५८ अद्वितीयश्रुत्यर्थ-प्रसाधनम्

न यत्समश्चाभ्यधिकश्च दृश्यते निमित्तमन्यच्च न यो व्यपेक्षते । तमद्वितीयं चिदचिद्विशेषितं श्रितोऽस्मि लोकप्रभवं श्रियः प्रियम् ॥ " सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इति वाक्यं प्रलयकालपरिस्थितिप्रदर्शक मिति सर्वसंप्रतिपन्नम् । एवमिच्छन्त एवाद्वैतिनो वाक्यस्यास्य ब्रह्मातिरिक्त सर्वमिथ्यात्वपरतयाऽपि व्याख्याने व्याप्रियन्ते स्वाभिमतार्थस्थापनाभिनिवेशवैयग्र्येण । सर्व मिथ्यात्वपरत्वे च इदमग्र आसीदिति पदत्रय विना ‘सदेव सोम्यास्ति एकमेवाद्वितीयम्’ इति श्रुत्या भाव्यम् । इदमिति पदं तावदास्ताम् ; अग्र आसीदिति पदद्वयं पश्चाद् द्वितीयसत्तां ज्ञापयत् द्वितीयत्रैकालिकाभावरूपमिथ्यात्वपरिपन्थि । शाङ्करोपनिषद्धाप्ये च व्यक्तं विशिष्टाद्वैतिसंगत एवार्थः सदेवेति वाक्यस्य प्रदर्शितः “सदेवेत्येवशब्दोऽवधारणार्थः । तेन इदमित्युक्तं नामरूपचज्जगत् अग्रे व्यवच्छिद्यते । स्वकार्यपतितमन्यन्नास्तीति एकमेवेत्युच्यते । अद्वितीयमिति मृदो यथाऽन्यत् घटाद्याकारेण परिणामयितृ कुलालादि निमित्तकारणं दृष्टम्, तथा सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते” इति । अयमेवार्थः प्रकृत्यधिकरणशाङ्करेऽपि संक्षिप्योक्तः । एवंस्थिते शतभूषणी अस्मन्मते एकपदैवशब्दयोर्यद् वैयर्थ्यमुद्भावयति, तत् तदीयभाष्येऽपि तुल्यम् । तत्र परिहरणसरणिश्चात्राप्यविशिष्टा । श्रीभाष्ये च एकमित्यस्य, बहु स्यामिति बहुशब्दप्रत्यनीकत्वात् तस्य च नामरूपविभागवत्परत्वात् एकपदं नामरूपविभाग रहितमित्यर्थकमित्युक्तम् । एवञ्च यदेवेत्येवकारः तुच्छव्यवच्छेदकः, एकमिति पदं नामरूपविभागावस्थापूर्वमान्येकत्वावस्थाविशिष्टपरम् तत्रैवकारो नामरूपावस्थाव्यवच्छेदकः, अद्वितीयपदश्च निमित्तनिषेधकमिति सर्वसार्थक्यम् । अन्यच्च तार्किकखण्डन रूपं पदकृत्यमत्रावसेयम् । ते खल्व । अद्वितीय श्रुत्यर्थ-प्रसाधनम् भावाज्जगद्भवतीति बौद्धपक्षं प्रतिक्षिपन्तः कार्यस्य जगतः कारणमपि सदेव, न त्वम्तु तच्च सत् नैकम्, अनेकपरमाण्वात्मकत्वात् नापि तावन्मात्रमय आसीत्, किन्तु निमित्तकारणभूतेश्वरात्मकद्वितीयविशिष्टश्वेत्याहुः । तत्र सदेवेति तदुक्तमभ्युगम्य तस्योपादानस्य परमाणुरूपतयाऽनेकत्वं तदुक्तं प्रतिषिध्यते एकमेवेति । अथोपादानातिरिक्तनिमित्तसद्भावो निरस्यते अद्वितीयमिति । अतो न किञ्चिदिह व्यर्थम् । अद्वैतमतेऽपि ‘जीव ईशो विशुद्धा चित् तथा जीवेशयोभिदा अविद्या तच्चितोर्योग’ इत्येषां षण्णामनादीनां प्रलये संमतत्वात् जीवकर्मणामपि प्रलये समन्तव्यत्वात् वाक्यस्य चास्य प्रलयपरत्वात् न ब्रह्मातिरिक्त सर्व निषेधपरत्वं युक्तम् । ब्रह्मातिरिक्त सर्वमिथ्यात्वप्रापकवाक्यानि स्वन्यान्येव तैः प्रदर्शनीयानीत्यार्जवगम्योऽद्वैतिनां पन्थाः । शतभूषणी तु एकपदैवपदयोरस्मन्मते वैयर्थ्यमापादयन्ती स्वमते कियत् सार्थक्यं मन्यत इति विचार्यम् । यथा वृक्षस्य स्वगतपत्रपुष्पादिकृतमेदः, वृक्षान्तरकृतभेदः, शिलादिकृतभेद इति स्वगतभेद सजातीय भेदविजातीयमेदाः, तथा सतोऽपि प्राप्ताः एकशब्देवशब्दाद्वितीयशब्दः क्रमेण क्षिप्यन्त इति वदति । अथ च ‘श्रुतानां त्रयाणां पदानां सार्थक्यार्थ गोबलीवर्दन्याये-’ नैवमुक्त सत्यप्येकनैव पदेन त्रिविधभेदराहित्यरूपार्थविवक्षासंभवे । आम्नायस्य गतिं वक्तुं प्रभवामः; नाम्नायं पर्यनुयोक्तम्’ इति लिखन्ती स्वपक्षे पदवैयर्थ्य प्रतिपद्यते । अत्रोक्तार्थेऽपि किञ्चित् विमृश्यमस्ति । यदि एकपदं स्वगत मेदराहित्यं सच्छब्दवाच्यंस्य बोधयति, तदुपरितन एवकारः कथं सजातीय भेदराहित्यं बोधयेत् । एवकारो हि यच्छन्दसमभिव्याहृतो भवति, तच्छब्दान्यरूपत्वव्यवच्छेदमेव गमयेत् । अतः सदेवेत्येवकारेण विजीतीयभेदस्य, एकमेवेति सजातीय भेदस्य च व्यवच्छेदः स्वरसः । परिशेषात्तु अद्वितीयपदं स्वगतभेदव्यवच्छेदकमिति युक्तमित्यद्वैत मतपरिण्कारिणः । अस्तु तावत् कथमपि । त इमे स्वगतभेदसजातीय भेद विजातीयभेदाः सतः प्रसिद्धा अप्रसिद्धा बा । आद्ये तन्निषेधो न संभवी । अन्त्येऽपि प्रतियोग्यप्रसिद्धया निषेधायोग १०३८

$ एव । एवं स्थिते अद्वितीय मित्यस्य स्वसजातीयद्वितीय र हितमित्यर्थवर्णनं दूषयत्या शतभूषण्या यल्लिखितम्, ‘निपिध्यमानमिदं द्वितीयं कारणभूतमकारणभूतं वा । आद्यं सदतिरिक्तं प्रमाणतोऽसिद्धम् ; अन्त्यं सृष्टेः प्रागसिद्धम्’ इनि तत् स्वपक्षेऽप्यविशिष्टमित्युपेक्ष्यम्, सजातीयादिभेदाप्रसिद्धेरनुपदं दर्शितत्वात् । न चास्मन्मतेऽप्रसिद्धिः खनिष्टकारणत्वादिविवक्षितधर्मवत्त्वस्वप्रतियोगिक मेदवत्त्वोभयाभाकयाप्यवस्तुत्वकत्वमद्वितीयत्वमितिरीत्या परिष्करणात् । यत्रयत्र वस्तुत्वं चिति अचिति ईश्वरे च तत्र सर्वत्र स्वगतधर्मविशेषस्य वा स्वभेदस्य वाऽभावेनोभयाभावसत्त्वात् । ईदृशार्थविवक्षया अद्वितीयपदप्रयोगः सुप्रसिद्ध इति च “यथा चोलनृपः सम्राट् अद्वितीयोऽस्ति भूतले” इति श्रीभगवद्यामुनमुनिवचनमेव दर्शयति । स्वभिन्नत्वयापकाभावप्रतियोगिकारणस्वादिधर्मकत्वं वा भवत्वद्वितीयत्वम् । भवन्मते तु भेदः सर्वथैवाप्रसिद्धः । अपरमार्थभूताः सजातीयविजातीयखगतभेदाः सन्ति, परमार्थभूतास्तु नेति चेत् — अपरमार्थभूतं वा निर्विशेषसजातीयं किमस्ति । यथाकथञ्चित् साजात्यं तु विजातीयस्यापि स्यात् । सत्पदेनाविद्याशबलं गृह्यत इति चेत् • तदापि तत्सजातीयं किमन्यत् । तद्विजातीयस्य निर्विशेषस्य सत्त्वात् कथं विजातीयराहित्यम् । अविद्याशबले च सार्वश्य सर्वशक्तित्वादिधर्माणां सत्त्वात् कथं स्वगतभेदाभावः । अतः खपक्षदोषमनवेक्ष्य निर्दोषपक्षे दोषोद्भावनं शतभूषण्या क्रियते । अद्वितीयपदे तत्पुरुषो बहुव्रीहिर्वेति विकल्प्य, ‘स्वपक्षे तत्पुरुषे द्वितीयभिन्नमित्यर्थः । वस्तुषु विद्यमानेषु परमात्मा द्वितीयो न भवति, किं तु प्रथमपरिगणनीय इति तदाशयः; बहुव्रीहौ, द्वितीयरहितं स्वसमानंद्वितीयरहितमित्यर्थः ’ इत्यर्थद्वयमेव स्वीकुर्वत्या शतदूषण्या समासद्वयेऽपि अद्वैते सर्वविधा संभवः प्रतिपादितः । तत्र शतभूषणी स्वपूर्वाचार्यसंमतमर्थं परं समर्थयितुमनिच्छन्ती प्रायः सर्वान् कल्पान् स्वपक्षे समर्थयितुमुद्यम्य तेषां कल्पानां विशिष्टाद्वैते असंभवञ्चाविष्कारोति । शतदूषण्या स्वपक्षे समतत्वेन प्रदर्शित अद्वितीयश्रुत्यर्थ-प्रसाधनम् १०३९ मर्थं विहायार्थान्तराणामसंभवोपपादनं वृथा विस्तरः । अद्वैतपक्ष इवात्र पक्षेपि यथाकथञ्चित् संभवः सर्वस्य स्यादेव । एतद्विषयविस्तरस्तु नास्माकमिष्टः तत्कृतसमर्थनानौचित्ये तु दिङ्मात्रं प्रदर्श्यते ‘द्वितीय नेत्युक्तौ स्वतन्त्रद्वितीया प्रसिद्धया अस्वतन्त्रद्वितीयभूतचिदचिद्भेद एव ब्रह्मणि वक्तव्यः । न चास्वतन्त्र द्वितीपदेन गृह्येत’ इत्युक्तमयुक्तम् ; ‘असिद्वितीयोऽनुचचार पाण्डवः’ इति अस्वतन्त्रेऽपि द्वितीयपदप्रयोगात् । स्वतन्त्रस्य प्रथमं परिगणनेनास्वतन्त्रस्य द्वितीयतया परिगणनस्य न्याय्यत्वात् । अत एव द्रव्यगुणकर्मेति पदार्थविभागे द्रव्यस्य प्राथम्यम् । न चाद्वितीयमित्युक्तौ तृतीयमिति स्यादिति वाच्यम् — यत् द्वितीयमेव न भवति तस्य तृतीयत्वशङ्काप्रसत्तयभावात् । प्रथमत्वतृतीयत्वादिषु धर्मेषु प्रथमत्वस्य प्रथमोपस्थितस्य त्यागेन, प्रथममन्यत् किञ्चिदनिर्धाय च तृतीयत्वस्यात्र कल्पनायोगात् । स्वभिन्नस्य सर्वस्य द्वितीयत्वेन क्रोडीकृततया तन्नित्वस्य प्रथम एव भावाच्च । उत्कर्षापकर्षगणनया संख्यानमात्रविवक्षायां तु काममीश्वरस्तृतीयोऽपि भवेत्; ’ भोक्ता भोग्यं प्रेरितारञ्च मत्वे ‘ति तृतीयतया निर्देशात् । तावता इतरस्वातन्त्र्यं वा ब्रह्मणो निमित्तोपादानत्वसम ( वेशायोगो वा कथम् । अपृथक्सिद्धिरस्मत्कुलधनमिति • भवदुक्तमत्यन्तमिष्टम् । अत एव धन्या वयम् । परंतु भवद्भिरस्य धनस्यापहरणेऽभिमतेऽपि स्वमत-भङ्गभियैवापस्त्रियते । वस्तुतोऽन्यवेदान्तिभिरप्यंगीकृतोऽयं शरीरात्मभाव इति नयप्रकाशिकायामदर्शि, यथा, “किञ्चातिचिरन्तनयज्ञेश्वरसूनुशङ्करकृते वेदान्तसूत्रोपन्यासे, तादात्म्यनिर्देशः शरीरात्मभावनिबन्धन इत्युक्तत्वाच्चास्मदीयमार्गस्यैव साम्प्रदायिकत्वम् । तथोक्तम्, आकाशस्तलिङ्गादित्यत्र, ‘आकाशशरीरत्वाच्चाकाशशब्देन ब्रह्माभिधीयते । तथा, शरीरशरीणोश्चाभेदेन व्यपदेशो दृश्यते यथा देवदत्तो बुद्धिमानिति” इति । तार्किक मीमांसकसमादृतश्चायं विषय इति नयधुमणिभूमिकायामस्माभिरुपपादितमपि द्रष्टव्यम् । अद्वैतमते कल्पितं द्वितीयमादाय तद्भेदोऽद्वितीयत्वं ब्रह्मण्युच्यत इति लिख्यते । साजात्याभावात् अस्वतन्त्रं यदि द्वितीयपदेन न ग्राम्, तर्हि१०४० परमार्थ भूषणे 1 परमार्थसाजात्याभावात् कल्पितं परं कथं गृह्येत । अद्वितीयमित्यस्य द्वितीयसदृशमित्यर्थे तृतीयत्वं यद्यस्मन्मते आपतति, तर्हि भवतेऽप्यापतेदेव । विवक्षितासिद्धिस्तु भवतां विशेषः । ‘द्वितीयविरुद्धमद्वितीयमित्यर्थोऽपि युज्यते अविद्याविरुद्धत्वात् ’ इत्याह ब्रह्मविषयकवृत्तेः किलाविद्यया विरोधः ; न तु ब्रह्मणः । अतः सवितृसंतमसन्यायेन विरोधप्रदर्शनमयुक्तम् । अस्मन्मतेऽपि द्वितीयविरुद्धत्वमस्ति असुरप्रकृतिभिर्द्वितीयैरनन्तकल्याणगुणगणपरमात्मविरोधस्य क्रियमाणत्वात् । ’ द्वितीयाभावोऽद्वितीयमित्यर्थोपि युक्तः ब्रह्मणः प्रपञ्चाभावरूपत्वात् ’ इत्याह । एवं तर्हि अभावस्य खप्रकाशत्वात् द्वितीयं नैव प्रतीयेतेति दोषं तु न वारयति । एवं पूर्वेषु पक्षेष्वपि भाव्यम् । ‘यथा भावाभावरूपतया विरोधः, तथा वध्यघातुकभावरूपविरोधोप्यस्ति; अखण्डाकारवृत्तिव्याप्यब्रह्मवध्यत्वात् द्वितीयस्य’ इत्याह । एतदपेक्षया ब्रह्मणोऽविद्यातिरोहितत्वात्, तिरोधानस्य च प्रकाशनाशस्वरूपत्वात् ब्रह्मणश्च प्रकाशानतिरिक्तत्वात् तद्धातकत्वमविद्यायामिति वध्यघातकभाव एवाद्वैतमते श्लिष्टः स्यात् । अखण्डाकारवृत्तिस्थले तु प्राप्ताप्राप्तविवेकेन वृत्तेरेव घातकत्वम् ; न ब्रह्मणः । ’ अभावरूपत्वञ्च ब्रह्मणः स्वव्यतिरेकेणेतराभावात् ’ इत्याहतदयुक्तम् — स्वव्यतिरेकेणेतराभावे प्रतियोग्यप्रसिद्धया अभावत्वासिद्धिरेवेति । यत्तु धर्मभूतज्ञानं क्रयं घटादिष्विव परमात्मनि जीवात्मनि च संयुक्तमिति सर्वदा तत्तद्भानमपि स्यादित्यापादानम्तन्न संसरतां जीवानां धर्मभूतज्ञानमिन्द्रियादिसाधनान्तर संनिकर्षाधीनसंयोगबलादेव वस्तुग्राहकमिति स्वीकृतत्वात् । यतु ‘श्रुतेस्तु शब्दमूलत्वात् ’ इति सूत्रोक्तयुक्तया ब्रह्मणो विचित्रशक्ति योगात् निरवयवत्वमकात्स्न्येनपरिणामश्च यथा, तथैवाविद्याया अपि विचित्रशक्तियोगात् स्वयम्प्रभस्वविरोधिब्रह्माच्छादनादिकमपीति — तन्न — ब्रह्मविषय इवाविद्याविषये श्रुत्यदर्शनात् । मूलप्रकृरूपाविद्यायाश्च तत्रतत्रोक्तावपि निरंशब्रह्मणि स्वयम्प्रकाशे गृहमाण एवाविद्याबलादनाविद्यक एवांशः कश्चिदगृहयमाणोऽस्तीत्यविद्यामहिमप्रदर्शिका श्रुतिः कुत्राद्धि । अविद्या यदि ग्रह वि अद्वितीयश्रुत्यर्थ-प्रसाधनम् १०४१६ रोधिनी, मन प्रकाशेन । यद्यविरोधिनी, तर्हि नाच्छादिका । यद्यविद्या स्वयंमंशान् कांश्चित् कल्पयित्वा तदंशमात्राच्छादिका भवति तावता कृत्स्नब्रह्मनकाशस्तावन्न व्याहन्यत इति न ब्रह्माच्छादकत्वम् । अतो न युक्तमेतत् । अपिच कृत्स्नप्रसत्तयविकरणे शांकरभाष्ये ब्रह्मणः शब्दमूलत्वेन सर्वोपपत्तिं सूत्रो कामाक्षिप्य तत्रारुचिमूढा खचमविद्या कल्पतरूपभेदाभ्युपगमान्न दोष इत्युक्तम् । एवं शब्दमूलत्वोपपत्तिं परित्यजत्यद्वैतमते अविद्याया महिमा शब्दमूल इत्यशेष इति कथमुच्येतेति स्वयमद्वैतिभिर्विभाव्यम् । वस्तुतस्तु अविद्यायामस्यां न प्रमाणगन्धोपीति प्रागेव प्रत्यपादि । किमनया तत्पुरुषकृत्वाचिन्तया । बहुव्रीहिंस्तु सर्वाभिमतः । तत्र शतभूषणी वदति, चिदचिद्विशिष्टह्मण एवं कारणत्वात् कर्मणः सहकारिण चानिषेध्यत्वात् द्वितीयपदेन निषेध्यमुपस्थापनीयं चिदचिदतिरिक्तं स्वतन्त्रमस्वतन्त्रं वा न किञ्चित् प्रसिद्धमस्ति, यन्निषिध्येतेति —तत्रोपक्रमदर्शितं शाङ्करोपनिषद्भाष्यमेव पर्याप्त प्रतिवक्ष्यति । तन्मते वा किं द्वितीयं प्रसिद्धं प्रतिषिध्यते । अद्वितीयमित्यनेन विजातीयनिषेध इति ते मन्यन्ते । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्तौ द्वितीयपदेन महिषग्रहणं कः कुर्यात् । अतो द्वितीयप दस्य विजातीयपरत्वमस्वरसन् । न च न्निषेध्दुं शक्यम् विजातीयाया अविद्यायाः स्वीकृतत्वात् । तदुक्तमाचार्यै रेव “मायोपास्त्रिशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चः येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे ।” इति । न चाविद्यादिस्वीकृतातिरिक्तं प्रसिद्धम्, यदत्राद्वितीयमिति निषिध्येत । द्वितीय परमार्थतयाऽभाव उच्यत इति चेत्-द्वितीयस्य स्वतन्त्रतयैवाभावः किं नोच्यत । अस्तीति प्रतीतिकाले परमार्थत्वेनैव प्रतीतत्वात् तद्विरोधात् परमार्थत्वेनाभावो दुर्वचश्च । स्वतन्त्रतया द्वितीयाभावश्च स्वरसप्रतीतः । वस्तुतो निमित्त निषेध उभयसंप्रतिपन्न इति चात्रार्षाचामभिमतमर्थान्तरवर्णनमयुक्तमित्यलं बहुना ॥ 131 १०४२

तुल्यं नेत्यद्वितीयश्रुतिसरसमितं यामुनार्योपदिष्टम् दृष्ट्वा संकल्पवाक्यं यतिनृपतिरुपादानतुल्यं निमित्तञ् । व्याचष्टैतन्निषेध्यम्; न सम इति मिते चाधिकः स्यात् कुतोऽन्यः वाक्यार्थानाम बाधादनुगुणगतितश्चाद्वितीयोऽयमर्थः ॥ शुभमस्तु श्रीः