५३ मिथ्योपादानत्वकल्पन-भङ्ग-प्रसाधनम्

संघाते चिदचित्परत्त्रयमये मायाऽप्युपादानताम् अंशे या भजते तया सह स आश्चर्यार्थसृष्ट्यर्थया । देवो जीवदुरूह शक्तिगुणया सत्यं जगत् सत्यया कुर्वन् शश्वदन भव्यगुणभूरस्तु श्रियै श्रीपतिः ॥ 穆 मायोपादानत्वान्यथानुपपत्त्या मिथ्यात्वं जगतो गदतामत्र वादे निरासः । मायाशब्दस्य मिथ्यार्थकत्वात् मिथ्याभूतोपादानकं मिथ्येति तेषामुपन्यासः । एतद्वादपरीक्षण प्रवृत्तेन यदि मायाशब्दस्य मिथ्यार्थकत्वं मिथ्यावस्तुन उपादानत्वं तत एवोपादेवस्य मिथ्यात्वञ्चोपपाद्येत, तर्हि स्वाभिमता परीक्षा कृता स्यात् । तदेव विहाय मायाशब्दस्य पूर्वपूर्वपरिणाम हेतुकोत्तरोत्तरपरिणामकवस्तुपरत्ववादिन्या शतभूषण्या मिथ्यात्वं वचनान्तरावसेयमिति वदन्त्या च त्यक्तैवेयमन्यथानुपपत्तिरिति किमेतद्वादपरीक्षया । अनिर्वचनीय. मायोपादानकत्वान्यथानुपपत्त्येति विवक्षितमिति लेखनञ्च तत्र मायांशनिवेशवैयर्थ्यान्निरस्यम् । परिणामपरम्पराशालिवस्तु मायेति भामतीपक्षे न वक्तुं शक्यते, विक्षेपशत्तयभावात् । एवञ्च मायाशब्दस्य मतभेदेनार्थभेद आवश्यके कुत्र शक्तिरिति निर्धारणमशक्यम् । मणिमन्त्रौषधासुरशस्त्रादौ एतदर्थाभावेन गौणत्वं वदता मिथ्यार्थेपि गौणत्वं युक्त स्वीकर्तुम् । अन्यथा मिध्यार्थे शक्तिस्वीकारे शुक्तिरजतादावपि मायाशब्दस्वरसव्यवहारापत्तेः शतदूषण्यैव दर्शितत्वात् । क्लप्तकारणं विना भासमानत्वरूपो गुणो हि तत्रापि संभवति । मायाशब्दस्य सिंहशब्दवत् विपर्यये यामेतिलाभात् सदसदनिर्वचनीयत्वावगम इति च वार्तम् । सिंहशब्दस्य हिंसेत्येतद्विपर्ययरूपत्वं हकारसकारपौर्वापर्य व्यत्यासात् अकार इंकारयोर्विनिमयाच्च भवति । न त्वेवमत्र माया इति वर्णद्वयस्य विपर्ययावश्यकता । अविपर्ययेऽपि मापदार्थ यापदार्थयोरन्वयसंभ मिथ्योपादानत्वकल्पन-भङ्ग प्रसाधनम् ९९३ वात् । अस्तु वाऽन्वयानुरूपानुसंधानभेदः तथापि सदसदनिर्वचनीयत्वं दुर्गमम् । या प्रकृति र्मा भूत् अग्राह्या द्वेण्या, सेत्यर्थसंभवात् । ‘जहात्येनां भुक्तभोगामजोऽन्यः’, ‘अनेन साम्यं यास्यामि नानयाऽहमचेतसा’, नैकत्वमनया सह ’ इति तस्या हेयत्वं ह्यवगम्यते । मायाशब्दस्यानेकार्थप्रयोगदर्शनात् ‘मायां तु प्रकृतिं विद्यात्’ इति वाक्यशेषत एवार्थनिर्णय इति यदुक्तम् तत् तथैवास्तु । वाक्यशेषो वाच्यवाचकभावबोधको वा वाच्यवाचकभावसूचको वा भवतु । स वाक्यशेषः प्रकृतिशब्दस्य सांख्यवेदान्तिसंगतसत्त्वरजस्तमोमयद्रव्यविशेष एव शक्तिग्रह जनकः स्यात् । अत एव ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया’ इति स्मृतिरपि गुणमयक्रयशक्तिग्राहिका संगच्छेत । न च प्रकृतिशब्दस्य पूर्वपूर्वपरिणामहेतुको तरोतर परिणाम के क्वचित् रूढिर्दशिताऽस्ति । वाक्यशेषान्तराभावात् । परिणामिकारणमित्यर्थ इत्य् अपि न भवद्भिः सुवचम् । प्रकृतिश्चेतिसूत्रे तदर्थाभावात् । तत्रापि तदर्थेष्टौ ब्रह्मगोऽपि मायात्वापत्तेः । ‘मायां तु प्रकृतिं विद्यात्’ इत्यत्रोद्देश्यविधेयभावो यथा तथा वास्तु’ इति भवतोपेक्ष्यते, भवता मायाशब्दस्येह मिथ्यार्थकत्वास्वीकारात् । तत्स्वीकारिणा तु मिथ्यात्वस्थापनाय प्रकृत्युद्देशेन मायात्वविधानं पूर्ववाक्यापरामर्शिना स्वारस्यमप्युलंध्य कृतमस्मदीयैर्निरस्तम् । मिथ्यात्वगमकवचनान्तराभावाच्च न वचनान्तरान्मिथ्यात्वावगमः । खामिके मिथ्यायै मायामात्रसूत्रानुसारेण यदि मायाशब्दस्य शक्तिः, तत्रापि मिध्यार्थ एव मायाशब्देन भवन्मते किं न गृझेत । J यत्तु मायामुद्दिश्य प्रकृतित्वस्योपादानत्वस्य विधाने ब्रह्मण्युपादानत्वमभिमतं व्यावर्तितं स्यादिति तद् भवतोऽपि तुल्यम् । यदपि -न व्यावर्तनायोपादानत्वविधानम् । अपित्वज्ञातज्ञापनमिति पक्षखण्डनम् सांख्यादिप्रसिद्धतया ज्ञातत्वादेव विधानं न भवतीति तन्न मायेतिविलक्षणशब्दप्रयोगात् सांख्यादिप्रसिद्धातिरिक्तत्वशङ्कायां तद्व्यावर्तनार्थत्वसंभवात् । अत एव प्रकृतिशब्दस्य, ‘प्रकृतिर्या मयाख्याता’, ‘प्रकृतिं पुरुषञ्चैव’ इत्यादिप्रसिद्धप्रकृतित्वस्यैव विधेयत्वात् तस्य ब्रह्मतो व्यावृत्तिसंभवात् परिसंख्यानमपि भवितुमर्हति । यदपि मायायाः : 125 ९९४

। मायिनश्चोपादानत्व विधानमत्र क्रियते । ‘मायिनं तु’ इति तुशब्दश्चार्थः । ‘मायां तु मायिनं महेश्वरश्च प्रकृतिं विद्यादित्यर्थ इति तदप्यसमञ्जसम् स्वरसत्यागो मा भूदिति किल मायोद्देशेन प्रकृतित्वविधानं भवतोपष्टम् । तत एव हेतोर्माय्युद्देशेन महेश्वरत्वविधाने स्वरसे तत्त्यागेन प्रकृतिमित्यस्योतरत्रानुषङ्गेण योजना खल्वसमञ्जसा । तथासति महेश्वरपदवैयर्थ्यञ्च । मायां मायिनञ्च प्रकृतिं विद्यादित्यानुपूर्व्या च भाव्यम् । अत एव पूर्वेकार्थ्यस्याविवक्षितत्वसूचनाय ‘मायिनं तु’ इति तुकारप्रयोगोपि । अन्यथा मायिनञ्चेत्येव श्रूयेत । प्रथमतुकारवत् शङ्कापरिहारार्थत्वस्यैव ततोऽवगमनात् । ‘मायी महेश्वर’ इति ननु ज्ञातमेवेति चेत् -न खल्वत्र महेश्वरमिति व्यक्तिविशेषविवक्षा; ईश्वरमित्येतावतैव तत्सिद्धेः । महांश्चासौ ईश्वरश्चेति महत्त्वविशिष्ठेश्वरत्वमत्र विधित्सितम् ; व्यापित्वविशिष्टनियन्तृत्वमिति यावत् । व्यापित्व नियन्तृत्वोभयमेव चाऽऽत्मत्वम् । पूर्वपादे मायाशब्दार्थतया लौकिकमायातार्किक संमतादृष्टपरमाण्वादिव्युदासेन सांख्यादिसंमतप्रकृतिर्बोधिता । मायिनस्तदन्तर्यामित्वमत्रो च्यते । तेन मायाया उपादानत्वे मायिनः कुलालस्येव निमित्तत्वमेव स्यादिति शङ्का परिहृता भवति । मृत्पिण्डानात्मभूतकुला लवेलक्षण्यादात्मत्वादुपादानत्वनिर्विकारत्वादिकं सर्वं मायिनि सुस्थमिति । न केवलमेतत् ; तत्त्वत्रयान्तर्गतानां जीवानामप्युपादानकोटिनिवेश इति उत्तरार्धेन दश्यते, “तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् " इति । अवयवपदेन जीवानामणुत्वात् तदनुगुणव्याप्तिरिति ज्ञाष्यते । एवञ्च यथाश्रुतरीत्यैवोभयोरुपादानत्वस्य वाक्यतः सिद्धौ किमिति क्लिष्टयोजनाश्रयणम् । यत्त ‘महेश्वरशब्दस्य रुद्रपरत्वेष्टौ अलं शिवद्रोहेणे’ ति शिवद्रोहशब्देनैव ग्रन्थं पूरयता लिखितम्, तदप्येतेन व्युदस्तम्। उभयगतोपादानत्वप्रकार निरूपण परत्वाद्वाक्यस्य मायिव्यक्तिदर्शित्वाभावात् । प्रागेव पुरुषसूक्तकठश्रुतितैत्तिरीयवाक्यानां नारायणपरत्वेन तत्रतत्रावधृतानां घटनेन तत्परत्वस्यात्रोपनिषदि सिद्धत्वात् । ‘मम माया दुरत्यया’ इति श्रीकृष्णेन खकीयत्वेन गीता मायेति स्थिते मायी महेश्वरोऽपि स एव खलु भवितुमर्हती त्यलं भवतो विष्णुद्रोहेण । ’ मिति सिद्धम् । I मिथ्योपादानत्वकल्पन-भङ्ग-प्रसाधनम् ९९५ सत्कार्यवादः परिणामवाद इति वदता भवता, ‘मायां तु प्रकृति’ मित्यस्य परिणाम्युपादानत्वाभ्रयणादेव भामतीसंमतं मायाया अनुपादानत्वं श्रुतिविरुद्धविश्वमिथ्यात्वसाधकं मायामिथ्यात्वं प्रकृतश्रुतिगम्यं न भवतापि स्वीकृतमिति श्रुत्यन्तरमेव मिथ्यात्वसाधकं प्रदर्शनीयमिति किमेतद्विचारेण । दोषमिथ्यात्वात् जगन्मिथ्यात्वमिति भामतीकारो न वक्तुमर्हति । दोषमन्तरा वस्तुप्रतीतेरेव दोषमिथ्यात्ववादिना वक्तव्यतया दोषानधीनप्रतीतिविषयतया वस्तुसत्यत्वस्यैव सिद्धेः । ‘मायाया उपादानकारणत्वं प्रतिज्ञाय विचित्रसृष्ट्युपकरणत्वेन शतदूषणीकृत उपसंहारो व्याहतः’ इति कथनञ्चासंगतम् । उपादानस्य मृदादेः कुलालाद्युपकरणत्वव्यवहारे बाधकाभावात् । असुर कर्तृकच्छेदनाद्युपादानभूते आसुरशस्त्रादावुपकरणत्वस्येष्टत्वात् । मायाविवारणायोपकरणशब्दप्रयोगः । आसुरशस्त्रादौ मायाशब्दस्य लाक्षणिकत्वं शतदूषण स्वीकृतमितीदमपि भवन्मायैव । विचित्रसृयुपकरणे शक्तेरेव तदिष्ट त्वात् । मायाशब्दस्य ज्ञानार्थकत्वं शतयन्तरेण वाऽन्यथा वेति विचारेपि आसुरशस्त्रादिविषये विवादाभावात् । एवं कार्ये मायाशब्दप्रयोगः काचित्को लक्षणया निरुह्यताम् । अथापि कारणे मुख्यत्वमेव । यत्तु " अचेतना परार्था च नित्या सततविक्रिया" इति नित्यत्वेन श्रुताया मायाया मिथ्यात्वं न सभवति, मिथ्यार्थस्य निवर्त्यत्वादिति शंकां परिहर्तुमुक्तम्ब्रह्ममीमांसायामहित-परीक्षायां परिणामिनामनित्यत्वस्योक्ततया नित्यत्वं न भवतीति तदपि स्थवीयः यदि तत्र ‘विकारादिभ्य’ इति सूत्रे आदिपदेना नित्यत्वं विवक्षितमिति प्रकृतेरनित्यत्वं वक्तव्यमित्याशयः, तर्हि दर्शितप्रमाणानुरोधेन नित्यत्वमप्यावश्यकमिति उभयमाशय भेददर्शनेनोपपाधम् । सविक्रियस्य वस्तुनो घटादेखि उत्तरावस्थान्तरप्राप्तिरेव विनाशः । तदेवानित्यत्वं तत्र विवक्षितम् । इह तु नित्येति धर्मिणः सर्वकालसंबन्धित्वादभावाप्रतियोगित्वमुच्यते । अवस्थान्तरप्राप्तिरूपमनित्यत्वमस्तीति चात्रैव दर्शितम्, “ सतत विक्रिया" इति । सिद्धान्ते जीवस्य, ‘न जायते क्रियते वा’ ९९६

I इति साक्षादुत्पत्तिविनाशरूपावस्थानङ्गीकारात् जीवे तत्र तदापादनम् । यदि आर्हताधिकरणोक्तमेव भवदिष्टम्, तर्हि ‘अन्त्यावस्थलेश्वोभयनित्यत्वात् ’ इति जीववत् जीवपरिमाणस्यापि नित्यत्वं तत्रोक्तमिति तदप्येष्टव्यम् । तथाच द्वैतापत्तिः । एवं पत्यधिकरणे ईश्वरस्य, ‘अन्तवत्त्वमसज्ञता वा’ इति असर्वज्ञत्वमापादितमिति अद्वैतिमतेपि तदापतिः । न हि कदाचिदसर्वज्ञ ईश्वरोऽस्तीत्यद्वैतिनामपीष्टम् । अथ तदूषणं केवलयुक्तिवादमनुरुध्य । तत्रैव भामत्यामत एव, " अस्माकं त्वागमगम्येऽर्थे तद्वाधितविषयतया नानुमानं प्रभवति " इत्यक्तमिति चेत्-तदिदमाताधिकरणोक्तेऽप्यतिदेश्यम् । अतः आगमसिद्धं प्रकृतिनित्यत्वमार्हता धिकरणयुक्तिर्न बाधियते । अन्यथा आदिमत्त्वमपि पत्यधिकरणे आपादितमिति तदपि प्रकृतेः स्यात् । आनादिमायावादिनां तदनिष्टमेव । एवं सततविक्रियेत्युक्त्तयाऽपि मिथ्यात्वाभावः सिद्ध्यति । कथं नु सत्कार्यवादे परिणामातिरिक्तो नाशो द्रव्यस्य । अतो द्रव्यमनिवृत्तमेवेति न तन्मिथ्या । एवं तावत् सर्वजगन्मिथ्यात्वसाधकत्वाभिमतानामागमानामर्थान्तरपरत्वस्य प्रागेव सिद्धत्वात् उपादानमिध्यात्वेन सिद्धेन कार्यमिध्यात्वस्यानुमानमधिकृत्य प्रवृत्तेऽत्र वादे सर्व मिथ्यात्वग्राहकत्वानिमतवाक्यप्रदर्शनायोगाच्च उपादानस्य प्रकृतेर्विशिष्य मिध्यात्वसाधकं प्रमाणं किमिति विचार्य ‘मायां तु’ इत्यादि न तत्र प्रमाणमित्युपपादितम् । अभ्युपगम्याप्युपादानमिथ्यात्वं तस्य कार्य मिथ्यात्वकल्पकत्वाभाव उपरि शतदूषणयुक्तः अन्यथानुपपत्तित्वाभावमात्रप्रदर्शनाय । कृत्वा चिन्तामात्रमिदम् । तत्र यदुक्तम्, लौकिक वैदिकमर्यादाया अनतिलध्यत्वात् असत्यात् सत्योत्पतिर्निमित्तकारण पात्रविषयतया संकोच्यतेइति — तन्न – मर्यादानुल्लङ्घनस्येष्टत्वे हि निमित्तादप्यसत्यात् सत्योत्पत्तिः संमन्तुं न शक्यते ; अभिमतोदाहरण सामान्यस्य सत्यात् सत्योत्पत्तिपरतयैव प्राग्व्याख्यातत्वेन असत्यस्यानुत्पादकत्वमेव हि मर्यादा सिद्धम् । उपादानोपादेययोः समसत्ताकत्वमेव दृष्टमित्यसत् मृत्पिण्डसत्ता यावन्तं कालम्,

मिथ्योपादानत्वकल्पन-भङ्ग-प्रसाधनम् ९९७ तावन्तमेव घटसत्तेति नियमाभावात् । न ह्युपादानमुपादेयश्च समायुष्कम् । अथेय सत्ता न विवक्षिता; अपितु प्रातिभासिकत्व व्यावहारिकत्वादिविशिष्टेति चेत् -तादृशसत्ताभेदो भवन्मतेपि कैश्चिन्नेष्यते; अन्यैस्तु सर्वथा नेष्यते, प्रति भासस्थले वस्तुनि सत्ताद्यस्वीकारात । पश्चात् बाधमभावनाविरहेण व्यावहारिकसत्ताया अप्यनिष्टत्वात् । अतो लोकाप्रसिद्धसत्तात्रैविध्यं स्वयं मत्वा समसत्ताक त्वमेव दृष्टमिति न वक्तव्यम् । यत्तु दृष्टबाधितसत्ताकत्वम्, तत् निमित्ततकार्यविषयेऽपि तुल्यम् । अपि च शुक्तिरूप्योपादानं पल्लव ज्ञानं प्रातिभासिकं व्यावहारिकं वा । नाद्यः, तत्यतिभासस्य तद्रूप्योत्पत्तेः प्राक् नियमेनाभावात् । तत्प्रातिभासिकत्वेऽपि तज्जन फमूलाज्ञानं प्रातिभासिकं न वा । प्रथमे प्रपञ्चस्यैव प्रातिभासिकत्वापत्तिः । द्वितीये तयोरज्ञानयोरर्थ्यावहारिकत्वप्रातिभासिकत्वरूपं सत्तःवैषम्यम् । अन्त्ये पल्लवाज्ञानशुक्तिरजतयोः सत्तावैषम्यमिष्ट भवति । अतः समसत्ताकत्वमसंभवि । यस्तु सद्विवर्तवादः -‘अविद्यारूपकारणात्मना अधिष्ठाने सतामन्तःकरणवृत्त्या द्विषयत्वे निवृत्ते मानमात्रमेव सर्वेषाम्, न त्वसतामुत्पत्तिः’ इति । तत्र ‘तद्विषयत्वे’ इति पदस्य कोऽर्थः अविद्याविषयत्वे इत्यर्थ इति चेत् न जडानामविद्याविषयत्वासंभवस्य भवदिष्टत्वात् । कार्यावच्छिन्न चैतन्यस्यान्तः करणवृत्त्या अज्ञानविषयत्वनिरास इति चेत् — तत्रापि कार्यांशे अविद्याविषयत्वाभावात् । विषयतावच्छेदकत्वमपि नास्ति । अविषयस्य विषयतावच्छेदकत्वासंभवात् । चैतन्ये कार्यावच्छिन्नत्वमपि न भवति । सत्यय्यावस्तुनोः संसर्गायोगात् । अपनेयाविद्याया अभावाच्च कार्याणां सर्वदा सत्त्वे सर्वदा भानं स्यात् असत्त्वे वा भानानहेत्वे वा कदापि भानं न स्यात् । कारणात्मनाऽधिष्ठाने सतां कार्याणामित्यप्ययुक्तम् — कारणस्याज्ञानाधिष्ठाननिष्ठत्वाभावात् । कारणात्मना सतामित्यनेन कार्यात्मना तदसत्त्वस्यांगीकृतत्वाच्च कथं तेषामुत्पत्त्यभावोक्तिः । “न वा भानं पूर्वमसत्” इति सर्वथेवायुक्तम् । कार्यनित्यमानस्वीकारापत्तेः, ·

कारणात्मना वा अधिष्ठानात्मना वा भानमस्तीति चेत्-यदि तान्यपि सन्ति, तद्भानमप्यस्ति, एवं सति अन्तःकरणवृत्त्या किं क्रियते । अन्तःकरणवृत्तिइचेयं सत्कार्यवादे सती वा असती वा । आद्ये सर्वदा सर्वे भायात्; अन्त्ये चासत्कार्यवाद एव । अपि च भामतीमते अविद्यात्मना अधिष्ठाने सन्ति कार्याणीति न शक्यं वक्तुम्; विक्षेपशत्तद्यभावात् । एवं कार्य मिथ्या वे कारण मिध्यात्वमिति विपरिवर्तोपि न युक्तः । शुक्तिरजतस्य प्रातिभासिकत्वेऽपि अज्ञानस्य तत्त्वज्ञाननाश्यस्यापि व्यावहारिकत्वात् । अस्तु तावदिदं प्रासङ्गिकम् । मायाया मिथ्यात्वाभावात् तदन्यथानुपपत्त्या कार्य मिथ्यात्वं दुर्वचमिति सिद्धम् ॥ अदृष्टं मायेति व्यवहरति सत्यं ह्युदयनः दुरुन्नीतीत्येवं स्मृतिनिगमलोकव्यवहृतेः । पराशक्याश्चर्योद्भवकरणमित्यर्थ इषितः न मिथ्यात्वं सिद्धयेत् कचिदपि च मायेति वचनात् ॥ निर्हेतुकेशननियन्त्रित सर्व वस्तुः सृष्टिस्थितिप्रलयरूपविधाः क्रमेण । आवर्तयन् मुहुरशेषहितः प्रपन्नान् आहत्य तारयति नित्यनिजां स मायाम् ॥ शुभमस्तु श्रीः