निरवधिगुणसिन्धोर्निर्विकाराच्च यस्मात् चिदचिदुभयदेहात् स्रष्टुरेतद् विशिष्टम् । स्थितिलयकरमित्थम्भूतकृत्स्नानुभूतिप्रदपदवहमेतं नौमि पद्मासमेतम् ॥ मिथ्यात्वाज्जगतो ब्रह्मगुणानां तत् प्रति स्थितेः । सगुणत्वं मृषेत्यत्र मिथ्यात्वं जगतः स्यति ॥ यादृक् भावकार्यसामान्यमुपादानकारणसापेक्षमिति सर्वसंप्रतिपन्नम् । मृत्पिण्डसापेक्षं घटादिकमुदाहरणमित्यपि । तत्रासत्कार्यवादिनस्तार्किका उपादानात् कार्यं भिन्नं मन्वते । सत्कार्यवादिनः सांख्या वेदान्तिनश्च । सांख्यमते तिलात् तैलमिव कारणात् कार्यमभिव्यज्यते, न तूत्पद्यते । कार्य दृश्यमानम्, तादृगेव कारणे निलीनमनभिव्यक्तं स्थितं पश्चादाविर्भवतीति कार्यमेव रूपेणैव पूर्व सदिति तन्मतम् । उपादानोपादेयभूतं द्रव्यं परमेकम् । तत्रावस्थाः पूर्वोत्तरभूताः आगन्तुकधर्माः । तत्र पूर्वावस्थापनं कारणमिति उत्तरावस्थापन कार्यमिति च कथ्यत इति वेदान्तिमतम्, कार्यकालिकावस्थारूपेण कारणकाले द्रव्यासत्त्वस्य, ‘असद्व्यपदेशान्नेनि चेन्न धर्मान्तरेण’ इति सूत्रे सर्वसंमतत्वात् । तत्र, ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्’ इति मृद्घटादिदृष्टान्तखारस्यात् ब्रह्मजगतोरुपादानोपादेयभावः अद्वैति विशिष्टाद्वैत्युभयसंमतः । तत्रोपादानत्वमिदं किंरूपमिति विवेचनीयम् । तत्रानेकावयवमेलनवशात् कार्यं जायते । तत्रावयवा उपादानम्, उपादेयं कार्यमवयवि ततोऽतिरिक्तद्रव्यं तत्र समवायसंबन्धेन वर्तमानमिति वदद्भिस्तार्किकैः स्वसिद्धान्तानुरोधेन, ‘यत्समवेतं कार्यमुत्पद्यते तत् कारणमुपादानं समवायिकारणापर ९७६
नामधेयम् । चक्रादिदेशे घटस्योत्पत्तावपि तत्र तस्य समवेतत्वाभावान्न घटं प्रति चक्रादिकमुपादान’ मित्युच्यते । सत्कार्यवादिनस्तु कार्याभिन्नं कारणमुपादानमित्याहुः । अत्रेयमाशङ्का कार्यकारणयोरनन्यत्वं यद्यप्यानुभविकम्, तथापि ब्रह्मजगतोरभेदे ब्रह्मणि जगद्गतं सर्वं विकारमादाय सविकारत्वप्रसंगः । अतश्च सर्वहेयास्पदं ब्रह्म भवेदिति । भास्करादिभिः ओमित्युत्तरं दीयते । विशिष्टाद्वैतिनस्तु केवलब्रह्मण उपादानत्वे खल्वयं दोषः । सूक्ष्म चिदचिद्विशिष्टं ब्रह्म कारणमिति ब्रूमः । तत्र चेतनाचेतनरूपप्रपञ्चगतविकाराणां कारणान्तर्गतसूक्ष्मचिदचिन्मात्रागतत्वात् विशेप्ये तदभावान्न निर्विकारत्वहानिरित्याहुः । अत्राद्वैतिनः — कार्यकारणयोर भेदस्यावश्यकतया प्रपञ्चस्य चेतनाचेतनरूपत्वात् तदुपादानत्वं सूक्ष्मचेतनाचेतनयोरेव विश्राम्यति । ब्रह्म तु विशेष्यं कारणमपि ततोऽन्यत्वात् कथं स्यादुपादानमिति । तर्हि कथमुपपाद्यमिति चेत् तत्र त एवमाहुः निर्विकारत्वादि ब्रह्मणः श्रुतिबलादवश्यस्वीकार्यम् । कार्याभिन्नत्वे कारणस्य कथं निर्विकारत्वमिति चेत् — कारणात् कार्यं भिन्नं नेति ब्रूमः ; न तु कार्यकारणयोरैक्यम् । न च व्याघातः । यथा शुक्तौ रजताभ्यासे शुत्यपेक्षया तत्र कल्पितं रजतं भिन्नं न भवति । तावता न तयोरैक्यम्; सत्यमिध्यार्थयोरैक्यायोगात् तथा ब्रह्मण्यध्यस्तं जगत् मिथ्याभूतं सत्येन ब्रह्मणैक्यमनापन्नमिति । एतावता किं रूपमुपादानत्वमुक्तं भवतीति चेत् — कार्याध्यासाधिष्ठानत्वमेवोपादानत्वम् । यथा रजताध्या साधिष्ठानं शुक्तिः कल्पितरजतोपादानम्, तथा ब्रह्म जगदुपादानम् । एवञ्च विकाराणां मिथ्यात्वादैक्याभावाच्च ब्रह्मणो निर्विकारत्वं निर्बाधमिति -तत्त्रोच्यते भास्कराद्यभिमतो यादृग् ब्रह्मजगदभेदः तादृड् नेष्यत एव, निर्विकारत्वादिवादिश्रुतिविरोधात् । अध्यासाधिष्ठानत्वमुपादानत्वमिति निर्वचनं तु सर्वथैव न युक्तम् । उपादानत्वमाह कश्रुतिकोपात् । मृत्पिण्डमृन्मयदृष्टा । ब्रह्मोपादानत्वतो मिथ्यात्वसिद्धि-भङ्गप्रसाधनंम् ९७७ न्तानुपरोधाय किलोपादानत्वस्वीकारः । अध्यासाधिष्ठानत्वरूपमुपादानत्वं किं तत्र प्रतीतमस्ति । सांख्यतार्किका दिसर्व समतेऽस्मिन् दृष्टान्ते लौकिकपरीक्षकैः सत्यत्वेनैव समते अध्यासाधिष्ठानभावशङ्काशफलस्यापि प्रसत्यभावात् तत्सिद्धवत्कारेण तन्निदर्शनेन ब्रह्मणि तादृशोपादानत्वस्थापन शक्यमेव । कार्यकारणै क्यानैक्यविवादेऽप्युच्यते । अनैक्ये एकविज्ञाने सर्व विज्ञातं न भवतीति तदवश्यं स्थापनीयम् । अत एव स्थाष्यते, “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति । यदि घटादेर्मिध्यास्वस्थापनार्थमिदं वाक्यं प्रवृत्तं स्यात्, तर्हि एकविज्ञाने सर्वविज्ञानमुपपादितं न भवति । सत्यज्ञाने सति मिथ्यावस्तूनां बाधितत्वमेव हि भवति ; न तु ज्ञातत्वम् । तथाच एकेन मृत्पिण्डेन ज्ञातेन सर्वे मृन्मयं बाधितं स्यादिति श्रुत्या भाव्यम्, पूर्वमपि येन श्रुतमश्रुतं भवति, मतममतं विज्ञातमविज्ञातमित्यानूपूर्व्यमादर्तव्यम् । मिथ्यात्वाभिप्राये तु शुक्तिरजतदृष्टान्त एव श्रुत्या परिप्राः स्यात् । वस्तुतस्तद्ग्रहणेऽपि अद्वैतसंमतमिथ्यावस्त्वसिद्धिरेव । अनिर्वचनीयं किञ्चिदुत्पद्यत इति कृत्वा किल तस्योपादानमन्विष्यते । तदेव न लोके भ्रान्तिस्थले केनाप्यवगतम् । अन्यथाख्यातिरेव सर्वगृहीता । तत्र वा तान्त्रिकान्तरपक्षे वा तत्र किञ्चिद्रस्तूत्पत्तिकल्पनानवकाशात् रजताधिष्ठानत्वमुपादानत्वमिति शुक्तिरजतोदाहरणे कृतेपि न सेत्स्यति । रजतभ्रमाधिष्ठानत्वमित्युक्तौ तु रजतभ्रमविशेष्यत्वमित्यर्थः स्यात् । न च तावता भ्रमं प्रति आपणस्थंरजतं प्रति वा शुक्तेरुपादानत्वं कश्चिद् व्यवहरति । तस्मात् श्रुतदृष्टान्तानन्वितमत्यन्तासंभावितश्चेदमुपादानत्वम् । एवमेतदुपादानत्वपक्षे जगद्बह्मणोर्बाधार्थसामानाधिकरण्यमेव स्वीकर्तव्यम् । तथाच ‘सदिदम्’, ‘बहु स्याम्’ इत्यैक्यश्रवणमुपरुध्यते । सत्य मिथ्यार्थियोर्भेदे च सत्कार्यवादे स्थित्वा कार्यकारण भेदवादितार्किक पक्षखण्डनं न कृतं भवेत् । तदनन्यत्वाधिकरणासामञ्जस्य चेह विस्तरोपेक्षया न प्रदर्शयामः । तस्मादद्वैतिसंमतमुपादानत्त्रम श्रौतमयौक्तिकम प्रसिद्धं शशविषाणायमानमिति तदाग्रहेण विशिष्टाद्वैति संमतोपादानत्वानुपपत्तिवर्णनं नैव साम्प्रतम् । 123 ९७८
अनिर्वचनीयाभ्युपगमेन तादृशोपादानत्वं कृत्वा चिन्तायामपि ब्रह्मणि तदेवोपादानत्वम्, नान्यादृशमिति न शक्यं स्थापयितुमिति निरूपयामः विशिष्टाद्वैतिसमतस्योपादानत्वस्य ब्रह्मण्यसंभव इति न युक्तम् ब्रह्मणः कार्या भिन्नतयोपादानत्वसंभवात् अद्वैतिमत एव तदनुपपत्तिः । तथाहि मिथ्याभूतप्रपञ्चस्य परिणाम्युपादानमविद्येति पदार्थतत्त्व निर्णयकारादयः । न च कार्यस्यैकस्य द्विविधमुपादानं लोके दृष्टमिति अविद्याया उपादानत्वे ब्रह्मण उपादानत्वं न भवत्येव, भाव्यवस्था कनिष्ठतत्पूर्वावस्थाश्रयत्वरूपोपादानत्वमविद्यायामुपपादनीयम् । न च तद् ब्रह्मणि । उपादानत्वमन्यथा निरुच्यते । तद् ब्रह्मणि भवतीति तदप्युपादानम्’ इति चेत् — किं तत् ? स्वस्मिन् कार्यजनिहेतुत्वमुपादानत्वम् । अविद्यायां प्रपञ्चोत्पत्त्या तत्र समन्वयः ; तथा ब्रह्मण्यपीति चेन्न अस्यालक्षणत्वात् । परिणाम्युपादानस्य कार्यस्य चाभेदात् कार्याधारत्वे सति कार्योत्पत्तिहेतुत्वमित्येतस्यासंभवात् । अविद्यायाः प्रपञ्चानाधारत्वात् । ब्रह्मण्यध्यस्तत्वेऽपि प्रपञ्चस्य तदाधेयत्वाभावाच्च । अथ स्वाभिन्नकार्यकत्वमुपादानत्वमिति चेत् — तदपि न, प्रपञ्चे ब्रह्माभिन्नत्वाभावात् । मिथ्यावस्तुनः सत्यभिन्नत्वात् । सन् घट इति प्रतीत्या कल्पितं तादात्म्यमस्तीति चेत्तादात्म्यं हि तत्पदार्थघटितम् । तत्र तत्पदार्थस्याकल्पितत्वे तादात्म्यं कथं कल्पितं स्यात् । किञ्च तादात्म्यं संबन्धः । संबन्धश्च प्रतियोग्यनुयोग्यधीनः । अतः संबन्धिद्वयेनैव सह संबन्धः कल्प्यः स्यात् । तथाच तस्य परमार्थब्रह्मसंबन्धो न भवति । ननु तत्र तादात्म्ये प्रकृत ब्रह्मप्रतियोगिकत्वं कल्प्यमिति चेत् — सोपि संबन्धः संबन्धिविशिष्ट एव कल्प्य इति न तस्य प्रकृतब्रह्मप्रतियोगिकत्वम् । एवं मुख्यस्याभेदस्यैवाभिन्नशब्दार्थघटकतया अमुख्या भेदग्रहणायेोगश्च । न हि रजतशब्दस्य मुख्यरजतवत् कल्पितमपि मुख्योऽर्थः ; तथा सति रजतं देहीत्युक्तौ शुक्तिदानस्यापि करणप्रसंगात् । तस्मात् प्रपञ्चस्य मायापरिणामत्वपक्षे ब्रह्मण उपादानत्वं दुर्निरूपमेव । उपादानद्वयस्यादर्शनाच्च । ब्रह्मोपादानत्वतो मिथ्यात्वसिद्धि-भङ्ग प्रसाधनम् ९७९ अत एव ब्रह्मोपादानत्वसंरक्षणायाविद्यायाः परिणामित्वमुपादानत्वं न स्वीकृतं भामतीकारेण; किंतु दोपविधया निमित्तत्वमात्रम् । यत्र तत् कल्ष्यते तत् तदुपादानमिति तदाशयः । इदञ्च शुक्तिरजतरूपा निर्वचनीयसिद्धवत्कारेण ; तदभावे इदमप्यसिद्धम् । इदच मुद्धादिस्थले लोके अक्लसत्वात् लोकसिद्धोपादानत्वस्यान्यस्यैव वाच्यत्वात् तत्रैव व्युत्पन्न उपादानशब्दः तत्रेव भ्रान्तिस्थलेऽप्यमेदा रोपनिबन्धनव्यवहारानुसारेणामुख्यः प्रयुज्यत इति तत्र गौणमेवोपादानत्वम् । एवञ्च मुख्योपादानस्याभावात् भावकार्ये उपादानसापेक्षत्वस्यानुभविकत्वात् तदभावादपि शुक्तिरजतादिकमर्निर्वचनीयमसिद्धमिति जगतोऽप्यनिर्वचनीयत्वायोगादसिद्धमेवेदमुपादानत्वम् । सिद्धान्तलेशसंग्रहे चोपादानत्वं विचार्यान्ते सिद्धान्तमुक्तावलीकृदाशय एव स्वाभिमत इव प्रादर्शि, “मायाशक्तिरेवोपादानम् ; न ब्रह्म, ’ तदेतद् ब्रह्मापूर्वमनपरम्, ส तस्य कार्य करणञ्च विद्यते ’ इत्यादिश्रुतेः । जगदुपादानमायाधिष्ठानत्वेन तु उपचारादुपादानम् । तादृशमेवोपादानत्वं लक्षणैर्विवक्षितम् " इति । मध्ये च, " वियदादिप्रपञ्च ईश्ररानिमायापरिणाम इति तत्रेश्वर उपादानम्, तथाऽन्तःकरणादिजीवाश्रिता विद्यामात्रपरिणाम इति तत्र जीव एवोपादानम् " इति जीवस्येश्वरस्य च यथायथं परिणामिद्रव्याश्रयत्वनिबन्धनमौपचारिकमुपादानत्वमुदितम् । इदञ्च भामतीमतानादरेण प्रवृत्तम् । सर्वस्य ब्रह्मणि कल्पिततया परिणाम्युपादानापेक्षा, नास्तीति तदाशयः । तथासति घटादेर्मृत्कार्यत्वानुभवः, आकाशादिभूतानां पूर्वपूर्वस्योत्तरोत्तर कारणत्वश्रुतिः, तथा लयक्रमश्रुतिः, कार्यकारणैक्यावलम्बिसत्कार्यवाद इत्यादिकं बहु बाध्यत इति हेतोर्भामतीगतिमुपेक्ष्य अविद्यापरिणामत्वेन जगतो ब्रह्मणि कल्पितत्वं स्वीकर्तव्यमिति सिद्धान्तमुक्तावलीकारानुयाय्याशनः । एवञ्चाद्वैत्यभिमतमुपादानत्वमौपचारिकमित्यद्वैतिभिरेवोक्तम् । अनचैव वामनया परन्तु खयमनुद्घाटितया प्रपञ्चकारणप्रकृत्याश्रयत्वरूपमुपादानत्वमौपचारिकं किल विशिष्टाद्वैतमत इति क्रियासमभिहारेण शतभूषण्या कथ्यते इति तन्मत एव स दोषः ।९४०
इममेव निष्कर्ष मनसिकृत्य शतदूषण्याम्, “यथा भवतोऽप्यविद्याया एव साक्षाद्विवर्ताश्रयत्वेऽपि तस्या एव साक्षिभूत ब्रह्माधीनसत्ता कत्वात् ब्रह्म विवर्तते इत्युक्तिः” इत्युक्तम् । सिद्धान्तलेशसंग्रह प्रदर्शित निष्कर्षरीत्या हि अविद्यैवोपादानम्, अविद्याश्रयत्वाद् ब्रह्मण्युपादानत्वनाची युक्तिः । एतदुक्तेश्चायं भावः -विशिष्टाद्वैतिमते मुख्यमुपादानत्वं न भवतीति प्रक्रम्य भवद्भिरौपचारिकमेवोपादानत्वमाहृतम् । एवञ्च जगन्मिथ्यात्वस्यानुभवात्यन्तदूरस्य कल्पनयौपचारिकोपादानत्ववादं परित्यज्य ब्रह्मण्यविद्याकल्पनां विना वस्तुतः प्रकृतिभूताविद्याश्रयत्वं जगत्सत्यत्वञ्च समत्य सभवदुपादानत्वं कस्मान्न रोचत इति । सर्वमिदमस्मन्मते औपचारिकोपादानत्वमत्यां भवतां सत्यामप्यस्मन्मतमेवादर्तव्यमिति जिज्ञापयिषयैव शतदूषण्यामुक्तम् । मुख्योपादानत्वस्यैव स्वमते संभवत एव पूर्ववाक्ये निगूढमुदितस्य समनन्तरमेव स्पष्टीकरणात् । तस्मादस्मन्मते उपादानत्वस्यौपचारिकत्वं शतदूषणीसंमतमिति वचनं सर्वथा ग्रन्थगतिपरामर्शवैकल्यमूलमेव । कथं मुख्यमिति च सम्यगुपपादविन्यामः । अन्तरा प्रकृतशतदूषणीवाक्ये आरोपितान् दोषानपनयामः “अद्वैतिमते तु न कुत्राप्येकदे शिमतेऽन्यत्र वा शतदूषणयुक्तरीत्या सद्वारकोपादानत्वं स्वीक्रियते” इत्युक्तमसत ; सिद्धान्तलेशसंग्र होक्त सिद्धान्तमुक्तावली बलेन शतदूषणयुक्तपक्षोऽप्यनेकस्वतन्त्र कल्पनाराज्यधुरन्धरेष्वद्वैतिषु केषाञ्चिदिष्ट इति बुध्यमानत्वात् । किं बहुना । भवदुपत्त भवद्वार्तिकवचनमपि, “अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानम्, तदुपाश्रित्य ब्रह्म कारणमुच्यते " इतीदम्, अज्ञानस्यैवोपादानत्वं ब्रह्मणि सद्वारकमौपचारिक तदिति सम्यगेवाह । ‘कारणमुख्यत’ इत्येतावदेव वदन् उपादानत्वं पूर्वार्धोक्तं ब्रह्मणि नास्तीत्येव मन्यत इति । अथ, “तत्राविद्या विवर्तवादो न प्रमाणिक इति दुरनुवादः इत्युक्तमप्ययुक्तम् । अद्वैतिभिर विद्यापरिणामत्वं प्रपञ्चस्येष्टम्, न तु विवर्तत्वमिति हि तदाशयः । तत्र विवर्तपरिणामयोः को भेद इति विचार्यम् । । सिद्धान्तलेशसंग्रहे, ‘कारण सलक्षणो ऽन्यथाभावः परिणामः; तद्विलक्षणो विवर्त’ "” ब्रह्मोपादानत्वतो मिध्यात्वसिद्धि-भङ्ग-प्रसाधनम् ! इस्युक्तम् । शुक्तिरजतादीनामुत्पत्तेर्लोका विदितत्वात् युक्त्तयैवाद्वैतिभिरुपपाद्यमानत्वात् लोकप्रसिद्ध विवर्तपदार्थः कश्चिद् वक्तव्यः । स चायमेव । अन्यविधस्तु विवर्तपरिणाम विवेकस्तत्र कृतः खसिद्धान्तमात्रगतत्वाल्लोकसंमताननुगमादनादेयः । परिणामशब्दः सामान्यवाची विशेषवाची च, प्राणशब्दवत् । उत्तरावस्थामात्रवाचित्वे सामान्यता । कारणसलक्षणोत्तरावस्थापरत्वे च विशेषता । कार्ये कारणप्रत्यभिज्ञानं यत्र भवति, तत्र सरूपः परिणामः; यत्र न तत्र विरूपः, यथा गोमयजवृश्चिकादौ, देहजन्य केशनखादौ च ! अयं विवर्तः अविद्याकार्येषु बहुलमुपलभ्यते । न हि पञ्चसु भूतेषु पूर्वपूर्वस्योत्तरोतरस्मिन् प्रत्यभिज्ञानमस्ति । एवमेव तत्पूर्वकार्येष्वपि भाव्यम् । तथाचाविद्याया मुख्योपादानत्वं ब्रह्मणोऽमुख्यश्च स्वीकृतवद्भिः विवर्तरूपः परिणामरूपश्वान्यथाभावः मुख्योपादानत्वाभिमता विद्याग्रहणेनैव वक्तव्य इति अविद्याकार्य प्रायो विवर्तरूपमिति वेदयितुमेव शतदूषण्यामत्र विवर्तपदप्रयोगः । तेन विवतोपादानत्वमपि निरुक्तरूपत्वाद् ब्रह्मण्यमुख्यमेवेति ज्ञापितं भवति । “साक्षिणोऽसदाश्रयत्वमित्यपरो दुरनुवादः साक्षिण्यविद्याश्रयत्वानङ्गीकारात् ” इति चानुपपन्नम् । ईश्वराश्रितमायापरिणामेतिप्रयोगस्य प्रदर्शितत्वात् मायाश्रयत्वमिष्टमद्वैतिनाम् । तत्रेश्वरपदेन मायाविशिष्टग्रहणे खविशिष्टाश्रितत्वं स्वस्य दुर्वचमिति मायोपहितमीश्वरपदेन गृहीत्वा तदाश्रितत्वमेव मायायामुपपादनीयम् । उपहितमेव साक्षीत्युच्यते, न तु शुद्धं साक्षि भवति न वा जगदुपादानम् । परिभाषायामप्युक्तमेतत् । तथाचात्र साक्षिपदं शुद्धात् विशिष्टाच्च ब्रह्मणो वैलक्षण्येना विद्याश्रयीभूतग्रह्मांशग्रहणायेति । एवमविद्या विवर्तेति पूर्वोक्तोऽर्थः तथैव विवर्तत इति पदेन पश्चाद् गृहीतः ब्रह्मणि उपादानत्वस्या मुख्यत्वात् अविद्या निरूपित विवर्तत्वमादायौपचारिकं तद् वाच्यमिति व्यक्तये । तथाच विवर्तपदस्य भवन्मते आहतत्वात्तदेव भवन्मतोपपादनावसरे प्रयुक्तम् । अस्माभिः ‘परिणामात् ’ इति सूत्रप्रामाण्येन परिणामस्यैवोक्ततया अस्मन्मतकथने, ब्रह्म परिणमतीत्युक्तम् । तत्तदाह श-दप्रयोगेऽप्यर्थे नातीव वैषम्यं 1
९८२
प्रकृतोपपादनांशे । तस्मात् तत्तन्मतव्यवस्थितं शब्दं व्यवस्थया प्रयुञ्जाना शतदूषणी कथं स्वपरव्यामोहिनी स्यात् । प्रत्युत विवेचनकुशलानां स्वेषां परेषाञ्च व्यामोहशमन्येवेति अभिनिवेशपारवश्यविरहिणां व्यक्तम् । अधोपादानत्वं विविच्यते उपादेयतया तार्किकाद्यभिमतानि कार्याणि तावत् द्रव्यगुणकर्माणि । घटो जायते, पटो जायते, पाकादपाकाच्च रूपा दयो जायन्ते, शब्दस्नेहेच्छाद्वेषसुखदुःखादयो जायन्ते, कर्माणि उत्क्षेपणभ्रमणादीनि जायन्ते इति प्रत्ययात् । तत्र गुणकर्माणां विषय इव द्रव्यविषयेऽपि उपादान कार्यादतिरिक्तं तदाधारभूतमिति तार्किकमतम् । संबन्धश्च समवायः । वेदान्तिमते तु द्रव्यमेकमेव कार्यकारणोभयात्मकमिति यद्यपि नाधाराधेयभावः, अथापि गुणकर्मविषये सोऽस्त्येव । तथाच गुणादिकं प्रत्युपादानत्वं नाम गुणाद्याधारत्वे सति तत्कारणत्वम् । समवायसंबन्धस्य निराकृतत्वात्तु स्वरूपमेव संबन्धः । घटं प्रति मृत्पिण्डस्य नैवमाधाराधेयभावो वेदान्तिमते इति तत्रोपादानत्वमन्यादृशम् । तत्राप्यवस्थामात्रग्रहणे तु तत्कारणत्वतदाधारत्वयोर्द्रव्ये सुवचतया एकरूपमेवोपादानत्वम् । अथापि घटत्वं जायत इत्यप्रयोगात् घटो जायत इत्येव प्रयोगात् जन्माश्रयत्वं कार्यत्वं घट एव स्वीकार्यमिति सर्वे निश्चिन्वन्ति । अतश्च सर्वसाधारण्याय वेदान्तिसमतं तादात्म्य – स्वरूपसंबन्धावच्छिन्नाधारत्वान्यतरसंबन्धेन कार्यसंबन्धित्वे सति कारणत्वमुपादानत्वम् । एवञ्च घटपटसंयोग आत्मानात्मसंयोगादिरूपगुणाद्युपादानत्वमात्मानात्मद्रव्येषु सुखमुपपादितं भवति । एवञ्च ब्रह्मणो जगत्का रणत्वस्य जगदाधारत्वस्य च निर्विवादत्वात् जगद्रूपकार्योपादानत्वं ब्रह्मणि सुस्थम् । स्वरूपसंबन्धश्वायं कालिकादिखरूपसंबन्धवैलक्षण्यव्यक्तये अपृथक्सि द्धिविशेषरूप इष्टः । संभावितस्थले संयोगविशेषरूपोऽपि स संबन्धः । तत् सिद्धं कार्यप्रतियोगका पृथक्सियनुयोगित्वे सति कारणत्वमुपादानत्वं ब्रह्मणः । घटं प्रति मृद उपादानत्वं तादात्म्यसंबन्धघटनेन वा अवस्थामात्रग्रहणेन ब्रह्मोपादानत्वतो मिथ्यात्व सिद्धि-भङ्ग प्रसाधनम् वोपपाद्यमित्यन्यदेतत् । अतस्तार्किकायुक्त लोकप्रसिद्धोपादानत्वस्यैवास्माभिरुत्तया किमिति नेत्रे निमील्यौपचारिकमुपादानत्वमिति पौनःपुन्येन घुष्यते । ૩ एवञ्च सब्रह्मात्मादिशब्दानां कारणवाक्यनिर्दिष्टानां शुद्धपरमात्मपरत्वेऽपि नोपादानत्वक्षतिः, तस्य कार्यं प्रति कारणत्वस्यापृथक्सिद्धयनुयोगित्वस्य चाक्षतत्वात् । एतावति पर्याप्तेऽपि तत्त्वशोधनार्थमधिकमपि किञ्चिदुच्यते जगत् प्रति ब्रह्मणः कारणत्वमित्यत्र जगत्पदेना चेतनरूपप्रपञ्चमात्रग्रहणम्, उत तद्विशिष्टब्रह्मग्रहणम् । आये उपादानत्वं गुणन्यायेनोपपादितम् । अन्त्ये तु घटमृत्पिण्डयोरिवैक्यादक्षतम् । तथाहि घटो जायते, रूपं जायते इत्यादौ जनिधात्वर्थः क इति विचार्यम् । जनिरुत्पत्तिः । सा यदि आद्यक्षण संबन्धरूपा, रूपादौ घटते । घटस्य तु द्रव्यस्यानादित्वात् अवस्थामात्रस्यैवाद्यक्षण संबन्धात् कथं तत्रोत्पत्तिव्यवहार इति शक्येत । अतएव घटद्रव्यमत्तिरिक्तमुपादानादिति तार्किकाः । वेदान्तिमते तु घटत्वरूपावस्थाया एवोत्पत्तिं प्रति साक्षादाश्र यत्वेपि घट उत्पद्यत इति व्यवहारानुसारात् परम्परया तदाश्रयत्वं द्रव्ये एष्टव्यम्, यत्र यत्र तथा व्यवहार इति वाच्यम् । यथा सत्तायास्तर्किकमते द्रव्यगुणकर्ममात्र निष्टत्वेऽपि सामान्यादित्रयेऽपि प्रतीतिबलात् परम्पराया अपि संबन्धत्वम् तद्वदिति ग्राह्यम् । एवञ्च घटादिद्रव्ये उत्पत्त्याश्रयत्वस्य परम्परा संबन्धमादाय निर्वाहे, तथैव जीवो देवो नरो वयो वृक्षश्च जायते कर्मवशादित्येवंरूपप्रामाणिक परश्शतप्रयोगानुसारेण उत्पत्त्याश्रयावस्था विशिष्टदेवादिशरीरापृथक्सिद्धत्वरूपपरम्परया जीवेऽप्युत्पत्त्याश्रयत्वमेषितव्यम् । तथा, बहु स्यां प्रजायेय, तदात्मानं स्वयम कुरुते त्यादिप्रयोगबलात् ब्रह्मण्यपि उत्पत्तिमदवस्थाश्रया चेतनद्रव्यापृथक्सिद्धतया वा तादृशाचेतनद्रव्या पृथक्सिद्धजीवापृथक्सिद्धतया वा उत्पत्तिमत्त्वमेषितुं साम्प्रतमिति । ब्रह्मणः कारणत्वमिव कार्यत्वमप्यस्ति । अत एव विष्णुपुराणेपि, " स एव सृज्यः स च सृष्टिकर्ता स एव पात्यत्ति च पाल्यते च” इत्येवं व्यवहारः । * परमार्थ भूषणे एवमुत्पत्तिः कार्यत्वं व्यवहारबलात् यथा परम्परयापि, तथा कारणत्वमपीति ज्ञायते । घटं प्रति मृत्पिण्डः कारणमित्यत्र कारणत्वं पूर्वकालवृत्तित्वम् । तत्र द्रव्यस्य सदातनत्वात् घटत्वोपलक्षितद्रव्यस्य प्रागपि सत्त्वात् मृत्पिण्डस्य घटः कारणमित्यपि प्रयोगापत्तिरिति तद्वारणार्थ समभिव्याहृतपदार्थतावच्छेदक मृत्पिण्डत्वादिविशिष्टे कारणत्वान्वयः स्वीकार्यः । पूर्वकालवृत्तित्वं पिण्डत्वावस्थायामपि विवक्षितमित्युक्तं भवति । परन्तु घटं प्रति पिण्डत्वावस्था कारणमिति प्रयोगाभावात् कारणत्वं नाम पूर्वावस्थाश्रयत्वमिति वक्तव्यम् । तदा समभिव्याहृतपदार्थतावच्छेदक पिण्डत्वावस्थायाः कारणपदार्थतावच्छेदकस्यावस्थारूपधर्मस्य चैक्यं व्युत्पत्तिचलभास्यमित्यङ्गीकर्तव्यम् । तेन मृत्पिण्डं प्रति घटः कारणमिति प्रयोगवारणम् । ऐक्यासंभवे क्वचित्तयोधर्मयोः समानकालिकत्वं वा स्यात्, न तु समभिव्याहृतपदार्थतावच्छेदकस्य घटत्वादिवदुत्तरकालिकत्वम् । अस्त्वेतत् । अवस्थाश्रयत्वं यदिदं कारणत्वम्, तत् साक्षादाश्रयत्वमिव परम्परयाश्रयत्वमपि कचिद्भवति । अत एव जीवस्य मनुष्यादिदेह कारणत्वम् ; मनुष्यपिण्डत्वावस्थासमानाधिकरणतत्पूर्वभाव्यवस्थाश्रयभूतसूक्ष्मापृथक्सिद्धतया परम्परया तादृशावस्थाश्रयत्वात् । अत उत्पत्तिमत्त्वस्येवावस्थावत्त्वस्यापि परम्परासंबन्धेनापि स्वीकारेऽनुपपत्त्यभावात् प्रयोगानुसारेण ब्रह्मणोपि तथोपादानत्वम् । एकसंघातनिविष्टैक देशकार्यतया संघातिनः प्रधानस्य कारणत्वं श्रुत्यापि ज्ञाष्यते, “यथोर्णनामिः सृजते गृहते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम्” इत्यक्षरशब्दवाच्यस्य ब्रह्मणो विश्वकारणत्वस्योपादानत्वस्योक्तिः । प्रधानाप्रधान विवेकमन्तरा एकसंघातनिविष्टत्वेऽपि कार्यकारणभावोऽस्ति ; यथा पृथिव्यैकदेशा एवौषधिरूपेण समाविष्टा इति तादृशसंघातापन्नपृथिवी ओषध्युपादानम् । सतो जीवतः पुरुषादात्मनः केशलोमान्येव जायन्ते । तानि प्रति देहस्येव पूर्वावस्थाश्रयत्वं तत्संघातनिविष्टस्य प्रधानस्य जीवस्यापीति सोऽपि कारणम् । तथा ऊर्णनाभिशरीरान्तर्गतलाला प्रधानस्योर्णनाभेश्व ब्रह्मोपादानत्वतो मिध्यात्वसिद्धि-भङ्ग-प्रसाधनम् ९८५ जलात् तन्तवो जायन्ते, जायमानतन्तुपूर्वावस्थाश्रयलालया संहतस्य देहस्य तत्र परम्परयाऽवस्थाश्रयत्वमादाय कारणत्वम् । तथाच कारणशब्दस्योपादानशब्दस्य च साक्षाद्वाऽभिमतपरम्परया वा अवस्थाश्रय इत्येवार्थ इति न ब्रह्मण उपादानत्वक्षतिः । तथाच तेन संबन्धेन तदवस्थाश्रयं प्रति तेन संबन्धेन तदवस्था समानाधिकरणतत्पूर्वास्यायाः आश्रयः साक्षात् अभिमतपरम्परया वा यः, स तदवस्थापन प्रत्युपादानमित्युक्तं भवति । नामरूपव्याकर्त्रा च परमात्मना स्वपर्यन्ते रूपशब्दवाच्यावन्याश्रयत्व सद्भावप्रदर्शनायैव, ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवागी’ ति खानुप्रवेशपूर्वकं व्याकरणमुक्तम् । एवं स्थिते ‘ते यदन्तरा तद् ब्रह्म’ इति नामरूपाभावश्रुतिस्तु वस्त्वन्तरमद्वारीकृत्य साक्षान्नामरूपानाश्रयत्वाभिप्राया । परम्परया चेतनाचेतनगतधर्माश्रयत्वं ब्रह्मणि न वार्यते अत एव “काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः” इति परमात्मनि काठिन्यवत्त्वमुक्तम् । जडाजडयोरैक्यायोगात् भूमिगतं काठिन्यं परमात्मनि कथमन्यथा घटेत । ‘रसोऽहमप्सु कौन्तेय’ इति रसत्वाद्याश्रयत्वमप्येवं परम्परयव निर्वाह्यम् । परम्परायामध्याधारत्वव्यवहारो मुख्य दृश्यते; यथा भूतलास्तीर्णे पटे तिष्ठति पुरुषे भूतलस्यैव तत्राधारता पुरुष प्रति अम्भःपूर्ण कुम्भं करेण बिभ्रतः पुंसः केवलकुम्भादधिकभारमरणपरिश्रमः प्रत्यक्षः । तत्र स्वाधीनसर्वचेतनाचेतस्वरूपस्थितिप्रवृत्तिके परमात्मनि तत्तद्धर्माधारत्वे कः संदेहः । अस्याभावे तेषां तदाधारत्वानर्हत्वात् । अत एवोच्यते, ‘यदादित्यगतं तेजः -तत् तेजो विद्धि मामकम्’, ‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि । एवञ्च घटं प्रति ब्रह्मणस्तदाधारतया कारणत्वमिव यथा घटं प्रति मृत्पिण्डः कारणमित्युक्तौ घटत्वाश्रयस्य जडस्य पिण्डत्वाश्रयस्तदभिन्नः कारणमित्युक्तं भवति, तथा घटपदेन घटत्वस्य परम्पराश्रयं परमात्मानं पिण्डपदेनापि पिण्डत्वं प्रत्याश्रयं तं गृहीत्वा कारणत्वमपि वर्णयितुं शक्यत इति चोपादानत्वं संभवति । 124
एवमन्यगतावस्थामादाथैवोपादानत्वमुपपादितम् । साक्षादवस्थामादायापि तदस्ति । यथा बालो युवा जात इत्यत्र बालत्यावस्थापन्नस्य देहस्य युवत्वावस्थापन्नदेह कारणत्वम्, तथा बालदेहवैशिष्ट्यविशेषरूपावस्थापन्नस्य युवदेह वैशिष्ट्य विशेषविशिष्टं नीवं प्रत्युपादानत्वं भवति । तथैव बालदेहवि शिष्टजीववैशिष्ट्य विशेषरूपावस्थापन्नस्य परमात्मनः युवदेह विशिशिष्टजीववैशिष्टय विशेषापन्नपरमात्म निरूपितोपादानत्वं भवत्येव । एवं परम्परासंबन्धेन परिणामाश्रयत्वात् परमात्मन उपादानत्वं भवतीति परिणामादिति सूत्रे उपपादितम् । परिणामवत्त्वात् ब्रह्म प्रकृतिर्भवितुमर्हति, साक्षादिव परम्परासंबन्धस्यापि विवक्षितत्वात् । अन्यथा क्रये साक्षादुत्पत्तिवर्णनायोगात् । उत्पत्तेः परम्परयोपपादने कार्यकारणावस्थयोरपि तथोपपादनेन जीवविषये लोकदृष्ट्यैव नीत्या परमात्मनः कार्यत्वकारणत्वयोराज्ञ्जस्येन वर्णनादिति । अत्रेदमवधेयम् गुणादिषूत्पत्तिव्यवहारस्य साक्षात्संभवं घटादिषु द्रव्येषु तद्व्यवहारस्य परम्परया संभवश्चोपपाद्यमानमपेक्ष्य द्रव्यगुणयोर्मध्ये द्रव्यस्य प्रधानत्वात् द्रव्यविषयव्यवहारस्यैव भूयस्त्वाच्चोत्पत्तिशब्दस्य आद्यक्षणावच्छिन्नावस्यैव मुरूयोऽर्थः । गुणादावुत्पत्तिपदं तु तदेकदेशस्याऽऽद्यक्षण संबन्धस्य सद्भावेन । उत्पत्तावुत्पद्यत इति व्यवहारवत् अवस्थायामुत्पद्यत इति व्यवहार इति च भाव्यम् । कार्यशब्दस्य द्रव्यपर्यन्तत्वे मुख्यत्वादेव सत्कार्यवाद इत्युच्यत इति । एवमपि पूर्वोक्तानुगतोपादानत्वशिक्षणं नानुपपन्नम् । बाल्युवादिजीवविषयव्यवहारानुसारेण परम्परासंबन्धेनाप्यवस्था श्रयत्वविवक्षा तु सर्वथा भवत्येव । अपृथक्सिद्धितादात्म्यान्यतरसंबन्धेन तत्संबन्धित्वे सति तत्कारणत्वमुपादानत्वमिति गुणद्रव्यसाधारण तन्निर्वचनम् । घटत्वादेखि घटत्वावस्थापन्नवस्तु वैशिष्टयस्य ब्रह्मनिष्ठस्यैव कार्यतावच्छेदकत्वसंभवात् साक्षादपिचोपादानत्वम् । इदञ्च वैशिष्ट्यविशेषमादाय साक्षादाश्रयत्वमन्ते प्रदर्शितमेव । इदमपि परिणामादित्यत्र विवक्षितं भवितुमर्हति । ‘अनेन जीवेनात्मनाऽनुप्रविश्ये’त्यत्रास्मदीय उपनिषद्धाप्यपरिष्कारः मुण्डको पनि सद्भाव्यतत्परिष्कारादयश्च वैशद्याय द्रष्टव्या इति सर्व समञ्जसम् । • ब्रह्मोपादानत्वतो मिथ्यात्व सिद्धि-भङ्ग प्रसाधनम् इत्थं तार्किकवेदान्तिसंमतप्रक्रियाविदाम् । उपादानत्वमीशस्य सुगमं सुप्रतिष्ठितम् ॥ सर्व मिथ्यात्वमास्थाय ब्रह्मैकं गदतां पुनः । कारणत्वेऽप्यसंभाव्ये उपादानवचः कुतः ॥ उपादानत्व शिक्षा तु रज्जुसर्पनिदर्शनात् । गतिरन्धस्य जात्यन्धदत्तयष्टयवलम्बनात् ॥ । ९८७ एक्मुपादानत्वस्य सम्यगुपपादनात विशिष्टाद्वैतिमते उपादानत्वव्यपदेशमात्रमिति, विज्ञानभिक्षुमतमेव स्यादिति चोक्तं प्रत्युक्तम् । विज्ञानभिक्षुस्तु सेश्वरसांख्य एवेति न सोऽस्मन्मतप्रक्रियावादी । अपिच कार्यवाचिपदस्यापि विशिष्टब्रह्मपरत्वं शरीरात्मभावनिबन्धनैक्यव्यवहारमपि च स न जानाति । भवन्मत एव तु मायायामेवोपादानत्वम्, न ब्रह्मणि । मायाया निमित्तत्वमात्र मन्यमानानां तु तदुक्तस्योपादानत्वस्य ब्रह्मनिष्ठस्य शशविषायणायमानत्वात् अनुपादानमेव सर्वमिति च ध्येयम् । यदुच्यते, अस्मदुक्तः शरीरशरिभावो द्वैतिमतेऽपि भवेदिति तद् भवतु । किं तेन । भवन्मतेऽपि किं न भवेत् यद्याग्र हस्त्यज्यते । व्यावहारिकस्य शरीरशरीरिभावस्य आमोक्षं स्वीकारसंभ, वात् । यदपि भिन्नयोरभेदव्यवहारो गौण इति तन्न । न हि वयं भिन्नयोरभेदं कुत्रापि ब्रूमः । मिन्नवाचित्वेनाभिमतयोः पदयोर्विशिष्टविषयतया मुख्ययोरेवैक्यं तत्तदर्थगोरित्येव ब्रूमः । यदपि, ‘नेह नानास्ति’ इत्यत्र स्वतन्त्रभेद निषेध इतीदमभेदव्यपदेशाय कल्पनामात्रमिति कथमेतत् । भवन्मते ब्रह्मव्यतिरिक्तस्य ब्रह्माधिष्ठानकत्वाद् भेदगर्भोऽभेद इति भवतैवोक्ततया सति भेदे नेहनानास्तीति कथम् ? नानेत्यस्याभेदगन्धविधुर भेद इति विशेषपर्यवसानेन तन्निषेधस्योक्तौ तदपेक्षया स्वतन्त्रभेदनिषेध इत्येव युक्तम् ; अनुभूयमानवस्त्वालापाभावात् । ‘अभेदगर्भो भेद इति चासंगतम् ; भेदाभेदयोर्विरोधात् । अमेदशब्दो भेदशब्दघटित इत्यवदेव स्यात् । ’ अपृथक्सिद्धिरिति परिभाषा कल्पन’ मिति च न दूषणम् । तदुक्तिप्रमेयस्य संमतत्वे तत्तत्तान्त्रि ૧૮
परम्परयाऽवस्थाश्रयत्व कैरनेकपरिभाषाकल्पनवदस्यास्मत्परिभाषात्वेपि बाधकाभावात् । प्रमेयासंमतौ च परिभाषादूषणस्यायुक्तत्वात् तस्यैव दूप्यत्वात् । अपृथक्सिद्धिर्नेति वदता पृथक्सिद्धिवर्णनीया । नित्यविभुपरमात्मापृथक्सिद्धि कथमपि भवितुमर्हति । ‘सद्वारकोपादानत्वे च प्रकृतिश्चेति सूत्रनिरोध’ इति च कथम् । उपादानशब्दस्य यो मुख्यार्थः तत्त्वस्यानपायात् । स्याप्युपादानशब्दार्थत्वस्य प्रागुक्तत्वात् ; वैशिष्ट्यरूपधर्मस्य साक्षादेव सत्त्वाच्च । " विशिष्टोपादानत्वं प्राप्ताप्राप्तविवेके विशेषणे पर्यवस्यती” त्ययमर्थः शतदूषण्यां भवत्पक्षनिष्ठैरस्मत्पक्षदूषणावसरे उक्तः । तत्र ‘प्राप्ताप्राप्तविवेकन्यायेने ‘ति न्यायपदघटितानुवादासामञ्जस्यवत् स्वपक्षदूषणार्थमुक्तमिति मत्वा परिहारप्रयत्नोऽप्यनुचितः । अशक्यश्च परिहारः; वार्तिकाद्युक्तमायोपादानत्वपक्षे घटाद्युपादानत्वस्य तत्रैव पर्यवसानात् । ब्रह्मणि तदौपचारिकत्वं भवदीयग्रन्थारूढमित्यधस्तादेव दर्शितत्वात् । न हि घटादीन् प्रत्यपृथक्सिद्धत्वं ब्रह्मणि तत्प्रद्वेषिणा भवता स्वभ्युपगमम् । न च घटादिशब्दानां विशिष्टब्रह्मपरत्वम् । एवञ्च ब्रह्मणोऽनुपादानत्वे प्रकृतिश्चेतिसूत्रविरोध इति चेत्-स तत्पक्षे भवत्येव । एवं नविलक्षणत्वाधिकरणस्याप्यनुत्थानमेव । मायागतोपादानत्वाज्ञानेन सांख्यकृतः पूर्वपक्ष इति निर्वाह्यम् । मायाया अनुपादानत्वं ब्रह्मणो जगदध्यासाधिष्ठानत्योपादानत्वमिति भामतीपक्षावलम्बिनं प्रति चा नविलक्षणत्वाधिकरणपूर्व पक्षो ऽस्तु तस्य मुख्यकल्पत्वस्य,. विचर्तेप्यधिष्ठानसाहश्यावश्यकतायाः शुक्तिरजतादौ दर्शनस्य च भवदुक्तत्वात् प्रपञ्च ब्रह्मवैलक्षण्यमभिमत्य पूर्वपक्षप्रवृत्तिसंभवात् । विशेषणोपादानत्वं परिणामितया, विशेष्योपादानत्वं विवर्ततयेत्युभयाभ्युपगमस्त्वयुक्तः । कार्थस्यैकविधोपादानापेक्षाया एव दर्शनात् । अत एव हि भामतीकारेणाविद्याया उपादानत्वत्यागः । वस्तुतो भवत्पक्षे नविलक्षणत्वाधिकरणस्यानुत्थितिरेव । ब्रह्मव्यतिरेकेण प्रपञ्चस्याभाव एवेति पक्षे कार्यस्यैवाभावेन किं प्रति ब्रह्मणः कारणत्वविचारः कीदृशकारणत्वमिति विचारस्तु कथंतरामिति । अस्मत्पक्षे तु विशिष्टवे 1 ब्रह्मोपादानत्वतो मिथ्यात्वसिद्धिभ प्रसाधनम् ९८९ षेण कार्यत्वं कारणत्वञ्च वैशिष्ट्यासंभवादेवासंभावितमिति शुद्धप्रपञ्चं प्रति केवलब्रह्मण एवोपादानत्वं वक्तव्यम् ; तच्च विलक्षणत्वादयुक्तमिति नविलक्षणत्वाधिकरणपूर्वपक्षस्य सम्यगुत्थितिः । दृष्टान्तपूर्वक वैशिष्ट्य संभवप्रदर्शनेन च पूर्वपक्षपरिहारः क्रियते । संभावितत्वेन निर्दिष्ट वैशिष्ट्यं पृथगधिकारणे पश्चात् प्रमाणपुरस्परं स्थापयिष्यते चेति सर्वमनवद्यमित्यलमत्र बहुविशेषार्थव्युत्पादनविस्तरेण ।
यत्तु निर्विकारत्वश्रुत्यविरोधाय ब्रह्मणः परिणामित्वत्याग इति तन्त्र ; परिणाममिथ्यात्ववादिनां परिणामस्वीकारेपि निर्विकारत्वस्याक्षतेः । मृत्परिणामस्य घटादेर्यावर्तमानतया मिथ्यात्वं ह्यास्थीयते । वस्तुतो निर्विकारस्य नित्यमुक्तस्य बन्धगन्धस्याप्यभावेन मोक्षश स्त्रं सर्वं व्यर्थमेव स्यात् । तदपि मियैवेति चेत् — हेोपादेयविभागेन सांसारिकप्रवृत्तिघटन मोक्षार्थप्रवृत्तिसंपादनार्थपरमप्रयासादिकं सर्वमनपेक्षितमिति सर्वः स्वैरेचार्येव तर्हि क्रियेत । यत्तु – ‘अष्टवर्षं ब्राह्मणमुपनयीते ‘ति वाक्यं शरीरतादात्म्याभिमानिपुरुष विषयमिति — तदयुक्तम् नरकादिहेतुप्रत्यवायपरिजिहीर्षोः स्वर्गाद्यामुष्मिकप्रेप्सोश्च विवेकिनः शरीरतादात्म्यामिमानायोगात् तादृशस्य बालस्योपनयनसंस्कार्यत्वाप्रसंगात् । भवन्मते शरीरादिना मिथ्याभूतेन सहात्मनः संयोगरूप संबन्धस्य दुर्वचत्वेपि जगत्सत्यत्ववादिना शरीरात्मनोः संयोगादिनानासंबन्धसद्भावस्य • स्वीकृतत्वेन व्यावहारिकस्य संयोगस्यापलापायोगात् ब्राह्मणादिशरीरसंयुक्त उपनयन संस्कार्य इत्येव विवेक्यविवेकिसाधारण्येन श्रुत्या बोधनसंभवात् । व्यावहारिक कर्मविधायकवाक्येषु पारमार्थिक दशानुसारिबोधवर्णनक्लेशस्यानवकाशाच्च । एवं तादात्म्याभिमानीत्यर्थोऽपि दुर्वचः, आत्मनि शुद्धे अभिमानवत्त्वस्याप्यभावात् । शुद्धात्मन्यभावेऽपि विशिष्टात्मन्यस्तीति चेत् — किंविशिष्टत्वमात्मनः स्यात् ; किंरूपञ्च तत् वैशिष्टयम् । अन्तःकरणावच्छिन्नात्मेत्युक्तौ अवच्छिन्नत्वमपि दुर्वचमेव । अन्यथा देहावच्छिन्नत्वस्यैव सुवचत्वात् । अन्तःकरणतादात्म्य मिमा-.९९०
नित्वमिति चेत् — शरीरतादात्म्यामिमानिनि अन्तःकरणतादात्म्याभिमानः कथम् । अमिमानसामान्यमेव वा कथम् । अभिमानाश्रयत्वाभावेपि अभिमानविषयत्वमस्तीति चेत् — तादात्म्यामिमान एकदा शरीरान्तःकरणोभयमादाय दुर्वचः । तत्तत्संयोगाभिमानविषयत्वमेव संभाव्यते । तथापि तथाभिमानविषयत्वावच्छिन्नसंस्कारकमुपनयनं कार्यमिति बोध उपनिषद्भिर्मिध्यात्वनिश्चये सत्येव स्यात् ; न पूर्वमिति अन्येषामुपनेतृत्वाभावप्रसंगः । प्रागेव, ‘देह संबन्धाज्ज्योतिरादिवत्’ इत्यत्र देह संबन्धस्वरूपं शाङ्कर वर्णितमसंगतमिति दूषित मित्यलमत्र । सदेव सोम्येदम्’ इत्यादी अविद्योपहितस्यैव ग्रहणम्, नत्वनावृतचिन्मात्रस्येति प्रागुक्त्वा –‘विशिष्टान्तर्गत विशेषणस्य कारणत्वस्वीकारः सत्यत्वस्वीकारश्च न युक्तः, ‘एकमेवाद्वितीयम्’ इत्युपक्रमविरोधात्’ इत्युक्तिर्व्याहता । सदिति यद्युपहितपरम्, तर्हि विशेषणस्य विवक्षितस्याविरोधेनैव एकमित्यादेरर्थो वर्णनीयो भवति । असत्यत्वेपि कारणत्वं भवदिष्टमेव ; असत्यात् सत्योत्पत्तेः । अपिच कारणत्वमप्यसत्यमेव हि । तत् सत्येनैव संबन्धुं नार्हति न त्वसत्येन । कारणवाक्यस्य मुक्तिदशापरत्वं न भवतीति च प्रागेवोक्तम् । विशेषणस्य विशिष्टस्य वा परिणामित्वे वाचारम्भणवाक्य वैयर्थ्यमिति प्रतिज्ञामात्रम् । आरम्भवादनिरासार्थं तदिति साधितत्वात् । ‘मृतिकेत्येव सत्यम् ’ इत्यस्य मृत्तिकोपलक्षितचिन्मात्रं सत्यमित्यर्थः वाक्यादनवगम्यमानश्च, अज्ञातपूर्वत्वात् दृष्टान्तविधया दर्शयितुमशक्यश्च । अपूर्वतया व्युत्पादनीयत्वे तु, सदेवास्ति भविष्यत्यासीत् ; वाचारम्भणमन्यन्नामधेयम्; सदेव सत्यमित्येतावतैव वाक्येन भाव्यम् । अतः सांख्यादिरीत्या अनुभवानुसाराच्च श्वेतकेतोः मृद्धटस्थले एकज्ञानेन सर्वविज्ञानं गृहीतं स्यादिति दृष्टान्ते कथ्यमाने आरम्भवादवासनावासितान्तः करणेन श्वेतकेतुना कथंतायां सूच्यमानायां तं वादं खण्डयितुं वाचरम्भणमिति वाक्यं प्रवृत्तमिति भाव्यम् । ब्रह्मोपादानत्वतो मिथ्यात्वसिद्धि-भङ्ग प्रसाधनम् ९९१ आरम्भवादः कार्यस्य सद्वैलक्षण्यसाधकः ; परिणामवादस्तस्यासद्वैलक्षण्यसाधक इति • कार्य मिथ्यात्वसिद्धिरित्यपि मनोरथमात्रम् । तथासति तदुभयस्यैव स्वीकारेण विवर्तवाद त्यागात्तेः । वादद्वयं कथं विरुद्धं स्वीक्रियेतेति चेत् — वादद्वय सिद्धसदसद्वैलक्ष पार्थद्वयं परं कथं स्वीक्रियेत । आरम्भवान कार्यस्यासत्त्वं परिणामवादेन च सत्त्वमिति सदसत्त्वस्वीकार वास्तु । विरोधिसकलमतसद्भावे स्वमतं स्थापितं भविष्यतीति मन्यमानैश्च पृथक् स्वमतस्थापनं न कार्यम् । तर्कपादे नानामतनिरासोऽपि न कर्तव्यः स्यात् । तस्मादद्वैतिसंमतोपादानत्वप्रकारस्यालीकत्वात् न ततः कार्यमिध्यात्वसिद्धिरिति । यस्मात् पर्ण पतति तदपादानमाहुः पदज्ञाः पर्णासंबन्ध्यवधिरयमिति; एवमादीयमानम् । कार्य नित्यं भवति यदुपश्लेषवत्, कारणं तत् योगार्थस्य स्थितिविद उपैष्यन्त्युपादानरूपम् ॥ योग लोकप्रयोगं श्रुतिवचनगतिञ्चानुरुध्यादृतेऽस्मिन् कार्योपादानरूपे चिदचिदुपगते ब्रह्मणि स्पष्ट सिद्ध । सर्व संत्यज्य मिथ्यारजतमुखजनं कल्पयित्वा विवर्त चित्रं निर्वर्य चाहुर्यदुत परमुपादानमेतद् विचित्रम् ॥ शुभमस्तु श्रीः