- सदित्यसदिति श्रुतं सदसतोश्च यत् कारणम् विदन् सदिति यत् जनो भवति सन् असन्नन्यथा । सदा सरसदास्यदं ननु स दास्यति स्वं पद
- मुदा हरिरिति श्रयेर्मह इदम् ; मुधैवेतरतू ॥
- सदसद्विलक्षणं शुक्तिरूप्यादिकमित्युपपाद्य तन्निदर्शनेन जगतः सदसद्वैलक्षण्यं तत एव मिथ्यात्वं ततश्चाद्वितीयत्वं ब्रह्मण आतिष्ठमानानां मतरहस्य शुक्तिरूप्याद्यायत्तम् । तदसिद्धौ सर्वासिद्धिरिति तन्निरासाय सदसत्त्वविवेक इह विधीयते ।
- अस्तीति नास्तीति वा द्विविध एव लोके व्यवहारः । अतः सत्त्वमसत्त्वञ्चैकत्र प्रतिषेद्धुमशक्यम् । अतः सामान्यतः सदसद्विलक्षणं किञ्चिदिति कल्पनं तावन्न युक्तम् । किञ्चिदूपेण सदप्यन्यरूपेणासद्भवतीति सदसदिति वक्तुं साम्प्रतम् । परं ब्रह्मापि, ‘सदेव सोम्येदमग्र आसीत् ’ इति वाक्ये सदिति श्रुतम्, ‘असद्वा इदमग्र आसीत्’ इत्यत्रासदिति श्राव्यते । भवति चैक एव धर्मः सदिति विवक्षित एव रूपान्तराभावरूपेणासदिति व्यपदेश्यः । मृत्पिण्डोऽस्तीति, घटरूपेण नास्तीति च मृत्पिण्डत्वरूपावस्थैव विवक्ष्यते ।
- सत्त्वासत्त्वविवेक-प्रसाधनम्
- १०४३
- ‘असदिति चेन्न धर्मान्तरेण’ इति सूत्रेण चैतदुक्तम् । एवं कार्यकारणस्थल इवान्यत्रापि असत्त्वस्याभावस्य भावरूपत्वमवसेयम् ; घटोस्तीत्यस्य, नायं पट इत्यस्य च पटभेदरूपघटत्वविषयकत्व संभावत् । भावातिरिक्ताभावाभावादेव इयं शुक्तिरिति निश्चयस्य, नेदं रजतमिति निश्चयस्य च तुल्यरूपा रजतबुद्धिप्रतिबन्धकता । एवंच यथा शुक्तिः स्वरूपेण सती रजतरूपेण चासती, तथा रजतमपि स्वरूपेण सत् शुक्तिरूपेणचासदिति सदसदेव । तदुक्तम्, “स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित् कदाचन" इति । अत्र वस्तुनीति सप्तम्यन्तपाठ एव स्वरसो भामत्युपपाद नानुकूलश्च ; न तु शतभूषणी सिद्धि टिप्यणीष्टद्विवचनान्तपाठ इत्यन्यदेतत्
- ,
- अत्राद्वैतिनः -वास्तवरजतस्य शुक्तेरिव सदसत्त्वं तावदास्ताम् । शुक्तौ प्रतीतस्य तु रजतस्य सदसद्विलक्षणत्वमेवेति ।
- अत्र पृच्छयतेअस्यापि रजतस्य, इदं रजतमिति, अत्रास्ति रजतमिति सत्त्वेनैव प्रतीयमानत्वात् नेदमरजतमिति अन्यरूपेणासत्त्वेन प्रतीयमानत्वाच्च सदसत्त्वमपरिहार्यम् । यद्येवमपि सदसद्विलक्षणत्वं तस्योपपाद्यते तदपि विमृश्यते १ भामती कल्पतरूपपादितमनिर्वचनीय सिद्धिप्रकारमामृश्यान्यथाख्यातिवादिना कियमाणं तन्निरासं प्रदर्श्य परिमले प्रकारान्तरेणानिर्वचनीयं शशशृङ्गविभ्रमग्रहणेनोपपादितम् । तदपि शशशृङ्गायमाणमिति परमार्थप्रकाशिकायामस्माभिः प्रतिपादितमेव । शतभूषणीकारस्तु अद्वैततत्त्वशुद्धिरिति ग्रन्थमुखेन तत्खण्डने प्रवृत्तः स्थलान्तरे श्वन्यथाऽन्यथाऽनूद्य खण्डनेन तृप्त इह तथापि वक्तुमप्रगलभः स्थूलमेव किमपि विलिख्यापासरदिति व्यक्तं तद्दर्शिनाम् । अतएवाद्वैततस्वशुद्धिखण्डनमनपेक्षितमित्युपेक्षित्तम् । तदिदं परमार्थप्रकाशिकाग्रन्थं तद्ग्रन्थञ्च सह पठतां सुगमम् । अन्यच्च परमार्थप्रकाशिकायामनीर्वचनीयकल्पनानोचित्यं विस्तरेण प्रतिपादितम्, तथा नयद्युमणिभूमिकायामस्मत्प्रतिपादितम् एवमत्रापि प्राक्कार्यानुपपत्ति-भङ्गमसाधनादौ प्रदर्शित सर्व
- १०४४
प्राज्ञाः प्रेक्षितुमर्हन्तीतीह शतभूषणीगृहीतविमर्शप्रसंगेन संगृह्य मुखान्तरेणानिर्वचनीयखण्डनं क्रियते । इदं तोयमिति मरीचिसंनिकर्षे जायसानं ज्ञानं स्मृतिप्रत्यक्षोभयात्मक मित्यख्यातिवादिनः । तत्रैवं भामती भासते । तत् तावत् सत् असद्वा । मरीचिषु इदं तो अमित तोयतादात्म्यं नाद्यः, मरीचीनां होयभावायोगात् । नान्त्यः, किं मरीचीनां तोयरूपेणासतीनां भानमेव तोयतादात्म्यमानम्, उत तोयस्य मरीचिरूपेणासतो भानं तत् । आद्ये तोयतादात्म्यं मरीचयश्चेत्इमा मरीचय इति बुद्धिः स्यात् । अन्त्ये किं तोयं तत् । यदि गङ्गातोयम् गङ्गातोयमिति स्यात् । अन्ययत्वे च तथैव भायात् । असंनि कृष्टत्वात् तोयस्य स्मरणमेव हि वक्तव्यम् । तच्च यथानुभवं स्यात् । एवञ्च तत् तोयमिति स्यात् ; न तु इदमिति मरीचिग्रहणम् । अतस्तोयतादात्म्यं सदसद्विलक्षणम् । न च वास्तव यतादात्म्यमनिर्वचनीयं भवतीति तोत्रमध्यनिर्वचनीयमेव । तच्च न पूर्वपरमार्थम् । नापि पूर्वदृष्टवत् स्नानपानशैत्य संवेदनाद्यावहम् । तथापि तत् तथैव प्रतीयते परमिति । अत्रोच्यते इदं तोयमिति ज्ञानस्य वास्तवतोयाविषयकत्वमनिर्वाच्यतंद्विषयकत्वञ्चाभिप्रयता कियानत्र प्रतीतिनिर्वाहः कृतो भवति । इदमिति गृहीतासु मरीचिषु तोयतादात्म्योपपादनं खलु चिकीर्षितम् । तदकृतमेव भवति । न खल्वनिर्वाच्यतो यतादात्म्यमनिर्वाच्यं मरीच्यनुयोगिकं भवति तथासति तस्य तादात्म्यस्य वास्तवतोय प्रतियोगिकत्वस्यापि सुवचतया अनिर्वाच्यतोयकल्पनाया असिद्धः । अपरमार्थे परमार्थ संबन्धाभाव उभयत्र तुल्यः । संबन्धस्य संबन्धिद्वयायत्ततया अनिर्वाच्यसंबन्धवादिना मरीच्यनुयोगिकतोयप्रतियोगितादात्म्यमिति विशिष्टमेव कल्पनीयमिति तोयात्मकमरीचिरूपानिर्वचीयमानमेव इदं तोयमिति ज्ञाने स्यात् ; न तु वास्तवमरीचिरूपधर्मिभानम् । एवं सर्वत्र भ्रमेऽधिष्ठानभानाभावप्रसंगोऽवसेयः । मरीचिषु सोयतादात्म्यानुयोगित्वमनिर्वचनीयं कल्प्यत इति चेत् — तस्य कल्प्यस्य सत्त्वासत्त्वविवेक-प्रसाधनम् १०४५ मरीचिरूपवास्तवार्थसंबन्ध एवं कथम् । वास्तवं वस्तु कल्पितं वस्तु च विशकलित पृथगुवभासेत; विशिष्टमाननियमकाभावात् । यदि विशकलितं मानाईयोद्रयोरसंवन्धाग्रहात् विशिष्टभानवाचोयुक्तिः, तर्हि घट्टकुटधां प्रभातम् ; अख्यातिशरणाश्रयणात् । विशिष्टमान कल्पने चान्यथाख्यातिः । एवं तल तोये या परमार्थत्वमीः, या. च स्नानपानाद्यर्हत्व शैत्यद्रवत्वादिमत्त्वानुमा तादृशभ्रान्तिविषयाणामनिर्वचनीयत्वं वा, असत्त्वं वा, सत्त्वं वा । अनिर्वचनीये तोये अनिर्वचनीयं तत् सर्वमस्ति चेत् -तत्र तद्वावाभावप्रसंगः ; स्नानपानादिकार्यापत्तिश्च । न द्वितीयः अलीकस्य सत्त्वेन भानायोगादनङ्गीकृतत्वात् । न तृतीयः सतां तेषामनिर्वचनीये भानं कथमिति प्रश्ने भेदाग्रहस्यासंसर्गाग्रहस्य वा वाच्यत्वेनाख्या पक्षप्रवेशात् । अनुमित्यादिरूपपरोक्षमेश्वन्यथाख्यात्यैव निर्वाह इति परिभाषादिस्वीकृतपक्षे तु तत्सामान्यादितरेषु तथात्वमिति सत्रान्यायाविव स्यात् । ; यच्च–इदमर्थज्ञानरजतज्ञानयोरेकत्वसाधना भामत्युक्तमनुमानम् विद्यादाध्यासितं रजतज्ञानं पुरावर्तिविषयकम् रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् यथा समीचीनरजतज्ञानमिति तत् स्वपक्षप्रतिकूलमन्यथाख्यातिमात्रसाधकं स्यात् । स्वपक्षे शुक्तिविषयकचाक्षुषान्तःकरणवृत्तेः रजतरूपानिर्वचनीय विषयका विद्यावृत्तेश्च भिन्नतया रजतज्ञानस्य पुरोवर्तिविषयकत्वाभावात् । न च वृत्त्योर्भेदेऽपि वृत्त्यवच्छिन्न चैतन्यमेकमेवेति वाच्यम्-तर्हि घटपटादिसर्वज्ञानैक्यप्रसंगात् । न च शुक्तौ रजतस्याध्यस्ततया शुत्त्यवच्छिन्न चैतन्यरजतावच्छिन्न चैतन्ययोरैक्यमिति वाच्यम्शुक्तित्वादेः शुक्तिगतत्ववत् रजतस्यापारमार्थिकस्य पारमार्थिकशुक्तिसंबन्धितमे मानाभावेन शुक्तवच्छिन्न चैतन्यशुक्तित्वाद्यवच्छिन्न चैतन्ययोरिव शुक्तिरजतावच्छिन्नचैतन्ययोरैक्यस्यासंभवात् । व्यावहारिकशुनयवच्छिन्नत्वस्वरूप मेव चैतन्ये यदा दुरुपपादम्, तदा प्रातिमासिक जतावच्छिन्नत्वस्य का कथा एतेन शुत्तयव १०४६
च्छिन्नचैतन्य गता विद्यापरिणामत्वात् शुक्तिरजतयोरस्ति तादात्म्यं संसर्ग इत्यपारतम् । सोपि कथम्, अपारमार्थिकत्वादित्युक्तमेव । तादात्म्यं भेदघटिता भेद इत्युच्यते । तत्र भेदश्चैतन्यैक्या साधकः । असंभवी च समानाधिकरणस्थले धर्मिणि भेदः, नीलो घट इत्यादौ नीलत्वघटत्वयोरेव भिन्नत्वात् । अतो धर्मिण्यभेद एव । स चात्र न वास्तवः । अनिर्वचनीयश्च न शुक्तिसंबन्धार्ह इत्युक्तम् । तस्मात् स्वपक्षेपि रजतज्ञानस्य धर्मिविषयकत्वम संभवि । 1 अप्रयोजकञ्चेदमनुमानम्, भेदाग्रहादपि प्रवृत्तिसंभवात् । कचित् भेदाग्रहः प्रवर्तकः, वास्तवस्थले विशिष्टज्ञानं प्रवर्तकमिति कार्यकारणभावद्वयकल्पना पतिरिति चेत् — वैतुप्यं प्रति कचिदवहननं कारणम्, क्वचिनखविदलनमिति कथं द्वयकल्पनम् । अतो वस्तु कल्पनापेक्षया स्थितवस्त्वन्वयव्यतिरेकानुरोधेनानेककार्यकारणभावकल्पनं न दोपाय । अस्तु वा भेदाग्रहविशिष्टशुक्तिज्ञानविशिष्टरजतज्ञानं कारणमित्येक एव कार्यकारणभावः । यत्तु — रजत एव यदा नेदं रजतमिति प्रतीतिः, तदा तत्र प्रवृत्तिर्न दृष्टा । तत्रापि प्रवृत्त्यापत्तिः ; रजतभेदाग्रह सत्वात् । इदमर्थे रजते वस्तुतो रजतभेदासत्त्वेन तत्र रजतभेदग्रहस्यान्यथाख्यातिविद्वेषिणा स्वीकारायोगेन रजत मेदाग्रहस्य सत्त्वात् ; रजतज्ञा नेदमर्थज्ञानयोश्च सत्त्वादिति तन्न तद्विषयक रजतार्थिप्रवृत्तिः प्रति तद्विशेष्यकरजतभेदप्रकारकग्रहाभावः कारणम् । रजतधर्मिविशष्यक रजत भेदप्रकारकग्रहस्य चाप्रसिद्धत्वात् तदभावरूपकारणाप्रसिद्धयाऽत्र नापत्तिरिति । अथ रजते इंदं रजतमिति ज्ञानात् प्रवृत्तिस्थले भेदाग्रहः कथम् । रजत विशेष्यकरजतभेदामहाप्रसिद्धेरिति चेत् — अस्तु तत्र विशिष्टज्ञानस्य पृथगेव कारणत्वम् । अथवा भिन्नयोरपि रजतस्मृतिशुक्तिधर्मि प्रत्यक्षयोर्विषयतयो र्निरूप्यनिरूपकभावः स्वीक्रियते । तथाच रजतविषयतानिरूपितेदमर्थविषयताशालिज्ञानं कारणमित्यनुगमः । एवञ्च प्रकृतानुमानं पुरोवर्तिनिष्ठविषयतानिरूपित विषयतानिरूपकत्वमेव रजतज्ञाने साधयेदिति न दोषः । भिन्नज्ञानविषययोरपि असंसर्गाग्रहमात्रेण विशिष्टव्यवहारोऽपारमा सत्तासत्त्वविवेक-प्रसाधनम् ૧૦૪૭ र्थिको दृष्टः; यथा सौधस्याऽऽरामवृक्षस्य च विप्रकर्षेपि दूरत्वदोषात् तदग्रहे निरन्तरभानात् संसृष्टत्वव्यवहारः । स वस्तुतो भेदाग्रहमेव दर्शयति । अतो नान्यथाख्यात्यपेक्षा । सामग्रया तर्हि तत्र रजताभावे रजतप्रत्यक्ष कथमिति चेत् परिमल एव तत्र समाधिर्दर्शितः, प्रत्यक्षनिर्वाहाय लोकक्लप्तरजत सामग्री भिन्नरजतोत्पत्तितदृध्वंसप्रागभावादि कल्पनामपेक्ष्य रजतप्रत्यक्षमात्रस्य दोषघटित सामाग्री जन्यत्वकल्पनं युक्तमिति । वस्तुतो भामत्याम्, “रजतस्मृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो वित्रयतश्च भेदाग्रहात्” इति प्राभाकरपक्षस्यानूदितत्वात् विषयत इव ज्ञानस्वरूपयोरपि भेदाग्रहसत्त्वात् रजतस्मृतौ रजतप्रत्यक्षव्यवहार उपपन्नः । रजतचाक्षुषवानहमिति प्रतीतेरनिर्वचनीयवादिभिरन्यथोपपादनायोगात् । विस्तरोऽन्यत्र द्रष्टव्यः । तदयं सदसद्विवेकः शुक्तिरूपंधर्मि इदं रजतमिति शुक्तिविषयव्यवहारे इदमितिज्ञाने विषयः, रजतमिति ज्ञाने च शुक्तिरूपेणासत् रजतं विषयः । तदपि सदेवाssपणादौ । एवं घटोस्तीत्यत्र घटसत्त्वं विषयः ; घटो नास्तीत्यत्र च यथायथं मृदादिगतः घटत्वावस्थाविरुद्धावस्थाविशेषो विषयः । भूतले घटो नास्तीत्यत्र च घटाधिकरणतानियमकक्षण भिन्नक्षण संबन्ध एव भूतलनिष्ठो घटाभाव इत्युच्यते । क्षणस्य क्षणान्तराद्भेदश्च तत्तत्क्षणासाधारणधर्म एव कश्चिद्भाव्यः । घटः पटो नेत्यत्र पटभेद इव घटत्वादिरूपः । अतो भावातिरिक्तोऽभावोऽपि नास्ति । भावरूपेणाभावरूपेण वा प्रतीतश्चासौ सर्वत्र परमार्थिक एव भासते । एवं वस्तूनां परमार्थत्वेऽपि ज्ञानानां परमार्थविषयत्वेपि तत्तद्वस्तुषु भेदस्यासंसर्गस्य वा स्थितस्याग्रहात् विपरीतप्रवृत्त्या व्यवहारवैफल्यप्रयुक्तो ज्ञानेषु भ्रमप्रमाव्यवहारभेदः । वस्तुतो भ्रमस्थलेऽनेकत्र प्राभाकरपरिगृहीतामख्यातिं विना विशिष्टज्ञानरूपयथार्थख्यातिरपि सुवचा दृष्टश्रुतानुरोधादिति विशिष्टाद्वै तिमतमित्यन्यदेतत् । १०४८
" शतभूषणीकारस्तु सत्त्वासत्त्वसमुच्चये आर्हतमतसालक्षम्यं स्यादिति दोषमारोप्य, स्वादवक्तव्यमिति च सप्तम्यां तैरुक्तत्वाद निर्वाच्यत्वपक्षस्यापि तत्सालक्षण्यमस्तीति स्वयमेव स्वीकरोति । ‘असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण" इति सूत्रभाष्यादिविरुद्धं सत्त्वासत्त्वसमुच्चयासंभवमाह । ‘नासदासीत् नो सदासीत् तदानीम्’ इति श्रुत्या सदसदनिर्वचनीयमस्तीति मन्यते । तस्याः श्रुतेः सदसदनिर्वचनीयार्थकत्वे सदसदनिर्वचनीयं प्रलयकाले आसीत्, इदानीं तु निर्वचनीयमेवास्तीत्येव प्रतीयेत । एक्च जगतो मिथ्यात्वं न स्यात् । वास्तवञ्च जगत् मिथ्याभूतात् कथं जायेतेति तदापि सदसदनिर्वचनीया सिद्धिरेव । अतः स्थूलचेतनाचेतनयोस्तदानीमभावः, सूक्ष्म चेतन संश्लिष्टाविभक्ततमविशिवस्वासदित्येव तद्वाक्यार्थः । सदसदनिर्वचनीयमेव चेत् तदा, ‘सदेवासीत्’, ‘असद्रा इदमासीत्’ इति श्रुत्योः का गतिः । वस्तुतस्त्वद्वैतिनोऽपि सदसद्विलक्षणमित्यस्य ब्रह्म यत् सर्वदा सत् तद्भिन्नम्, यच्चालीकं तद्भिनं जगदित्येवार्थं ब्रुवत इति, तावन्मात्रे न काचिदनुपपत्तिः । प्रतीतिकालेऽपि जगद्वस्तुतो नास्तीत्येतत्तु अप्रामाणिकम् । शुक्तिरजतवदिति चेत् — अस्त्येव शुक्तिरपि रजतमपि तद्वत् जगतापि क्वचिद् भाव्यम् । शुक्तिरजततादात्म्यमेव तु अज्ञानकल्पितमनिर्वचनी । शुक्तिरजतमिति कथ्यत इति चेत्अप्रातिभासिकात् शुतयज्ञानात् प्रातिभासिकं न जायेत । अज्ञानमपि प्रातिभासिकमिति अद्वैततत्त्वशुद्धिमतमयुक्तम् ; मूलाज्ञानप्रभेदस्य तूलाज्ञानस्य प्रातिभासिकत्वायोगात् । प्रतिभाससमायुष्कत्वात् प्रातिभासिकस्य, शुक्तिरजतग्रहणकाले च नाहमिदं जानामीति अज्ञानप्रतिभासायोगात् प्रातिभासिकाज्ञानस्य तदा दुर्वचत्वात् । रजतमुत्पाद्य तस्य नष्टत्वे च कारणनाशात् रजतविलयप्रसंगात् । अतोऽप्रातिभासिकमेव तत् । अज्ञानस्य वस्तूत्पादकत्वाभावश्चान्यत्र व्युत्पादित इत्यास्तामेतत् । सिद्धेऽपि शुक्तिरजते न प्रपञ्चो मृषा भवेत् । अधिष्ठानस्वप्रकाशादज्ञान स्थिस्य संभवात् ॥ जीवैक्यभ-प्रसाधनम् असिद्धे शुक्तिरजते दृष्टान्तस्यापि हानितः । अनिर्वाच्यजगत्सिद्धेरभावः सुतरामिति ॥ अनुभवविपरीतं कल्पनागौरवार्त श्रुतिलवशकलेनाप्युज्झितं विस्तृणानाः । अभिमतिपद मिथ्या शुक्तिरूप्यादिसाह्यात् अखिलमपलपन्तो हन्त सन्तः कथं स्युः ॥ शुभमस्तु २००८ श्रीः