६० जीवैक्य-भङ्ग-प्रसाधनम्

त्रिपाद्विभूताविव नित्यसिद्वैरिहापि तिर्थक्स्थिर मर्त्यदेवैः । विचित्रजीवैः सरसानुभावी दयानिधिः श्रीनिधिरस्तु भूत्यै ॥ आत्माद्वैत-भङ्गवादे एकजीववादि— अनेकजीववादिसर्वाद्वैतिसंमतमात्माद्वैतं निरस्तम् । जीवेश्वरैक्य-भङ्गवादे च अनेकेषामपि जीवानामीश्वरेणाद्वैतिभिरिष्टमैक्यमन्यादृशमपास्तम् । अत्र तु जीवैक्य-भङ्गवादे एकजीववादतत्समतो व्युदस्यते इति प्रधानार्थवैलक्षण्यं शतभूषणी न परिशीलयति । अत्र उपक्रमे क्लिक्षणांशनिरूपणार्थमिवोद्गम्य संविदैक्यं जीवनानात्वच वादेऽस्मिन् विलिख्य शतभूषणी शतदूषण्याः समाधानं कृतं मन्यते । एवं जीवनामात्कवचनश्च शतदूषण्यभिमतस्थापनमेव स्थात्; न तु तद्दुदूषयिषितस्य जीवैक्यस्याद्वैतिसंमतस्य स्थापनम् । कतिपयाद्वैतिसंमतत्वेऽपि खानिष्टत्वात् शतभूषणी तन्नाद्वियत इति चेत् —तर्हि निष्प्रपञ्चीकरण नियोग-भङ्गवादादिरिवायमपि वादो न परीक्ष्यः, अभिमतत्वात् । अतोऽनवधानमेव मूलम् एतेन संख्यापूरणार्थमेकमेव दूषण नाममेदेन नवीकृतमिति निरस्तम् विषयमेदस्य दर्शितत्वावः । 132१०५०

परस्परसंबद्धतया चैकत्र प्रसंगादन्येषां प्रस्तावेऽपि कस्यचित् कचिदम्पर्यमितीदं सर्वग्रन्थसाधारणम् । विकल्प्य दूषणेऽपि प्रकारभेदाः स्पष्टमेव लक्ष्यन्ते तत्रतत्रेति दूषणैक्यवर्णनमप्यवधानविरह विजृम्भितम् । दूषितस्यैवार्थस्य पुनर्मु खान्तरेण दूषणायाप्युपन्यास आवश्यक एव । एवं सति हि सहृदयानां माध्यस्थ्यमवलम्ब्य पथ्यग्राहिणां हितं विहितं स्यात् । सर्वथा विषयभेदात् दूषणभेदाच्च न संकरः । , यस्तु जीव एव जगदुपादानमिति किञ्चित्पक्षोपन्यासः, तस्मिन् सति जीवेश्वर भेदप्रतिपादकानामागमानां का गतिरिति विभाव्यताम् । एवम्भूतमद्वैतवादम् जगत्कारणत्वं ब्रह्मलक्षणत्वेनोपन्यस्य, ‘अनुपपत्तेस्तु न शारीरः ’ इत्येवं जगत्कारणस्य जीवात् भेदं प्रथमाध्याये पौनःपुन्येन प्रतिपादयतो भगवतो बादरायणस्य कथं सह्यमद्वैतिनोऽपि मन्येरन् । यथा जीवानामैक्यं तथा जीवत्वो पलक्षितसन्मात्रैक्यमपि न भवत्येव तद्वयक्तीनामप्यनेकत्वात् । सन्मात्रैक्यं हि नाम सतामैक्यम्, न तु संत्तक्यम् । तच्च सर्वमानविरुद्धम् । एवं स्थिते चितोऽचितश्च सत्पदेन गृहीत्वा सतामैक्यवर्णनं कथंतराम् । घटोऽस्ति, पटोस्तीत्येवं प्रतीतयः सत्तैक्यं कथञ्चिद् गमयेयुः ; न तु सदैक्यम् । न हि खण्डो गौः, मुण्डो गौरित्यतो गवैक्यं गम्येत । यदि च घटः सन् इत्यादिप्रतीतिषु सद् ब्रह्म विषयः, कथं तस्य घटाद्यैक्यम्; जडब्रह्मणोरैक्यायोगात् । बाधायामिदं सामानाधिकरण्यमित्याह शतभूषणी । स्वमतं वा लोकानुभवो वैवमिति किञ्चिदालोच्यताम् । न हि चोरः स्थाणुरित्यत्र चोराभावप्रतीतिवत् घटोस्तीति घटाभावप्रतीतिलौकिकानाम् । तथासत्युपादातुं नोपसर्पत् । एवमत्र घटे सत्ताया अमाने, अस्ति भाति प्रियं रूपं नाम चेत्येतेषु आद्यं त्रयं ब्रह्मरूपं कार्येऽनुवर्तत इति घटादि प्रति ब्रह्मणो विवर्तोपादानता कथं वर्खेत, धर्माननुवृत्तौ उपादानत्वायोगात् । सत्ताया अनुवृत्तेरत्र विषयत्वे बाधार्थ सामानाधिकरण्यवर्णनायोगात् । घटादिगतव्यावहारिकसत्ता परत्वस्यावश्यकत्वात् । तदापि परमार्थसतधर्मानुवृत्त्यभावादुपादानत्वायोग एव । एवं सति, ‘सच्च त्य १०५१ श्चाभवत्’ इत्यस्य ब्रह्म सद्रूपेण त्यद्रूपेण च प्रतीयते परम् ; न तु ततदस्तीत्यर्थवर्णनं स्यात् । } अस्तु तावदेतदर्थासौष्ठवम् । ‘कथमसतः सज्जा येत’ इति वाक्यार्थः कुः । यदि सत्पदं ब्रह्मपरम् तन्नैव जायत इति असत इति विशेषो न घटते । प्रपञ्चस्तु न सन् । सत्त्वेन प्रतीयमानमित्यर्थ इति चेत् -इदं रजतमित्यत्र यथा शुक्तः रजतत्वेन प्रतीतिः, तथा सतः किल प्रपञ्चरूपेण प्रतीतिः; न तु प्रपञ्चस्य सद्रूपेण । अध्यस्यमानमधिष्ठानरूपेण भासत इति न हि व्यवहारः । अपि च असतः सतो जायमानत्वे उपादानोपादेययोर्भेदापत्तिः । नह्यति कदापि सत्त्वं भवितुमर्हतीति । कार्यकारणक्यमत्राभिप्रेतम् । तद् भवत्पक्षे न सिद्ध्यति ; जगद्ब्रह्मणोरैक्यबाधात् । एवं सत्त्वेनाप्रतीयमानात् सत्त्वेन प्रतीयमानं न जायेतेति उभयोः सत्त्वेन प्रतीयमानत्वमावश्यकमिति वाक्यार्थे कारणस्यापि सत्त्वेन प्रतीयमानत्वमेवोक्तं स्यात् । प्रतीतिश्च भ्रमसाधरणी भवदिष्टेति न कारणे वास्तव सत्त्वनिश्चय इति न सन्मात्र कारणसिद्धिः । सतः सद्भिन्नमपि सत्त्वेन प्रतीयमानं जायेतेति तु मृदो मृद्भिन्नमपि मृत्त्वेन प्रतीयमानं जायेतेति वाक्य तुल्यमविश्वसनीयम् । जायेतेत्यस्य कल्प्येतेत्यर्थवर्णनञ्चायुक्तम् । असत्यपि सत्कल्पना लोके दृश्यत एवेति न तत्र काचिदनुपपत्तिरपि । अतः समञ्जसैकरूपार्थवर्णनायोगात् लक्षणानिर्भरत्वादप्येवं व्याख्यानमयुक्तम् । } ‘संबन्धभेदात् सत्तैव विद्यमाना गवादिषु । सा जातिः सा परा सचा तामाहुस्त्वतलादायः’ इति हरिवचनं गवादिषु सत्ताया विद्यमानत्वमेव वदति ; न तु सत्त्वभ्रान्तिम् नतरां सति गवादिभ्रान्तिम् । चोरः स्थाणुरिति गृहीतस्य स्थाणुत्वस्येव सद्रूपस्य घटादिविरुद्धाकारत्वं बाधायां सामानाधिकरण्यवादिभवदिष्टं वस्तुतो नास्तीत्येवात्र प्रतीयते । स्वतलादीनां भावार्थकत्वं भावे" स्वतलाविति सूत्रानुशिष्टम् । भू सत्तायामिति भावः सत्तेति विदितम् । कणादश्च सत्तां विवक्षन् भावपदं वैशेषिके प्रायुक्त । तथाच गोत्वमिति गोगतसत्ता प्रतीयेत ; न तु गोमात्रवृतिजातिरित्या शंका कारिकयाऽनया प्रतिक्षिष्यते । ई १०५९

अयमर्थः –सत्पदं स्थितिविशिष्टार्थकम् । अतो विशिष्टात् भावप्रत्ययो विशे षणमभिधत्ते इति न्यायात् स्थितिरेव सत्ता । गोसत्ता च गोस्थितिः; गोषु वर्तमानो यो धर्मः प्रामाणिकः, तद्रूपविशिष्टतया गोस्थितिः । तद्रूपवैशिष्ट्यं तद्प्रमेब । सा च समवायादिना तत्तदभिमतेन संबन्धेन गवि वर्तमाना जातिरेव ) एतदतिरिक्ता सतापि काचिन्नास्ति । जातिः सत्ता चानर्थान्तरमिति काणादैर वि युक्त परिशीलयितुम् ; विशेषजातिरहितस्थले सत्ताया अभावात् जातिपदपर्यायत्वस्य तन्मते सत्तायां सुवचत्वात् । अतो गोगतजातिरेव गोत्वपदार्थ इति । मनेन सत्तामा एव कस्याश्चिदनुगताया निषिद्धत्वात् सर्वानुगता सत्ता ब्रह्मरूप्रेति वक्तुमेव न शक्यते । एवञ्च कारिकेर्य श्रीभगवद्यामुनमुनिवचनेनाप्यनुस्रता भवति; यदुच्यते, “स्वैः स्वैर्व्यवस्थितैः रूपैः पदार्थानां व्यवस्थितिः । सासवा न स्वतन्त्रा स्यात् तत्राद्वैतकथा कथम्” इति । समवायसंबन्धेन वर्तमानाः नित्या जातयः काश्चन संतीति पक्षोऽपि नाङ्गीकार्यः । असाधारणधर्मः सत्तेत्येतावदेवेति तत्कारिकोपरि शिक्षणमत्र श्रीभगवद्यामुनमुनिकृत मिति विशेषः । अद्वैतिनोऽपि ब्रह्मातिरिक्त नित्यवस्त्वभावात् आकृतिविलक्षणां गोत्वादिजाति न स्त्री कुर्वन्तीति परिभाषादौ व्यक्तम् । उक्तञ्च प्रागपि । अतोऽनुगता सत्ता काचिन्नास्त्येव । एतेन ‘न हि भगवत्पादमते सत्ताजातिर्नास्तीति शतभूषणयुक्त निरस्तम् । अर्थक्रियाकारित्वं तु सत्त्वं न सर्वानुगतमेकम् । अतः सतामिव सत्त्वरूपधर्मस्यापि नैक्यम् । ध्वंसोस्तीति प्रतीत्या ध्वंसेऽपि सत्ता स्वीकार्येति शतभूषणी । अस्तु तावत् किं तेन । सर्वर्था सन्मात्रमनुवृत्तम् अस्तीति प्रत्ययविषयो न भवतीति सिद्धम् । घटोस्ति, पटोऽस्तीत्यादिविषयस्य न ब्रह्मत्वम्, नाप्यनुगत किञ्चिद्रूपत्वमित्येवमत्रोपपादनात् न तदादायापि जीववयप्रसक्तिः । अतः संविन्मात्रस्वरूपैक्यं न पारमार्थिकम् नापि व्यावहारिकम् ; किन्तु अद्वैतिमा लगोचरत्वात् प्रातिभासिकमेव । यथेदं जीवैक्यम्, तथा एकजीववाद्यद्वैत्येकदेशिकल्पितं विशिष्टजीवैक्यमपि प्रातिभासिकमेव ; प्रातिभासिक जीवय-भङ्ग-प्रसाधनम् १०५३ तरं वा । स्वरूपैक्यमात्रमनुक्त्वा अविद्यान्तःकरणादिविशिष्टजीवैक्येऽपि समन्यमाने एकशरीरस्थेनैव देवदत्तादिना यज्ञदत्तायनुभूतप्रति संधानाद्यापत्तिरत्यन्तमपरिहार्या, अविद्यादिभेदस्याध्यभावात् । यदि च मदन्ये न जीवाः किंतु मया खम इव केवलं कल्पिता इति अहमेक एवेति मन्यते, तर्हि प्रतिपुरुषमेवमेव मन्यते इति कस्तेषु व्यावहारिकसत्यो जीवः केऽन्ये प्रातिभासिका इति विनिगमकविरहात् दुर्निंगमम् । यद्युच्येत यद्यप्यैकैकोऽपि मनुष्यः खात्मानं जीवत्वेन मन्यते इदमस्य भ्रान्तिविलसितम् । अस्य सर्वस्य वस्तुतो न जीवत्वम् । अत एव शुकादीनाम् अहं ब्रह्मासीतिज्ञानान्मुक्तिर्नासीत् । अस्ति तावेदक एव वास्तवो जीवः । स यदा प्रतिभोत्स्यते, तदा मोक्षः । अयं स इति विशिष्याज्ञानात्तु सर्वैः प्रयत्यत इति तन्न स यद्येक एव जीवः, तर्हि अजीषा अन्ये कथं किमपि जानन्ति, व्यवहरन्ति, ऐहलौकिकपारलौकिकयात्राका निर्वहन्ति । सर्वोऽयं भ्रम इति चेत् — कस्यायं भ्रमः । अचेतनानामपि यदि भ्रमादिज्ञानाश्रयत्वम्, तत एव सर्वनिर्वाहः, तर्हि किं कस्यचिदेकस्य वा जीवस्य कल्पनेन । एषाञ्चाजीवत्वात् पुण्यपापनिबन्धनफलानुभवादिकं न स्यात् । ईदृशज्ञातृत्वकर्तृत्वभोक्तृत्वादिमत्त्व विलक्षणम्, शुद्धात्मस्वरूप विलक्षणच किं तत् जीव नाम, यत् एकमात्रनिष्ठमध्यवसीयते । अथवा जीवाज्ञान-भङ्गवादोक दिया. ईश्वर एव जीवः स्यात् । अन्ये जीवाभासाः । स तु सर्वेश्वरः सुखमात्र भावत्वात् अविद्या विलयमेव न कांक्षेदित्युक्तमिति नास्ति मोक्षो नाम । अतो नष युक्तः पक्षः । अन्यत् सर्वं पुरस्तादुक्तमेव ॥ केचित् स्थावरमागमार्थविमुखा निर्जीयमाशेरते पाश्चात्याः कतिचिन्मृगादिकमपि त्वात्मोज्झितं मन्वते । अद्वैतादरिणस्तु केचन सदैवाम्नायपाठप्रियाः यन्मर्त्यान् अमरांश्च जीवरहितानाहुस्तदत्यद्भुतम् ॥ शुभमस्तु श्रीः