५७ निर्विशेषनित्यत्व-भङ्ग-प्रसाधनम्

निजेच्छा सिद्धनित्यत्वभोक्तभोग्यनियामकः । नित्यः श्रेष्ठपुमर्थश्च पुरुषः स पुनातु नः ॥ परमानन्दप्रेप्सयैव स्वरसप्रवृत्तया मुमुक्षवः प्रवर्तन्त इति आनन्दरूपं प्राप्यमागमनिष्ठैरास्थितमिति तदानन्दत्वं ब्रह्मण्यद्वैतिभिदुरुपपादमित्यधस्तादुपन्यस्तम् । स चानन्द इग्यमाणो नित्य एवेष्यते इति ब्रह्मणि नित्यत्वमप्यद्वैतिनोप्याशयानाः नित्यानित्यवस्तुविवेकमध्यात्मशास्त्रारम्भेऽधिकारिविशेषणमभ्यधुः तच्च नित्यत्वं ब्रह्ममात्रनिष्ठमिति ते निरचैषुः । किं तत् तन्मात्रवृत्ति नित्यपदप्रवृत्तिनिमित्तमिति अत्र वादे विचार्यते । तत्र शतदूषणीविकल्पितान् कल्पान् प्रायः सुस्वीकरान् मन्यते शतभूषणी । तदत्र परीक्ष्यम् निर्विशेषनित्यत्व-भङ्ग प्रसाधनम् १०३१ ब्रह्मासाधारण नित्यत्वं यदि सर्वकालसत्तारूपम्, तर्हि अविद्यायामतिव्याप्तिरित्यत्र यदुक्तम् जीवन्मुक्तानामविद्यानाशेऽपि कालादीनां सत्त्वात् अविद्यायां सर्वकालसत्ता नास्तीति तेन जीवन्मुक्त्त्यनङ्गीकारे लक्षणमिदमुपेक्ष्यमिति सिद्धम् । जीवन्मुक्तिपक्षेऽपि आवरणशक्तिविगमेऽपि विक्षेपशक्तिरस्तीति अविद्यार्लेशसद्भावस्य तदेष्टत्वात् तत्रांतिव्याप्तिदुर्वारा । ब्रह्मव्यतिरिक्तं मिथ्येति सामान्यतोज्ञाने सति अविद्यामात्रनाशस्तदितरपरिशेषश्च दुर्वच इति प्रागेवोतम् । जीवन्मुक्तयनुपपत्तिश्च निरूपितैव । असंभवि च सर्वकालसत्त्वं ब्रह्मणि; परमार्थे अपरमार्थसंबन्धस्यायोगात् । सर्वकालसत्त्वकल्पनाविषयत्वं तु नित्यपदप्रवृत्तिनिमित्ततया न लोके क्लृप्तमिति न तथा निर्वचनं युक्तम् । एवं सर्वकालसता नाम सर्वकालसंबन्ध इत्युक्तमपास्तम् । सद्रूपत्वं नित्यत्वमिति च यत् सत् तत् सर्वदा सदिति नियमानुसारेणोच्यते, नियमस्यैव लोकानुभवेन भनत्वात् घटादावपि सत्त्वमस्तीति न तत् नित्यत्वम् । अथ कालावच्छेदनिवृत्तिरूपं नित्यत्वं कालेऽतिव्याप्तमित्यत्र यदुक्तम्कालः खण्डकालमहाकालरूपेण भिन्नः । व्याप्यकालश्च व्यापककालावच्छिन्नः; यथा पूर्वेद्युरमावास्या, अद्य पञ्चमघटिकायामित्येवमिति — तन्न -अन्ततो यः कालस्तत्र कालानवच्छिन्नो भवति, तत्रातिव्याप्तेरक्षतेः । किञ्च वस्तुनः कालावच्छिन्नत्वं नाम कालिक विशेषणता विशेषसंबन्धेन कालविशिष्टत्वम् । तच्च वस्त्वनधिकरणकालमादाय न भवितुमर्हति । एवञ्च व्याप्यकालस्य व्यापककालावच्छिन्नत्वं तादृश दुर्वचम् । किंतु व्यापककालत्वेनाभिमतो यावान् खण्डकालसमुदायः तद्धकत्वरूपं तु व्यापककालावच्छिन्नत्वं स्यात् । घटकत्वमात्रेण व्यापककालावच्छिन्नत्वेष्टौ च क्षणिकोऽपि पदार्थः वत्सरकालावच्छिन्नतया व्यवह्रियेत । खण्डकालस्य स्थूलकालस्य च व्याप्यव्यापकभाव एव संबन्धः इति खण्डकालस्य व्याप्यत्वमेव ; व्यापककालस्य तु व्याप्यकालावच्छिन्नत्वं स्यात्, व्याप्यकालान्तरासंबन्धस्य किश्चित्कालवृत्तिघटादिवस्तुन्यभावविवक्षायाम् । यत्तु ‘न सोस्ति प्रत्ययो लोके यत्र कालो न भासते’ इति न्यायकरूपनम्, १०३२

तदसत् –प्रत्यक्षस्य कालविषयकत्वनियमेऽपि अनुमित्यादौ तदनियमात् । नीलो घट इति शब्दजन्यबोधस्य कालाविषयकत्वाच्च । खमखण्डाकारवृत्ते मातविषयिण्याः कालभा सकत्वाभावादप्यः न्यायोऽसिद्धः । , कालपरिच्छिन्नत्वं नाम जन्यज्ञानविषयप्रतिनियतखण्ड कालावच्छिन्नक्रिया संबन्धित्वमिति निर्वचनमप्यनुपपन्नम् ; परमाण्वादिषु तार्किकैः कालपरिच्छिअस्वव्यवहारस्याकरणात् उक्तलक्षणस्य तत्र सत्त्वादतिव्याप्तेः । क्रियासामान्यस्य खण्ड कालावच्छिन्नत्वात् जन्यज्ञानविषयत्वस्यापि यथाविवक्ष सत्त्वात् सर्वमन्यावर्तकम् । क्रिया संबन्धित्वमेवालम् । क्रियायां कालावच्छिन्नत्वं यादृशं विवक्षितम् तादृशस्य वस्तुन्येव साक्षात् सुवचतया कियाघटनमयुक्तञ्च । ‘सदेव सोम्येदमग्र आसीत्’ इति सतो ब्रह्मणोऽपि कालपरिच्छिन्नत्वं स्यात् । कारणवाक्यत्वात् तस्य कारणस्य च सविशेषत्वात् परिच्छिन्नत्वमिष्टमेवेति चेत् — तत्र कार्यावस्थापूर्वभाव्यवस्था विशिष्टब्रह्मणि अवस्थागतं कालपरिच्छिन्नत्वमुपचर्यत इति तु स्यात् तद्विहाय शुद्धब्रह्मणि जगत्कारणं ब्रह्म अभ्यस्तमिति तस्यानित्यत्वमिति यदुच्यते, तदनुपपन्नम् ; कार्यकालेऽपि सत्कार्यवादिभिः कारणसद्भावस्येष्टत्वेन पूर्वकाल । रिच्छिन्नत्वरूपानित्यत्वस्य कारणभूतब्रह्मव्यक्तौ दुर्वचत्वात् । व्याप्यकालस्य व्यापकखण्ड कालसमुदायावच्छिन्नत्यं न भवतीति चोक्तमेव । समुदायघटकत्वं तु स्यात् ; न तत् कालावच्छिन्नत्वरूपम् । कालावच्छिन्नत्वमित्यस्य खण्डकाल समुदाय संबन्धित्वमिति वा, कालिकसंबन्धेन कालविशिष्टत्वमिति वा, कालत्रह्मवादेन कालात्मत्वमिति वाऽर्थस्वीकारे ब्रह्मणोऽपि कालपरिच्छेदवत्त्वात् कालपरिच्छेदनिवृत्तिरूपं नित्यत्वं न स्यादेव । अतः पूर्वोत्तर किञ्चित्काला संबन्धित्वविशिष्टकालसंबन्ध एव कालपरिच्छेद इति वक्तव्यम् । स चाविद्यांशेऽप्यसंभवीति तन्नित्यत्वापत्तिरिति प्रागेवोक्तम् । यतु नित्यानित्यवस्तुविवेकस्य इहामुत्रफलभोगविरागहेतुतयैवापेक्षितत्वात् अनुप्रसोम्यानां कालाकाशादीनां शाखारम्भकाले नित्यत्वज्ञानेऽपि न क्षतिरिति निर्विशेषनित्यत्व-भङ्ग-प्रसाधनम् १०३३ तत्रोच्यते अनित्यत्वनिणय ऐहिकफलादावावश्यको यद्यपि तदा, नित्यत्वनिर्णयस्तु कापि स्वातिरिक्ते स्वस्मिन्नपि वा नापेक्षितः । फलानुबुभूषोः स्वस्थ, फलस्य च नित्यत्वं यदि स्यात्, तर्हि क्षुद्रफलेषु न प्रवर्तनीयमित्येतावत एव तदाऽध्यवसितत्वात् । अस्तु वा कालादीनां तदा नित्यत्वज्ञानम्, अथापि शास्त्रार्थनिर्णयानन्तरं ब्रह्ममात्रे नित्यत्वं यन्निष्कृष्यते तद्दुर्वचत्वस्योदानीमुपपादनात् । नित्यानित्यवस्तुविवेकस्य भवत्संमतस्यादावुल्लेखश्च नित्यपुरुषार्थलिप्सुभिर्नित्यत्वस्य ब्रह्मणीष्टत्वात् तदभावे इष्टापत्तिर्न कर्तुं शक्येति प्रदर्शनाय । यद्यस्माभिरिव युष्माभिरपि ब्रह्मासाधारण्यं नित्यत्वस्य नेष्यते, तदा नैवम्भूतं दूषणमुद्भाव्येत । न चैवम् । किञ्चाविद्यानिवृत्तौ पञ्चमप्रकारत्वादिना भवदभिमतायां कालावच्छिन्नत्वाभावादतिव्याप्तिः, तस्यास्तथात्वञ्च सर्वस्थापि वाधिततया कालस्य सद्भावासंभवादेव। तर्हि कथमविद्यानिवृत्तिर्ज्ञायेत, आद्यक्षण संबन्धरूपोत्पत्तेर्दुर्वचत्वादिति चेत् मा जायताम् । किं तेन । अनिवृत्तौ अविद्यायामेवातिव्याप्तेः । एतेन ध्वंसरहितत्वं नित्यत्वमिति निर्वचनमपि निरस्तम् । अत्र ‘पञ्चमप्रकारत्वात् नित्यत्वलक्षणलक्षितत्वान्न दोषः’ इति लेखनमसंगतम्, नित्यत्वलक्षणलक्षितत्वादेव ब्रह्मलक्षणा तिव्याप्तेरुच्यमानत्वात् । यदपि — अवाधितत्वरूपं नित्यत्वमपि ब्रह्मणि सुवचम् । न च शुक्तिसत्यरजतादिष्वतिप्रसंगः, तेषां ब्रह्मसाक्षात्कार बाध्यत्वात् । अतो ब्रह्मसाक्षात्कारानिवत्वं नित्यत्वमिति –तदपि न –किं ब्रह्मसाक्षात्कारानिव त्र्त्यत्वरूपं विशिष्टं नित्यपदप्रवृत्तिनिमित्तम्, उता निवर्त्यत्वमात्रम् । नाद्यः, ब्रह्मतत्साक्षात्कारादिविषयकज्ञानरहितानां प्रजानां नित्यशब्दव्युत्पत्त्यलाभप्रसंगात् । लोके व्युत्पत्त्यन्तरस्वीकारे चानेकार्थकल्पनानौचित्यात् प्रकृतार्थासिद्धेः । नान्त्यः, लोके शुक्तिरजतमेव निवर्त्यम्, सत्यरजतं त्वनिवर्त्यमिति विवेकपूर्वकव्यवहारे सत्यरजतं नित्यमित्यप्रयोगात् । सर्वस्य प्रपञ्चस्य सत्यत्वमास्थितवजिरनिवर्त्यत्वस्य सुनिश्चिततया तत्र नित्यशब्दप्रयोग्रापत्तेः । अनिवर्त्येषु वस्तुषु नित्यानित्यरूपद्वैविध्यस्य लोकसंप्रतिपन्न 130 १०३४

त्वेन अनिवर्त्यत्वरूप सामान्यस्य नित्यशब्दार्थतया व्युत्पत्त्यसंभवादित्यस्य शतदूषणीतः सुगमत्वात् । अतः सत्यमिति प्रयोक्तव्ये गित्यमिति विपर्यास एव कृतः स्यात् । यदपि निर्विकारत्वमपि नित्यत्वं स्यात् । विकारः कार्यात्मना परिणाम इति — तदपि न भामतीमते अविद्यायाः परिणामित्वाभावात् कालस्य परिणामिताया भवद्भिरस्वीकृतत्वाच्च तत्रतत्रातिव्याप्तेः । यथाकथञ्चिदागन्तुक किञ्चित्संबन्धमात्रेण सविकारत्वे च ब्रह्मणोपि कालसंबन्ध कार्यसंबन्धादिशालित्वादनित्यत्वापत्तिः । तादृशसंवन्धरहितस्य कस्यचित् पदार्थस्य लोकेऽनुपलम्भात् नित्यशब्दव्युत्पत्तिग्रहणमशक्यश्च । आगन्तुकानेक विकारशालिनामात्मपरमाण्वादीनां नित्यत्वस्य नैयायिकादिसमततया च नित्यशब्दस्यान्याशार्थकत्वमवसीयते । " अविकाराय शुद्धाय नित्याय परमात्मने" इति नित्याविकारपदयोः सहप्रयोगाच्च नित्यपदं न निर्विकारार्थकभू । एवमुभयावधिराहित्यरूप नित्यत्वस्यापि परिणामपरिणामिभावसमाप्ति रूपत्वांगीकारात् भामतीमते अविद्यादावतिव्याप्तिरेव । यत्तु क्रोधकलुषितस्य कुत्सितमतिमर्यादं वचनम्, “कथं शतदूषणीब्रह्मण्यपचारिकत्वमेव (कमेव ?) नित्यत्वं स्यात्, अनित्यत्वं वा (?) स्यादिति न जिहेत्यपि वक्तुम्" इति तत्र, सर्वत्रेव वाक्याशुद्धिस्तावदेकत आस्ताम् । एवं कोलाहलमात्रेण न ग्रन्थः खण्डितो भवति । लोकव्युत्पत्तिमनतिलंध्य नित्यशब्दार्थमुपवर्ण्य तस्य ब्रह्ममात्रे यावन्न समन्वयः क्रियते, तावत् तस्य कथं ब्रह्मासाधारण्यम् । आकाशादेरौपचारिकं नित्यत्वम्, त्रह्मणि तु मुख्यमिति सूत्रकारः सत्यमाह । भवन्मते तु तत् दुरुपपादमेव । जगत्कारणत्वेन प्राग् व्यपदिष्टं खलु ब्रह्म नित्यमिति सूत्रकृदाह । भवन्मते जगत्कारणं ब्रह्म सविशेषं मिथ्याभूतम् । उक्तश्च भवतैवात्र, “जगत्कारणस्य ब्रह्मणोऽपि शुद्धब्रह्मण्यध्यासादनित्यत्वमेव " ( 264 ) इति । यत्तु शुद्धं ब्रह्म, तस्य निर्विशेषत्वात् नित्यत्वनिर्वचनं किमपि तत् स्पष्टं न प्रभवति । अत्राधितत्वादिरूपं निर्विशेषनित्यत्व-भङ्ग-प्रसाधनम् १०३५ नित्यत्वं लोकव्युत्पत्त्यतीतमिति च प्रागुक्तम् । एवञ्च नित्यपदेन किं मुख्यतया ग्राह्यमिति भवतैव विमृश्यताम् । नित्यपदस्य शुद्धब्रह्मण्यौपचारिकत्व मपि सर्वस्य शब्दस्य तत्रौपचारिकत्ववादिभिर्भवद्भिरनिषेध्यमेव । मुख्यप्रयोगस्थलमेव तु किञ्चित् प्रदर्शनीयम्; अन्यथा औपचारिक प्रयोगस्याप्यप्रसक्तेः । एवमसंबद्धवादिनां व्याहारविचारे विदुषां ह्रीर्यद्यपि युक्तैव-लोकक्षोभस्य भवादृशकृतस्त्रासयत्वात् पुनरखिलक्षेम का मैराप्ततमैः परमार्थः पदेपदे आविष्करणीयो भवतीत्यलमतिवादप्रत्युत्तरणविस्तरेण । संविन्नित्यत्वानुमानादिकं शमितं प्रागेव । नित्यत्वनिरुक्तिश्चेह निराकार । अप्रध्वंसित्वरूपा निखिलबुधमता नित्यता ब्रह्मणीष्टा सर्वध्वंसेष्वपि स्यादथ यदि त इमे द्रव्यनिष्ठा अवस्थाः । स्यादेवाद्वैत-भङ्गो विविधविकृतिमद्रव्यमत्या तदास्ताम् श्रुत्या नित्येष्वनेकेष्वविशयमुदितप्वेष पक्षः कथं स्यात् ॥ नित्यानित्यविवेकश्च नित्यस्वाभीष्ट लिप्सया । प्रवाह नित्यस्वाभीष्ट लिप्सयाऽप्येष इष्यते ॥ तस्मादध्वंसतारूपनित्यत्वस्यानपेक्षणात् । द्रव्ये ध्वंसाप्रसक्तेश्च नैतन्निर्वचनं वरम् ॥ नित्यः कश्चित् पुमर्थो यदि भवति मया लभ्य इत्याशयैव श्रत्यन्तार्थावबोधे प्रवणयति मनः क्षुद्रभोगान्निवृत्तः । भुंक्त मुक्तौ पुमर्थं स इति च नियते भोक्तृभोगखरूपे निर्माद्वैतसिद्धिर्न भवति तदसौ नित्यभोगोऽस्ति नित्यः ॥ शुभमस्तु श्रीः