स्रष्टारं प्रकृतिश्च यं श्रुतिगणाः प्रख्याप्य तत्साधकान् शक्तिज्ञानबलेश्वरत्वकरुणा स्वामित्वमुख्यान् गुणान् । उत्तुङ्गानवबोधयन्ति नियतांस्तस्यैष सत्यैर्गुणैः लीलाभोगसमृद्धिदैश्च विभवैः श्रीमान् स्थिरो दीव्यति ॥ नित्यशुद्धनिर्विकार ब्रह्मोपादानत्वान्यथानुपपत्त्या मिथ्याभूतमायोपादानत्वान्यथानुपपत्त्या च जगतो मिथ्यात्वमभिमतमधस्तात् वादद्वयेन निरासि । अत्र कार्यानुपपत्त्या सर्व मिथ्यात्वमुच्यमानं निरस्यते । कार्यानुपपत्तिर्नाम यथा यथा कार्यस्योत्पत्तिर्वर्णिता, तस्य प्रकारस्य सर्वस्यानुपपन्नता परमार्थतः कार्यस्यैवाभावः । तथाच कार्य किञ्चिद्भवतीति वर्णयितुमशक्यमिति सर्वमिदमनिर्वचनीयमिति पूर्वपक्ष्याशयः । अतः कार्यानुपपत्ति-भङ्ग इत्येव वादस्य नाम । तदिदं चण्डमारुतोपक्रमवाक्यादपि सुज्ञानम् । अतः अशुद्धमुद्रणमनुरुध्य कार्यान्यथानुपपत्ति-भङ्ग इति पूर्ववादवासना मूलनामकरणस्यादरणमयुक्तम् । यथा उपादानत्वमन्यथाऽनुपपन्नं मिथ्यात्वं साधयति, तथा कार्यमन्यथानुपपन्नं सत् मिथ्यात्वमाक्षिपतीति अत्र वक्तुं न शक्यते । उपादानत्वस्य तत्र वादेऽङ्गीकृतत्वात् कार्यस्यात्र वादेऽङ्गीकाराभावात् । कार्यत्वासंभवस्य तन्मूलकं कार्याभावस्यैवात्र प्रतिपादनात् । अतो मिथात्वमुखेन कार्यत्वोपपादनस्यात्राकरणात् कार्यानुपपत्तेरेव पूर्वपक्षे कथनात् तद्-भङ्गार्थोऽयं कार्यानुपपत्ति-भङ्गवाद इत्येवनामा । ननु पूर्ववादयोरुपादानत्वं पूर्वपक्षिसंमतमिति दर्शितत्वात् कस्यचित् कार्यत्वाभावे तत् प्रति उपादानत्वस्य कचिदुत्तसंभवात् कार्यत्वं स्वीकर्तव्यमिति चेत् — सत्यं तत्र वादे कार्यत्वं जगति स्वीकृतमेव । इह तु यथाकथञ्चिज्जगन्मिथ्यात्वस्थापनैदम्पर्यात् पूर्वपक्षी जगतः कथमपि कार्यत्वा-१०००
संभवादनिर्वचनीयत्वमभिमन्यते । अत्र तदनन्यत्वाधिकरणशाङ्करगतिरवधेयापूर्व भोक्त्रापत्त्यधिकरणे एक ब्रह्मकार्यत्वे भोक्तभोग्ययोः भोक्तत्वादिव्यवस्था न स्यादित्यशक्य भोक्त्रादिपदार्थानां प्रामाणिकत्वं कृत्वा समाधानमेकमुक्तम् । परिहाररहस्य तु तदनन्यत्वसूत्रेणोद्धाट्यते । ब्रह्मातिरिक्तस्य भोक्त्रादेः पदार्थस्यैव परमार्थतोऽभावात् कस्याविभागापत्तिराशक्यते । न हि वस्तुतो ब्रह्मजन्यं जगदिति ब्रूमः । किंत्वध्यारोपापवादेन सर्वाभावप्रतिपादनपद्धतिरेकेयमिति । अंत उत्पत्त्यसंभवात् कार्यानुपपत्तिरत्र विवक्षितेति । अस्तु वा कार्यत्वान्यथानुपपत्ति-भङ्गवाद इत्येव नान । एवञ्चाधिकदूषणस्यावकाशः कृतो भवति । तथाहि कार्यत्वान्यथानुपपत्तिरित्यनेना अयमर्थो विवक्षितः यथा ब्रह्मगतमुपादानलं कार्यमिय्यात्वमन्तरानुपपन्नं सत् मिथ्यात्वं प्रकल्प्य स्वयं विवर्तोपादानत्वरूपं निष्पन्नम्, तथा जगनिष्ठ कार्यत्वमपि कार्यमिध्यात्वमन्तरानुपपन्नं सत् तदाक्षिप्य स्वयं विवर्तकार्यत्वरूपं निष्पन्नमिति । तत्र तदनन्यत्वसूत्रान्तमाप्येण, “सूत्रकारोऽपि परमार्थाभिप्रायेण तदनन्यत्वमित्याह — अप्रत्याख्यायैव कार्यप्रपञ्च परिणाम प्रक्रियाञ्चाश्रयति, सगुणेषूपांसनेपूपयोक्ष्यत इति” इत्यनेनेदमुक्तम् यत् कार्यप्रपञ्चो वस्तुतो नास्ति, ब्रह्मणि कल्पितत्वात् । अतो विवर्तप्रक्रियैव । एतज्ज्ञानं सर्वाधारयुज्यते । लोकव्यवहारनिर्वर्तनं तु परिणामवादाश्रयणेनैव । तस्मिंश्च परिणामवादे ‘स्याल्लोकवत्’ इति समुद्रफेनतरङ्गरूपदृष्टान्तोपन्यासः । न हि मोक्षातिरिक्तफलकामिनां सर्वाभावप्रतिपादकविवर्तवाद विज्ञानमनुकूलम् ; प्रत्युत बाधकमेव । विवर्तवादे पुरुषबुद्धि कल्पितत्वस्यैवेष्टत्वेन तत्रेश्वरः स्रष्टा कश्चिद्वस्तुतो न भवति । ततः, ‘सर्वज्ञात् सर्वशक्तेः जगज्जन्मस्थितिलयाः प्रवर्तन्त’ इति प्रतिज्ञानं परिणामवादे स्थित्वेति । अस्मिन् पक्षे परिणाम्युपादानं किम् । न ताबद् ब्रह्म ; निर्विकारत्वश्रुतिविरोधस्य व्यवहारदशायां परिहारासंभवप्रसंगात् । मायेति चेत् ब्रह्मण उपादानत्वं तर्हि त्यक्तं भवेत् । विवर्तोपादानत्वं तुः व्यवहारदशायां दुर्वचम् । उपादानभूतमायाधिष्ठातृत्वादुपादानत्ववाचोयुक्ति कार्यानुपपत्तिभम-प्रसाधनम् १००१ रिति चेत् — खमते अभिन्ननिमित्तोपादानत्वं ब्रह्मणि मुख्यं नोक्तं भवतीति विमृश्यताम् । परमार्थरीतिमनुसृत्य विवर्तवादे च निमित्तत्वांशो न भवति कल्पनायां स्रष्टुरनपेक्षितत्वात् । अतोऽभिन्ननिमित्तोपादानत्वं भवन्मतेऽनुपपनम् । एवं विवर्तवादे कार्यत्वकारणत्वे किञ्चिद्रूपे जगद्ब्रह्मणोः स्वीकियेते एव । अत एवार्निर्वचनीयस्योत्पत्तिरिष्यते । तथाच सत्यत्वपक्षे कार्यानुपपतिरुद्धाटिता विवर्तवादेऽपि प्रसरति । तदुच्यते विवर्तरूपं कार्य किं कारणेन संबद्ध विवर्त्यते, उतासंबद्धम् । • आधे संबन्धाश्रयतया द्वयोरपि सत्त्वाविशेषात् किं कस्य कारणं स्यात् । असंबद्धत्वे अविशेषात् सर्वे सर्वदा विवर्तेत । तथा कार्यस्य भिन्नत्वे भिन्नत्वाविशेषात् सर्वं सर्वदा विवर्तताम् । अभिन्नत्वमयुक्तम् ; तथासति कार्यकारणभावस्यैव दुर्वचत्वात् नियतपूर्वसतः कारणत्वात् नियतोत्तरसतश्च कार्यत्वात् । एवं कारणमविकृतं सत्, उत विकृतं सत् । आद्ये सर्वदैव कारणवत् विवर्तस्यापि सत्त्वापत्तिः । तथा च कार्यकारणभाव-भङ्ग एव । अन्त्ये सा विकृतिरपि विकृतादविकृताद्वेति विकल्पावतारादनवस्था । अतो विवर्तोपादानत्वमपि ब्रह्मणो न युक्तम् । सत्कार्यवादस्तार्किकैर्निरस्तः । असत्कार्यवादश्च सांख्यैः । अनिर्वचनीयोत्पत्तिवादश्चास्माभिः । तथाच कार्यकारणभाव एव न भवतीति अधिष्ठानारोपादीनामपि दुर्वचत्वात् सर्व व्यवहारपदं निर्गुणब्रह्मणा सह नास्तीति शून्यमेव त्यात् तन्वम् । यदि तु, “अनिर्वचनीयत्वं मिथ्यार्थस्य शुक्तिकारजतादिस्थले प्रत्यक्षसिद्धम् । न हि दृष्टेऽनुपपन्न नाम” इति शतभूषण्यामत्रोक्तम्, “तथापि लौकिकौदिकमर्यादा नोल्लङ्घनमर्हति" इति पूर्ववादांतञ्चाद्रियते, तर्हि दृष्टस्यापढवायोगात् किं कथं दृश्यत इत्येव विचारणीयम् । तथाचानिर्वचनीयवादः असत्कार्यवादश्च शून्यवादवत् प्रत्यक्षाननुकूलः; सत्कार्यवाद एव दृष्टानुगुणत्वात् ग्रास इति स्थास्यातीति मन्तव्यम् । अत एव शाङ्करभाज्येऽपेि, ‘अप्रत्याख्यायैव कार्यप्रपञ्च परिणामप्रक्रियाश्ञ्चाश्रयतीति भाषितम् । तेन लोकदृष्टः कार्यकारण 126 १००२ परमार्थ भूषणे भावः परिणामपरिणामिभाव एव, नान्य इति स्पष्टम् । इदञ्च तदनन्यत्वसूत्रान्ते उक्तम्, भोक्त्रापतिसूत्रादीनां पूर्वभागे निविष्टानानिव तदन्यत्वसूत्र पश्चाद्भाविनाम्, “भावे चोपलब्धेः " इत्यादीनामपि प्रायः परिणामवादमनुरुध्यैवार्थवर्गनमृजु भवतीति सहृदयं मनसि निधायैव । न हि पटोपलब्धौ नियमेन तन्तूपलब्ध्यन्तर्भाववत् सर्पोपलब्धौ रजपलब्ध्यन्तर्भावो भवति । अत एव रज्जसर्पाद्युदाहरणं भाष्येऽपि सूत्रार्थत्वेन नादृतम् । किंतु प्रकृत्यधिकरणे नविलक्षणत्वाधिकरणेऽन्यत्र च सर्वत्र परिणाम्युपादानं प्रसिद्धमेव दर्शयन् सत्कार्यवाद समर्थयते । अतः, ‘न हि ष्टेऽनुपपन्नं नाम’ इति न्यायेन कुतर्कैः " प्रत्यक्षापलापमकृत्वा कार्यसद्भाव एवं स्वीकर्तव्यः । अत एव भामतीकारोऽविद्याया दोषविधया निमित्तत्वात्र विवर्तवादरूपपारमार्थिकदृष्टया मन्वानोऽपि परिणाम्युपादानत्वमप्यन्वारोहति तत्रतत्र, ‘सूक्ष्मं तु तदर्हत्वात्’ इत्यादौ । अतः प्रत्यक्षानुरोधेन शतदूषग्यामत्र वाद उपपादितरीत्या कार्यानुपपत्तिपरिहारः कार्यः । एवं सति पूर्वापर सर्वसूत्रगतिमनुसृत्य तदनन्यत्वसूत्रमपि परिणामवादपरतयैव व्याख्यातुं युक्तं शाङ्करभाष्येऽपि । विवर्तवादानुसारेण कृतस्य व्याख्यानस्य सूत्रार्थत्वासंभवादपि तथा । अत्र हि तदनन्यत्वस्य ब्रह्मव्यतिरेकेण परमार्थतोऽभाव इत्यर्थो न शाब्दः । कार्थं स्वीकृत्य तस्य ब्रह्मैक्यमत्रो च्यते ; न तु कार्याभावः । अनिर्वचनीयस्य च मिथ्याभूतस्य ब्रह्मैक्यं न संभवतीति उपादेयमुपादानादनन्यदिति न भवद्भिर्वक्तुं शक्यते । अत एव वाचस्पतिमिश्रेण समन्वयाधिकरणे भेदाभेदपक्षखण्डनेन कार्यकारणयोरभेदः तात्त्विकः, भेदः कल्पित इत्युक्तवता अत्र प्रबुद्धेनोच्यते, अभेदोपि नास्तीति । अत एव अनन्यत्वपदमन्यथा व्याख्यायते । तत्तत्कार्यावच्छिन्नचैतन्यपर्यन्तस्योपादेयपदेन ग्रहणादैक्योपपत्तिरिति चेत् — अस्मन्मत इव यदि विशिष्टस्य कार्यत्वमिष्टम्, तर्हि तत् युज्येत ; न त्वन्यदा । एवञ्च विवर्तवादस्त्यक्तो भवति । चैतन्यस्य तत्तदवच्छिन्नत्वं भवन्मते दुर्वचमिति च प्रागेवोपपादितम् । कार्यानुपपत्ति-भङ्ग-प्रसाधनम् १००३ तथा ‘आरम्भणशब्दादिग्य’ इति चानन्वितम् । मिथ्यात्वसाधकं हि वाचापदं भवदभिमतम् । वाङ्मात्रत्वाद् वस्तु नास्तीति प्रदर्शनमारम्भणशब्देन कथं स्यात् । प्रत्युत आरम्भणमिति किञ्चिदारम्भस्योक्तत्वात् आरभ्यस्यापलापो न कार्य इत्येव सूत्रांक्तं स्यात् । विशिष्य आरम्भणशब्दग्रहणं तार्किकमतस्येव सांख्यमतस्यापि निरासेनाभिमतसत्कार्यवादप्रदर्शनायेत्यपि स्यात् । तदनन्यत्वमिति उपादानो गक्यमुक्तम्, ततस्तार्किकमतानभिमतिः स्पष्टा । तर्हि कार्याणां कार्यरूपेणैव तिले तैलवत् कारणान्तर्भावि कालविशेषेऽभिव्यक्तिमात्रञ्च मन्यमानः सांख्योऽपि निराकार्य इति आरम्भणमिति श्रौतपदग्रहणम् । आरम्भणशब्दश्रवणात् किञ्चिदारम्भस्तावदेषितव्यः न तु सर्वस्य प्रागेव सिद्धस्यामिव्यक्तिमात्रम् । तत्रारम्भवादस्तार्किकेोऽत्र न स्वीकार्यः ; द्रव्यारम्भपक्षे उपादानोपादेययोरैक्यायोगात् उपक्रान्तस्यैक्यनिर्देशस्य, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाश्च भङ्गात् । अतो द्रव्यैक्ये सति अवस्थामात्रारम्भ इति तेन दश्यते । एवञ्च श्रुतौ ‘वाचारम्भणं विकार’ इति विकारपदमवस्थामात्रपरम् । आरम्भणमिति नपुंसकनिर्देशः विकारनामधेययोर्द्वयोर्विशेष्यत्वात् नपुंसकैकवद्भावेन । अतो घटत्वादेरारम्भ एव न त्वभिव्यक्तिरिति उत्पद्यत इति व्यवहारस्यावस्थामादाय निर्वाह्यत्वात् द्रव्यानन्यत्वमविचाल्यमिति भावः । अनेन घटत्वादेर्नित्यजातित्वपक्षेोपि परास्त आरम्भणशब्देन । तदवारम्भशब्दो मिथ्यात्वनिषेधकोऽपि भवतीति मन्तव्यम् । अत्र पक्षे कर्ता विकारो नामधेयञ्चारभ्यत इत्यर्थः । श्रीभाष्यदर्शितेऽर्थान्तरे तु मृद्रव्येणेति पदाध्याहारः; आरम्भशब्दार्थश्चान्यः । तत्र चौचित्यमन्यदित्यलम् । एवं स्वरसमर्थं परित्यज्य शाङ्करभाष्ये मिथ्यात्वपरतयाऽन्यथाव्याख्यानं नूनं मतस्यासौत्रत्वं मा भूदिति मत्यैव । आस्तामेतत् । यथाकथञ्चिदनिर्वचनीयस्याप्युत्पत्तिस्वीकारात् तत्रो पादानं सहकारिकारणञ्चाभिमतमेवेति तत्रानुपपत्तिपरिहारस्य स्वयमपि कार्यतया प्रसिद्ध कार्यकारणभावत्या गेनान्यादृशकार्यकारणभावकल्पनम्, तदुपयोगितया. अज्ञानादिवस्तु कल्पनम्, तत्साधनाय शुक्तिरजतादिदृष्टान्तानिवचनी १००४
यत्तम्, तत्र पल्लवाज्ञानपरिचिन्तनम्, शुक्ते विवर्तोपादानत्वस्य स्वयं प्रथम मुपपादनार्थगृहीतस्य त्यागेन शुत्यवच्छिन्नचैतन्योपादानत्मकल्पनमित्यादिकमपेक्ष्य, अनुभवसिद्धवस्तुतत्कारणभावरक्षणमेव श्रेयः । एवं तर्हि कथं जगतो मिथ्यात्वमिति चेत् — मा भूत् । मिथ्यात्वाभिमानेपि विवर्तोपादानत्वकल्पनादिकं व्यर्थमेव । प्रतीयमानत्वे सति बाध्यमानात्वादेव तत्संभवात् । प्रतीयमानत्वं प्रत्यक्षम् । बाध्मानत्वं श्रुतिगम्यम् । एवमेव सर्वनिर्वाहे किमिति अद्वैति निरधिकः परिश्रम ऊढो बिवर्तोपादानत्वादिगन्धर्वनगर निर्माणेनेति चेत् — श्रूयताम् । शुक्तिरजता दिमिथ्यास्थले उत्पत्तिनाशयोरदर्शनात् सृष्टिस्रष्टृतदुपकरणाद्यप्रसक्तेः प्रपञ्चविषये च तत्सर्वसद्भावस्य श्रुतिशतसमधिगतत्वात् कथं मिथ्यात्वमिति शङ्कायाम्, शुक्तिरजतादिस्थलेऽपि सर्वकल्पनं तैरारब्धमिति । तदसं नवस्त्वनुभवविरोधादेव सुवचः । विशिष्याप्युपपाद्यते – शुक्तौ कदाचित इदं रजतमिति ज्ञानमुत्पद्यमानं रजतांशेऽप्यपरोक्षतयाऽनुभवसिद्धमिति तदुपपादनार्थमर्निवचनीय रजतोत्पत्तिः क्रियते । सेयमुत्पत्तिरनुभूयमाना न भवति । रजतं यद्युत्पद्यमानतादशायामपरोक्षम्, तर्हि तदुत्पत्त्याप्यनुभूयमानयैव भाव्यम् । एवं रजतबाधानन्तरं रजतं नष्टमित्यपि प्रतीतिः स्यात् । न च शुक्तेः पूर्वस्थितत्वेन गृहीतत्वात् तत्तादात्म्यस्य रजते गृह्यमाणत्वात् रजते उत्पाद्यमानत्वं न गृह्यत इति वाच्यम् इदरजतमिति ज्ञानस्य शुक्तौ पूर्वकालस्थितत्वावगाहित्वाभावात् । इदमंशविषयकान्तःकरणवृत्तेः रजतविषयका विद्यावृत्तेश्च भिन्नतया इदशवार्तानभिज्ञया अविद्यावृत्त्या रजतेन सह तदुत्पत्तिविषयकत्वे बाधकाभावात् उत्पत्तेश्वाग्रहणादुत्पत्तिर्नास्तीत्येवावसीयते । अनुभूयते च नात्र रजतमुत्पन्नमिति । किञ्चापूर्वरजतोत्पत्ति स्वीकुर्वाणैरपि एक विशिष्टज्ञानानुभवो न रक्षितो भवति । एवमपरोक्षत्वनिर्वाहार्थमपूर्वोत्पत्तिस्वीकारिभिरपरोक्षत्वोपपादनेऽपि चाक्षुषत्वानुभवो नोपपाद्येत । रजतं चक्षुषा पश्यामीति हि लोकिकोऽनुभवः । न च भवन्मते चक्षुरिन्द्रियसंनिकर्षतदधीनान्तःकरणवृत्ति संबन्धो रजते इष्टः । यदि त्विदमर्थ कार्यानुपपति-भङ्गसाधनम् १००५ चाक्षुषत्वमेव तत्तादात्म्येन गृहीते रजते आरोग्य व्यवहियत इत्युच्यते, तदिदमपरोक्षत्वांशेऽपि तुल्यमिति किमर्थमपरोक्षत्वोपपत्त्यर्था रजतोत्पत्तिकरूपना । रजतोत्पत्तिपक्षादृतकल्पना सहस्रात् अपरोक्षत्वनिर्वाह एकः चाक्षुषत्वविषये क्लुप्तरीत्या स्वीकर्तुमुचित इति महलाघवं तावदवधानमर्हति । अपिच शुक्तिधर्मिंगो रजतस्य च पृथक्पृथगुवृत्त्या विभिन्नया परस्परवार्तानभिज्ञया ग्रहणे इदमर्थ रजत योरैक्यभानं कथम् । शुक्तिरजतयोर्भेदाग्रह मात्रम्, न तु तादात्म्यग्रह इति तु अरुनातिवादिनां पक्षः, न भवताम् । तादात्म्यरूपानिर्वचनीय वस्तुग्राहकाविद्यावृत्यन्तरस्वीकारे तत्तादात्म्यरजततदधिष्ठानशुक्तीनां संबन्धग्राह्कमन्यदन्वेषणीयम् । शुक्तिविषयकान्तःकरणवृत्तिरजत विषयका विद्यावृत्त्युभयप्रतिविम्बितं चैतन्यं शुक्तिरजततादात्म्यग्राहीति चेत्-न-वृत्तिप्रतिम्बितचैतन्यस्य वृत्तिविषयातिरिक्तग्राहकत्वायोगात् । तादात्म्यञ्चेदं पारमार्थिकमनिर्वचनीयं वा । नद्यः, तस्यानिर्वचनीयरजतप्रतियोगिकत्वायोगात् । नान्त्यः, पारमार्थिकशुत्तमनुयोगिकत्वासंभवात् । शुक्तितादात्म्यस्य शुक्तौ क्लृप्तत्वेपि तस्य रजतप्रतियोगित्वमविद्या कल्प्यमेवेति रजतकल्पक सामग्रीवत् तत्कल्पकसामग्र्यपि कल्पनीयैव । रजततादात्म्ये रजते क्लृप्ते रजतप्रतियोगिकत्वस्य क्लसत्वेपिशु तादात्म्ये रजतप्रतियोगित्वं हि कल्पनीयमेव । एवं शुक्तिवृत्तिरजतवृत्तिप्रतिबिम्बितचैतन्यमेकमिति किं प्रतिबिम्बाभिप्रायेणोच्यते, उत बिम्बाभिप्रायेण, आद्ये वृत्तिभेदेन तद्भेद एवेति कथमैक्यम् । अन्त्ये बिम्बस्य सकलवृत्तिसाधारणत्वात् यावद्विषयकवृत्त्युत्वादः, तावत्सु वस्तुषु चैतन्येन तादात्म्यावगाहनप्रसंगः। कचित् तादात्म्यावगाहनम् कचित् संबन्धान्तरावगाहनमित्यत्र नियामकमपि न स्यात् । विम्बमिति च किं शुद्धस्य ग्रहणम्, विशिष्टस्य वा । नाद्यः, शुद्धस्य निर्विषयकतया वस्तुततादात्म्यादिमा हित्वायोगात् । नान्यः ; विशिष्टस्य वृत्तिभेदेन भिन्नतयोभयतादात्म्यग्राहित्वासंभवात् विशिष्टस्य शुद्धादतिरिक्तत्वे मिथ्यात्वेन जडत्वात् किञ्चिद्वासकत्वमपि न भवति । अविचापरोक्ष निर्वाहायानिर्वचनीय कल्पनेम १००६
वृत्तिद्वयस्वीकारे भ्रमस्य विशिष्टैकज्ञानत्वानुभव-भङ्गः । तदर्थमन्यथाख्यातिस्वीकारे चापरोक्षत्व-भङ्गोपि नास्ति । दोषस्यैवापरोक्षत्वं प्रति प्रयोजकत्वकल्पनात् उक्तविधायासानामनवकाशात् । क्लृप्तैव चान्यथाख्यातिरनुमित्यादि परोक्षभ्रमे । अन्यथा तत्राप्यनिर्वचनीयकल्पने इंदरजतमिति अविद्याकृतेः प्रत्यक्षत्वस्य क्लृप्तत्वात् पर्वतो वाह्निमानित्यनुमितेरपि प्रत्यक्षत्वप्रसंगः । परामर्शस्याकारणत्वप्रसंगश्च प्रत्यक्षप्रमायां चक्षुरादेखि प्रमात्मानुमितावेव अविद्यातिरिक्तकारणस्य युक्तत्वात् । रजतादेरपरोक्षत्वानुभावानुसारेणैवानिर्व चनीयकल्पनात् अनुमेयानां परोक्षत्वस्य निर्विवादतया तत्कल्पनानवकाशाच्च । एवं शाब्दबोध दावपि द्रष्टव्यम् । न केवल परोक्षे; लोहितः स्फटिक इत्यादीन्द्रियसंनिकृष्ट सर्व पदार्थविषयकभ्रमेऽप्यनिर्वचनीयाभावः परिभाषादावुपपादित एव । एवं शुक्तौ रजतबुद्धौ जातायां यत् रजतमिदं पारमार्थिकमिति ज्ञानम्, तदपि शुक्तिगतपारमार्थिकत्वस्य रजते आरोपेणान्यथाख्यातिरित्यपि परिभाषोक्तम् । अतोऽन्यथाख्यात्या क्लृप्तयैव विशिष्टज्ञानत्वौचित्याय इंदंरजतमित्यादावपि निर्वाहो युक्तः । अपि च रजतस्य तस्योत्पादकं किम् । वास्तवरजतोत्पादकसामग्रयास्तावन्न प्रसक्तिः । तथासति तस्यापि वास्तवत्वापातात् । अतः शुक्तित्वाज्ञानं तत्कारणमिति वक्तव्यम् । अज्ञानञ्च चैतन्यमात्रविषयकं जडाविषयकं भवन्मतमिति कथं शुक्तित्वाज्ञानमित्युच्यते । शुक्तित्वावच्छिन्नचैतन्याज्ञानमेव तथोपचर्यत इति चेत् तर्हि शुक्तित्वावच्छिन्नचैतन्यमहं न जानामीति अज्ञानानुभवेन भाव्यम् । अतो भ्रमस्थले धवच्छिन्नचतन्यगताज्ञानमुपादानमित्येतदयुक्तम् । एवमज्ञानं ज्ञानाभावातिरिक्तं न भवतीति प्रागेव प्रपञ्चितम् । अभावश्च न भावस्योपादानं भवेत् । आत्मनिष्ठश्व ज्ञानाभावो बाह्ये रजते कथमुपादानम् । अथाज्ञानं दोषविधया कारणम्; शुक्तिरेवोपादानं वाच्यम् । तच्च विवर्तोपादानम् । कार्यकारणयोर्विषमसत्ताक त्वादिति चेत्-तत्रापि गोमयवृश्चिकादिस्थल इवोपादानगतसूक्ष्मांशानुवृत्तिरपे काय नुिपपति-भङ्ग-प्रसाधनम् १००७ क्षिता । सर्वथाऽनुवृत्त्यभावे उपादानत्वस्य लोकेऽननुभूतत्वात् । अंशवत्त्वे च पारमार्थिकांशवत् रजतमपारमार्थिकं न भवितुमर्हतीति रजतमपि वृश्चिकादिवत् सत्यमेव स्यात् । अत एव जगतो ब्रह्मविव पादानमित्यपि निरस्तम् । जगति ब्रह्मांशानुवृत्तेरीषदप्यावश्यकत्वात् । अनुवृत्तौ च जगतोऽपारमार्थिकत्वासंभवात् । ब्रह्मणः सविकारत्वापत्तेश्च । कथं तर्हि तत्त्वज्ञानात् तन्निवृत्तिरिति चेत् — मिथ्याभूतं द्रव्यं तत्त्वज्ञानान्निवर्तत इति परं कुत्र भवद्भिर्दृष्टम् । अप्रातिभासिकं शुक्तित्वाज्ञानं भवतां शुक्तित्वज्ञान समसताकमपि यथा विवर्तते, तथैवानुभवबलादस्तु । अतो रजतस्य तद्विवर्तत्वमपि न भवति । तथा रजतरूपेण विवृत्तत्वे शुक्तिः केनापि न दृश्येत । नेदं रजतमिति बाधज्ञानानन्तरं पुनः शुक्तिजननमपि कारणाभावात्र स्यात् । रजतरूपेण विवृत्तत्वादेव शुक्तेः नेर्दरजतमिति बाधो न प्रमा स्यात् । न च नेदं पारमार्थिकरजतमिति तदर्थः । पारमार्थिकरजतस्यावश्यकतायाः प्रागुक्तत्वात् । अथ दोषजन्यभ्रमविषयस्य कुत्राप्येवमुपादानकारणापेक्षा मा भूत् । शुक्तिरधिष्ठानमात्रमिति चेत् नहि भ्रमविषयजगदुपादानत्वं ब्रह्मणोऽपि न स्यात् । तथा च श्रुतिविरोधः । एवं प्रातिभासिकरजतोत्पत्तिवादे नेदंरजतमिति बाधज्ञानं न युक्तम् । रजततादात्म्यस्येदमर्थे इष्टतया तदभावायोगात् । पारमार्थिकतादात्म्यं नास्तीत्यर्थस्तु न; निषेधस्य सामान्यविषयकस्य विशेषे संकोचायोगात् । अत एव हि निर्गुणमिति वो गुणसामान्यनिषेधे नैर्भयम् । रजतं पारमार्थिकम् रजततादात्म्यं पारमार्थिकमित्येव भ्रान्तेन गृहीतत्वात् कलितपारमार्थिकत्ववति तस्मिन् सति सामान्यतः पारमार्थिकत्वेन तदभावोपि दुर्वचः । एवं पारमार्थिकत्वे पारमार्थिकत्वमस्ति न वेति विमर्शेऽपि भाव्यम् । आपणस्थसत्यरजतभेदरूपविशेषस्तु न बोधनीयः । भ्रान्तिकालेऽपि तस्य गृहीतत्वात् । अनिर्वचनीयास्वीकारे तु रजतसामान्यनिषेधो युज्यते । एवं नात्र रजतमिति रजतसर्गाभावविषयकबाघज्ञानेऽप्यनुपपतिर्द्रष्टव्या । १००८
अपिच मिथ्यासत्योभय रजतगता रजतत्वजातिरेका, भिन्ना वा । नाद्यः, अपारमार्थिक संबद्धत्वस्य पारमार्थिके अयोगात् । अत एव हि देहसंयोगादेरात्मनि दुर्वचतया देहाभिमानविषयत्वमेव देहसंबन्ध इति भामत्यादावुक्तम् । अन्त्ये, व्यावहारिकस्य रजतशब्दस्य व्यावहारिक रज तत्वजात्यवच्छिन्नशक्ततया मिथ्यारजते रजतशब्दप्रयोगस्यायोगः । रजतशब्दवाच्यत्वभ्रान्त्या तत्प्रयोग इति चेत् –रजतशब्दवाच्यत्वमनिर्वचनीयं तत्र कल्प्यम् । एवं कल्पितस्य रजतशब्दवाच्यत्वस्य रजतशब्दवाच्यत्वपद न मुख्य बोधकमिति मुख्यतया रजतशब्दवाच्यत्वपदवीध्यत्वभ्रमः कल्प्य इत्येवमनवस्था । तत्र सर्वत्रान्यथाख्यात्या निर्वाहे इंदरजतमित्यपि तथाऽस्तु । कथमपरोक्षत्वोपपत्तिः, रजतस्यानुत्पन्नत्वेऽसंनिहितत्वादिति चेत् उत्पन्नत्वेपि संनिहितत्वेऽपि कथमपरोक्षत्वम् । इन्द्रियसंनिकर्षाभावात् । इन्द्रियसंनिकर्ष कल्पनायां तु रजतोपत्तिः रजतेन्द्रियसंनिकर्षः ततोऽन्तःकरणवृत्तिरिति वक्तव्यम् । एवञ्च प्रातिभासिकत्वं न स्यात् ; प्रतिभासात् पूर्वं प्रातिभासिकाखीकारात् । रजतं तद्विषयकाविद्यावृत्तिश्च युगपदिति हि सिद्धान्तः । दुर्वचश्च व्यावहारिकेन्द्रियसंनिकर्षः प्रातिभासिके । असंनिकृडेऽप्यविद्यामहिम्ना वृतिरुदेतीति चेत् तर्हि आपणस्थरजतमेव अविद्यामहिना तद्वृत्तिर्विषयीकरोतु किं रजोत्पत्तिकल्पनेन । अनिर्वचनीयस्य प्रतिभासिकस्पोलत्तिरपि दुईचा । उत्पत्तिः खल्वाद्यक्षण संबन्धः । न च व्यावहारिकस्य कालस्य प्रातिभासिकस्य रजतस्य च संबन्धः संभवति । शुक्तिरजतोत्पादको दोषश्च कः । न तावत् शुक्तिव्वाज्ञानम् ; अज्ञानस्य ज्ञानाभावस्य दोषताया अदृष्टत्वात् । प्रत्युत ज्ञानोत्पत्तिं प्रति ज्ञानप्रागभावस्य कारणत्वमेव । अतो ज्ञानाभावे सति सर्वकारण समवधाने ज्ञानोत्पत्तिरेव । अज्ञानं भावरूपमिति चेत् -तत् प्रागेव पराकृतम् । अत एव मूलाज्ञाने वा तूलाज्ञानं वा प्रातिभासिकं प्रति हेतुरिति निरस्तम् । शुक्तिरजतमुत्पद्यत इत्येतदर्थसिद्धौ तन्न्यायेन जगतो मिथ्यात्वपलप्तेः कार्यानुपपति-भङ्ग-प्रसाधनम् १००९ तज्जनकतया मूलाज्ञानकल्पना । ततः प्राक् च मूलाज्ञानमसिद्धमिति तूलाज्ञानस्य भावरूपस्य का प्रसक्तिः । तूलाज्ञानमिंद ब्रह्मवत् पारमार्थिकं न भवतीति कल्पितमेव वाच्यम् । न च तत्कल्पना शुक्तिरजतोत्पतेः प्रागनुभसिद्धा । शुक्तिमहं न जानामीति प्रतीतेः रजतग्रह्णात् पूर्वमभावात् । रजतदर्शनानन्तरं कार्यान्यथानुपपत्त्या तत् कल्प्यत इति चेत् -तर्हि पूर्वं तदभावात् कार्य न स्यात् । ईश्वरेण कल्पितं शुक्तित्वाज्ञानं रजतोत्पत्तेः प्रागस्तीति चेत् किमीश्वरः अहं शुक्ति न जानामीति भ्राम्यति ? नैवम्; अस्य जीवस्य शुक्तयज्ञानं भवत्विति संकल्पयतीति चेत् तर्हि तदज्ञानं नानादि । असंभावित श्वानादित्वम् । पूर्व शुक्तिज्ञानवतोपि पश्चात् शुक्तौ भ्रमदर्शनात् तदज्ञानस्य कादाचित्कत्वात् । अतस्तदुत्पत्तेरावश्यकत्वे तस्याज्ञानस्याप्यपारमार्थिकतया कुल केन तदध्यासः । चैतन्ये तदध्यासोऽपि मूलाज्ञानवशादिति चेत्मूलाज्ञानस्य सर्वदा सत्त्वात् सर्वदा शुत्यज्ञानापत्तिः । अध्यासे सति प्रतीतेरावश्यकत्वात् अहं शुक्ति न जानामीति सर्वदाऽनुभवापत्तिः । अयं शुतयज्ञानवानिति ईश्वरस्यानुभवोऽस्तीति चेत् — अन्यकल्पनाविषयभूतं वस्तु अन्यस्य कार्यकरं लोके न दृष्टमिति न तेनाज्ञानेन जीवस्य रजतभ्रान्ति संभवः । भावरूपाज्ञानस्य लोकानुभवदूरत्वात् तस्य दोषत्वं न भवतीत्युक्तमेव । नन्विदं रजतमिति भ्रान्तेरानुभविकत्वात् दोषेण केनचिदवश्यमेव भाव्यमिति चेत् — सत्यं भाव्यम् । को निषेधति । स कश्चिदस्तु, यो भ्रममुत्पादयेत् । रजोत्पादकस्तु निषिध्यते । तत्राज्ञानं दोष इति भवन्मतमिति तस्य दोषत्वासंभवो दर्शितः । अन्यच्च परिमलादिनिरसनेन परमार्थप्रकाशिकायां नयद्युमणिभूमिका याञ्चानिर्वचनीवोत्पत्त्यसंभवोपपादनं कृतमत्र समुच्चेतव्यमित्यलम् । तर्हि रजतझ्यापरोक्षत्वं कथमिति चेत्-उक्तमेव चाक्षुषत्ववदिति । शुक्तिज्ञानगतापरोक्षत्व 127२०१०
चाक्षुषत्वयोः रजतज्ञाने आरोपात् शुक्तिगतापरोक्षत्वादेः रजते आरोपः । सा च लोहितः स्फटिक इतिवदन्यथाख्यतिः । तस्मात् जगदपलापवृत्तैः प्रलोभनाय शुक्तिरजताद्विकार्याणामप्युत्पत्तिकल्पने विशेषतः प्रयस्यत इति सर्वतोमुखमद्वैतिनामन्यथाग्रहणम् । आस्तामेत् । एवं मिथ्याभूतस्यापि कार्यस्योत्पत्तिरिति पक्षस्य प्रपञ्चविषय इव शुक्तिरजतादिस्थलेऽप्यद्वैनिभिर्विस्तृतता, परिणाम्युपादानविवर्तोपादानरूपाने कोपादानाङ्गीकाराच्च कार्यकारणभावापलापाभावात् खपक्षविरोधमप्यनालोचयद्भिः यया कयापि विघा कार्यमिव्यत्वसाधने प्रवृत्तैः कैश्चिदुक्तः, कार्यस्य किञ्चित् कारणमेव न भवितुमर्हतीति पक्षः शतदूषण्यामनूदितः खण्डनकारा दिवैतण्डिक मानितोऽपि न तत्त्वजिज्ञासया वादप्रवृत्तैरद्वैतिमिरादरणीय इति तत्खण्डनं शतदूषणीकृतं शतभूषण्यादिभिरनुमोदनीयमेवेति तत्र तदंशपरीक्षणमनुचितमेव । संग्रहेण चाथ परीक्षोक्तं परीक्ष्यते ब्रह्म विवर्तोपादानमिति सत्कार्यवादस्यावान्तरो भेद इति यदुक्तम्तत् सत्यं तथैव भवन्मते । सर्व मायापरिणाम इति संप्रतिपन्नमित्युक्तं तु न –भामत्य संमततया तत्र संप्रतिपत्त्यभावात् । विवर्तोपादानस्थले कार्यकारणद्रव्यैक्यमावश्यकमिति सत्यमिध्यावस्तुविषये तदुक्तेरयोगात् ब्रह्म न विवर्तोपादानं भवितुमर्हतीति चर्वितमेतत् । कार्यं कारणेन संबद्धमसंबद्धं वा भवतीति विकल्प्य दूषणं सद्विवर्तवादरक्षणायेत्ययुक्तम् ; सद्विवर्तवादेपि तदूषणस्य प्रसरात् । परिहारश्च सर्वत्र तुल्यः । एवं भामतीप्रस्थानाति रिक्ते प्रस्थाने मायापरिणामस्येष्टत्वादपि इदमद्वैतिदूषणमपि भवेदेव । अत एव परिणामवादस्थापनस्योपरिशतदूषणीकृतस्य खानुमोद्यत्वात् तददूषणसंरम्भो रभसकृत एव । अत्र संदर्भे सर्वमप्यसंबद्ध वाग्जालमात्रमिति किमेतदालोचनेन । सत्कार्यवादासत्कार्यवादौ सुन्दोपसुन्दन्यायेन पराहताविति सद्भवर्तवादः स्थास्यतीत्ययं मन्यते । सद्विवर्तवादोपि सत्कार्यबाद एवेति खोक्तमेव खय कार्यानुपपत्ति-भङ्ग-प्रसाधनम् v .. २०११ मत्र विस्मरतीति तदद्य स्मारयामः । कार्यं सद्विवर्तभूतत्वात् सदिति असदिति निर्वक्तुमशक्यमिति यदुक्तम् — तेन भवद्वादस्य सत्कार्यवादान्तर्भावो भवत्कृतोऽनुपपन्न इति दर्शितं भवति । अविशेषात् सत्कार्यासत्कार्योभयवा रज्जावारोपितानां सर्पादीनां विवर्तत्वं न लौकिकैः अन्येस्तान्त्रिकैर्वा संमतमिति न तद्दृष्टान्तेन जगद्विवर्तत्वसिद्धिः । दत्वं वा स्यात् । ‘आदावन्ते च यन्नास्ति वर्तमानेपि तत् तथा’ इति न्यायात् मध्यकालेप्यभावसिद्धिरित्ययुक्तम्; न्यायस्यैव निर्मूलत्वात् । ‘ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः’ इति भवद्गीता भोगानां दुःखयोनित्वादाद्यन्तवत्त्वाच्चोपेक्ष्यत्वमेवाहेति स्पष्टम् । आद्यन्तवत्त्वं मध्ये सत्त्वञ्चात्रोक्तम् । संस्पर्शजत्वं संस्पर्शोत्तरकालसत्त्वमू; दुःखयोनित्वं दुःखपूर्वकालसत्त्वम् । तेन मध्यसत्त्वमेवोक्तं भवति । मिथ्येति नोक्तम् ; किंतु रतिविषयत्वायोगमात्रम् । भवन्मतरीत्या तु भोगवत् दुःखानामपि आदिमध्ययोरिव मध्येप्यभावावधारणात् दुःखयोनित्वकथनं भोगप्रवृत्तिप्रतिबन्धकं न स्यात् । ‘कार्यमाद्यन्तयोरध्यस्तं मध्येऽध्यस्तत्वादित्यनुमानं साधु’ इत्युक्तमप्ययुक्तम्भवन्मतेऽपि कार्यप्रतीतिपूर्वोत्तरकालयोस्तस्य कचिदध्यस्तत्वाभावात् । तथाध्यासे हि सर्वकालसंबन्धो मिथ्याभूतः कार्यस्य स्वीकर्तव्यो भवति । अत एव कार्य मध्ये अनारोपितम् आद्यन्तयोरनारोपितत्वादित्यप्यापद्यत इत्युक्तं शतदूषण्याम् । विवादगोचरो भेदव्यवहारः स्वविषय सर्व मेदानुगतैकवस्तुमात्रालम्बनः भेदव्यवहारत्वात् रज्ज्वादिविषयसर्पभूदलना दिभेदव्यवहारवदित्यनुमानसमर्थनमशक्यम् — मे (शब्देनैकवस्त्ववान्तरभेदग्रहणे जगद्व्यवहारस्य पक्षत्वाभिमतस्य एकवस्त्ववान्तर भेदत्वस्यासिद्धतया आश्रयासिद्धेः । अन्योन्याभाववद्विषयकव्यवहार इत्यर्थे च सर्वस्यापि व्यवहारविषयस्य किञ्चिदन्योन्याभाववत्त्वात् अव्यावर्तकं भेदपदम् । एवं साध्य कोटो एकवस्त्विति सद्रूपविवक्षया सन्मात्रालम्बनत्वं साध्यमिति न युक्तम् । साध्ये सन्मात्रघटने दृष्टान्ते साध्यसम १०११ परमार्थ भूष गे ; न्वयाभावात् । तत्र हि रज्ज्वाद्यालम्बनत्वमेव न सदित्यालम्बनम् । अतः एकवस्त्वित्येव निवेशः कार्यः । एवमपि दृष्टान्ते सर्पभूदलनादिव्यवहारे रज्जुमात्रविषयकत्वं न भवति, सर्पत्वादिविषयकत्वस्य स्पष्टत्वात् । अथ पारमार्थिकैकवस्तुमात्रविषयकत्वं साध्यमिति चेत्अप्रयोजको हेतुः । राज्जद्वयमाहिणि इमौ सर्पों इमे भूदलने इत्यादिव्यवहार इवानेकपरमार्थविषयकत्वस्यापि संभवात् । कस्यचित् व्यवहारस्य मिथ्या सत्योभयविषयकत्वस्य, कस्यचित् सत्यतयैव सर्वविषयकत्वस्य च यथायथं संभवेन मिथ्या सत्योभयविषयकत्वसाधनायोगाच्च । सर्वानुगतैकवस्तुमात्रेत्यस्य स्वविषयाध्या साधिष्ठान भूतपरमार्थविषयक इति साध्यनिष्कर्षपरत्वे च तत्त्वमसीति ब्रह्मव्यवहारेणानेकान्तः; तस्य मिथ्याविषयकत्वाभावात् । भेदव्यवहारत्वादिति हेतुश्च शुक्तिरजतव्यवहार-रज्जुसर्पव्यवहार समुदायेऽप्यस्ति । तत्र स्वविषय सर्वानुगतपारमार्थिकवस्त्वभावात् साध्यवैकल्यम् । एवमेकैकव्यवहारेऽप्यस्ति हेतुरिति तत्र स्वविषय सर्वेति साध्यानन्वयादनेकान्तः । अस्य चानुमानस्य, जागरप्रत्ययो मिथ्या प्रत्ययत्वात्ः स्वप्नप्रत्ययवदिति बौद्धानुमानतुल्ययोगक्षेमत्वात् अनपेक्षितमस्य पृथङ्गिरसनम् । श्रुत्युपष्टब्धमनुमानमिति चेत श्रुति विचार्य तदर्थनिर्णय विधाय पश्चादत्र प्रवर्तनीयम् । किं पूर्वं तद्द्महेण । सर्वपारमार्थ्य परश्रुत्यन्तरचा घितत्वादनुमानस्य । यत्तु अवस्थारूपेण कार्यस्यासत्त्वांगीकारे असत्कार्यवाद एव गृहीतः स्यादिति अनिर्वचनीयकार्यवाद एव ग्राह्य इति — तदपि न तदापि सत्कार्यवादाभावात् — अनिर्वचनीयस्योत्पत्त्यभ्युपगमात् । अन्यथा सत्कार्यवाद इत्यत्र सदित्यंशतः कार्येत्यंशतः उभयतश्वासांगत्यम् । द्रव्यसत्त्वमेव सत्कार्यवादार्थ इति निष्कर्षे दर्शितेऽपि गृहीतग्रहणेन व्यर्थमेवमाक्षिष्यते । मायापरिणामव। दिखपक्षखण्डनमेव भवता क्रियत इत्यप्यवधेयम् । 1 कार्यानुपपत्ति-भङ्ग प्रसाधनम् १०१३ अथ वैतण्डिकीभूय सत्कार्यवादः अथवा भावात् कार्योत्पत्तिवाद एव स्वपक्षविस्मरणेन खण्ड्यते शतभूषणीकृता -शतदूषणयुक्तं सर्व खण्डयमिति मत्येव । भावात् मृदः कार्योत्पत्तिश्चेत्अनुपमृदितमृज्जन्यत्वमप्यस्तु कार्यस्येति । उपमर्दमसृणाया मृद एव कारणत्वमिति कोत्र दोषः । न हि केवलादभावात् घटो भवति । पिण्डावस्थायां मृदवस्थानाश इति वचनं बाधितार्थकम् । तथा, ‘मृदो घटकारणत्वं वक्तुमशक्यम्; कपालादेव घटोत्पत्तिर्दृश्यत’ इति लेखनमप्ययुक्तम् । कामप्यवस्थां पुरस्कृत्य मृद• एवं कारणत्वात् । कपालादू घट इने तार्किकाः । प्रायां घटात् कपालमित्येव वेदान्तिनः ; ‘मही घटलं घटतः कपालिका’ इति विष्णुपुराणश्लोकमनुरुध्य । एवं ’ तन्तवोऽप्युपमृदिता एव कारणम्’, ‘सतः कारणात् घटाद्युत्पतिरिति कथामात्रं स्यात्’ इत्यादिकमपि भावाभावविलक्षणत्वमज्ञाने वक्तं संरभमाणम्यानुभवापलापेन विजृम्भणमात्रम् । मायादीनां भावाभावविलक्षणत्वं ब्रह्मसिद्धयादीष्टमित्याह । अत्र सर्वेषामिति केषां ग्रहणम् । प्रापश्चिकपदार्थानामिति चेत् — तर्हि अज्ञानस्य भावाभावोभयं प्रत्युपादानत्वं कथमुच्यते । सद्विवर्तवाद एवेति स्वपक्षे सदिति कम्य ग्रहणम् । ब्रह्मण इति चेत् —न — ब्रह्मणि सत्त्वरूपधर्माङ्गीकारे सधर्मत्वापातात् । अनङ्गीकारे ब्रह्मगतानां अस्ति भाति प्रियमिति धर्माणां प्रपञ्चेऽनुवृत्तिरिति कथम् । सत्त्वस्य ब्रह्मण्यभावे चासद्विवर्तवाद एव स्यात् । असद्विवर्तवाद इत्य् अपि वा । मिथ्याभूतस्य विवर्तत्वासंभवश्च प्रागुक्तः । ‘अभावादेव भावोत्पत्तिरस्तु’ इति प्रतिबन्दी शतदूषणी दर्शितेत्येतत्रैव । घटत्वाद्यवस्थानामभावरूपत्वं भावान्तराभाववादिपक्षे शतदूषणयुक्तम् । तावता तासां भावत्वं नेष्टमिति कथमुच्येत । घटत्वस्थाभावरूपत्वकथनमात्रेण, आद्यन्तयो र विद्यमानस्य मध्येऽप्यविद्यमानत्वमप्युपगतं भवतीति स्वयमुले क्षणमात्रम् । न हि अतिरिक्ताभावो मा भूदिति भावस्य भावान्तराभावत्व स्वीकारेण भावस्य तस्य तस्य सर्वदेवाभाव उक्तो भवति । न चावस्थाया अभावरूपत्वोक्तिमात्रेणासत्कार्यवाद प्रसंगः । अतः सर्वमसंचद्धविस्तरमात्रम् । १०१४
" कार्यानुपपत्त्या मिथ्यात्वं कल्पनीयमित्येतद्वादार्थः । न तु मिथ्यात्वं सिद्धवत्कृत्य तेन सद्विवर्तत्वरूपकार्यानुपपत्तिसाधनम् । अतो विपरिवर्तनमत्र न युक्तम् । " तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति" इति श्लोकः पूर्वार्धगतपञ्चम्यन्तस्यो त राधबोध्यक्रियासु सर्वत्रान्वयायोगादशुद्धः । नाशो द्विविधः निवृत्तिर्वाश्चेति विभजनं तु, घटो द्विविधः पटः शाटी चेति विभजनतुल्यम् । ‘अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्’ इति चायुक्तम् । अस्तित्वादेवमण्यपि कलितत्वात् । त्रह्म सच्चिदानन्दरूपम्, जगदपि तथे जगत् नामरूपविकारवदिति ब्रह्मणि सविकारत्वमुक्तं स्यात् । विवर्तशब्दप्रयोगेण विकारवारणासंभवात् । न हि गोमयविवर्ते वृश्चिके सति गोमयस्य निर्विकारता । ब्रह्मणि नामरूपकल्पनामात्रमिति चेत् तर्हि लोकसिद्धो विवर्तवादो नायम् । सदसनिर्वचनीयत्वञ्चान्ततः अद्वैत सिद्धावपि सदसत्त्वाभाव । एवोच्यते । तत्र सत्त्वं काललयावस्थायित्वम् असत्त्वं कदाप्यभावः । तयोरुभयोरभावश्च किञ्चित्कालासत्त्वविशिष्टकालान्तरसत्त्वम् । इदञ्च नश्वरत्वम् ; न तु मिथ्यात्वम् । अतश्च “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्” इति पराशरवचनमनुसृतं भवति । ‘परमार्थस्तावदनाशी । तदन्यच्च नाशि’ इति स्पष्टमुक्तेः । अत्र लोके परिणामवाद एवेष्टः, न भवदभिमतो विवर्तवादः 1 विवर्तवादपक्षे च आकाशादीनां क्रमिकोत्पत्तिः उत्तरोत्तरस्य पूर्वपूर्वस्मिन् लयश्च दुरुपपादौ ; ब्रह्मणि पृथक्पृथक् कल्प्यमानत्वात् । आकाशावच्छिन्नब्रह्मणि वायुः कल्प्यत इति चेत् —केन । ईश्वरेणेति चेत् — ईश्वरकल्पितं वस्तु स एवानुभवेत्, न जीवः, अन्यकल्पितस्यान्येनानुभूयमानत्वासंभवात् । एवमाकाशाद्वायुरित्यादौ आकाशादिपदस्य तदवच्छिन्न चैतन्यपरत्वे लक्षणा । अत्र वायुरिति वायुमात्रं गृहीतम्, वायोरग्निरिति समनन्तरवाक्ये तु वाय्ववच्छिन्न चैतन्यमित्युक्तौ वैरूप्यम् । अवच्छिन्नत्वञ्चेदमध्यासविषयत्वातिरिक्तं दुर्वचम् । वाय्वादिशब्दानां वाय्वाद्यध्यासविषयपरमात्मपरतया प्रयोगश्चा कार्यानुपपत्तिभन्न प्रसाधन भै २०१५ प्रसिद्धः । न च शुक्तिरजतग्राहिणा रजतमत्रास्ति, रजतमानीतमिति व्यवहारे क्रियमाणे रजताध्यासविषयः शुक्तिरेव गृह्यते । तथा ब्रह्मणि आकाशवाय्वादीना मध्यस्तत्वात् आकाशवाय्वादिपदैर्बह्मग्रहणमुपपन्नमिति वाच्यम्रजतपदेन शुक्तिग्रहणं कदाचिद् भवतीत्येतावता रजतशब्दस्य शुक्तिवाचित्वासंभवात् लक्षणाया एव स्वीकार्यत्वात् । तथा लाक्षणिकत्वस्वीकारश्व वास्तवरजते तद्देशवर्तित्व – आनयनकर्मत्वादिसमभिव्याहृतपदार्थान्वियासंभवात् । इह तु ब्रह्मणो निर्धर्मकत्वेन व्यावहारिक सर्वधर्मान्वयस्य तत्राभावात् तदन्वयस्य व्यावहारिकपदार्थेष्वेव वक्तव्यतया आकाशवाय्वादिपदानां लोकव्युत्पत्तिसिद्धं तत्तदर्थवाचित्वं न भज्यते । न हि शुक्तिरजतानयने शुक्ते रेवानयनकर्मत्ववत् घटमानयतीत्युक्तौ ब्रह्मण एव क्रियान्वय इत्यस्ति । अतः प्रसिद्धार्थत्यागेन आकाशावचित्र चैतन्यपर्यन्तार्थग्रहणमनुभवानारूढं सर्वस्य ब्रह्म विवर्तत्वसिद्ध्यधीनलक्षणायतमेव आकाशाद्वायुरित्यादौ वाच्यम् । शोवने चाकाशाद् वायोरुत्पत्तिर्नाम आकाशावच्छिन्न चैतन्ये वायुभ्रम इत्युक्तं भवति । भ्रामात्मकप्रत्यये चाधिष्ठानस्य भानं नियतम् । तत्र शुद्धब्रह्मणोऽधिष्ठानत्वे सदिति अस्तीति वा तद्भानमस्तीति स्यात् । आकाशावछिन्नचैतन्यरूपस्य विशिष्टस्याधिष्ठानत्वे तु तावद्भानस्यावश्यकस्याभावो न युक्तः स्यात् । विशिष्ट नाधिष्ठानमिति चेत्-आकाशस्य वायुकारणत्वत्यागात् क्रमिकोत्पत्तिवादिश्रुतिविरोधः । एवं लयक्रमश्रुतिविरोधोपि भाव्यः । सृष्टिमलयादौ तात्पर्य नास्ति, सर्वमपो ब्रह्ममात्र परिशेषणार्थ मियमुपपादनमंगी आहतेति चेत्-उपनिषदर्थापलाप्यर्धमीमांसकाभिमानपात्रता संपद्येत । अथवा कथं सर्वसत्यतावा दिवैदिकाभिमानः । सौगताभिमान एव स्यात्, कर्मकाण्डार्थस्येवोपनिषदर्थस्यापि प्रायः परित्यागात् । एवं मृत्पिण्डाद् घट इत्यत्रापि मृत्पिण्डाध्यासविषयचैतन्ये घटकल्पनेत्यर्थो वर्णनीयः । मृत्पिण्डे घटभ्रम इत्युक्तं भवति । एवं तु कुलालेनापि नानुभूयते । अन्येषामप्ययं भ्रमोऽनायासेन स्यादिति घटे भ्रान्ताः सर्वे घटस्य निर्मातारः स्युः । को हि नाम भ्रान्त्या कल्पितेष्वर्थेषूत्पत्तिविनाशव्यवहारं लोके कुर्यात् । तस्मादकारणस्थलेऽपि शुक्तिरजतादी १०१६
नां कार्यकारणभावकल्पना नूनं तत्रेव ब्रह्मप्रपञ्चविषयेऽपि वस्तुतः कार्यकारणभावो नास्तीति बोधयित्वा श्रुत्यर्थे स्वयमश्रद्धाजननमनीषचैव । अतो लोकसमतादसत्कार्यवादात् सत्कार्यवादात् आरम्भवादात् परिणामवादात् विवर्तवादाच्च मिथोभिन्नादभिन्नाद्वा विलक्षणोऽयमद्वैत्यभिमतः श्रुतियुक्तयनुभवसुदूरः सद्विवर्तवादः तदर्थमनिर्वचनीयवादश्चेत्यलमधिकेन ॥ कार्याणामपि मिथ्यात्वं लोका दवगतं यदि । ब्रह्मणोऽपि स्वयम्भानात् वेदान्ताः स्युरनर्थकाः ॥ दृष्टान्तान् श्रुतिकथितान् विसृज्य रज्जु व्यालादीनि विनिवेश्य तत्र सृष्टिम् । आरोप्य व्यपदिशतां विवर्ततिं खालित्यं प्रतिपदमेव साधु लक्ष्यम् ॥ शुभमस्तु श्रीः