५५ आनन्त्यतत्त्व-प्रसाधनम्

देशं कालं सकलमपि वस्त्वक्षतर्कागमेद्ध स्वायत यः कलयति परः सर्वतः सर्वरूपः । एवम्भूतस्वकविभवसिद्धयैव चानन्तनाम्ना ५ ख्यातः श्रीमान् अनवधिसमुत्कर्ष एष प्रभुर्नः ॥ जगन्मिथ्यात्व हेतुत्वाभिमतानि निरस्यता । ब्रह्मणः प्राग् विवर्तोपादानता शातिता ततः । मायाख्यमिथ्या वस्तूपादानत्वं च निराकृतम् । कार्यस्यानुपपत्तिर्या मता सा नेति चोदितम् । अथानन्तमिति श्रुत्यास्तदहेतुत्वमुच्यते ॥ आनन्त्यतत्त्व-प्रसाधनम् १०१७ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति ब्रह्मण आनन्त्यमुक्तम् । तदानन्त्यं जगन्मिथ्यात्वपर्यवसायीत्यद्वैतिनः । अन्तशब्दो हि सामान्यतोऽवधिवचनः । अवधिशब्दः पूर्वोत्तर द्विविधावधिपरतया प्रयुज्यते इति पूर्वावधिरहितत्वादनुत्पन्नत्वमुत्तरावधिरहितत्वादविनाशित्वञ्चावगम्यते । एष कालपरिच्छेदाभावः । दैशिकावधिग्रहणे च देश परिच्छेदाभावोऽपि सिद्धयति । अन्योऽपि लोकेऽवधिभवति, यथा अस्मादयमुत्कृष्ट, अस्मादयं निकृष्ट इति । तत्र सर्वं जगत् परमात्मगतोत्कर्षावधिभूतम् ; जगदपेक्षया तस्योत्कृत्वात् । तस्य किञ्चिदपेक्षया निकृष्टत्वाभावाच्च निकर्षाविधिशून्यत्वमपीष्यते । अनन्तशब्दस्यावधि सामान्यनिषेधपरत्वसंभवेऽपि उत्कर्षावधि राहित्यमप्यर्थतया न स्वीक्रियते । निषेवस्यापि विवक्षितविशेषपर्यवसानस्य सर्वसंप्रतिपन्नतायाः सगुणनिर्गुणविषयविचारे दर्शितत्वात् । कचित् निरवधिकोत्कर्षमित्यपि व्यवह्रियेत । उक्तरीत्या सर्वावधिकाकोत्कर्षसत्त्वेपि स्वापेक्षयोत्कृष्ट वस्त्वन्तराभावादुत्कृष्टावधिरहितो कशालीत्यविवक्षा तत्र । एवं परिच्छेदार्थकत्वेऽप्येवमुत्कृष्टतमत्वं सिद्धयत्येव । यथा अवधिरहितमित्यर्थे निकृष्टावधिरहितमित्यर्थो न स्वीक्रियते, बाधात्, तथा कतिपयपरिच्छेदरहितत्वमपि नेष्यते । अनन्तत्वमसंख्यत्वं संख्याकृतपरिच्छेदरा हित्यमित्यपि प्रसिद्धमेव, यथा “विशेषास्त्वनन्ता एव", " तवानन्तगुणस्यापि षडेव प्रथमे गुणाः" इत्यादौ । एकत्वसंख्या परिच्छिन्ने च ब्रह्मणि तद् बाधितम् । उक्तञ्चंद शतदूषयाम्, “अन्यथा अनन्तपदश्रुत्यसंकोचाय संख्यातोऽपि परिच्छेदाभावस्वीकारेण ब्रह्मबहुत्वप्रसङ्गात् " इति । यत् शत भूषणीकृत् लिखति, ‘संख्यापरिमाणोत्कर्षपृथक्सिद्धिखतन्त्रभेदराहित्यं वस्तुपरिच्छेद इति श्रीमाण्यानुयायिन’ इति तदर्थं स एव वक्ता । संख्यादिशब्दानां राहित्यपदान्वये संख्याराहित्यं कथं परिच्छेदः स्यात् । संख्याप्रतियोगिकच राहित्य कथं वस्तुप्रतियोगिक परिच्छेदः स्यात् । राहित्यपदानन्वये च कथं बोधः । संख्यैव परिच्छेद इति चेत् तद्राहित्यमपरिच्छेदोऽस्मन्मते ब्रह्मणि कथम् । अथ पूर्ववाक्येऽस्मिन् वाक्ये च अपरिच्छेद इति लेखनीयम् ; 128 vote परमार्थ भूषणे परिच्छेद इत्यशुद्धमिति चेत्-त् पृथक्सिद्धस्वतन्त्रभेदराहित्यांशे उपपद्यते; न तु संख्यादिविषये; संख्याराहित्यादेरस्मदनिष्टत्वात् । परिमाण परममहत्वमस्तीति पक्षे हि परिमाणराहित्यमपि नास्ति । एवमुत्कर्ष राहित्यमपि । एव मुपरि, “देशकालमात्र परिच्छेदवर्णने प्रयोजनाभावात्” इत्युक्तमप्यसंगतम् त्रिविधपरिच्छेदाभावस्यैवास्माभिरप्युच्यमानत्वात् । देशापरिच्छेदवर्णनस्यापि प्रयोजनमस्त्येव, “सर्वव्याप्तेर्निरूपणार्थम् " इति भवतैवोपर्युक्तेः । यदप्युच्यते, ‘ब्रह्मणः सर्वैर्वस्तुभिः पृथक्सिद्धिः प्रत्यक्षसिद्धा, स्वतन्त्रवस्त्वन्तराभावोपि प्रत्यक्षसिद्धः । अथापि तदभावबोधनमनन्तादेनोच्यते प्रत्यक्षमाबल्यं प्रेमास्पदं दूरीकृत्य’ इति वचनम् तदतिविचित्रम् वस्तुभिरिति तृतीया कथमध्यस्तु । पृथक्सिद्ध्यादिकं कस्य पुरुषस्य प्रत्यक्षयोग्यम् । ब्रह्मप्रत्यक्षमन्तरा पृथक्सिद्धिप्रत्यक्षं कथम् । स्वतन्त्र वस्त्वभावाभावः स्वतन्त्रवस्त्वन्तरवत्त्वम् । तद् ब्रह्मणि किमस्माभिरुच्यते । एवमनुक्कानन्विताभासार्थप्रतिपादकवाग्जाल विस्तरेणैव ग्रन्थपूरणे आनन्त्यं शतभूषणीगतेषु दोषेष्वेवेति सर्वदूषणपारगमनं सर्वस्याप्यशक्यमेव । यच्च प्रत्यक्षप्राबल्ये भवद्भिरेव त्यक्ते अद्वैतिदूषणं श्वश्रभिक्षाप्रतिषेधनयेनेति -तत् पृथक्सिद्धिप्रत्यक्षाभावादेवापास्तम् । जगन्मिथ्यात्ववादिसौगतनिरासेन स्वयं जगन्मिथ्यात्वं स्थापयतां भवतां मत एव श्वश्रभिक्षाप्रतिक्षेपः । यदपि वस्तुपरिच्छिन्नत्वं वस्त्वन्तरातादात्म्यमिति – तन्न । वस्तुपरिच्छेदो वस्तुभेद इति युक्तं भवति । न हि कालपरिच्छेदो देशपरिच्छेदश्च तत्तत्प्रतियोगिक भेदरूपः । तद्वदेव हि वस्तुपरिच्छेदविषयेपि युक्तम् । तद्विहायाद्वैतश्रद्धया वस्तुपरिच्छेदो वस्तुभेद इति कल्पनमयुक्तम् । यदपि वस्तुभेदस्य स्थितस्यापि मिथ्यात्वात् वस्तुभेदाभाव इति तन्न -तर्हि वस्त्वभेदस्यापि ब्रह्मणि मिथ्यात्वात् तदभाव एव कुतो नोच्यते । यत्तु व्यवहारकाले वस्तूनां प्रसिद्धत्वात् तद्भेदः प्रसक्त एव ब्रह्माणि प्रतिषिध्यत इति नाप्रसक्तप्रतिषेध इतितत्र तदा हि व्यवहारकाले वस्तूनां ब्रह्मणश्चैक्यमुक्तं भवति । तत् कथम् । एतावता वस्तुन एकत्वे वस्त्वन्तराभावे अनन्तत्वमिति सिद्ध्यति । वस्तूनामनेकत्वे असंख्यत्वे अनन्तत्वं लोकेष्टम् । तद्विपरीतमेतत् । आनन्त्य तत्त्व-प्रसाधनम् १०१९ ‘वस्तुपरिच्छेदो वस्तुभेद इति पक्षेऽपि प्रमाणान्तरानुरोधात् स्वतन्त्रवस्तुप्रतियोगिको विवक्षणीयः; तदभावो वस्त्वपरिच्छेदः’ इतीदं दूष्यते’ तादृशवस्तुन एवाप्रसिद्धया तदभावः कथं प्रसिद्ध्यतीति । एवं वदता चोपरि, ‘खसमानजातीयवस्त्वन्तरसद्भावो वस्तुपरिच्छेदः तदभावो वस्त्वपरिच्छेद’ इति कथमुच्यते । तत्रापि सजातीयवस्त्वन्तराभावादनुपपत्तिस्तदवस्था । इयान् विशेषः भवता समसत्ताकत्वेन साजात्यं विवक्षितम्, अस्माभिः खतन्त्रत्वेन साजात्यमिति । तथाच पूर्वोक्तमेवमेव निर्वहति । भ्रान्तपुरुषदृष्ट्या स्वतन्त्र वस्तुप्रतियोगिकभेदः प्रसक्तो वार्यत इति हि तत्रापि वक्तुं शक्यम् । अन्ततो वस्त्वपरिच्छेदो नाम खभिन्नवस्तुत्वव्यापकस्वतन्त्र्याभावकत्वादिरित्युक्तं भवति । " अवस्थाविशेषस्य घटादेर्द्रव्यात्मना मृदैक्यमेव, न तु संयोगः " इत्यप्यसत् — अवस्था विशिष्टस्य हि मृदैक्यम्; न त्ववस्थायाः । अवस्थाया अपृथक्सिद्धिर्नास्तीति न शक्यं वक्तु संयोगाभावेऽपि । न हि सर्वत्र संयोग एवापृथक्सिद्धिः । एवं ‘शरीरात्मनोराध्यासिकमेव तादात्म्यम्, न त्वपृथक्सिद्धिः’ इति वदता, मम शरीरमित्येव प्रतीतिः, न तु अहं शरीरमिति इत्युच्यते । कथमेवं सत्यध्यासो विवेकिनाम् । अत्रापृथक्सिद्ध्यभावकथनं प्रतिज्ञामात्रम् । अथ वस्तुभेदाभावो वस्त्वपरिच्छेदः वस्तुत्वरूपः । वस्तुत्वं त्रिकालाबाध्यत्वमित्युच्यते । तेन कालत्रयसत्त्वमेव हि पर्यवस्यति । तथा कालपरिच्छेदाभावस्य देशकालयोरपि सत्त्वात् तद्वैलक्षण्याय वस्त्वपरिच्छेदो वक्तव्य इति तत्रोच्यते । वस्त्वपरिच्छेदो वक्तव्य एव । तस्य प्रयोजनं महदस्त्येव । देशकालवारणार्थमित्येतद् विचार्यम् । देशस्य कालपरिच्छिन्नत्वाद् वारणं प्रागेव सिद्धम् । कालेऽप्यवान्तरकालानामनित्यत्वात्कालपरिच्छेद एष्टव्यः । स च अवान्तरकालमन्यपादाय वा खपरनिर्वाहकसमाधिना वा कथमध्यस्तु । अथ महाकालोऽवशिष्यते, यदि स कश्चिन्नित्य इष्येत । भवन्मते तत्सत्त्वे न प्रमाणम् । बाधोऽपि कालोऽनादिरस्तीत्यपि भवद्भिर्न शक्यं वक्तम् ; ‘जीव ईशो विशुद्धा चित्’ इत्यादिना षण्णामेवानादितया१०२०

गणनात् । अतः कालोपाधीनादाय कालव्यवहार इति वक्तव्यमिति तेषां परिच्छिन्नत्वात् तद्वारणाय अनन्तपदं नापेक्षितमिति । यतु ब्रह्मणः सशरीरत्वे देशकाल परिच्छिन्नत्वापतिः चिदचिद्रूपशरीरभेदेन ब्रह्मणोऽनेकत्वापत्तिश्चेतितदिदं किमपि वक्तव्यमिति कथितमेव । शरीराणां परिच्छिन्नत्वे अनेकत्वे च सत्यपि ब्रह्मणि तदप्रसक्तेः । न हि भवन्मत् इव प्रकारप्रकारिणोर्भेदाभेदावस्मासु केनापीष्येते इत्यकं बहुना । . अथ वस्तुपरिच्छेदाभावो यथावदुपपाद्यते यथा कालपरिच्छिन्नत्वाभावः कालाभावरूपो न भवति, यथा च देशपरिच्छिन्नत्वाभावो न देशाभावः, तथा वस्तुपरिच्छेदाभावोऽपि न वस्त्वभावः । अथ परिच्छेदशब्दस्य मेद इत्यर्थः तथापि वस्तुभेदाभावो न वस्त्वपला पेनोपपाद्यः ; किं तु स्थितानामेव वस्तूनां मेदाभावेन । स यदि प्रमाणविरुद्धः, तर्हि अनन्तपदं सामान्यार्थकमवाधितार्थान्तरपरं भवतु । न ह्यसंख्यत्वं परार्धाधिकत्वमनन्तत्वमिह समन्यते, विरोधात् ; तद्वत् । देशकालपरिच्छेदौ यथा देशकालप्रतियोगिकसंसर्गविशेषरूपौ तद्वदेव वस्तुपरिछेदोपि । देशान्तरासंबन्धित्वविशिष्टकिञ्चिदेशसबन्धित्वं देशपरिच्छेदः । एवं कालेऽपि । तथा वस्त्वन्तरा सबन्धित्ववि शिष्टकिश्चिद्वस्तुसंबन्धित्वरूपो वस्तुपरिच्छेदो नास्तीति सर्ववस्तु संबन्धित्वमेवोच्यते । तत्राकाशवद्व्यापित्वरूपसंबन्धस्य देशपरिच्छेदत एव लब्धत्वात् अन्यादृश एव संबन्धो विवक्षितः । स च यथाप्रमाणं शेषित्वाधारत्वनियन्तृत्वापृथक्सिद्धिमत्त्वाद्यनेकरूपः । अत एव सर्वेषां तत्प्रकारत्वात् प्रकारवाचिनां प्रकारिपर्यन्तत्वात् सर्वत्रस्तुसामानाधिकरण्याईत्वरूप वस्त्वपरिच्छेद इत्युच्यते । अत एवाभाषिष्ट, ‘भेदवादिनस्तु सर्वचिदचिद्वस्तुशरीरत्वेन ब्रह्मणः सर्वप्रकारत्वात् स्वतः परतोऽपि परिच्छेदो न विद्यते" (२.१.७) इति । ‘रसोऽहमप्सु’ इत्यादिप्रयोगबलेन परम्परया तदपृथक्सद्धानामपि सर्वपदेन ग्रहणमुचितमित्यन्यदेतत् । अत्र भेदवादिन इति पदम्, चिदचितोरीश्वरस्य च भेदस्यैवेष्टत्वात् कथं वस्तुभेदाभावरूपवस्त्वपरिच्छेद इति शङ्काद्योतकम् । अत्र स्वतः मानन्त्यतत्त्व-प्रसाधनम् १०२१ परतश्चेत्यस्यायमप्यर्थः पूर्वं चिदचिद्वस्तु इति किलोक्तम् । तत्राचितां शरीरित्वानर्हत्वात् स्वत एव वस्तुपरिच्छेदः वस्त्व पृथक्सिद्ध्यनुयोगित्वाभावः । चितां तु नित्यानां शरीरित्वात्वेपि परसंकल्पात् तदभाव इति । एवं वाऽर्थ * परिच्छेद पदस्याद्वैतिसंमतभेदार्थकत्वे वस्तुवाचिपदानां स्वपर्यन्तपरस्वात् ब्रह्मणि स्वस्मात् भेदो नास्ति, ब्रह्म न घट इति न शक्यते वक्तु वेदान्तव्युत्पत्तिमता । अतः स्वतः परिच्छेदो नास्ति । यदि परिच्छेदशब्दस्य देशपरिच्छेद इत्यादाविव किञ्चिदसंबन्धित्वविशिष्टसंबन्धित्वमर्थः, तदा परतः स्वभिन्नेन चिता अचिता च परिच्छेदो नास्ति सर्व संबन्धित्वादिति । अथार्थान्तरम् उदाहृतं भाष्यं पूर्वपक्षिमुखेन विशिष्टाद्वैतिमतसंभावितार्थप्रदर्शकम् । सिद्धान्त एव साक्षादुक्तमन्यदस्ति । इदमपि शतदूषणीदर्शितमेव । जन्माथधिकरणभाव्ये हि “स्वरूपेण गुणैश्चानन्त्यम्” इत्युक्तम् । अतस्तदनुसारेणात्रापिं सर्वशरीरकतया सर्वप्रकारित्वात् स्वरूपतो गुणतश्चातिशयितत्वात् स्वतः –स्वरूपेण, परतः गुणैश्च परिच्छेदो निकर्षो न विद्यते इत्यर्थः । खस्मिन् गुणेषु च किञ्चित्कृतो निकर्षो नास्तीति सप्तम्यर्थो वा । तेन निरतिशयोत्कर्षः समाभ्यधिकरहितत्वमुक्तं भवति । श्रुतप्रका शिकादर्शितोऽप्यर्थोऽनुसंधेयः । एवमनन्तपदेन पदार्थानां बहूनां सद्भावः, परमात्मनस्तन्निरूपित संबन्धः, तेषां परमात्मापेक्षया निकृष्टत्वमित्याद्येव सिद्धयेत् न तु सर्वबाधेन ब्रह्ममात्रसद्भावः । तथाच ‘सत्यं ज्ञानमनन्तं ब्रह्मेति वाक्यमनृतजड परिच्छिन्न व्यावृत्तमित्यर्थ कत्वेपि ब्रह्मणोऽनृतत्वादिकमेव वारयेत् । न तु अन्यत् सर्वमनृतमिति वा, अनृतं सर्वं जडमित्यादि वा बोधयेत् । अयमगौरनश्व इत्युक्तौ गवाश्वयोरभेदं क इच्छेत् । तथासत्येकतरपदवैयर्थ्यमपि । अन्यथा जडानृतयोरैक्ये तद्व्यावृत्तये पदमेकमेवालम् । अतोऽनृतव्यावृत्तौ कृतायां सत्यजडव्यावर्तनाय ज्ञानपदम्, सत्यज्ञानभूतपरिच्छिन्नवस्त्वन्तरव्यावर्तनायानन्तपदमिति स्यात् । वस्तुतो बद्धमुक्तनित्यव्यावृत्तये सत्यज्ञानानन्तपदानीत्यादिविस्तरोऽन्यत्र । अनन्तशब्दनिरुक्तिरप्यनुसंधेया । १०२२

गंभीर भाष्यार्थ विचारतत्परैरबाधितोऽर्थो बहुधा विभाव्यते । परैः श्रुतिष्वेवमपार्थकल्पकैः प्रदर्श्यते बाधकमेव साधकम् ॥ शुभमस्तु श्रीः