आनन्दमानन्दनिधि च तादृग्जीवाहितानन्दमहं जुषेय । अन्यात्मनां जात्वसुखायिता चिदधीशमानन्दविमानवासम् ॥ निर्विशेषब्रह्मण्यानन्दत्वा संभवस्य शतदूषण्यामुपपादितस्य दर्शनमात्रेण श्रीभाष्यमते ब्रह्मण आनन्दवत्त्वमात्रम्, न त्वानन्दरूपत्वमिति शतभूषणी मन्यते । तदसत् ; उभयस्यापि स्वीकारात् । अथ शतदूषणीदर्शितेषु दुःखनिवृत्तिमात्रत्वं ज्ञानत्वं वाऽऽनन्दत्वमित्यादि कल्पत्यागेन अनुकूल वेदनीयत्वम्, अनुकूलवेदनत्वम्, अनुकूलत्वमिति पक्षान् सा परिगृह्णाति । परन्तु ते आकाराः मुक्तिकाले यद्यपि न भवन्ति, अथाप्युपलक्षण विधयोपयुज्यन्त इत्याह । पक्षोऽयम्, " उपलक्षणमिति चेत् ” इत्युपक्षिप्य शतदूषण्यां दूषित एव । अनानन्दतापादकाज्ञाना विषयत्वमानन्दत्वमिति ब्रह्मखरूपानन्दत्वपरिष्कारो यः कृतः, स न युज्यते ; अस्प्रिन् आन दत्वनिर्वचने आनन्दत्वस्य घटकतया आत्माश्रयदोषापत्तेः; ब्रह्मणः संसारदशायामानन्दरूपत्वाभावप्रसंगात्; ईदृशानन्दत्वस्य कदाप्यनुभवासंभवप्रसंगाच्च । संसारदशायां हि अज्ञानाविषयत्वमननुभाव्यम् । मोक्षे त्वनुभवविषयत्वप्रसक्तिरेव नास्ति । एवं सति सच्चिदानन्दस्वरूपैक्येन सर्वदा भासत इति कथनमपलाप एव । तद्भानेऽप्येतदभानात् । यत्तु अहमर्थस्य निरुपाधिक प्रेमगोचरत्वं निर्विशेषानन्दत्व भङ्ग प्रसाधनम् १०२३ यदि नाहंरूपेण, किंत्वधिष्ठानचैतन्यात्मनेति तत् तदा स्यात्, — अहमर्थोऽहङ्कारोऽनात्मा, तदविष्ठानचैतन्यं ततोऽन्यदेवात्मशब्दवाच्यमिति निष्कृष्टं स्यात् । अहमर्थात्मत्वर्थने च प्रागेव स निष्कर्षो निरस्तः । अतोऽहमिति एकत्वेन भानस्यानुभवसिद्धत्वात् तत्राहङ्कारचैतन्यरूपार्थद्वयभाने मानाभावात् अर्हत्वाश्रय एव प्रेमास्पदत्वमेषितव्यम् । जानामि, करोमि, सुख्यामीति ज्ञातृत्वकर्तृत्वभोक्तृत्वाद्याश्रयतया प्रतीते वस्तुन्येव परमप्रेमास्पदत्वदर्शनात् अहमर्थातिरिक्तं चैतन्य प्रेमास्पदमिति लोकानुभवाभावात् । ‘आत्मनस्तु कामाय सर्वं प्रियं भवतीति लोकानुभवप्रदर्शनस्यासंग तत्वप्रसंगाच लोकगृहीत आत्मा अहमर्थ एव । स एव परमप्रेमास्पदम् । यदपि — विषयसुखानां प्रेमगोचरत्वमपि सुखस्वरूप चैतन्याभेदादेवेति-तत्रेदं चिन्त्यम् आत्मनो मुख्यमानन्दत्वम् । वैषयिकसुखानामानन्दत्वम्, ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुत्या तदानन्दलोशरूपतयैवेति भवन्मतम् । तत्रको नाम वैषयिकानन्दः, तस्य कथं तदेकदेशतेति विचारे विषयविषयिणी प्रत्यक्षाद्यनुभवरूपा अन्तःकरणवृत्तिरुदेति । तदधीनं सुखं दुःखमप्यन्तःकरणवृत्तिविशेष एव । अथवा सुखं दुःखमिति धर्मोऽन्तःकरणे अग्न्यादावौष्ण्या दिकमिव जायते । तद्विषयिणी अन्तःकरणवृत्तिरन्येति । तथा च विषयविषयकानुभव विशेष एव सुखमिति वा अनुभवजन्यं सुखं वृत्त्यन्तरमिति वा, अनुभवजन्यसुखरूपापूर्वधर्मविषयिण्येव वृत्तिरिति वा कथमप्युच्यताम् । तत्र स्थितं सुखत्वं वृत्तिप्रतिफलित चैतन्यरूपस्यात्मनः सुखत्वप्रयुक्तमित्यङ्गीकारे एकैकवृत्तावपि चैतन्यप्रतिफलन सत्त्वात् सर्वत्र दुःखहेतुवृत्तिस्थलेपि किमिति सुखस्फूर्तिर्न भवेत् । अतः चैतन्यस्य सुखत्वमानन्दत्वं वस्तुतो नास्ति । विषयस्येष्टत्वेन वृतीनां सुखरूपत्वमिति वा कारणान्तरायत्त कतिपयवृत्तीनां कतिपयान् प्रति सुखत्वमिति वा वक्तव्यम् । ‘पात्रामुपजीवन्ती’ ति श्रुतिस्तु समुद्रे गोष्पदमितिवत् ब्रह्मानन्दैकदेशतुल्यत्वाभिप्रायम् । न च आत्मगतानन्दां शस्फूर्तिर्यत्र तत्र मुखरूपत्वमिति वाच्यम्-वस्तुतो निरंशे चैतन्ये आनन्दां । १०२४
शस्य पृथगभावेन चैतन्यप्रतिफलने आनन्दप्रतिफलनस्यावश्यकत्वात् । “सुखमन्यत् तद्विषयिणी वृत्तिरन्येति कश्चित् परिभाषादिसंमतः पक्षः, सुखमेव वृत्तिरिति भामतीमतम्” इत्युच्यते । तत्र वृत्तिसुखत्वपक्षे चैतन्यप्रतिफलनवशात् सुखत्वमिति स्यात् । न तु तस्यातिरिक्तत्वपक्षे । अन्तःकरणवृत्तौ ज्ञानत्वोपचारवत् अनन्दत्वोपचार इति भवतोच्यते । चण्डमारुते तु भवत्पूर्वकोक्तानुबादे वृत्त्यवच्छिन्न चैतन्यांशे सुखत्वं मुख्यम्; आत्मनि तदमुख्यम् । यथा ज्ञानलं वृत्त्यवच्छिन्न चैतन्य एव मुख्यन्, आत्मनि उपचरितम्, तद्वदित्युक्तम । युक्तञ्चैतत् — ब्रह्मगो निर्धर्मकत्वात् सर्वेषामपि शब्दानां सप्रवृत्तिनिमित्तकत्वावश्यकताया अद्वैत सिद्धावेवोक्तत्वात् तत्तत्प्रवृत्तिनिर्मित यत्र संभाव्यते; तस्यैव तच्छब्दमुख्यार्थत्वात् शुद्धचैतन्ये आनन्दस्वरूपत्वा नवकाशात् । न च शाखाचन्द्रयायेनावच्छिन्न चैतन्ये आनन्दपदेन निर्दिष्टे शुद्धचैतन्यमुपलक्षितं भवतीति वाच्यम् – दुःखमित्युक्तावपि तदुपलक्षण संभवात् विशिष्य, ‘आनन्दो ब्रह्मेति व्यजानात्’ इति निष्कर्तायोगात् । ‘आत्ममात्र संवेदनीयमिच्छाविषयः किमपि सुत्वं नाम’ इति ब्रह्मसिद्धिमतमुपन्यस्यता च भवता अन्तःकरणधर्मस्यैव सुखत्वं दर्शितम् । आलखरूपस्यानुकलवेदनीयेषु काष्ठात्वं च, ‘आत्मनस्तु कामाय सर्वं नियं भवतीति वाक्येन यद्यपि दर्शितम् अथापि अन्तःकरणधर्मस्य सुखत्वमिच्छाविषयत्वं यदि आत्मसंबन्धप्रयुक्तम्, तर्हि दुःखादावपि तत्सत्त्वात् तेषामपि सुखत्वापत्तिः । तस्मात् अनुकूलत्वं कतिपयान्तः करणधर्मस्य स्वाभाविकमित्येव वक्तव्यम् । तत् सुखं केनचिद् बाह्येनाऽऽन्तरेण वा वस्तुना कस्यचिदुत्पाद्यते कर्माद्यनुसारादित्यनुभवसिद्धमेतत् । अस्त्विदं जन्यं सुखमन्तःकरणधर्मो वा, धर्मभूतज्ञानपरिणामो वा ज्ञानादन्यद्वा, ज्ञानमेव वेति विमर्शः । आत्मन आनन्दत्वं कादाचित्कं वा यावदाश्रयभावि वा, सर्वदाऽनुभूयपानं वा न वेति विचार्यम् । अस्य संसारेऽनुभवासंभवेऽपिं मुक्तावनुभवस्तावदावश्यकः । अन्यथा मुक्तेः पुरुषार्थत्वा निविशेषानन्दत्व-भङ्ग-प्रसाधनम् १०२५ योगात् । दुःखनिवृत्तिघटितसकलविशेषगुणयेसो मोक्ष इति पाषाणकल्पमोक्षवादितार्किकमत वैलक्षण्येन सच्चिदानन्दरूपात्मस्वीकारो हि मुक्तेरानन्दरूप तया पुरुषार्थत्वोपपादनाय । अनानन्दतापादक ज्ञाननिवृत्त्यर्थप्रयत्नश्चानन्दस्फूर्तिलाभाय । पुरुषार्थत्वञ्च पुरुषेणानुभवार्थमपेक्षिते स्वरसम् । अतो मुक्तौ तदनुभव आवश्यकः । अननुभूयमानं विद्यमानमप्यविद्यमानतुल्यम् । नित्यसुखामिव्यक्तिमुक्तिरिति पक्षखण्डनावसरे न्यायभाष्योक्तरीत्या अनुभवाभावे सुखरूपताङ्गीकारोऽपि व्यर्थ एव । एवञ्च लौकिकविषयानुभवानां तदालदा जायमानानां यथा सुखत्वम्, तथैव ब्रह्मानुभवस्त्र सुखत्वमिति वृत्तिसुखत्वमात्रे पर्याप्ते तदधिकतया ब्रह्मणोप्यानन्दत्ववादी हि तस्य तथैव प्रकाशनिबन्धनः । अन्यथा मुक्तावानुकूल्यं सुखत्वमानन्दत्वमित्युच्यमानधर्मानङ्गीकारे जडत्वाद्यभावरूपमिव आनन्दत्वाद्यभावरूपमेव तत् स्यात् । खरूपातिरिक्तानन्दांशो न भवति, स्वरूपातिरिक्तः प्रकाशोपि न भवतीति खल्वंगीकृतम् । तादृश एव चात्मा इदानीमप्यस्तीति आनन्दप्राप्तिर्मोक्ष इति वादोऽर्थशून्यः स्यात् । संसारदशायां दुःखानुभवमध्ये स ब्राह्मानन्दस्तारतम्येन संवेद्यमानोऽस्ति, मोक्षे ईषदपि नास्तीति प्रत्युतानर्थ एव । दुःखनिवृत्त्यर्थमेव प्रयत्न इति चेत्तार्किकमतादविशेषः । • शोधने क्रियमाणे भवन्मतमेवं निष्कष्टव्यम् आत्मा यदा वृत्त्या विषयी क्रियते, तदा पुरुष आत्माराम आत्मक्रीड आत्मकाम आप्तकामो भवति । यं लब्ध्वा चापरं लाभ मन्यते नाधिकं ततः, यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते, तादृशत्वात् तस्य तद्विषयकवृत्तेरानन्दानुभवरूपत्वात् तस्य विषयस्य ब्रह्मणो निरतिशयानन्दत्वमवसीयते । एवञ्च नैयायिकैरात स्वरूपानुभवः क्रियमाणः केवलं तद्गतधर्माधर्मसाक्षात्कारोपयोगितया; न तु तस्य भोग्यतया । अस्माभिस्तु भोग्यताप्यस्तीत्युच्यते । तत्त्वसाक्षात्कारेणा विद्यानिवृत्तिविषये अस्याः भोग्यताया उपयोगाभावेपि वस्तुस्थितिकथनं मुक्तये प्ररोचनाय च भवतीत्याद्रियते । एवं वैषयिकानन्दानामेतदेकदेशत्वक 129 • १०२६
थनमपि योगकालिकात्म साक्षात्कार गतानन्द काष्ठाविर्भावमालोच्य । मुक्तौ तु कैवल्यमेव; तार्किकवत् । एवञ्च, ‘विज्ञानं ब्रह्म’, ‘आनन्दो ब्रह्मे’ त्यादिकमपि व्यवहारकाले ज्ञानान्तरनिरपेक्षव्यवहार विषयतां वृत्तिज्ञानेनानुकूलतया गृह्यमाणताश्चानुसृत्यैवेति । अत्रोच्यते तार्किकमत इवात्मनो जडत्वमस्वीकृत्य ज्ञानानन्दस्वरूपत्वेऽङ्गीकृते अहं ज्ञानम्, अहमानन्द इति व्यवहारः कुतो न भवति । नूनं ज्ञाधातोर्भावे ज्ञानशब्दस्य निप्पन्नत्वात् ज्ञाधातोश्च भूतभवद्भविष्यत्त्वरूपकालयोगार्ह क्रियापरतया ज्ञानशब्दोपि तदर्हक्रियामेव वक्तुमर्हः । तथा सुखानन्दादिपदमपि सुख्यति, नन्दतीत्यादिप्रयोगविषयातीतत्वाद्यई क्रियापरमेव । न चात्मन्यतीतत्वाद्यर्हतेति अहं सुखम्, अहमानन्द इति न व्यवहारः । इयान् विशेषः ज्ञाधातोः सकर्मकत्वात् सकर्मकत्वसकर्तृकत्वरूपांशद्वयं कस्य किं प्रति ज्ञानमित्याकांक्षाबलादपेक्षितम्, आनन्दस्य स्वकर्मकत्वात् कपेक्षामात्रमिति । अहं मे अनुकूल इति व्यवहारस्त्विय्यत एवेति वक्तव्यम् । एवञ्चान्यनिरपेक्षव्यवहारविषयत्वमात्रेण ज्ञानशब्दः आत्मनि गौणः, आनन्दशब्दश्चानुकूलत्वमात्रेण तथा । अतः चण्डमारुतदर्शिता द्वैत्येकदेशिमतमेव समीचीनम् । एवं विषयेषु सुखानन्दादिशब्दप्रयोगोपि सुखहेतुत्वादनुकूलत्वाच्चेति तद्विषयकज्ञाने तदधीनधर्मविशेषरूप सुखे वा तच्छब्दस्य मुख्यत्वात् आत्मनश्चातथात्वात्, ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इत्यस्य, ‘आनन्दरूपचैतन्यात्मक ब्रह्मप्रतिफलनात् वृत्यवच्छिन्नचैतन्यानामानन्दरूपते ‘त्यर्थो वक्तुं न शक्यते । चैतन्ये मुख्यानन्दत्वाभावात् । शुद्धचैतन्यसाक्षात्काररूपा वृत्तिः परमानन्दः वस्त्वन्तर विषयकवृत्तयस्तु वस्तुष्वानुकूल्यप्रतिकूल्य नै यत्याभावात् यथायथं सुखरूपाः दुःखरूपाश्च । न चानुकूलवस्तुन्यारोपितं वस्तु अनुकूलमेवेति नियमः ; रज्जुसर्पभ्रमे रजते रङ्गभ्रमे च विषयस्य सर्पस्य रङ्गस्य च प्रतिकूलत्वानुभवात् । तस्माल्लौकिकपदार्थानुभवानन्दाः सर्वे ब्रह्मानुभवानन्दापेक्षया अत्यन्तावरा इत्येव तदर्थः । तत्प्रकरणे पूर्व सर्वानन्दापेक्षया ब्रह्मलोकग निर्विशेषानन्दत्व-भङ्ग प्रसाधनम् १०२७ तानन्दस्यातिशयितत्ववर्णनादपि ब्रह्मगतो य आनन्दः, यश्च ब्रह्मविषयकः श्रोतियादेरानन्दः, तदपेक्षयाऽत्यन्ताल्पत्वमानन्दानामित्येव विवक्षित मिति स्पष्टम् । एवञ्च आनन्द ब्रह्मेत्यत्र पुल्लिंगशब्दश्रवणात् आनन्दशब्दः अनुकूलत्वमात्रेण ब्रह्मणि प्रयुक्तः । विज्ञानमानन्दं ब्रह्मेत्यत्र तु नपुंसकलिंगत्वात् अर्शआद्यजन्त इति आनन्दविशिष्वरूपार्थे प्रयुक्तः । ‘आनन्दं ब्रह्मणो विद्वान्’ इति व्यतिरेकनिर्देशश्चानन्दस्य धर्मत्वं दर्शयति । श्रोत्रियस्यान्तः इदमनुकूलत्वमिदमानन्दविशिष्टत्वञ्च ब्रह्मणः किं कादाचित्कम्, उत यावद्दव्यभावीत्येव विचार्यम् । ’ स एको ब्रह्मण आनन्द’ इति श्रोत्रियेणानुभूयमान आनन्दः ब्रह्मानुभूयमानानन्दतुल्य इति ज्ञायते । करणवृत्त्या ब्रह्मविषयिण्या आनन्दवत्त्वं संभाव्यते । कथं तत् ब्रह्मणः स्थात्, यदि वृत्त्यधीन एवानन्दानुभवः स्यात् । अतोऽन्तःकरणनिरपेक्षः । अधस्तादुक्ताः मनुष्यगन्धर्वदेवाद्यानन्दाः यथा मनुष्यत्वा द्यवस्था स्थितिपर्यन्तस्थायितया विवक्षिताः, तथैव ब्रह्मण आनन्दो ब्रह्मसमसत्ताक इति यावद्द्रव्यभावित्वम् । एवमानन्दस्य यावद्द्रव्यभावित्वादेव, ‘कं ब्रह्म खं ब्रह्म’ इत्यत्र कशब्दस्य सुखवाचिनः सुखमात्र परत्वमस्वीकृत्य सुखरूपधर्मं विशिष्टधर्मिपर्यन्तत्वविवक्षया, “सुखविशिष्टाभिधानादेव च” इति सूत्रयामास । यदि च मुक्तस्याशरीरत्वरूपाया अविद्या निवृत्तिरूपाया वा मुक्तेरन्यत् मोक्षकाले नास्ति, तत्त्वमसीत्युपदिष्टार्थवेदिनः, ’ तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये’ इति विमोक्षातिरिक्ता संपत्तिर्न श्रयेत । श्रुत्यन्तरे संपत्त्यनन्तरमपि किञ्चिदस्तीति श्रुतम्, ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति । अत्र संपत्तिनिष्पत्त्योर्भिन्नक्रियात्वं निप्पत्तेः संपत्त्यनन्तरभावित्वञ्च स्पष्टम् । सेयं निष्पत्तिर्नोत्पत्तिः; किंत्वाविर्भाव इति च सूत्रितम् । आविर्भावश्चाभिव्यक्तिः । एवञ्च प्रागप्रकाशित स्वरूपांशप्रकाशो मुक्ताविति स्वीकार्यमिति सप्रकाश एवानन्दो भवतु । एतदनन्तरम्, ‘स तत्र पर्येति जक्षत् क्रीडन्’ इति आनन्दाविर्भाव कार्यविवरणाश्च स्वरूपाभिनिष्पत्तिरानन्दाविर्भाव पर्यन्तेति ज्ञायते, १०२८
इदमेव चान्यत्र, ‘सर्वं ह पश्यः पत्यति सर्वमाप्नोति सर्वशः’ इति सर्वविषयकज्ञान सर्वानुभवरूपमदर्शि । एवमन्यान्यपि, रसं ह्येवायं लब्ध्वाऽऽनन्दी भवतीत्यादीनि मुक्तिवाक्यानि द्रष्टव्यानि । अतो ब्रह्म स्वयमनुकूलं सत् स्वविषयकानुभवरूपानन्दविशिष्टमेव सर्वदाऽस्तीति नानन्दत्वादीनां व्यवहारकालमात्रस्थितत्वं मुक्तावविद्यमानत्वञ्च साम्प्रतम् । अद्वैत सिद्धौ आनन्दस्य स्वरूपसतः आनन्दिपुरुषरहितस्य कथं पुरुषार्थत्वमित्याशङ्कय सुखं मे भवतु इति स्वसंबन्धित्वेनैव पुरुषार्थत्वमिति न । आनन्दसाक्षात्कारः पुरुषार्थः । परकीयस्य सुखस्य साक्षात्क्रियमाणत्वाभावादपुरुषार्थत्वम् । सुखरूपस्य ब्रह्मणः स्वात्मनिष्ठत्वाभावेऽपि स्वेन साक्षात्क्रियमाणत्वान्न क्षतिरित्युक्तम् । तेन साक्षात्कामभावे स्वरूपतस्तत्त्वमात्रेण पुरुषार्थत्वं न भवतीति सिद्धमिति ब्रह्मणः सुखरूपत्वे साक्षात्कारोप स्वीकार्यः । साक्षात्कारवच्च तदिति स्वीकार्यम् । यदि धर्मभूतज्ञानमिति किञ्चिन्नेष्यते, स्वयम्प्रकाशं ब्रह्म स्वगतानुकूल्यं विपयीकुर्वत् आनन्दि भवतीति वा वक्तव्यम् । एतावति स्वीकर्तव्ये सति ब्रह्मण्यानन्दत्वमनुकूलत्वमपि मुक्तौ नास्तीति वर्णनं स्वाभिमत विलक्षणाद्वैतस्थापनश्रद्धा विलसितमात्रम् । अस्तु तावदिदं मुक्तितत्त्वम् । यदा दस्त्वन्तरासंकीर्णतया शुद्धं ब्रह्म वृत्त्या विषयीक्रियते, तदा सा साक्षात्काररूपा वृत्तिरानन्दरूपेत्येतावदिष्ट खलु । तत्त्वमसिवाक्याधीनं ध्यानादिनिरपेक्ष जायमानमेवापरोक्षमिति पक्षः तथाऽनुभवाभावादानन्दरूपत्वाननुभवाच्च निरस्य इत्यन्यदेतत् । या तावत् वृत्तिरानन्दरूपा, तस्यास्तथात्वं यद्यविद्यानिवृत्त्यर्थमत्यन्तपरिश्रमसाधितत्वादित्युच्येत, तर्हि ब्रह्मण आनन्दत्वं सर्वात्मना त्यक्तं भवतीति, मुक्तौ आनन्दत्वोपलक्षितं ब्रह्मेति वादोऽपि त्यक्तः स्यात् । अविद्यानिवृत्तिहेतुतया कथमप्यात्मसाक्षात्कारस्येष्टत्वेऽपि स्वत इष्टत्वाभावात् । यदा हि अविद्यानिवृत्तिं विना पूर्णात्मानुभवो न भवेदिति तदनुभवशेषतयाऽविद्यानिवृत्तिरपेक्ष्यते, संपद्येतात्मनः स्वत इष्टत्वम् । भवन्मते त्वविद्यानिवृत्तेरूर्ध्वं स्वरूपेणावस्थानमात्रम् ; प्रागेव निर्विशेषानन्दत्वभश-प्रसाधनम् १०२९ पुनर्ध्यानादात्मविषयिणी साक्षात्कारात्मिका वृत्तिः । यदि चेयं वृत्तिरविद्यानि वृतिशेषतया नापेक्ष्यते ; किंतु स्वरूपदर्शनार्थम्, तर्हि जगन्मिथ्यात्वादिविवेके मानसमविक्षिप्य सांख्यवत् शुद्धस्यात्मनो विवितक्तया दर्शने प्रवृत्यय तदनुभवानन्दनिनो भवितुमर्हति निपुणः । तादृशस्य च सत्यपि संसारे, ‘दुःखेष्वनुद्विममनाः सुखेषु विगतस्पृहः’ इति दशा, ततो धिकाऽपि वा भविष्यतीति न बन्धनिमितकबाधनावसरः । वरं च निरानन्दमुक्तिप्राप्तिमपेक्ष्य परमानन्दब्रह्मानुभवता संसृतिमध्य एवावस्थानम् । तदुक्तं शतदूषण्याम्, “ ततश्च सप्रपञ्चतयैवानुभव उपादेयः स्यात् " इति । अतः ‘आत्मनस्तु कामाय सर्वे प्रिय भतति’ इत्यात्मनः स्वत इष्टमुपपिपादयिषुभिः तत्साक्षात्कारस्यैव परमोद्देश्यता स्वीकार्येति मुक्तिरपि तादृशानन्दरूपैव भवितुमर्हति । एवञ्च ‘अनन्तानन्दभाक् भवेयम् ’ इति स्वारसिकी मोक्षार्थप्रवृत्तिर्न मोघा भवतीत्यौचित्यमपि । , अपिच ब्रह्मविषयकवृत्तेरानन्दरूपत्वं किं ब्रह्मखरूपविषयकत्वात् उत तद्गतधर्म विशेषविषयकत्वात्, आहो निष्पक्षता विषयकत्वात् किं वा प्रपञ्चाविषयकत्वात् । प्रथमे ज्ञानसामान्यस्य वृत्त्यवच्छिन्न चैतन्यरूपतया वृत्तिमानकाले चैतन्यमानस्य नियमेन सत्त्वात् सर्वदैव दुःखवृत्तिकालेऽपि आनन्दानुभवापत्तिः । द्वितीये ब्रह्मण्यनुकूलधर्मान्तरस्वीकारे सविशेषत्वप्रसंगः । तृतीये अन्वयव्यतिरेकाभ्यां प्रपञ्चाभावस्यैवानुकूलता स्वत इष्टता स्यात्, न ब्रह्मणः । न चतुर्थः; अन्यविषयकत्वेऽपि अनुकूलत्रह्मविषयकत्वे आनन्दत्वसंभवात् । न हि सर्वज्ञस्येश्वरस्य ज्ञानमन्यविययकमपि भवतीत्येतावता इष्टवस्तुविषयकानुभवानन्दस्य लोपः । प्रतिकूलतया प्रपञ्चग्रहणात् दुःखस्यावश्यकतया कथं ब्रह्मानु भवसुखस्य युगपदेवस्थानमिति चेत् -तत्तत्सामग्रीचलात् कार्यद्वयोपनिपात एष्टव्य एव ; विषयभेदेनविरोधात् । अथ तदा ब्रह्मण्यनुकूलताज्ञानाभावात् न सुखमिति चेत् तर्हि स्वरूपतो वस्तुग्रहणमेवानन्द इति पक्ष परित्यज्य धर्मान्तर विशिष्टतद्ग्रहणमानन्द इत्युक्तं स्यात् । सा चानुकूलता यदि व्यावहा-१०३०
रिकी, तर्हि तदभावस्य प्रपञ्चाभावग्रहणे गृहीतत्वात् न ब्रह्मानुभवस्यानन्दरूपता स्यादिति । तस्मात् ब्रह्मण आनन्दत्वाभिधानं क्षुद्रानन्दानुभवरूपभोगान्तरतो विरज्य परमानन्दानुभवरूपापवर्ग पुरुषार्थ प्राप्त्यपेक्षासंपत्त्यर्थमेवेति श्रुतिप्रतिपन्नतदर्थवास्तवत्वविवेकिभिः ब्रह्म नित्यानुभाव्यनिरतिशयानन्दरूपमेव भाव्यमिति । इष्टं स्वतोऽनुभवितु भवतीह यद्यत् ब्रह्मोत्तमं गणितमत्र परं सुखं तत् । तस्यानुभूतिमुपयन्ति न चेत् निमुक्तौ आनन्दताऽस्य कथमस्तु तथा किमर्थम् ॥ शुभमस्तु श्रीः