीयत्वेन जगत् ज्ञात्वा ब्रह्मकार्यत्वञ्चारोप्य तदभावज्ञाने सत्येव मिथ्याज्ञाननिवृत्तिरिति नियन्तुं शक्यमू । अतः श्रीभाष्यशदूषण्युक्तमप्रतिविधाय आग्रहप्रतानः शतभूषणीकृतोऽत्यन्तमनुचित इति । • तस्मादपशूद्राधिकरणनिबन्धिनो भगवतो वादरायणस्य शब्दैकसम घिगम्यान्यादृशब्रह्मविषयकेण विधेयेन केनचिददृष्टद्वारा फलमुत्पाद्यमित्येवाभिमतमिति निर्णीयते । न च संवर्गविद्यामात्रविषयं तदधिकरणम् ;་་་་

" संस्कार परामर्शात्तदभावाभिलापाच्च” इत्यादिसूत्रतस्तदतिरिक्तविषयकत्वस्यापि सिद्धेः । न च सगुणविद्यामात्र विषयकत्वम् ; ‘अधीहि भगवः” इति भूमविद्याया अप्युदाहरणात् । अपसिद्धान्ताच्च । एवञ्च शारीरकं त्रैवर्णिकमात्राधिकृतत्वात् सगुण विद्याप्रधानम् । निर्गुणं ब्रह्म तु न वक्तव्यं स्वतः सिद्धेरित्युपेक्षितं सूत्रकृतेति वा स्वतः सिद्धेरप्यभावात् प्रामाणान्तराभावाच्च नैव तदिति वा स्वीकर्तव्यम् । अपशूद्रनयोतययुक्ति सूक्तिच्छलतः शाङ्करवर्त्मभावितासु । गतिषु प्रथयन् अशेषदौः स्थ्यं गुरुरिन्धे श्रुतिमार्ग भूमदर्शी ॥ शुभमस्तु श्रीः