आत्मानः खप्रकाशाः निजमतिविभवान्मुक्तिका लोपनीतात् पश्यन्ति ब्रह्म सर्वान्वितम् अपि सुखतां तत्र सर्वत्र नित्याम् । एतस्मात् पूरुषार्थं परमखिलगुणात्यन्तदूरं निवृत्तौ सर्वस्य स्वात्ममात्रस्फुरणमभिदधुः केचिदेतन्न तत्त्वम् ॥ अस्य पूर्ववादसंगतिस्तावत् मुमुक्षायामनिष्टस्य निवृत्तिर्मुक्त्तिरीरिता । सर्वानुभूतिरूपेष्टप्राप्तिस्तत्राधुनोच्यते ॥ भावान्तराभाववादस्यैव प्रामाणिकतया मुमुक्षापूर्वप्रवृत्तिनिप्पा दिता मुक्तिः कीदृम्भावरूपेति विवेक्तव्यम् । तत्र ब्रह्मस्थितिरात्मस्थितिर्वा सा न भवति । नित्यतया तस्याः साध्यमुक्तिरूपत्वायोगात् । अत एवाविद्यानिवृतिब्रह्मैवेति पक्षः प्रतिक्षेप्यः । अत एव शतभूषण्युक्तं यत्, ‘ब्रह्म वेद ब्रह्मैव भवति’ इति वचनात् ब्रह्मभावारुं परं मुक्तिस्वरूपमिति तदसंभवि । किमयमब्रह्मणो ब्रह्मभावः, उत ब्रह्मण एव । नाद्यः, अन्यद् द्रव्ये द्रव्यान्तरतां नैतीत्यस्योभयसंमतत्वात् । अद्वैतिमते ब्रह्मभावस्य प्रागेव स्थितत्वाच्च । अत एव नान्त्यः । न च ब्रह्मस्फुरणं पश्चात्तनम् ; खप्रकाशत्वात् खरूपातिरिक्तस्फुरणाभावाच्च तस्याप्यनादित्वात् । न च ब्रह्मविषयक ज्ञानान्तरोत्पत्तिस्तदेण्येत, अपसिद्धान्तप्रसंगात् । न चानन्दस्फूर्तिर्ब्रह्मभावः, दुःखरूपत्वाभावातिरिक्तकिश्चिदभावात् । अत एव ब्रह्मवेदनानन्तरभाक्तिया श्रुत्युक्तो ब्रह्मभावो नाद्वैतिसंमतरूपो भवितुमर्हति । तस्मात् श्रुत्यन्तरोक्त ब्रह्मपरमसाम्यं ब्राह्मरूपाविर्भावात्मकं ब्रह्मवत् सर्वविषयकानुभवात्मकज्ञानसंपन्नत्वमेव ब्रह्मभाव इति वक्तव्यम् । तत् सिद्धं मुक्तसंवित् सविषयेति । ९२७
किंतु स चानुभवः परिपूर्णब्रह्मविषयक एवेति, ‘ब्रह्मविदाप्नोति परम्’ इति वाक्यैककण्ठ्यम् । तथा च “परात् परं पुरुषमुपैति दिव्यम्’ इति श्रुत्यन्तरप्रसिद्ध परमपदाख्यद्युलोकदीव्यत्पर वासुदेवप्राप्तिरूपपूर्ववाक्योक्तफलनिगमनमेवात्र क्रियते, पुरुषप्राप्तिरियं न तत्सालोक्यसामीप्यमात्ररूपा, प्रागुक्तपरम साम्यरूपब्राह्मरूपाविर्भाव एवेति ज्ञापनाय । ‘सोश्नुते सर्वान् कामान् सह’ इति ब्रह्मसहितानेककामानुभवे स्पष्टं श्रयमाणे केवलानन्दरूपेणावस्थानमेव तदर्थ इति श्रद्धालुभ्य एव रोचेत । यस्यां ब्रह्मापि नानुभूयते, कामास्त्वभावादेव नतराम्; आनन्दरूपमपि ब्रह्म अग्राह्यत्वान्नानुभूयते । दुःखानुभवाभाव एव चानन्दानुभवो नाम सा दशा एतच्छुत्यर्थ इति खल्वतिसाहसम् । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती’ ति वाक्यं तु ब्रह्मानन्दस्य शतगुणितमानुषानन्दोत्तरोत्तरातिशयितत्वबोधिश्रुत्यनुसारं ब्रह्मानन्दस्य सर्वपुरुषानन्दापेक्षयाऽत्यन्तातिशयितत्वात् तदेकदेशलवानुभव एवान्येषामिति ब्रवीति ; न पुनर्जीवानुभाव्यानन्दस्य ब्रह्मणश्चैक्यम् । मुक्तानुभाव्यब्रह्मणो विपश्चितेति विशेषणात् सर्वज्ञभगवदानन्दानुभवतौल्यं मुक्तानन्दे, तथा मुक्तानन्दानुभव सप्रेमदर्शनवत्त्वं च ब्रह्मणि लभ्यते । उपरि बृहदारण्यकगतानन्दमीमांसया चैतद्वाक्यव्याख्यानमेव क्रियते । यथा मनुष्यानन्दव्यक्तय एव शतगुणिताः न पित्रानन्दः, किंतु तत्सजातीयः –तथा ब्रह्मानन्दोऽपि मनुष्याद्यानन्दव्यत्तयतिरिक्त एव । समुद्रे गोष्पदमिविवत् साजात्यमूलक एवात्र व्यपदेशः । यतुं, ‘स एको ब्रह्मण आनन्द’ इत्यत्र नानन्दस्य निरूप्यस्य समाप्तिः बृहदारण्यकानन्दमीमांसाविरोधात् । तत्र तदुपरि, “अत ऊर्ध्व विमोक्षायैव ब्रूहि’ इति जनकेन पृष्टत्वात् उपर्येव मुख्यानन्दरूप ब्रह्मनिरूपणादिति – तत् स्वभाष्यविरुद्धम् । स एको ब्रह्मण आनन्दः’ इत्युक्त एव परमानन्द इति बृहदारण्यकै करस्यविधानेन भाष्ये व्याख्यातत्वात् । ‘अद्वैतत्वादानन्दानन्दिनोरविभागोत्र’ इत्यप्युक्तत्वात् । अत्र चेन्न समाप्तिः, कुत्र तर्हि तत्समाप्तिः ? मुक्तसंवित्स विषयत्व-प्रसाधनम् उक्तत्वात् । ९२९ ‘यतो वाचो निवर्तन्त’ इति श्लोके इति चेत् — तदपि स्वभाष्यविरुद्धम् तत्र, ‘सर्वस्यैवास्य प्रकरणस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति’ इति पूर्वोक्तार्थ संग्रहरूपत्वाभिधानात् । सुगममिदमादितः शाङ्करभाष्यदर्शिनाम् । बृहदारण्यके आनन्दमीमांसायां न परमानन्दनिरूपणम्, किंतूपयेवेत्येतदपि तत्रत्यमूलतद्भाष्यानवधाननिबन्धनम् । ‘अथैष एव परम आनन्दः एष ब्रह्मलोकः सम्राडिति होवाच’ इति परमानन्दरूपब्रह्मणः तत्र च भाष्यम्, " अतः परं गणितनिवृत्तिः । एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य ब्रह्मलोकाद्यानन्दाः मात्राः उदधेरिव विपः’ इत्यादि । तर्हि ब्रह्मणः इहैवोतत्वे, ‘अत ऊर्ध्वम्’ इति प्रश्नः कथमिति चेत्–तत् उभयैरपि विमृश्य वक्तव्यम् । अत्र वक्तयं बृहदारण्यकपरिन्कारेऽस्माभिरुक्तमेव । सुषुप्तौ आत्मस्थितिप्रपञ्चनावसरे खलु प्रसंगा ब्रह्मानन्दशोधनं कृतम् । तथाच सुषुप्तस्य ब्रह्मानन्दानुभवाभावात सोऽपि तस्याननुभूयमानस्याविद्यमानतुल्यत्वात् श्रोत्रियलभ्यत्वं तस्य कदेति जिज्ञासया जनकः पप्रच्छ, ‘अस्तु सुषुप्तिरेवम् । अत ऊर्ध्वं विमोक्षाय ब्रूहीति । याज्ञवल्क्यश्च मोक्षं वक्ष्यन् चरमदेहवियोग एव विमोक्षो वास्तव इति ज्ञापविध्यन् जागरितमरणाद्यावस्था निरूपणमारभते । सर्वथा पूर्वं ब्रह्मस्तावेऽपि तादृशप्रश्नसंभवात् ब्रह्मानन्दः परमार्थस्तत्रोक्त इत्यत्र न विवादः । अतः शतभूषण्युक्तमुपनिषत्तद्भाष्यादिविरुद्धमिति । ‘अत्र ब्रह्म समभुत’ इति उत्क्रान्तिनिरपेक्षमैक्यरूपा मुक्तिरुक्तेत्युक्तमप्ययुक्तम् -समनन्तरमेव ’ अणुः पन्था’ इत्यर्चिरादिमार्गकथनात् । शतदूषण्याम्, ‘धीसंततिः स्फुरति निर्विषयोपरागा’ इति सौगतमत इवाद्वैतमतेऽपि धीमात्र परिशेषः । परं तु सौगताः संततिं वदन्ति, अद्वैतिनस्तु स्थिरामेकां धियम्’ इति अद्वैतिषु सौगतच्छाया दर्शिता । सर्वत्र प्रतिबन्द्या वा प्रकारान्तरेण वा परमतेपि स्वोपर्युद्धावितदोषोद्भावनोद्यमेन तृप्यन्ती शतदूषणी अत्रेव प्रवर्तते —– सौगतमतमेव तु विशिष्टाद्वैतिमतमपि । निर्विषयो 117९३०
परागेत्यत्र निःशब्दस्त्याज्यः इति । निः इति शब्दं विसृज्य सत् इति पदं योज्यम् । एतावदेव । अन्यान्यक्षराणि तथैव सन्तीति मतद्वयमेकमिति तदाशयः । अनेन किमुक्तं भवति -सर्वमेकमेव मतम् ; नञः सद्भावे तत्त्यागः । नञोऽभावे तद्धनमित्येतावानेव भेदः । अद्वैतमपि द्वैतमेव । अकारत्यागे ऐकरूप्यादित्युक्तौ यावत् सामञ्जस्यम्, तावदेवात्र ग्रन्थेऽपि । ‘परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ’ इति वाक्ये परमप दाख्यलोक विशेषान्तःप्रवेशे स्पष्टं प्रतीयमाने परब्रह्मैक्यं तदर्थ इति वर्णनमसाधु । एवमेव ‘परमं साम्यमुपैतीत्यत्रापि परमशब्दबलादैक्यमेवार्थ इति हठात्कारोऽप्ययुक्तः । साम्ये पारम्यं हि न साम्यभञ्जकं भवति । साम्यञ्च सादृश्यं तद्भिन्नत्वे सति तद्वतधर्मवत्त्वम् । तत्र पारम्यं हि भेदमपि पोषयेत् । धर्मवत्त्वमपि । तेन भिन्नत्वे सत्येव भूयशसाम्यं वा, यद्धर्ममादाय साम्यमुच्यते, तद्धर्मपौष्कल्यं वा परमसाम्यमिति सिद्ध्यति । प्रागेव च विस्तृतमेतत् । ‘वैष्णवं वामनमालभेत स्पर्धमानः विष्णुरेव भूत्वेमान् लोकानभिजयतीत्यत्र यागमात्रेण विष्णुभावस्यैवाङ्गीकारेऽपि न कोपि दोष इत्याह शतभूषणी । जीवानामीश्वरभाव एव मुक्तिः, जगद्व्यापारादिकमपि भवितुमर्हतीति वदत्सु केषचिदद्वैतिषु इदमपि न विचित्रम् । इतः श्रवणमनन निध्याना दिविषयपरिश्रमो वा, को वेदान्तार्थ इति विचारसागरपरिप्लवन वा सर्वं मा भूत् । तदेकयागानुष्ठानमात्रेण साक्षात् विणुरेव भविष्यति । विष्णुभूतस्य ब्रह्मभावोपि न दुर्लभः सत्यामपेक्षायाम् । प्रायेणाद्वैतिनः परमेश्वरभावं जीवस्य नेच्छन्ति । परमेश्वर एव च विष्णुरिति तदैक्यं सर्वथैवासभावितं मन्यन्ते । शुद्धचिन्मात्रताया मैक्येऽपि जीवस्येश्वरोपाधिप्रार्तिर्न युक्तेत्याशेरते । तद्दृष्ट्या तु विष्णुत्वप्रसक्तिरेव नास्ति । लोकाभिजयकर्तृत्वांशोपयोगि विष्णुसाम्यमात्रेण संभव निर्वाहं वाक्यं प्रधानीकृत्य स्वल्पयागमात्रेण अत्यन्तासंभाविताकारप्राप्तिवर्णनं न घटत इति तत्त्वस्थिति सहृदयः स्वीकुर्यादित्तीदमुदाहरणमदर्शि । उदाहरणान्तरमौचित्यमेव कारार्थ इत्यादि प्रागेव च जीवैश्वरैक्यमङ्ग प्रसाधने न्यरूपीति मुक्तसंवित्सविषयत्व-प्रसाधनम् ९३१ किमत्राधिकेन । एवकार उपमाद्योतकत्वेन कैश्चिद् व्याख्यात इति प्रागुक्तत्वात् सादृश्येऽर्थे निखण्डपाठस्यापि प्रदर्शनात् अनेक प्रयोगबलाच्च प्रकरणश्रुतसाम्यसाधर्म्यादिपदार्थान्यथाकरण । पेक्षया अनुशासनाद्यनुगुणैवकाराग्रहणं ज्यायः । एवकाराभावेऽप्ययमर्थः सुग्रह इति, ‘प्रकारैक्ये च तत्त्वव्यवाहारो मुख्यत् प्रसिद्ध एव’ इति सूत्तया ज्ञापितम् । न च वतिप्रयोगात् अमुख्यत्वसिद्धया तत्त्यागः । अत्यन्तमुख्स्य ब्रह्मभावरूपार्थस्यानादेः ब्रह्मज्ञानानन्तर्याभावेन विवक्षितुमशक्यतायाः प्रपञ्चितत्वात् । 1 जीवब्रह्मणोरैक्यनिषेधादपि ब्रह्मभावः साम्यमेव । ‘परमात्मात्मनोर्योगः परमार्थ इतीर्थते । मिथ्यैतदन्यद् द्रव्यं हि नैति तद्व्यतां यतः’ इति यैक्यस्यापारमार्थ्यमुक्तम् । अल योग इत्यैक्यं न विवक्षितमिति उत्तरार्धकृतहेतूपन्यासबलात् ज्ञायते । एकस्य द्रव्यस्य द्रव्यान्तरत्वाभावात् जीवपरमात्मनो भिन्नद्रव्ययोर्मध्ये एकमन्यतादात्म्यं प्रतिपद्यत इति न तयोर्योगोऽस्तीत्युक्तौ योगशब्द ऐक्त्रपर इति हि ज्ञायते । शतभूषणी अस्मदभिमतप्रायामेव योजनां पूर्ववद् दर्शयति । परंतु योगो नाम पृथक्सत्ता तादात्म्यञ्चेति निरुच्यते । अर्थद्वयविवक्षा न युक्ता । उत्तरार्धकथितस्य हेतोः पृथक्सत्तारूपार्थ निषेधकत्वञ्च न भवति । यदि तु पृथक्सत्तापदेना पृथक्सिद्धत्वाभाव उच्यते । तथा च पृथक्सिद्धस्य द्रव्यस्य तद्व्यापृथक्सिद्धत्वासंभवात् अपृथक्सद्धत्वस्य वक्तव्यत्वात् पृथक्सद्धयोश योगः तादृशो योगो न युक्त इति वाक्यार्थ इष्यते, नायमस्मन्मतविरोधी । श्रीधरीयेऽपि (२.१४) “जीव परमात्मनोरैक्योपासनया तादात्म्यलक्षणो योगः परमार्थ इत्येतदपि मतं मिथ्यैव” इति योगशब्दस्य तादात्म्यरूपोऽर्थ एव गृहीतः । अन्यथोत्तरार्धानन्वयात् । परंत्वद्वैतखण्डनमितो भवती वनुचिन्त्यां तरार्धे यावदुक्तम्, तावत्यनु परस्य खकपोलकल्पितमपि किञ्चिन्निवेशितम्, तथा हि लिखितम्, “ तयोर्मिन्नयोरभिन्नयोर्वा योगः स्यात् । भिन्नत्वे गवाश्वयोरिव नैक्यसंभवः । अभिन्नत्वे च बिम्बप्रतिबिम्बयो रिवोपाधिव्युदासमात्रं विना योगशब्दार्थो नास्तीलीः " इति । मूले तु । ९३२
परमात्मात्मनो मिथोऽन्यद्रव्यत्वादैक्यं न भवतीत्येतावदेवोक्तमिति अन्यत् सर्वं तत्कल्पनामात्रम् । यदि च पराशरो विकल्प्य दूषणमात्रे स्थितः स्यात्तर्हि तस्याप्यैक्यानैक्यविषये संदेह इत्यापतेत् । तस्मादैक्यखण्डनमेव प्रकृतश्लोकार्थः । योगशब्दस्यैक्यचिन्तनारूपमर्थ नामसहस्रशाङ्करभाष्येऽपि कुतोऽप्यनूदितं पश्यामः –तथाहि योगनाममाप्येऽन्ववादि, " ज्ञानेन्द्रियाणि सर्वाणि निरुध्य मनसा सह । एकत्वभावना योगः क्षेत्रज्ञपरमात्मनोः” इति । नन्वस्य श्लोकस्य प्रमाणत्वे कथमैक्यध्यानस्य प्रामाणिकस्य विष्णुपुराणे निषेध इति चेत् —न ऐक्यमपरमार्थ इति खल्वत्रोच्यते । तथाचैव भवना, नाम ब्रह्मेत्युपासीतेत्यादाविव दृष्टिविधिमात्रम् । जीवात्मनः स्वरूपेण परमात्महष्टया वोपासनस्य मोक्षातिरिक्तं फलमस्तीति कार्याधिकरणे श्रीमध्येप्यभाषि । तथा च फलसत्त्वादुपासनं तु स्यात् । अथाप्यैक्यस्यावास्तवत्वात् फलान्तरार्थंत्वमेवोपासनस्य वक्तव्यमिति नावं परमार्थः । किंतु प्रागुपदर्शितानि यानि धनपुत्रराज्यकाम्यकर्माकाम्यकर्म देहातिरिक्तात्मध्यानानि, तथा परमात्मात्मैक्य चिन्तनमपि न परमार्थरूपम् । यदर्थं सर्वम्, यच्च नान्यार्थम्, स हि परमार्थ इति प्रकृतपुराणघट्टार्थः, एतत्परमार्थपारमार्थ्यविस्तरस्त्वन्यत्र द्रष्टव्यः । यत्तु चिद्रूपमात्रपारमार्थिकत्वमिष्टम् जीवब्रह्मणोः पृथक्सत्ता तादात्म्यञ्च नेप्यत इति –तन्न — अनैक्येन सर्वेषामात्मनां चिद्रूपतायाः सर्वसंमतत्वात् । चित्रपमात्रत्वमिति चेत् — तदपीष्टम् ; अंशतोपि जडत्वाभावस्येष्टत्वात् । मात्रपदं चिद्गुणकत्वादिव्यावृत्त्यर्थमिति चेत-तत् औडुलोमिमतमेव, न बादरायणमतम्, ‘द्वादशाहवदुभयविधं बादरायणः ’ इति सत्यकामत्व सत्य संकल्पत्वघटितत्राह्मरूपाविर्भावस्य मुक्तौ जीवात्मनि तदिष्टत्वात् । तदिदं प्रागेव प्रपञ्चितमिह । परमात्मनोस्तादात्म्यं नेप्यत इत्यस्य च कोऽर्थः । किं देहादिसंघातनिविष्टस्यात्मनः परमात्मना तादात्म्यं नास्तीति उत तद्विकलस्य । आद्यस्यैक्यसंभावनाप्रसत्त्यभावान्निषेधोऽनपेक्षितः । द्वितीयस्य त्वैक्यं भवदिष्टं भवद्भिर्न शक्यं निषेद्धम् । परमात्मपदेनेश्वरत्वोपाधिविशिष्टग्रहणेन तदैक्यं जीवस्य निषिपत आत्म मुक्तसंवित्सविषयत्व-प्रसाधनम् " 3 इति चेत् — तदपि भवत्सु केषाञ्चिष्टम् भवताप्यनुमोदितमन्यत्र, अत्रापि जीवस्य विष्णुत्वप्राप्तिवचनेनेति तदापि भवन्मतखण्डनमेव । तस्मात् प्रत्यक्षानुमानागमान्तरतो जीवस्य परमात्म भिन्नत्वप्रतीतिवत् ऐक्यनिषेधोऽपि स्पष्ट इति । यत्तु वचनम्, ‘निखिलं जगत् ज्ञानात्मकं प्रपश्यति त्वद्रूपं परमेश्वर’ इतितत् सर्वस्य जगतः ज्ञानस्वरूपजीवात्मात्मकत्वं तादृग्भूतस्यैव तस्य त्वद्रूपमिति भगवच्छरीरत्वञ्चास्मदभिमतमाहेति न तेन चिद्रूपपात्र परिशेषसिद्धिः । अतश्च शुद्धस्य जीवस्य परं परमार्थ कैचिदभिमन्यमानमुपेक्ष्य विज्ञानरूपजीवशरीरकत्वविशिष्य परमस्य परमार्थ ‘स्याल पर देहेषु सतोप्येकमयं हि यत् । विज्ञानं परमार्थो ही ’ ति वचनेनोच्यत इति सर्वं स्पष्एं श्रीमाण्य एव । अत्र एकमयमिति मचानरक्ष एव सार्थः । जीवानामेषामेकाकारत्वस्वीकारात् । ‘अतिसाहस मिदन्, यत् अद्वैतवादोपबृंहणान्यपि पुराणान्यपथे नीयन्ते ’ इति लेखनञ्च श्रीभाष्यकृत सर्व निर्वाहा सहनविलसितम् । विष्णुपुराणान्तेऽपि जीवानामेकरूपाणां परमात्ममूर्तित्वं स्पष्ट प्रतिबोधितमिति न तस्यापारमार्थि कत्वम् । सर्वथा, ‘स एकधा भवति, त्रिधा भवति’, ‘सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः’, ‘सोऽश्नुते सर्वान्’, ‘कामान्त्री कामरूप्यनुसंचरन् ’ ’ एतत् साम गायन्नास्ते’’ इति परश्शतानि वाक्यानि मुक्तसंवित्सविषयत्वपराणि । निर्विषयक संविदेकस्फुरण पात्रं मुक्तावित्यत्र तु न किञ्चित् प्रमाणम् । मुक्तिप्रकरणेषु सर्वत्र विशेषविषयकत्वनिर्देशोपलम्भात् । तथा मुक्तौ किञ्चिद्विषयीकरणानङ्गीकारे पुरुषार्थतैव न स्यात् । दुःखनिवृत्तिमात्र मोक्ष इति तार्किक मतवैलक्षण्येन आनन्दखरूपस्वीकारो हि मुक्तौ तत्प्रकाशार्थः । यदि च दुःखाभावमात्रेणावस्थानं तदेष्यते, कस्ततो विशेषः स्यात् । तस्मादानुकूल्यभानमावश्यकम् । एवं ज्ञानस्वरूपत्वमपि तस्य संसारकाले जडवस्तुप्रकाशत्वप्रयुक्तम्, न तु मुक्तौ किञ्चित्स्फुरणम्, तत्प्रयुक्तव्यवहाराभावादिति मन्य ९३४
मानैर्जडत्वमापादितमेवात्मनः स्वीकृतं स्यात् । तस्मात् वेदान्तिभिः सच्चिदानन्दब्रह्मस्वीकारो मुक्तौ तदनुभवार्थ इति मुक्तसमवेतायाः संविदः तत्सविषयकत्वस्य चापलापो न युज्यते । तत् सिद्धं श्रुतित इव युक्तितोपि मुक्तसंवित्सविषयकत्वम् । अन्यथा मुक्तावनावृता संविदिति अनावरणकथनमपि न घटते । आवरणकाले कथञ्चिद् वृतिविषयत्वं व्यवहारस्पदत्वं सर्वमासीत् ; अनावरणावसरे तु तन्मात्रस्थित्यतिरिक्ततत्प्रकाशादिकं किमपि नास्तीति कथनं हि न पेशलम् । पदार्थान्तरप्रकाशनशेषतया यत् स्वस्फुरणम्, तदपि यथा न भवेत्, तथा महावरणमेव किञ्चिन्मुक्तौ जातमित्येवोपपादित स्यादिति । स्वमिव परमपि प्रकाशयन्ती भवति तु संविदथास्तु चिच्च संवित् । कथमपि सततं स्वभानकृत्त्वात् तदपगमे स न चेतनो न संवित् ॥ अपि च मुमुक्षुर्यथा निरस्ताखिलदुःखोहं भवेयमिति प्रवर्तते, तथा अनन्तानन्दभाक् स्वराट् भवेयमिति चाभिसंधायैव प्रवर्तते । एवं सत्यामपि वृत्तौ आनन्दसामान्यस्य सान्तत्वं दुःखमिश्रत्वञ्चाभ्यू तार्किकोपन्यासं शृण्वद्विस्तत्र विश्वसद्भिः भवतु तावत् दुःखनिवृत्तिमात्रम्, तदतिरिक्तस्यालभ्यत्वादिति तत्रोदास्यते । स्वराट्त्वञ्च स्वयं राजभावः स्वस्य सर्वाधिपतित्वम् । तदसंभावितम् ; मुक्तानां सर्वेषां स्वातिरिक्तसर्वनिरूपिताधिपतित्वस्य सशरीरत्वेऽपि दुर्वचत्वात् । अथाधिपतिरहितत्वमात्रम्, तदप्यशरीरस्य ज्ञानेच्छा प्रवृत्तिशक्ति विकलस्य केवलस्य परप्रेर्यत्वप्रसत्त्यभावादस्त्येवेति तार्किकाः । खराट्य स्वेन रूपेण राजमानत्वं स्वेच्छाधीन सर्व प्रवृत्तिकत्वं वा, तत् मुक्तौ निर्बाधमिति विशिष्टाद्वैतिनः । एवं ब्रह्मानुभाव्यानन्दसमानानन्दानुभावित्वात् तस्य चाक्षय्यत्वात् अनन्तानन्दभाक्त्वस्यापि न हानिरिति च । तथा च पुरुष मुक्तसंवित्स विषयत्वं-प्रसाधनम् ९३५ प्राथमिकप्रवृत्तिर्यावदशेच्छया, तावदंशप्राप्तिरपि किञ्चिद्रूपेण यथा सति सिद्धयेत् —’ तादृश्येव मुक्तिर्यदि श्रुत्योपपाद्येत, किमिति तत्त्यागेनान्यस्य कल्पना । अतः स्वानुकूलविषयगोचरसं वित्संपन्नत्वं यथामनोरथं मुक्तस्य सर्वदुःखवैदेशिकत्वमिव सह वर्तत इति पुष्कलमुक्तिस्वरूपमिदमेव । न च मुक्तिरिति नामबलादनिष्ट निवत्तिमात्रमेवावसीयत इति वाच्यम् तर्हि आनन्दरूपं तदित्यस्याप्यनावश्यकत्वात् । मुक्तिरिति नामबलात् ‘जीवनाशो मोक्ष इत्यद्वैतिमतमात्रं निरस्यम् । भावान्तराभावपक्षे अनिष्टनिवृत्तेः किञ्चिद्भावात्मकसाध्यांशरूपत्वस्यावश्यकत्वे, शास्त्रविमर्शे च ईदृशपरमपुरुषपरिचरणपर्य साविप्रकृष्टानन्दानुभवरूप एवायं मुक्तिरूपोऽभाव इत्यवगमात् मुक्तिशब्दवाच्यता सर्वत्राविशिष्टेति । तदिदं स्पष्टमेव श्रावितम् " न पश्यो मुत्युं पश्यति न रोगं नोन दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः " इति । सर्वमिदमभिसंधाय भाषितम्निरस्ताखिलदुःखोऽहमनन्तानन्द भाक् स्वराट् । भवेयमिति मोक्षार्थी श्रवणदौ प्रवर्तते" इति । पूर्वार्धोक्तमपि मोक्षपदवाच्यमेवेति मोक्षार्थीति पदेन सूचयता मोक्षार्थित्वमेतावदर्थित्वरूपमि त्याविष्कृतमिति ॥ अनुभवमखिला गमैकरस्थं जहति य आहुरसंविदं विमुक्तिम् । विषयविधुरसं विंद विमुक्ति बत वदतामिह युक्तिरप्यसिद्धा ॥ शुभमस्तु it: निर्गुणश्रुतिसकोच-प्रसाधनम् नित्यैर्नित्यश्रुतिभिरपि यः स्तूयमानोऽप्यगम्यैः संख्यातीतः शुभगुणगणैः पूर्ण एष श्रियं नः । मायी मायागुणपरवशान् स्वं प्रान्नान् गुणाढ्यान् कुर्वन् देवः कमलनिलयाले पधन्यः प्रतन्यात् ॥ सगुणश्रुतिप्रतिपादिताः ब्रह्मगुणा एव निर्गुणश्रुतिभिर्ब्रह्मणि निषिद्धयन्त इत्यद्वैतिनः । सगुण निर्गुण निर्देशः संभूय कल्याणगुणगणार्णवं हेयगुण वैदेशिकञ्चकं ब्रह्मप्रतिपादयन्तीति विशिष्टाद्वैतिनः । अयमत्र संग्रहः सत्यस्वाभाविकत्वोक्तेर्निरुपाधित्वलामतः । श्रुत्येकप्रतिपन्नानामवाध्यत्वावधारणात् ॥ उत्सर्गस्यापवदनात् सामान्यस्य विशेषणात् । अविरोधस्य सगुणर्निगुणोत्तिषु संभवात् ॥ अपच्छेदनयस्यात्र विरोधविधुरे हतेः । विरोधे तु विरोधोपक्रम भूयोनयान्वयात् ॥ स्पष्टोप स्थित सत्त्वादिगुणमात्रनिषेधतः । श्रुतस्तर्कस्य चाभावान्न प्रसिद्ध्यति निर्गुणम् ॥ गुणस्येव शरीरस्य विकारस्य च जन्मनः । कर्मणश्चाविरोधः स्यात् तस्मिन् विधिनिषेधयोः ॥ ‘त इमे सत्याः कामा अनुतापिधाना’ इति परमात्मगुणानां सत्यत्वमुक्तम् । ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ’ इति भगवद्गुणकर्मणां स्वाभाविकत्वं प्रत्यायितम् । ‘नान्यो हेतुर्विद्यत ईश निगुणश्रुतिसको च-प्रसाधनम् ९३७ नाय’ इति निरुपाधिकत्वमवगमितम् । क्रियास्थले विकल्पसंभवात् शास्त्रोक्तमेव शास्त्रेण निषिद्धयेत । वस्तुनि विकल्पायोगादत्र निषेधो विहितस्य न संभवति । न चात्र विहितनिषेधं विना वाक्यस्य निर्वाहो न भवति, विहितव्यतिरिक्तविषयतथैव निषेधस्य चरितार्थत्वात् । तथा सामान्यनिषेधानां विशेषनिषेधदर्शनेन तदैका संभवति सामान्यनिषेधरूपत्वं नेति नानिषिद्धविशेषस्यापि सामान्यनिषेधेन निषेधसंभवः । अपच्छेदनयम्तु, उत्तरेण पूर्वस्य बाध इति लोकरीत्यवलम्बने पूर्वशास्त्रस्य न सर्वथैवाप्रामाण्यमिति यत्र संभवति, तत्रैव प्रवर्तते । यदि चात्र मियो विरोधः स्यात्, विरोधाधिकरणं प्रवर्तेत । तेन पूर्वेण परस्य बाधः । उपक्रमाधिकरणस्यापि प्रवृत्त्या सगुणश्रुत्यनुरोधेन निर्गुणश्रुतिरेवान्यथा नीयेत । एवं भगवतोऽप्राकृतविग्रह धर्मभूतज्ञान परिणामअप्राकृतशरीरपरिग्रहरूपावतार अनन्तलीलाव्यापारादिमत्त्वावगमात् अशरीरस्वादिश्रुतीनामपि संकोचो भाव्यः । , यत्तु निर्गुणश्रुतेरुत्सर्गत्वम् यः सर्वज्ञ इत्यादीनामपवादत्वञ्च न घटते । उत्सर्गापवादन्यायो हि विरुद्ध विधिद्वयविषयः । अत्र त्वेको विधिः, अन्यो निषेधः । अतः, ‘बड़ाहवनीये जुहोति’, ‘पदे जुहोति’ इत्यत्रैवोत्सर्गापवादनयः । तेन पदोमव्यतिरिक्तहोमविषय एवाहवनीय इत्युत्सर्गापवादन्यायः । ‘न हिंस्यात् सर्वा भूतानि’ इति निषेधस्य, ‘अग्नीषोमीयं पशुमालमेत’ इति धिधेश्च नोत्सर्गापवादविषयतेति तन्न उत्सर्गापवादनयोऽत्रेति स्वीकारे काऽनुपपत्तिरिति । विधिप्रतिषेधयोरुत्सर्गापवादस्वीकारे भाष्यविरोधः; “विधिप्रतिषेधाचार्थवन्तः, विकल्पोत्सर्गापवादाश्च” इति भाषणादिति चेत् -उत्सर्गापवादभावास्वीकार एव भाष्यविरोधः, “अशुद्धमिति चेन्न शब्दात्” इत्यत्र, ‘न हिंस्यात्’ इति वाक्यमेव गृहीत्वा, “उत्सर्गस्तु सः । अपवादः, अग्नीषोमीयं पशुमालभेत" इति मुक्तकण्ठमुक्तत्वात् । यद्यपि तत्र भामत्यामत्रोत्सर्गापवादरूपत्वाभाव उपपादितः अथापि तत्र न विधिप्रतिषेधरूपत्वं प्रयोजकम्, किंतु ‘न हिंस्यात्’ इति वाक्यस्य पुरुषार्थ 118 ९३८
हिंसामात्र विषयकत्वात् क्रत्वर्थहिंसायाः क्रोडीकारप्रसत्तत्यभाव एव । कल्पतरौ तदुपपादने च, “विशेषविधिविहितस्यार्थस्य सामान्यविविनापि विषयीकारे ह्युत्सर्गापवादन्यायः । अत्र तु वर्णितेन न्यायेन निषेधस्योत्पत्तिसमय एव पुरुषार्थहिंसा विषयत्वान्न क्रत्वर्थहिं सानुप्रवेशः” इत्येव विवृतम् । केवल विधित्वाभावात् विधिप्रतिषेधरूपत्वान्न भवतीति नोक्तम् । अत एव ‘विशेषविधि ’ ‘सामान्यविधि’ इति विधिपदद्वयम् उदाहृतपदाहवनीयवाक्याभिसंधिना पतितम् । अज्ञातज्ञापकवाक्यसामान्यमेव विधिपदार्थ इह । परिमले तु बहु विचार्य भामतीमुपेक्ष्य भाष्योक्तमेव समर्थ्य उत्सर्गापवादरूपत्ववर्णनमेव रमणीयमिति न्यरूपि । पुरुषार्थहिंसामात्रपरत्वेऽपि आहवहिंसाद्यसंग्रहायोत्सर्गापवादभाव एषितव्यः; वस्तुतः क्रत्वर्थपुरुषार्थ सर्व हिंसाविषयीकारप्रसक्तिरस्त्येवेति चोक्तम् । अतो विशेषवचनाभावे यत्र सामान्यवचनेन विशेषवचनविषयस्यापि क्रोडीकारप्रसक्तिरस्ति, तत्रोत्सर्गापवादभाव इति सर्वप्राच्य संगतम् । तर्हि, विधिप्रतिषेधाश्चेति भाष्यस्य का गतिरिति चेत् — कापि गतिरस्तु ; किं तेन । विकल्पेतिपदमपि तत्र प्रयुक्तम्, ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाती’ ति विकल्पस्थलेऽपि तर्हि विधिप्रति षेधरूपता न स्यात् । तस्मात् विकल्पोत्सर्गापवादानन्तर्गताः पृथम्भूताः तत्र च विधयः पृथग्भूताः प्रतिषेधाश्च तत्र गोबलीवर्दनयेन विधिप्रतिषेधशब्दार्थतयाऽवसेयाः । अस्तु वाऽन्यथाऽपि यतः स्वभाष्यार्थानववोधमूलमिदं शतभूषणीवाक्यम् । इदं हि जन्माद्यधिकरणभाष्यगतं वाक्यम् । भामत्याम्, विधिः षोडशिग्रहणविधिः, प्रतिषेधः तन्निषेधः । एवं विधी उदितानुदित होमविधी । तथा विधिप्रतिषेधो नारास्थिस्पर्श निषेधः, स्पृष्ट्राऽस्थि सस्नेहं सवासा जलमाविशेत्’ इत्ययम्, विधिश्च ब्रह्मनः, ‘शिरः कपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात् इति नारास्थिध्वजधारणविषयकः इति व्याख्याय एतदुपपादकतया, ‘विकल्पोत्सर्गापवादाश्च’ इति भाष्यं गृहीत्वा, चो हेतौ इत्य ‘नारं निर्गुणश्रुतिसंकोच-प्रसाधनम् ९३९ भिधाय नारास्थिधारण तत्स्पर्श निषेध रूप विधिप्रतिषेधविषय एवोत्सर्गापवादभावः कण्ठोक्तः । सामान्यनिषेधस्य विशेषविधिना बाधे उत्सर्गापवादभावः किल स्पष्ट इह । अतः स्वपूर्वग्रन्थविरुद्धमिदम् —— शांकरभाष्ये विधिप्रतिषेधाभ्यामुत्सर्गापवादौ चकारवलात् पृथक् कृताविति निषेधस्थले उत्सर्गापवादन्यायाप्रवृत्तिरिति च शतभूषणीविजृम्भणमिति । तस्मात् विधिप्रतिषेधस्थलेऽप्युत्सर्गापवादत्वमस्त्येव । यत्क्तम् — तथा सति, ‘यजतिषु येयजामहं करोति’, ‘नानूयाजेषु’ इत्यत्राप्युत्सर्गापवादनयप्रवृत्त्या अनुयाजेषु येयजामह करणं सामान्यशास्त्रविषयत्वात् स्यात्, अकरणञ्च विशेषप्रतिषेधादिति विकल्पापत्तिरिति तदति-स्थवीयः निषेधस्योत्सर्गत्वं विधेरपवादत्वञ्च हि प्रागुक्तम् ; न तु विधेरुत्सर्गत्वं निषेधस्यापवादत्वञ्च । तद् विषयमेतत् । तुल्यनयादानीयत इति चेत्तदप्यशक्यम् –उत्सर्गशास्त्रस्य विशेषशास्त्राभावे तद्विषयस्वीकारप्रसक्तिमात्रं ह्युक्तम् ; न तु वस्तुगत्या स्वीकारः । अतः कथं विकल्पः । न हि न हिंस्यादितिनिषेधविषयत्वं पाक्षिकतया वस्तुतोऽग्नीषोमीय हिंसायामस्ति । किश्चात्र विधिनिषेधरूपत्वमेव न । प्रतिषेधरूपत्वे विकल्पापत्त्या पर्युदासाश्रयणं किलात्र सिद्धान्तितम् । एवञ्चानुयाजव्यतिरिक्तेषु यजतिषु येयजामहं करोतीति वाक्यार्थे कथं विकल्पप्रसक्तिः । विकल्पस्यावर्जनीयत्वे तु स्वरसभूतप्रतिषेध, एवावलम्ब्यते । अत एव, " अपूर्वे चार्थवादः स्यात् " (10-8-5 ) इत्यत्र ‘न तौ पशौ करोती’ ति वाक्ये प्रतिषेधाश्रयणमेव सामहतं खण्डदेवेन, पशावाज्यभागसद्भाव लिङ्गस्याप्युपलम्भात् । अतएव “शिष्ट्टा तु प्रतिषेधः स्यात् " इस्यनन्तर सूत्रे अतिरोत्रषोडशिग्रहणविकल्पः प्रतिषेधश्चोक्तः । अतः उत्सर्गापवादभाव स्वीकारस्य अनुयाजेषु येयजामहापादनस्य च न कश्चित् संबन्धः । अपिच ‘न हिंस्यात्’, ‘अग्नीमीयम्’ इति वाक्ययोरुत्सर्गापवादत्वेन गणनाभावे कथं परिगणना । अथ कथमिति किम् । स कश्चित् निषेधः, अय-૪•
मन्यविषयो विधिः; कः संबन्ध इति चेत् अस्तु । ‘जहि मा व्यथिष्ठाः ‘, ’ युध्यस्व जेतासि रणे सपत्नान्’ इत्येवंरूपपुरुषार्थहिंसायाः विहितायाः, ‘न हिंस्यात्’ इति पुरुषार्थ हिंसा निषेधेन विषयीकारप्रसक्तिसत्त्वेन तत्रोभयोः कीदृशः संबन्धः । सामान्यविशेषभाव इति चेन्न असंभवात् । तत्र हि सामान्यविशेषन्यायः, यत्र सामान्यवचनस्य विशेषवचनस्य चैकार्थे पर्यवसानम् । यथा छागवचौदुम्बरी कुशादिस्थले, कारणवाक्यानामैककण्ठ्ये च । अथ सामान्यभूतोयो विशेषः, तन्नय इतिनार्थः, किंतु सामान्यवाक्यविशेषवाक्योभयविषयन्याय इतीति चेत्–अयमर्थः उत्सर्गापवादच्छागपशुसर्वसाधारणः । तथा क्वचित् व्यवहितेऽपि । भवतु तर्हि गोबलीवर्दन्याय इति चेत् सोऽपि न; यत्र पौनरुक्त्यपरिहाराय सामान्यस्य विशेषे पर्यवसानेन वाक्यद्वयस्यैकविधेयकत्वेऽपि विभिन्नविषये प्रवृत्तत्वम्, तत्र हि सः, यथा गामानय बलीवर्दञ्चानयेत्यत्र द्वितीयवाक्यावैयर्थ्याय प्रथमवाक्ये आनयनरूपकार्यैक्येऽपि गोपदस्य बलीवर्दव्यतिरिक्तविषयकत्वम् । तस्मात् सामान्यवाक्यविषयीकारेण किञ्चिद्वत्तया प्रसक्तस्य कस्यचिद् विशेषस्य तदभावबोधपरं वाक्यं यत्र तत्रोत्सर्गापवादन्याय एव । तत्र कचिदुभयोरपि विधिवाक्यत्वमपि भवति, ’ यदाहवनीये जुहोति, ‘पदे जुहोति’ इति । । तावता सर्वत्र विधिवाक्यत्वमिति न नियमः ; विनिगमनाविरहेण विधिनिषेधस्थल एवायम्, न तु विधिद्वयस्थले इत्य् अपि कल्पनाप्रसंगात् । इयान् विशेषःविरोधिधर्मद्वयं भावरूपं कचित् ; अन्यत्र भावाभावरूपम् । भावद्वयस्थले विरोधि त्वग्रहणापेक्षया भावाभावस्थले विरोधग्रहणं सुकरमिति सुतरां तत्रोत्सर्गापवादभावः । पदे जुहोतीति वाक्ये पदाधिकरणकत्वविधौ पदाधिकरणत्वं प्रति आहवनीयाधिकरणकत्वाभावस्य व्यापकतया व्याप्यविधाने व्यापकावश्यम्भावेन व्यापक विरुद्धमाहवनीयाधिकरणकत्वमपोदितं भवति । विवक्षितमुत्कृप्य विवक्षितमात्रे अनुपरम्याधिकस्यापि ग्रहणक्षमं वाक्यमुत्सर्गः ; उत्सृज्यस्य त्याज्यस्यापि ग्राहकतया प्रतीतमिति वा । तत्रैकदेशस्य ततोऽपसारणार्थो वादः अपवादः । अतः पूर्वोदूधृतकल्पतरुकृतशिक्षानुसारेणापि विधिनिषेधस्थलेऽप्युत्सर्गापवादत्वं निर्गुणश्रुत्तिसंकोच-प्रसाधनम् ९४१ सुगमम् । अत्र न्यायानामसंकरेण न्युत्पादनं श्रुतप्रकाशिकादर्शितमप्यनुसंधेयम्यथा, ‘उपात्तविशेषव्यतिरिक्तविषये सामान्यशब्दस्य विरोधपरिहाराय संकोच उत्सर्गापवादन्यायः ; अविरोधेऽपि वैयर्थ्य परिहाराय संकोचश्चेत्-गोबलीवर्दन्यायः । उपात्तविशेषविषये तस्य संकोचः सामान्यविशेषन्याय इति भिदा’ इति । यत्तु —‘न हि ब्रह्म सगुण निर्गुणञ्चोभयं भवितुमर्हति । न हि गुणाः शास्त्रमन्तरेण ब्रह्मणि प्राप्ताः । येन रागतः प्राप्ताया हिंसाया इव प्रमाणान्तरप्राप्तानां तेषां निषेधः स्यात्’ इति तत्रेदं चिन्त्यम् — ‘नानूया जेषु’ इत्यत्र प्रतिषेधः श्रवणे अनुयाजाविकरणकयेयजामह करणप्रवृत्तेरभावप्रतियोगित्वबोधे तादृशविशिष्टप्रवृत्तिरूपप्रतियोग्यःसिद्धौ तादृशविशिष्टप्रवृत्तिरूपोट्टेश्यासिद्धौ चाभावबोधना गात् तादृशविशिष्टप्रसिद्धेश्च लोकतोऽसंभवात् ‘यजतिषु येयजामहं करोती ‘ति सामान्यवाक्यस्य तद्विषयकत्वमपि वक्तव्यम् । तथाच शास्त्रतः प्रातं न सर्वथा निषेद्धुं शक्यमिति वाक्यद्वयप्रामाण्यायानुयाजेषु येयजामहस्य विकल्पः प्राप्तः, तद्वदत्र सगुणवाक्यप्राप्तगुणनिषेधे निर्गुणवाक्येन कृते एकतराप्रामाण्यं प्रसजतीति विकल्पो वक्तव्यः । न च वस्तुनि विकल्पसंभवः । अतोऽन्यथैवार्थः प्रामाण्यरक्षणाय ग्राह्य इति स्थिते प्रथमगृहीतसगुणत्वाविरोधेन निर्गुणवाक्यमेवान्यपरं भवितुमर्हति । एतद्विहाय सगुणवाक्यप्राप्तानामेव निर्गुणवाक्येन निषेधः कार्य इत्यभिनिविशमानेन तु परमात्मन इतरवस्तुसाजात्यशङ्काप्रसक्तसामान्यतोदृष्टानुमानगम्यहेयगुणनिषेधापेक्षया परमात्मासाधारणसार्वक्ष्यसर्वशक्तित्वजगत्कारणत्वादिगुणानामेव निषेधे परमादरो दर्शितो भवति । न चानुयाजाधिकरणकयेयजामहप्रवृत्तिरूप विशिष्टप्रतियोग्यप्रसिद्धिवत् अत्र निर्गुणमित्यत्र सगुणवाक्यतो ब्रह्मनिष्ठत्वेनावधृतसार्वश्यादिकल्याणगुणापरिज्ञाने प्रतियोग्यप्रसिद्धिवक्तं शक्यते निर्गुणमिति गुणत्वरूपसामान्यधर्ममुखेनैवोल्लेखात् । अतः सामान्यतोदृष्टानुमानप्रापित हेयगुणरूपप्रतियोगिप्रसिद्धौ वर्तमानायां न ब्रह्मप्रतिपादकशास्त्रस्येव तद्गुणविशेषप्रतिपादकवाक्यानामप्यर्थावगमपर्यन्तप्रतीक्षणप्रसक्तिरत्रास्ति । अतस्तथा प्रतीक्षण ९४२
विधायापच्छेदनयमानाय्य सगुणवाक्याप्रामाण्यं सर्वथा स्वीकृत्य कृतार्थत्वभावनं न कार्यम् । f यदपि श्वेताश्वतरोपनिषदादिषु सामान्यत एव गुणविधानदर्शनात् तादृशसामान्यगुणनिषेधो निर्गुणवाक्यकार्य इति नात्रोत्सर्गापवादन्यायः सामान्यविशेषविषयः प्रवर्तते इति तत्र पृच्छयते । अस्तु गुणत्वेन गुणग्रहणेन विधाकमपि वावयम् । तत्र किं गुणत्वेन रूपेण सर्वेषां चेतनाचेतनगतानामपि सविइयादिगुणैः सह ब्रह्मणि विधानमिष्यते, उत ब्रह्मगुणमात्रस्य । नाद्यः, अन्यगुणस्यान्यत्र विधानासंभवात । अतो निषेधस्येव विधेः सामान्यविषयकत्वं दुःशकम्। तेषां गुणानां परम्परासंबन्धेन विधानमस्त्विति चेत्तर्हि सवइयादयो न गृह्येरन्निति तदापि सामान्यविधानाभाव एव । केषाञ्चित् साक्षात् अन्येषां परम्परयेति द्वैविध्यमेकत्र वाक्ये दुर्वचम् । तथोक्तौ च निर्गुणमिति निषेधवाक्ये साक्षाद्विहितगुणानां परम्परासंबन्धेन, परम्परया विहितगुणानां साक्षाच्चाभाव एव बोध्यत इत्यविरोध एव सुवचः । अतो गुणसामान्यविधानमशक्यम् । वस्तुतः, ’ को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ’ इति नानागुणप्रश्ने पृथक्करिष्यमाण एव गुणवानिति प्रश्नः सौशील्या दिगुणविशेषविषय इति हि निर्धार्यते । तद्वदिहापि प्रकृतोपयोगिगुणविशेषग्रहणमेवात्र । अथवा छागपशुन्यायेन, ज्ञत्वेशत्व संसारमोक्षहेतुत्वाद्यनेकगुणरूप विशेषगुणपर्यवसानं सामान्यतो गुणवचनस्येति सामान्यविशेषन्यायप्रवृत्त्यनन्तरमुत्सर्गापवादन्याय इह भाव्यः । तत् सिद्धमुत्सर्गापवादन्याय इहेति । भवदुपात्तबालप्रकाशग्रन्थोऽपि यावच्छक्ति पूर्वाबाधेन निर्वाहे प्रयतनीयमित्येव दर्शयतीति भवतस्ततः प्रतिकूलमेव । तत्र हि प्रतिहर्त्रपच्छेदोद्गात्रपच्छेदयोः क्रमिकत्वे पूर्वप्रायश्चित्तस्य सर्वथा बाधमकृत्वा उद्गात्रपच्छेदप्रायश्चित्तमारभ्यादक्षिणं तं यज्ञमिष्ट्रा पुनर्यजने क्रियमाणे सामान्यप्राप्तदक्षिणां विहाय प्रतिपच्छेदतिमित्तक सर्वखदक्षिणादानं युक्तमित्याशयितमिति भवद्व क्यसारार्थः । निर्गुणश्रुतिसंकोच-प्रसाधनम् ex अथापच्छेदन्यायोऽत्र न प्रवर्तत इति च निरूपयामः -‘अपच्छेदन्यायप्रवृत्तिप्रयोजकं ‘नियतपौर्वापर्यम्’ इत्युक्तमयुक्तम् । अनियतपौर्वपर्यस्थल एव ह्यपच्छेदन्यायः । ततदवच्छेदनिमित्तकं पृथक्पृथक्प्रायश्चितं यद् विहितमस्ति, तत्र निमित्ताधीन नैमित्तिकमिति निमित्त पौर्वापर्ये विमृश्यमाने कदाचित् प्रतिहत्रपच्छेदोऽपि पूर्वं भवति, कदाचिदुद्गात्रपच्छेदोऽपि । न तत्र पौर्वापर्ये नियमो ऽस्ति । अत्र, ‘अद्वैत सिद्ध्यादौ व्यक्त मित्युक्तत्वात् तन्निरासायापच्छेदन यविषयं विशदीकुर्मः ज्योतिष्टोमे, ‘अध्वर्यु विनिष्क्रामन्तं प्रस्तोता संतनुयात् तं प्रतिहर्ता, तमुद्गाता, तं यजमान, तं प्रशास्त’ इति अध्वर्थ्यादि कच्छग्रहणपूर्वक प्रस्तोत्रादीनामुत्तरेषां वहिष्पवमानस्तोत्रार्थं गमनमुक्तम् । तत्र च मध्ये विच्छेदे यथायथं प्रायश्चितमाम्नायते, ‘यदि प्रस्तोताऽपच्छिन्द्यात्, ब्रह्मणे वरं दद्यात । यदि प्रतिहर्ता, सर्ववेदसं दद्यात् । यद्युगाता, अदक्षिणं तं यज्ञमिष्ट्रा तेन पुनयजेत; तत्र तद् दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात् " इति । तत्रैकैकापच्छेदे तत्तत्रिमित्तकं प्रायश्चित्तमसंदिग्धम् । यत्र चोभाभ्यां युगपद्विच्छेदः, तत्र नैमित्तिकानुष्ठानस्य शक्यत्वे सति न कस्यचिन्नमित्तिकस्य बाधः । यत्र तु विरोधः, यथा उद्गात्प्रतिपच्छेद यौगपद्ये, तत्र युगपदेव नैमित्तिकवाक्यद्वयप्रवृत्तेरविशेषात् विकल्पः । यदा पुनरपच्छेदयोस्तयोः क्रमेण प्रवृत्तिः, तत्र विरोधात् कस्यचिदेव नैमित्तिकस्यानुष्ठाने कर्तव्ये पूर्वनिमित्तज्ञानाधीनं यन्नैमित्तिकशास्त्रार्थज्ञानम्, तदनुष्ठानमेवोपक्रमाधिकरणन्यायेन युक्तमिति प्राप्ते सिद्धान्तितम् उत्तरापच्छेदज्ञानाधीनं यत् नैमित्तिकशास्त्रार्थज्ञानम् तस्यैव परत्वात् प्राबल्यम्; उत्तरज्ञानस्योत्पन्नस्य पूर्वबाधं विनोत्पत्त्यनर्हत्वादेव पूर्वज्ञानबाधावधारणादिति । तथा च सूत्रम्, “पोर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् " इति । अत्र च, “पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्” इति वार्तिककारैरपच्छेदन्याय स्थलं ९४४
निष्कर्षद्भिरन्यत्रोपक्रमाधिकरणप्रवृत्तिर्दर्शिता । अनेन च यदपेक्षया यस्य प्राबल्यं वर्णनीयम्, तन्निरपेक्ष तत्र बोधोत्पत्तिरपेक्षिता । प्रतिहर्त्रपच्छेद निमित्तकप्रायश्चित्तशास्त्र हि उगावाच्छेदनिमित्तकप्रायश्चित्तशास्त्र निरपेक्षमेव बोधं जनयति । तथा तन्निरपेक्ष मेवैतदपि -यथा पदे जुहोति आहवनीये जुहोतीति वाक्यद्वयं मिथोनिरपेक्षमेव बोधम् । तस्मात् योऽपच्छेदः परः, तन्निमित्तकं प्रचलमिति । अत्र अन्योन्यनिरपेक्षाणामित्यनेन एकैकमावल्यविषयेऽपि उभयगतं निरपेक्षत्वं गमकत्वेन नोच्यते ; किंतु तन्निरपेक्ष बोधकत्वादिदं कदाचित् प्रबलम् एतन्निरपेक्ष बोधकत्वात् कदाचित् तदपि प्रचलमित्येव औचित्यात् । उपक्रमाधिकरणन्यायश्च तत्र, यत्र सापेक्ष बोधजनकत्वम् । यथा अग्नेः ऋग्वेदः, वायोर्यजुर्वेदः, आदित्यात् सामवेद इत्युपक्रमस्थार्थवादानाम्, उच्चैः ऋचा क्रियते, उपांशु, यजुषा, उचैः साम्ना इत्यनन्तर विधीनाञ्च । न हि तत्तन्नैमित्तिकशास्त्रवत् अर्थवादविध्योरन्योन्यनिरपेक्ष प्रवृत्तिरस्ति । तथा चोपसंहारस्थः स्वयं विधिरपि उपक्रमस्थार्थवादनिरपेक्षम बोधकत्वात् प्रथमप्रतीतार्थवादिकार्थाविरोधाय लाक्षणिकार्थपरतयैव प्रामाण्यं लभते । एवं तत्र न्याययोः स्थितिः । } तत्र प्रकृते कतरो न्यायः प्रवर्तत इति विचार्यम् परस्य पूर्वनिरपेक्षत्वे अपच्छेदन्यायः, पूर्वसापेक्षत्वे उपक्रमन्याय इत्येव निष्कर्षलाभादपच्छेदन्यायस्यात्र नावसरोऽस्ति । द्वैतनिषेधश्रुतीनां द्वैतग्राहक प्रत्यक्षकर्मकाण्डसगुणशास्त्र सापेक्षत्वात् । अन्यथा प्रतियोगिज्ञानाभावेन निषेधस्यैवायोगात् । न च ‘पूर्वपरयोरुभयोः परस्परसापेक्षत्वे उपक्रमन्यायः, तदभावेऽपच्छेदन्याय’ इति सिद्धयुक्तम्, ‘एकवाक्यत्वे उपक्रमन्याय’ इति चन्द्रिकोक्तञ्च युक्तम् — उपक्रमाधिकरणन्यायस्य शब्दमात्रविषयकत्वाभावेन प्रमाणान्तरसमावेशस्थलेऽपि संजातविरोधित्व तदभावयोः सुवचत्वेन एकवाक्यत्वाभावेऽपि तनयायप्रवृत्तेः । उपसंहारान्यथाकरण प्रति उपसंहारनिष्ठमुपक्रमसापेक्षत्वमेव प्रयोजकम्, न तूप क्रमनिष्ठमुपसंहारसापेक्षत्वमपीति परस्परसापेक्षत्वकल्पनस्यायुक्तत्वाच्च । निर्गुणश्रुतिसकोच-प्रसाधनम् ९४५ अन्यथा तुल्यन्यायेन परस्पर निरपेक्षत्व एवापच्छेदन्याय इति कल्पनया प्रत्यक्षादेरद्वैतश्रुत्यपेक्षितत्वेनापच्छेदन्यायाप्रवृत्तेरपि सुवचत्वात् । अग्नेः ऋग्वेद इत्यत्र तु अर्थवादविधिरूपत्वात् मिथः सापेक्षत्वमेकवाक्यत्वञ्च वस्तुतोऽस्ति । तावता तत्रैव तन्न्याय इति तु न सम्यमीमांसने सुवचम् । अत एव कारणवाक्यानाम्, “सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते” इत्येतद्वाक्यनिरपेक्षत्वेऽप्येतद्वाक्ये प्रसिद्धवन्निर्देशदर्शनात् अनुवादस्य पुरोवादसापेक्षत्वात् पुरोवादसंजातचेतनकारणप्रतीत्य विरोधेनाकाशशब्दो योगादिना नेय इति स्थितं शारीरके । न चाद्वैत ब्रह्मस्वरूपमात्रपरत्वात् न तदर्थ प्रमाणान्तरसापेक्षत्वमिति वाच्यम् तर्हि द्वितीयाभावत्वेन तदबोधने प्रपञ्चबाधासिद्धेः सर्वसत्यत्वस्थितेः । तस्मादुपक्रमन्यायात् उच्चैः ऋचा कियत इत्यादौ मन्त्रमात्रवाचकर्गादिपदस्य कृत्स्नग्वेद । दिपरतावत पूर्वप्रकरणानुरोघेनाद्वैतश्रुतेरन्यपरत्वमेवेति । अपच्छेदन्यायप्रवृत्तिस्थलञ्चैव निरणाथि “पौर्वापर्यं विरोधश्च पूर्वाप्रामाण्यमेव च । नियमान्नास्ति तत्रासावपच्छेदनयो भवेत् " इति । वस्तुतोऽपच्छेदनयात् प्रत्यक्षादिप्राबल्यमेव सिद्धयति । अद्वैतश्रुतितो द्वैताभावबोधस्वीकारेऽपि तावता द्वैतस्य निवृत्त्यभावेन पुनर्व्यवहारार्थतया प्रत्यक्षसगुणशास्त्रादिकं प्रवर्तमानमद्वैतश्रुतिनिरपेक्षमेव द्वैतबोधकमद्वैश्रुतिं बाधेतेति । न च अद्वैतश्रुत्यर्थज्ञानदशायां प्रत्यक्षादेरप्रामाण्यस्य निश्चितत्वात् नाप्रमाणतया निश्चितेन तेन तद्वाधः । न हि, चन्द्रैकत्वज्ञानं पश्चादङ्गुल्यवष्टम्भहितेन द्विचन्द्रज्ञानेन बाध्यत इति वाच्यम् –द्विचन्द्रज्ञानस्थल इवात्राप्रामाण्यनिश्चयाभावात् । अत एव हि कतरस्य प्रामाण्यमिति विनिगमकत्वायापच्छेदन्यायोऽवतार्यते । न च प्रतियोगिसापेक्षत्वादभावस्याद्वैतशास्त्रमेव परमिति वाच्यम् — परत्वस्य सापेक्षताधीनत्वाभावात् । अन्यथा अपच्छेदनिमित्तकशास्त्रमध्ये कस्यचित्परत्वस्य दुर्वचत्वापत्तेः । तत्र सापेक्षताया वक्तुम 119 **
शक्यत्वात् । सापेक्षत्वेन चेत् परत्वम्, तर्हि निरपेक्षस्थलेऽपच्छेदन्याय इति कथम् । न च नित्यनैमित्तिकस्थले नैमित्तिकस्य नित्यसापेचत्वात् कथं परेण पूर्वबाध इति वाच्यम् “सप्तदश वैश्यस्य’ इत्यादेर्नैमित्तिकस्य साप्तदश्यादेः, पञ्चदश सामिधेनीरनुब्रूयादिति विहितनित्यपाञ्चदश्या दिसापेक्षत्वाभावात् । सामिधेन्यपेक्षायामपि बाध्यमानांशानपेक्षत्वात् । तस्मात् पश्चात् ज्ञातत्वे परत्वम् । एवं परं भवदपि स्वस्मात् पश्चादन्यद् ज्ञातं भवति चेत्, स्वयं पूर्व भवत्येव । न चैवं पुनः पुनर्द्वैताद्वैतश्रुतिप्रवर्तने कस्यापि परत्वं दुर्निश्चयमिति वाच्यम् — एवमपि यथाकथञ्चित्परत्वेनापच्छेदनयप्रवर्तनापेक्षया निरपेक्षत्वविशिष्टपरत्वेन द्वैतप्रमाण एवापच्छेदन्यायप्रवर्तनं युक्तमित्येवात्रोच्यमानत्वात् । नन्विदंरजतमिति भ्रमसापेक्षत्वेऽपि नेदं रजतमिति ज्ञानं परं यथा प्रबलम्, तथा ब्रकृतेऽपीति चेत् -न; यथा कथञ्चिद्रजतज्ञानसापेक्षत्वेपि निषेधबुद्धेः इदं रजतमिति भ्रमसापेक्षत्वाभावात् । अन्यथा अभ्रान्तस्येश्वरादेः शुक्तौ रजतभेदनिश्चया योगप्रसंगात् । परत्वमात्रेण निषेधज्ञानस्य बाधकत्वे च, यत्र रजत एव रजतबुद्धिः, पश्चाच्च क्षोभवशात् नेदं रजतमिति धीः तत्र पूर्वज्ञानाप्रामाण्यापत्तेश्व । अतः प्रवृत्तिसंवादवलेन ज्ञानजनकसामग्यां क्लृप्तदोषसदसद्भावविमर्शन चान्यतरप्रामाण्यमवधारणीयम् । अतेंदं बोध्यम् लौकिक संनिकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयस्य प्रतिबन्धकत्वात् पूर्व तादृशविरोधिनिश्चये सति पश्चात् तज्ज्ञानं नोदेति । अत एवाग्निरुष्ण इति प्रत्यक्षे सति अग्निरनुष्ण इत्यनुमित्यादेरनुदयः । तत्र लौकिकसंनिकर्षजन्यं ज्ञानं परं पूर्वबाधकम् । दोषविशेषजन्यं तु परमपि दोषविशेषजन्यत्वनिश्चये सति पूर्वबाधकं न भवति । एवं कचित् प्रबलसामग्रीवशात् विरोधिज्ञानोदयेऽपि यत्र पूर्व सामग्र्यपेक्षयोत्तरसामग्रयाः प्राबल्यं नास्ति, किंतु समत्वं न्यूनत्वं वा, तत्र पूर्वज्ञानसामग्रीजनिततद्वत्ता बुद्धौ सत्यामुत्तरसामग्री ज्ञानमेव न जनयति । पर्वतो वह्निमानित्यनुमितौ सत्यां तदभावानुमितेरनुत्पत्तेः । निर्गुणश्रुतिसंकोच प्रसाधनम् यत्र पुनरेवमत्यन्तविरोधित्वं न भवति, तत्रैकसामग्रया कस्मिंश्चित् ज्ञाने उत्पादिते सामयन्तरमपि खकार्यं ज्ञानान्तरं जनयेदेव । यथा यदाहवनीये जुहोति, पदे जुहोतीति वाक्यद्यम्, तत्तदपच्छेदनिमित्तकशास्त्रद्वयादि च । न ह्यकशास्त्रार्थविरोधिविषयकत्वेनै वा परशास्त्रस्यास्मलाभ इति युक्तम् पूर्वद्वयस्योत्सर्गापवादन्यायेन, उत्तरद्वयस्य चैकैकाप च्छेदमात्र प्रसक्तिदशायां लब्धात्मकत्वात् । एवं निश्चित बोधजनकता कयोः तुल्यप्रमाणभूतयोर्नैमित्तिकशास्त्रयोः कदाचिदपच्छेदद्वयरूपनिमित्तद्वय समावे शत्रलात् प्रवृत्तयोः कतरस्य परिग्रह इति विनिगमकापेक्षायाम्, एकैकस्यापि शास्त्रस्य बोधकतायाः क्लृप्तत्वात् उत्तरज्ञानानुत्पत्तिवर्णनासंभवात्, लोके च निर्दुष्टप्रमाणजन्यस्योत्तरज्ञानस्य पूर्वज्ञाननाशकरारादर्शनात् नित्यनैमित्तिकप्राकृतवैकृतादिस्थलेषु च नैमित्तिकवैकृतादिना परेण नित्यप्राकृतादिबाधस्य न्यायसंमतत्वात् अत्राप्युत्पन्नत्वादुत्तरेण पूर्वस्य बाघ इत्यपच्छेदनयराद्धान्तः । न हि प्रबलसामग्रीरूप विशेषाभावे इदं रजतमिति बुद्धिकाले नेदं रजतमिति धीर्लोकेऽप्यवतरति । न चेह प्रत्यक्षद्वैतशास्त्राधीनद्वैतज्ञाने सति प्रत्यक्षतो न्यूनबलेन द्वैतशास्त्रतुल्यबलेन च अत एवापवलेनाद्वैतशास्त्रेण पूर्वप्रमाणात्यन्तविरुद्धद्वैताभावरूपार्थविषयक ज्ञानोत्पादनसंभवः । तथाचाद्वैत विषयकत्वे प्रकृतशास्त्रस्य बोधकताया एवाकृप्तत्वात् कुतो ज्ञानोत्पत्तिः ? कुतस्तराश्चापच्छेदनयः ? कुतस्तमात्र द्वैतप्रमाणस्य समाग्र्येण बाधः ? अतश्चाप्रतिबद्धपूर्वज्ञानसद्भावेनोपक्रमनय एवात्र निराबाधमवतरतीति । अनियत पौर्वापर्यविषयत्वादपच्छेदनयस्य पौर्वापर्यनियमसत्त्वादुपक्रमाधिकरणन्यायप्रवृत्तिरित्युक्तम् । न च यस्मिन् प्रयोगे अपच्छेदद्वयं प्राप्तम्, तदा नैमित्तिकशास्त्रद्व/चिन्तायाः क्रियमाणत्वात् तत्प्रयोगावच्छेदेन पौर्वापर्य नियमोऽस्त्येवेति वाच्यम्–विरुद्धार्थबोधकत्वं कुप्तमिति ज्ञापनार्थं हि पौर्वापर्यनियमवर्णनम् । तथा चैकैकापच्छेदस्यले विरोधप्रसत्त्यभावात् द्वयोः शास्त्रयोयथाश्रुतार्थबोधकतायां क्लृप्तायां तया सामग्रया अपच्छेदद्रयावसरेऽवि शास्त्रात् ૪૮
बोधस्य युक्ततया परेण पूर्वस्य बाधः । प्रकृते तु पौर्वापर्यनियमात् सगुणवाक्यनिरपेक्षं निर्गुणवाक्यस्य बोधकत्वाभावस्य भवदिष्टत्वेन तद्विरोधस्फूर्तिनियमात् बोधकत्वमेव न संभवतीति । एवं पौर्वापर्यं नियमपर्यालोचने च विरोधाधिकरणमपि प्रवर्तते । 1 तथा हि, " विरोधे त्वनपेक्षं स्यात् असति शनुमानम्” इति श्रुतिविरोधे स्मृतिः श्रुत्यनपेक्षा, आन्तिमूलेत्यप्रमाणम् ; असति तु विरोधे स्मृत्या श्रुतेग्नुमानम् ; ततः प्रामाण्यमित्युक्तम् । ननु श्रुतित्वात् प्राबल्यम्, स्मृतित्वाद दोर्बल्यमित्युक्तं तत्र । न चात्र निर्गुणश्रुतिः स्मृतिः । अतः कथं तदधिकरणप्रवृत्तिरिति चेत् —न; सापेक्षत्वनिरपेक्षत्वयोरेवात्र प्रयोजकत्वात् । श्रुतित्वस्मृतित्वयोरुक्तोदाहरणे सद्भावात् प्रकृतत्वाच्च निर्दिष्टत्वेऽपि तावन्मात्रे न संकोचः । अत एव स्मृत्याचारयोर्विरोधविषये वक्तव्यमपि प्रकृताधिकरणेनैवोक्तं भवति । नियतपौर्वापर्ययोर्मध्ये उपजीव्यग्रहणेनोपजीवकमुपेक्ष्यमिति तत्र न्यायः । तत्र सगुणनिर्गुणश्रुत्योः विभिन्न विषयकत्वादविरोधेन प्रामाण्यमस्मदिष्टम् । भवाद्भिस्तु सगुणश्रुतेर्बा ध्यार्थबोधकत्वरूपमप्रामाण्यम्, निर्गुणश्रुतेरवाध्यार्थबोधकत्वरूपं प्रामाण्यचेष्यते । एवमेकतराप्रामाण्यं कृत्वा चिन्तायां विरोधस्य मिथः स्वीकारे च विरोधाधिकरणनयात् निर्गुणश्रुतिरेवाप्रमाणं स्यादिति ब्रूमः । तदयं सूत्रार्थः- द्वयोर्विरोधे निश्चिते निर्गुणवाक्यं सगुणवाक्यमनुसृत्य तदर्थमबाधित्वा तद्विपरीतार्थाबोधनात् तदवाध्यत्वात् तदनुगुणमेव ‘सत् मानं प्रमाणं स्यादिति । तथाच द्वयोर्विरोधे एकतरमुपेक्ष्यम् । असति विरोधे अन्याबाध्यत्वान्मानं स्यादिति । अत्र ‘विरोधे त्वनपेक्ष स्यात्’ इत्येतावति अनुपरम्य, ‘असति ह्यनुमानम्’ इत्यधिकसूत्रणम्, अविरोधेन निर्वाहः संभवति चेत् अनुपेक्ष्य इति ज्ञापयति । अत एव विरुद्धस्मृत्यादिविषये यावन्मूलं न दृश्यते, तावत् अननुष्ठानलक्षणमप्रामाण्यमिति वार्तिककारः । निर्गुणश्रुतिस्तु षोडशिग्रहणरूपविहित क्रियानिषेधश्रुतिवत् क्रियाविषयकत्वाभावात् वस्तुविषयकत्वात् विक ल्पप्रसत्तत्यभावादर्थान्तरपरतया प्रमाणम् । न पुनरद्वैतिमते सगुणश्रुतिरिवाप्र निर्गुणश्रुतिसकोच-प्रसाधनम् ९४९ माणम् । अत्रायं विशेषः औदुम्बरी सर्ववेष्टनस्मृतेः औदुम्बरीस्पर्शविधायिश्रुतिव्यत्तयु पंजीवित्वाभावेऽपि प्रत्यक्षश्रु तेरुपजीव्यत्वाभिमतश्रुतिसाजात्यात बाधकत्वम् । इह तु निर्गुणश्रुत्या सगुणश्रुतिव्यक्तेरेवोपजीवनात् सुतरां सगुणश्रुतेर्बाधकत्वम् । तत्र स्पर्शत्या वेष्टनस्मृत्यर्थबाधात् स्मृतेः श्रुत्यननुमापकत्वादप्रामाण्यसंभावना; इह तु निर्गुणश्रुत्या पातार्थबाधादनुगुणार्थीन्तरपरतया प्रामाण्यमेव । एवं मानत्वसंपादनं मनसिकृत्य, असति ह्यनुमानमित्यधिकमुक्तम् । अतो विरोधाधिकरणमिह प्रवर्तते । शिष्टं श्रुतप्रकाशिकायां द्रष्टव्यम् । एवं " विप्रतिषिद्धधर्मा ( ? )णां समवाये भूयसां स्यात् सधर्मत्वम्” इति भूयोनुग्रह न्यायेनापि प्रत्यक्षादीनां प्रबल्यम् । यत्तु सिद्धौ -ऐन्द्रया सुब्रह्मण्यया आग्नेय्याः सुब्रह्मण्याया इव द्वैतप्राहिप्रत्यक्षानुमानागमाबाधायाद्वैतवाक्यार्थबाधः । पञ्चदशरात्रे हि प्रथमेऽहनि अग्निष्टु नामके नामातिदेशप्राप्ता एकाहाग्निष्टुद्धर्मभृता आग्नेयी सुब्रह्मण्या शिष्टेषु चतुर्दशस्सु अहस्सु अतिदेशप्राप्तया ऐन्द्रया सुब्रह्मण्यया बाध्यत इति भूयो नुग्रहाधिकरणे शाबरभाष्ये दर्शितमिति पराशयमनूद्य तत्खण्डनं कृतम्, “ दृष्टान्ते बहुविषयया बाधः, अत्र बहुभिरिति वैषम्यात्” इति – तदयुक्तम् — यथावस्थितसूत्रार्थस्य स्पष्टमेव दृष्टान्तदाष्टन्तिकयोरविशेषं समन्वयेन वैषम्यलेशस्याप्यभावात् । अयं हि सूत्रार्थःविप्रतिषिद्धधर्मा (र्म )णां मियो विरुद्धधर्मशालिनां समवाये एकत्र मेलने एकतरधर्मस्य त्याज्यत्वे सति भूयसाम् अधिक संख्याकानां सधर्मत्वम् — यो धर्मः प्रागभिमतः तद्धर्मकत्वं स्यादिति । तथाच भूयोनुग्रहायाल्पसंख्याक वृत्तिधर्मस्त्याज्य इति सिद्धम् । दृष्टान्त एवं समन्वयः -पञ्चदशरात्रे आग्नेयसुब्रह्मण्याकस्य प्रथमस्याहः ऐन्द्रसुब्रह्मण्याकानां चतुर्दशानामहाञ्च समवाये एकप्रयोगबलेन एकत्यागस्यावश्यकत्वे सति चतुर्दशानां यो धर्मः तद्वत्त्वमित्याग्नेय सुब्रह्मण्या त्याग इति । दाष्टन्तिकेऽप्येवम् – सद्भावग्राहकत्वरूपधर्मशालिनां प्रत्यक्षादीनामसद्भावग्राहकत्वविशिष्टस्याद्वैतवाक्यस्य चैकप्रपञ्चविषये९५०
समवाये भूयसां प्रत्यक्षादीनां सद्भावबोधकत्वं यो धर्मः तत्स्वीकारेणाद्वैतवाक्यस्यासद्भावबोधकत्वं त्याज्यमिति । तस्माद्वैषम्यकल्पनं न युक्तम् । किञ्च बहुविषयया बाध इत्यस्य बहुनिष्ठैन्द्रसुब्रह्मण्यया एकनिष्ठाग्नेयसुब्रह्मण्यायाः पञ्चदशरात्रेऽनन्वयकरणमित्यर्थः । तथैवाद्वैतवाक्यीयस्यासद्भावस्य बहुप्रमाणीयेन सद्भावेन प्रपञ्चेऽनन्वयकल्पनमिति साम्ये सति, “अत्र बहुभिः” इति किमिति वैषम्यनिर्देशः । दृष्टान्तेऽपि बहुभिरतिदेशप्रमाणैरे का तिदेशवाक्यार्थस्याग्नेय सुब्रह्मण्याकत्वस्य बाध इत्य् अपि सुवचम् । यदपि चन्द्रिकायाम् — भूयोविषयकप्रमाणानुरोधेन स्वल्पविषयक प्रमाणबाध इति न्यायशरीरम् ; न तु एकस्मिन्नेव विषये भूयसां प्रमाणानामनुरोघेन खल्पप्रमाणबाध इति — तदप्यत एव निरस्तम् यथावस्थितसूत्रार्थत्यागेन तत्र बहुविषयकप्रमाणेति अल्पविषयकप्रमाणेति च न्यायशरीरे प्रवेशने प्रमाणाभावात् । विविधचिदचित्पपञ्चरूपभूयो विषयकप्रमाणेन निर्विशेषाखण्डब्रह्मरूपाल्पविषयकप्रमाणस्य बाध इति तदुक्तन्यायशरीरस्यापि प्रकृते संगमयितुं शक्यत्वाच्च । यच्च – भूगोविषय कैकप्रमाणेनाल्पविषयक बहुप्रमाणबाधो ऽप्यपेक्षित इति — तत् कामं तथैवास्तु; अस्मदुक्तप्रकारेण तस्यापि सिद्धेः । भूयसां प्रामाणिकत्वायात्पस्य प्रामाणिकत्वं हि त्यक्तुं शक्यते । यत्तु मिथ्यात्वग्राहकैः श्रुत्यनुमानार्थापत्त्यादिभिः प्रत्यक्षस्यैकस्य बाघ इति तच्च न सत्य त्वग्राहकाणां प्रत्यक्षानुमानार्थापत्तिश्रुतिप्रभृतीनामनन्तानां ततोऽधिकत्वावश्यम्भावेन मिथ्यात्वग्राहकचाधात् । कर्मकाण्डोपासनावाक्यादिकं मिथ्यात्वविरोध्यविषयकं मिथ्यात्वनिश्चयपूर्वमेव प्रवृत्तमित्यपि न युक्तम् मिथ्यात्वविरोध्यविषयकत्वे मिथात्वबोधका द्वैतवाक्यार्थज्ञानेन तदर्थबाधानापत्त्या निष्प्रपञ्चब्रह्मसिद्ध्यसंभवप्रसङ्गात् । कथञ्च सपरिकर कर्मोपासनतत्समाराध्यनानादैवततस्त्रीतितदधीनत्तत्फलभोगादिसद्भावप्रतिपादकानां तेषां वाक्यानां मिथ्यात्वविरोध्यविषयकत्वम् । एवम्भूतानां वाक्यानां मिथ्यात्वनिश्चयपूर्व प्रवृत्तत्वकथनमप्येवं मिथ्यैव । अपौरुषेयाणां मिथ्यात्वनिश्चयाधीनोत्पत्तिकत्वायोगात् । कध निर्गुणश्रुतिसकोचप्रसाधनन् ९५१ मिथ्यात्वनिश्चयशाली कमर्थं कस्मै उपदेक्ष्यति । मिथ्यात्वनिश्वयाभावादेव पारमार्थिकत्वभ्रान्त्या तत्तत्फलबुभुक्षया प्रवर्तमाना अधिकारिणस्तदर्थान् अनुतिष्ठन्तीति, मिथ्यात्वनिश्वये सति विजहतीति च स्थिते कथमिदनिश्चयपूर्व प्रवृत्तत्वकथनम् । अन्यथा खलु विदितवेदान्ततत्त्वानां वेदमूर्धनि स्थितानामेव वेदकिङ्करत्वमिति अद्वैतिदृष्ट्या नूनमपसिद्धन्त इह दुर्वारः । अतः प्रत्यक्षस्य कर्मकाण्डोपासना वाक्यादेश्च विषयविभजनमयुक्तम् । सर्वथा मेदपराणां तेषां प्रत्यक्षकर्मकाण्डादीनां तन्निषेधकाद्वैतवाक्यस्य च मिथो विरुद्धार्थकत्वमनिवार्यम् । अथ चन्द्रिकोक्कांश विचारोपोद्धाततया प्रकृताधिकरणविषयः कियद पि संगृह्यते । " विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वम्”, “मुख्यं वा पूर्वचोदनाल्लोकवत् “, " तथा चान्यार्थदर्शनम् " इति सूत्रत्रयम् । इदमे कमधिकरणमिति वृत्तिकारान्तरमतम् । प्रथमसूत्रमेकमधिकरणम्, उपरि सूत्रद्वयमधिकरणान्तरमिति भाष्यवार्तिकशास्त्रदीपिकाभाट्टदीपिका दिसर्वसंप्रतिपन्नम् । तत्र वृतिकारान्तरपक्षे भूयोनुग्रह इति पूर्वः पक्षः ; मुख्यं प्रथमावगतमेवादर्तव्यम् भूयोनुग्रहोऽपि त्याज्य इति सिद्धान्तः । अधिकरणद्रयपक्षे भूयो नुग्रह एव कार्य इति प्रथमाधिकरणसिद्धान्तः । यत्र भूयो नुग्रह प्रसक्तिर्नास्ति, अपितु पूर्वोत्तरयोः समसंख्याकत्वम्, तत्र मुख्यं प्रथमावगतमादर्तव्यमिति द्वितीयाधिकरण सिद्धान्तः । अत्र प्रथमाधिकरणे पूर्वोक्तपञ्चदशरात्रविषय उदाहरणं भाष्यकारदर्शितम् । तत्र सुब्रह्मण्याया देवताह्नानार्थत्वात् एकदेवताह्यानेनः अन्यदेवताह्वानस्यार्थात् सिद्ध्यभावात् ऐन्द्या आग्नेयीबाधायोगात् उभयोरपि प्रयोग एवेति तदुदाहरणमुपेक्ष्य वार्तिकादौ उदाहरणान्तरं दत्तम्, काम्येष्टिकाण्डे, " अमये दात्रे पुरोडाशमष्टाकपाले निर्वपेत् । इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालम्, दधि मधु घृतमापो धानास्तत्संसृष्टं प्राजापत्यं पशुकामः " इति । ऐकाधिकरण्यपक्षे वृत्तिकारान्तरादृतमुदाहरणमपीदमेव । अत्रैकप्रयोगविधिपरिगृहीतानामेषां यागानामङ्गेषु तन्त्रेणानुष्ठेयेषु यत्र केषाञ्चित् दर्शवि ९५२
कारत्वात् केषाञ्चित् पूर्णमासविकारत्वाच्चा है. करूप्येऽपि मन्त्रमात्रे भेदः, तत्र कतरो मन्त्रो ग्राह्य इति चिन्तायां मुख्यतमस्यामेययागस्य दर्शपूर्णमासान्यतरविकृतित्वसंभवेन साघारण्याद निर्णायकत्वेऽपि ऐ. द्रयागदधियागयोरमावास्याविकारत्वात् मुख्यतत्संबन्ध्यमावास्यामन्त्र एवं ग्राह्यः, न तु पाश्चात्यमधुघृतोदकयागानां पूर्णमासविकाराणामनुरोधेन पौर्णमासीमन्त्र इति पूर्वपक्षे, उत्तरेषामधिक संख्याकत्वात् पौर्णमासीमन्त्र एव ग्राह्य इति सिद्धान्तितम् । भाट्टदीपिकायामाप्यत्र सिद्धान्तः स्वीकृतः, अल्पपूर्वापेक्षया उत्तरभूयो नुग्रह एव कार्य इति । परंतु प्रकृतोदाहरणे मधुघृतोदकयागानामुपांशुयाजविकारत्वात् उपांशुयाजस्य च पौर्णमास्यामिवामावास्यायामपि सद्भावे गमकसत्त्वात् एषामायतुल्यत्वमिति सर्वेष्वमावास्याधर्मसंभवेन विप्रतिषेधप्रसक्तिरेव नास्तीति उदाहरणान्तरं ग्राह्यमित्युक्तम् । एतावता चेदं विमृष्टं भवति प्रकृतपशुकामेष्टौ अमावास्यामन्त्रग्रहणमेव स्थितमालोक्य तत्र न्यायं पर्यालोचयता वृत्तिकारान्तरेण उपांशुयाजस्य पौर्णमासीगतत्वात् भूयोऽनुरोधे अनुष्ठानविरोधः स्यादिति भूयोनुग्रहं पूर्वपक्षत्वेन परिकल्प्य अनुष्ठानरक्षणाय मुख्यत्वमेवादर्तव्यमित्यालोचितम् । भाष्यकारस्तु उपांशुयाजस्यामावासयामपि वर्तमानत्वेन पशुकामेष्टौ अमावास्यामन्त्रमात्रानुष्ठानस्यान्यथैव सूपपादत्वात् भूयोनुग्रहविषयेऽनादरो न युक्त इति, तस्मात् समसंख्याकस्थले मुख्यत्वं विनिगमकमिति च निर्धार्य अधिकरणद्वयामारचय्य प्रथमाधिकरणे पशुकामेष्टयुदाहरणस्योक्तरीत्याऽनुपपन्नत्वमभिसंधाय सुब्रह्मण्यो दाहरणमदात् । वार्तिककारादयस्तु सुह्माण्योदाहरणस्यापि पूर्वोक्तरीत्याऽनुपपन्नत्वात् पशुकामेष्टयुदाहरणेन विषयविचारे कृतेऽपि नोदाहरणमादर्तव्यमिति न्यायोनान्यत्र न्यायसंचारस्य सुकरत्वात् पशुकामेष्टयुदाहरणमेव प्राक्तनगृहीतं पर्यग्रहिषुरिति । भाष्ये, ‘एके मन्यन्त’ इत्युक्तत्वात् ’ वृत्तिकारान्तरैः’ इति भाट्टदीपिकायां निर्देशाच्चायं प्रसिद्धादन्यो वृत्तिकार इत्य् अपि ज्ञायते । इत्थमत्र स्थितिः । निर्गुणश्रुतिसंकोच प्रसाधनम् ९५३ अत्र चन्द्रिकायाम् भूयोनुग्रहन्यायस्वीकारे कथञ्चित् परो विजयेतेति मत्या भाष्यवार्तिकाद्यभिमताधिकरणद्वयरीतिमुपेक्ष्य वार्तिकादिदर्शितमेकीयमतमेव स्वमतत्वेनाभिसंधायैवमुक्तम् " मुख्यत्वमेवा मुख्यभूयस्त्वापवादकम् । लोके बहुभिरप्यमुख्यमुख्यस्याबाधनात् प्रत्युत विपरीतदर्शनादिति । युक्तञ्चैतत् भूयसां दुर्बलत्वे भूयस्त्वस्याकिञ्चित्करत्वात्; शतमप्यन्धा न पश्यन्तीति न्यायात्” इति । अत्र चिन्त्यते अत्र मुख्यशब्दः कमर्थमभिसंधाय प्रयुक्तः, किं प्रधानभूतेत्यर्थम्, उत प्रथमावगतेत्यर्थम्, आहोखित् प्रधानभूतप्रथमावगतेत्यर्थम् । आद्ये अप्रधानानामपि भूयस्त्वात् अल्पप्रधानापेक्षया सधर्मकत्वं युक्तमित्यधिकरणार्थः सिद्ध्यति । तत्र पशुकामेष्टिवृत्तिकारोदाहृता न घटते । तत्र सर्वेषां यागानां समप्रधानत्वात् । एवमेतदनन्तरे अङ्गगुणविरोधाधिकरणे अनेकाङ्गापेक्षयाऽपि एकप्रधानादरस्यैव वक्ष्यमाणत्वेन पौनरुतयश्च । एतेन तृतीयपक्षोऽपि निरस्तः प्रथमश्रुतबङ्गापेक्षयाऽपि पाश्चत्याप्रधानमात्रल्यस्य तत्र वक्ष्यमाणत्वेन पूर्वप्रधानभावल्यस्य कैमुतिकत्वात् । न द्वितीयः ; तथात्वे ‘भूयसां दुर्बलत्वे भूयस्त्वस्याकिञ्चत्करत्वात्’ इति तत्पक्षे युक्तिप्रदर्शनस्यायुक्तत्वात् । अनेन हि भूयसां दुर्बलत्व एव किञ्चत्करत्वम् ; प्राबल्ये समचलत्वे वा मूयस्त्वमेवानुरोद्धव्यमिति सिद्ध्यति । तथा च भाष्यवार्तिकाद्यभिमतेऽधिकरणभेदे दूषणं न सिद्ध्यति । अतश्च भूयो नुग्रहभ्यायो नोपेक्षितः स्यात् उपरि च, ‘प्रथमप्रवृत्तस्य लोके बहुभिः पश्चात् प्रवृत्तैरुपमर्दात् भूयस्त्वं मुख्यत्वबाधकम् ’ इति नयोक्तचिन्तनावसरे, समानबलभूयो भिर्बाध्यत्वं वाच्यमिति लेखनात् समबलविषये भूयोनुग्रह एवं कार्य इति स्पष्टम् । ननु समबलैर्भूयोभिरल्पस्य बाध्यत्वं लोकसिद्धं नापहूयते ; प्रथम मल्प पुरुषा वरुद्धस्यापि दुर्गस्य पश्चादागतिर्बहुभिराक्रमणेन बाधदर्शनात् । किंतु प्रमाणस्थले इदं वक्तुमशक्यम्; पूर्वप्रमाणावगतस्यासंजातविरोधितया प्राबल्यस्य उत्तर प्रमाणानाश्च संजातविरोधितया दौर्बल्यनियमेनावश्यकत्वात् । तस्मादेकप्रयोगान्तःपातिषु मुख्यस्यैव प्राबल्यम्; उतरस्य स्वल्पस्येव भूयसोऽपि बाध्यत्वमेवेत्युक्तमेवेति 120 ९५४
। चेत् — एवं तर्हि असंजातविरोधित्वेन सर्वत्र मुख्यस्य प्राबल्ये अङ्गगुणविरोधन्यायविरोधः । तत्र नन्तरेऽधिकरणे, “अङ्गगुणविरोधे " च तादर्थ्यात् इत्यत्र पूर्वदिनानुष्ठेयानामुपसदझीपोमीयपशुपुरोडाशानां भूयस्त्वेऽप्यनन्तरदिनकर्तव्यस्य सोमयागस्यैकत्वेऽपि अङ्गापेक्षया प्रधानस्य बलीयस्त्वात् प्रधानसागुण्याय पूर्वेषां पर्वकालबाधः । इष्टिपशुसोमानां सर्वेषां पर्वकालकर्तव्यत्वेऽपि सोमयागस्यैव पर्वकालानुग्रह इत्युक्तम् । तत्राप्यसंजातविरोधित्वेनाङ्गानुरोघेनापि प्रधानस्यैव पर्वकालबाधः स्यात् ; संजातविरोधित्वात् । यदि तु मुख्यत्वन्यायस्य तत् स्थलमपवाद, इष्यते, तर्हि भूयस्त्वमप्यपवाद इति किं न भवति । संजातविरोधिताया उभयत्राविशिष्टत्वात् । तदुक्तं शास्त्रदीपिकायाम्, “यथोपरितनेऽधिकरणे मुख्यमपि दीक्षणीयाधर्मत्वं हित्वा प्रधानधर्मत्वबलेन सुत्याकाल एवानुग्रहीष्यते, तथा भूयस्त्वेनापि । तस्मात् द्वे एवाधिकरणे” इति । तस्मादुत्तराधिकरणविरोधादुत्तरावगतत्व पूर्वावगतत्वयोः प्राबल्यदौर्बल्यरूपत्वं परित्यज्य प्रकारान्तरेण प्राबल्यदौर्बल्ये निरूप्ये । तच्च निरूपणं पशुकामेष्टचादावसंभवीति दुर्बलैर्भूयोभिः प्रबलं न बाध्यत इत्यस्य प्रकृते दुरुपपादत्वात् प्रमाणविषयेऽपि भूयो नुग्रह न्यायः संभवत्येवेत्यधिकरणद्वयपक्षदूषणमशक्यमेव । अपिच मुख्यत्वस्य निरपवादत्वे प्रत्यक्षादिभिरसंजातविरोधिभिरद्वैतिश्रुतबाधो निर्वाध इति द्वैतिनामेवेदमनुकूलम् । प्रत्यक्षादीनामद्वैतश्रुत्यपेक्षया दौर्बल्यकथनमप्ययुक्तम् ; असंजातविरोधितया प्राबल्य स्यैव स्थितत्वात् । सुदूरविचारेऽपि अद्वैतश्रुतेरद्वैतपरत्वे सिद्धे प्रत्यक्षादेर्दोंर्बल्यनिश्चयः, तद्दौर्बल्यनिश्चये सति अद्वैतश्रुतेस्तत्परत्वनिश्चय इत्यन्योन्याश्रयदोषः श्रीभाष्य आपादितो न शक्यः परिहर्तुमिति प्रबलदुर्बलभावाभावात् भूयो नुग्रहस्य न्याय्यत्वात् प्रत्यक्षादिभिरेवाद्वैतश्रुतिबाधः ; असंजातविरोधित्वाच्च प्रत्यक्षादिकमेव प्रबलमिति सुतरां बाधकत्वमिति । तस्मात् प्रत्यक्षादिविरुस्यार्थस्य शास्त्रेण बोधनायोगादद्वैतशास्त्र प्रत्यक्षाद्यनुरोध्यर्थान्तरप्रतिपादनेनैव प्रमाणम् । निर्गुणश्रुतिसंकोच-प्रसाधनम् ९५५ अपि च निश्चितप्रामाण्ययोरुभयोरेकतरस्वीकार गमकत्वेन कुचित् परत्वस्याश्रयणमित्युक्तम्, तत्र च पूर्वप्रमाणस्य कुचिच्चारितार्श्वमावश्यकम् । अन्यथा प्रामाण्य-भङ्गप्रसंगेन विकल्पस्यैव युक्तत्वापातात् । पूर्वनैमित्तिकशास्त्रस्य पूर्वापच्छेदमात्रदशायाम् अद्य पूर्वापच्छेदभूतस्यैव कदाचिदुत्तरापच्छेदतायाञ्च नियमेन चारितार्थम् । एवमपच्छेदद्वययौगपद्येऽपि विक ल्पेन । न च तथा प्रकृते प्रत्यक्षद्वैतशास्त्रादेरन्यत्र चारितार्थ्यमस्तिः तदधीनज्ञानम्य मिथ्याभूतार्थविषयकत्वेन भ्रमत्वस्यैवेष्टत्वेनाप्रामाण्यस्यैवापातात् । न ह्येकस्यैव प्रामाण्यस्वीकारेणान्यस्य सर्वथैवाप्रामाण्यस्वीकरणमपच्छेदनयकृत्यम् । न च व्यावहारिकं प्रामाण्यं स्वीकृत्य चारितार्थ्यं ब्रूम इति वाच्यम्–प्रमाणत्वेनाभिमतस्यैकस्य यादृशं प्रामाणां स्वीक्रियते, तादृशप्रामाण्यस्यान्यतरस्मिन्नपि अन्यदा स्वीकारसंभव एवापच्छेदनयावतारात् । व्यावहारिकं प्रामाण्यमित्यस्य वास्तवप्रामाण्याभावेऽपि अज्ञाता द्वैततत्त्वस्थितीनां प्रामाण्यव्यवहारविषयभूतत्वमित्यर्थकतया प्रामाण्याभावस्यैव ततो लाभात् । एतेन व्यावहारिकप्रामाण्ये प्रत्यक्षस्यापि सावकाशत्वात् तत्र एकप्रयोगविरोधवदत्रापि तात्त्विकत्वांशे विरोधात् इनि सिद्धयुक्तमपास्तम्एकप्रयोगे एकनिमित्तकादक्षिणत्वान्यनिमित्त कसर्वस्वदक्षिणत्वयोर्विरोधात् एकस्य धर्मस्य परनैमित्तिक प्रयोगरहितस्थले सावकाशत्ववत द्वैततात्त्विकत्वद्वैताभावतात्त्विकत्वयोर्विरोधे द्वैततात्त्विकत्वस्य कुत्र सावकाशत्वमिष्यते । द्वैते तात्त्विकत्वानंगीकारेण हि व्यावहारिकप्रामाण्यं प्रत्यक्षादेरिष्यते । अतः कुत्र चारितार्थ्यम् ; कथमपच्छेदनयः । न च द्वैतनिष्ठ तात्त्विकत्वं व्यवहारकालाबाध्यत्वरूपमिति वाच्यम् बाध्यत्वसामान्याभावरूपतात्त्विकत्वं यद् गृहीतम्, तच्चारितार्थ्यस्यैवं सति असिद्धेः । अन्यादृशतात्त्विकत्वस्यैव कथ्यमानत्वात् । तथाच पूर्वप्रमाणसिद्धांशबाध एव । यदि कश्चिददक्षिणत्व सर्वस्वदक्षिणत्वयोर्विरोधपरिहाराय “दक्षिणाकाले यत् स्वं प्रतीयेत तद्दानसंयोगात् " ( 6.7.7) इति सूत्रोक्तरीत्या दक्षिणाकालिक स्वत्वानाश्रयस्यादेयतया तदभावमात्रेणाद ९५६
$ क्षिणत्ववाचोयुक्तिरिति निर्वहेत्, ताहमेवेदमपीति । तस्मात् सर्वथा प्रामाण्यसामान्यरूपरहितमेव प्रामाण्यपदेनाऽऽदाय, वस्तु द्विविधं नित्यम नित्यमितिवत् प्रामाण्यं द्विविधं व्यावहारिकं तात्त्विकञ्चेति विभजनमनुपपन्नम् । निपुणनिरूपणे चाद्वैतश्रुतीनामेवोत्सर्गापवादनयेन प्रामाणिकव्यतिरिक्तद्वैत निषेधपरतया सावकाशत्वम् । न च " न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति । न भूमिरापो मम वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरश्च” इति विशिष्यैव सर्वनिषेधात् कथमन्यपरत्वमिति चन्द्रिकोक्तं युक्तम् — तत्रापि ममेति षष्ठ्या संबन्धसामान्यस्यैवोक्ततया ममेत्यस्य जीवपरत्वे पुण्यपापादौ तदीयस्वाभाविक संबन्धाभावस्य परमात्मपरत्वे बन्ध्यबन्धकभावसंबन्धविरहस्य च बोधनेन सावकाशत्वात् । न चाद्वैतश्रुतीनां तात्पर्यलिङ्गैद्वैत निषेधपरत्वेऽवधृते प्रत्यक्षादेरन्यथैव निर्वाह इति वाच्यम्तदवधारणा संभवस्यैव कथ्यमानत्वात् । तथाचोपक्रमनयभूयसांन्यायनिरवकाशत्वादिभिः प्रत्यक्षादौ वास्तवप्रामाण्यमेव न तु व्यावहारिकप्रामाण्यम् । तथैवाद्वैतश्रुतीनामपि तदविरोध्यर्थवर्णनात् वास्तवप्रामाण्यमेवेति । ; नन्वेवंसति, “प्रत्यक्षमनुमानञ्च शास्त्रश्च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता” इति प्रत्यक्षादीनां येषां त्रयाणां प्रामाण्यमुक्तम्, तेषु, " प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्" इति आगमप्राबल्यकथनं विरुद्धयते, शास्त्रापेक्षया प्रत्यक्षप्रबल्यस्यैव द्वैतिसमतत्वादिति चेन्न -प्रबलत्वेन कथिशास्त्रमध्ये द्वैततशास्त्रस्यापि प्रविष्टत्वेन शास्त्रत्वाविशेषात् द्वैताद्वैतशास्त्र योबेलाबलविचारे प्रमाणत्वेन संमतप्रत्यक्षाद्युपष्टब्धत्वेन द्वैतशस्त्रप्रबल्यकथनात् प्रकृतवचनविरोधाभावात् । न ह्यनेनाद्वैतशास्त्रमेव प्रचलमित्युक्तम् । किञ्च वचनमिदं न प्रत्यक्षप्रतीतार्थागमप्रतीतार्थयोर्मध्ये आगमार्थग्राह्यतापरम् ; तथासति यूपादित्या भेदस्वीकारापत्तेः ; कचिदपि श्रुतौ लक्षणावृत्त्यभावप्रसंगाश्च । अतः निर्गुणश्रुतिसंका प्रसाधन ९५७ प्रत्यक्षानुमानयोर्यथा प्रत्यक्षानुमानागमविरोधे कचिदप्रमाणत्वमेव, न तु कथञ्चित प्रामाण्यरक्षणम्, न तथाऽऽगमस्य किं तु आगमत्वजात्याक्रान्तं सर्वमपि वाक्य प्रमाणमेव । यदि यथाश्रुतोऽर्थोऽनुपपन्नः, तदाऽप्यविरुद्धार्थान्तरपरतयाऽवश्यमेव प्रामाण्यं लभते इत्येवम्परम् । एतदुक्तं भवतित्रयाणां मध्ये प्रत्यक्षानुमानः सर्वथैवाप्रमाण्ये त्रयवेद्यत्वस्य शास्त्रप्राबल्यस्य च कथनासंभवात् यथा त्रयाणामपि प्रामाण्यं प्रतितिष्ठेत् तथाऽर्थबोधनमेव स्मृतिचिकीर्षितम् । न तु प्रत्यक्षानुमानयोः शास्त्रेषु च भूयस्सु भ्रमजनकत्वं कस्य चिदेव शास्त्रस्य प्रमाजनकत्वमित्युपदिश्यते स्मृत्या । तथाचाबाध्यार्थिकज्ञानजनकत्वस्य सर्वत्र स्थितावपि यत्र कुचित् प्रत्यक्षापेक्षयाऽनुमानस्य तदपेक्षया प्रत्यक्षस्य तदुमापेक्षया च शास्त्रस्त्र प्राबल स्वीकारेणान्यस्य यथातत्राभासत्वकल्पनम्, न तथा शास्त्रस्य कचिदप्यभासीकरणम्, निर्दोषत्वरूपप्राबल्यस्य सर्वशास्त्रवाक्येष्वविशिष्टत्वात् । अत कापातार्थबाधे अप्रामाण्यमनारोप्य तात्पर्यार्थनिरूपणेन सर्वशास्त्रप्रामायं रक्षणीयमिति । तस्मादद्वैतिप्रतिकूलमेवेदं वचनमित्यवधेयम् । यत्तूच्यते सगुणवाक्यार्थस्य निर्विशेषब्रह्मसाक्षात्कारानन्तरमेव बाधात् न व्यावहारिकप्रमाण्यहानिस्तस्येति तत् वैदिक लोकम्य पुरस्तात् अप्रमाणमिति धीरं वक्तु विभ्यतां भ्रामकवचनशैलीमात्रम् । अप्रमाणमित्युक्तिरेव व्यावहारिकप्रमाणमिति शब्देन गूढमुच्यत इति प्रागेव विस्तृतम् । यदि व्यवहारकाले सर्वमस्ति, पश्चात्तु सर्वस्य नाश इत्युच्येत, तर्हि ईश्वरस्य कश्चित् कालं गुणानां सत्यत्वकथनात् दशा भेदपरतया निर्गुणश्रुतिरुपपद्यत इति कल्प नाया अवकाशः स्यात् । न ह्येवं जगत्पत्यत्वं भवद्भिरिष्यते । नो खलु ज्ञानशक्त्या पुण्यपापरूपकर्मप्राणवत् तत्त्वज्ञानेन सर्वस्य वस्तुतः स्थितस्यैव प्रपञ्चस्य सेश्वरस्य पश्चाद्विल्य इति भवन्मतम् । किंतुपलभ्यमानमिदं सर्वमिदानीमपि वस्तुतो नास्त्येवेति त्रैकालिकाभावप्रतियोगित्वं हि सर्वस्येष्यते । तस्मात् इदंरजतमिति ज्ञानस्य नंदरजतमितिज्ञानपर्यन्तं प्रामाण्यमिति वाचोयु ९५८
क्तितुल्येयं व्यावहारिकप्रामाण्यवाचोयुक्तिः । अस्तु तर्हि सर्व सत्यमेव । निर्गुणश्रुतिस्तु दश। विशेषविषयिण्येव भवतु । एवञ्च निर्गुपमिति गुणसामान्यनिषेधात् स्वारस्यमिति चेत् एतावदभिमतं पक्ष परित्यज्य नवीनमेवमद्वैतकल्पनमेवेष्टमिति भवद्भिर्मिलितैर्निर्धाय निबन्धः क्रियताम् ; ततस्तत्र यद् वक्तव्यम्, तद् वक्ष्यामः । यत्तु ब्रह्मसूत्रार्थतया निरूपितस्य निर्विशेषत्वस्य विशिष्टाद्वैतिभिः सूत्राणामर्थान्तरवर्णनेन खण्डितत्वात् तत्र विप्रतिपन्नान् प्रति उभयाभ्युपगतपूर्वमीमांसानयेन प्रकारान्तरेण चोपबृंहणार्थं स्वतन्त्रमिदं प्रकरणम् – इति । किं तत् प्रकरणम् । पूर्वमीमांसानयस्तु प्रतिकूल एवं भवताम् । प्रकारान्तरं तु प्राचीनग्रन्थोक्ताधिकं किमपि न लक्ष्यते । अतो विप्रतिपन्नाः प्रकरणमिदं दृष्ट्वा, “उभावपि पक्षावनवसितौ प्रकरणम्" इति न्यायभाष्योक्तप्रकरणदशानिविष्टा एव भविष्यन्ति; परिशीलिनस्तु परित्यक्ष्यन्त्येवाद्वैतमिति । यदपि, “चिन्मात्र ब्रह्मभावो नास्त्येवेति वादस्तु तिमिरदोषदूषितस्य सहस्रकिरणनास्तिक्यवादः” इति तत्रोच्यते चिन्मात्र ब्रह्मभावः शशविषाणमिति च तुल्यम् । तत्र शशविषाणमिति प्रतियोग्यप्रसिद्धया तन्नास्तीति यथा न वक्तव्यम्, तथैव चिन्मात्रब्रह्मभावोऽप्यप्रसिद्धत्वात् प्रयियोगी न भवितुमर्हतीति तदभावोपि नोच्यत एव । प्रमाणाभावात्तु स न यथार्थज्ञानेन विषयीक्रियते इति तदसिद्धिरेव । ज्ञानसामान्यं चिन्मात्रनिष्ठविषयताकत्वभ्रमान्यत्वोभयाभाववदिति ब्रूमः । अस्ति तत्र प्रमाणमिति वदता चिन्मात्रस्य प्रमेयत्वापत्तौ अमतत्वाविदितत्वाप्रमेयत्वादिवचनान्युपेक्षितानि स्युः । तत एव तस्य मिथ्यात्वम्, ततएव तस्य बाघ खीक्रियेतेति बाध्यस्य तस्य कथं मोक्षरूपता । बाध्यस्यापि मोक्षरूपत्वं मन्यमानस्यैव हि तिमिरादिदूषितत्त्वम् । तथाच स न केवलं सहस्रकिरणापलापी; किंतु " त्रसरेणुप्रमाणास्ते रश्मि कोटिविभूषिताः" इति प्रमाणप्रसिद्ध कोटिकिरणानन्तजीव संघ-तदधिपतिभूत-युगपदुदितसहस्रकिरणसहस्रभाः सधी चीनभाः परिवृतपरमाद्भुत दिव्यमङ्गल विग्रह विशिष्ट परमात्म-तत्परि
1 निर्गुणश्रुतिसंकोच-प्रसाधनम् ९५९ चरणस्थानभूतनित्यदिवा समयायमाननिरवधिज्योतिर्मयधामादीनामप्यपलापीति तत्त्वम् । यदपि, अनुशीलतां निर्विशेष एव मुख्यं तात्पर्यं वेदान्तानामिति भगवत्पादानुयायिनां विचारसरणिः, परिहाय शिवद्रोहे तात्पर्यमिति – तत्रोच्यते-अनुशील्यैव तां विचारसरणि खण्डयामः । भवता तु क्रियासमभिहारेण शिवद्रोहे तात्पर्य मा भूदिति प्रयुज्यते । कोऽसौ शिवद्रोह इति विवेक्तव्यम् । शिवं मङ्गलम् ; तद्दोह इति तु न शक्यं मन्तुम् । ‘स्मृते सकलक ल्याणभाजनं यत्र जायते’, ‘मङ्गलायतनं हरिः ‘, ’ मङ्गलानाञ्च मङ्गलम्’ इति सर्वमङ्गलवह सर्वमङ्गलदिव्यास्पदश्रियः पतिपदारविन्दप्रवणानां मङ्गलद्रोहावसराभावात् । शिवो रुद्रः तद्दोह इति च दुर्वचम्, सर्वभूतानुकूलसमाचारत्वात श्रीवैष्णवानामिति प्रागेव प्रत्यादि । भगवत्पादानुयायिभिर्भवद्भिस्तत्कृतः शिवद्रोहो नानुरुद्धयत इति च विचित्रम् । निर्विशेषवादनानं ततो गृहीत्वाऽन्यांशे गुरुद्रोह एक क्रियत इति वाऽभ्युपगन्तव्यम् । तथा हि तत्कृते नामसहस्रभाष्ये, ‘सर्वः शः शिवः स्थाणुर्भूतादिः’ इति बहुपु रुद्रवाचितया प्रसिद्धेषु पदेष्वपि कस्यापि पदस्य पार्वतीपतिरित्यर्थं न गृह्णाति । दाशार्हः सात्वतां पतिरित्यादौ दशार्ह कुलोद्भव इति सात्वततन्त्रप्रवर्तक योगक्षेम कृदित्येव कृष्णादिरूपेण भावनमिव शिवरूपेण भावनमपि समानं न मन्यते । सोमः इत्यस्य चन्द्ररूपेणौषधिपोषक इत्यर्थमुत्तवा चन्द्रसमुद्रादिसर्वरूपेणोच्यमानस्य शिवरूपेणोक्तिरपि न दुष्यतीत्याशय्य सोमपदमुमासहित शिवपरं व्याकुर्वन्नपि शिवस्य चन्द्रादिवत् जीवविशेषत्वं विष्णोः कृष्णाद्यवतारेष्वपि परमात्मत्वञ्च मन्यते । विशिष्य शिव इति नाम्नः एवमर्थमाह, “निस्त्रैगुण्यतया शुद्धत्वात् शिवः” इति । ‘क्षेमकृच्छिवः’ इत्यत्रापि “स्वनामस्मृतिमात्रेण पावयन् शिवः” इत्यभाषिष्ट । न केवलमेतावत् । एवं शिवादिपदप्रयोगात् शिवविषयमेव नामसहस्रमस्तु इति कश्चिन्मा शङ्किष्टेति तदपर्युपि किञ्चिदाह स्म, “स ब्रह्मा स शिवः इत्यभेदोपदेशात् शिवादिनामभिर्हरिरेव स्तूयते " इति । ब्रह्मशिवादि सर्वशब्दवा-५६०
च्यत्वं हरेः संभवति यथा, नैवं हरिवाचकसर्वशब्दवाच्यत्वं शिवादेः । उपनिषदपि, ‘स ब्रह्मा स शिवः सेन्द्रः’ इति हरेरेव सर्वशब्दग्राह्यत्वं ग्राहयति ; अधस्तात्, “व्याप्य नारायणः स्थित’ इति प्रकान्तस्यैव स इति तत्पदध्यत्वात् । तस्मान्नामान्तरैरपि हरिरेव स्तूयते, यथा विश्वमिति प्रथमं नामेति तदाशयः । तेन हरेरिवान्यस्य सर्वशब्दवाच्यत्वं न भवतीति व्युत्पादितम् । अत्रान्योऽपि विशेषः, केचित्, ‘सह्मास शिवः स हरिः सेन्द्रः सोक्षरः परमः स्वराट्’ इति श्रुतिं पठन्ति । सो पठ इति तर्कतोऽपि सुवचम्, स ब्रह्मेति ह्यनुष्टुप्छन्दः । तत्र स हरिरिति पाठे अक्षरत्रयाधिक्याच्छन्दो बाध्यते । येयं श्रुतिः, स ब्रह्मा स शिवः स इन्द्रः इति पाठे कर्तव्ये एकाक्षराधिक्यादपि भीता, “सोऽचि लोपे चेत् पादपूरणम्” इत्यनुशासनार्थदर्शिनी स इत्यस्य सोरपि लोपं विधाय सेन्द्र इति पठति, सा कथमक्षरत्रयमधिकमस्मिन् पादे प्रवेशित सहेत । सहने वा सेन्द्र इति न पठेदिति । यदि च स हरिरिति पाठः शङ्कराचार्यानुमतः स्यात्, नूनं हरिशब्दवाच्यस्य हरेः स इति पदेनापि ग्रहणस्यायुक्तत्वात् हरिरेवेत्यस्य स्थाने नारायण एवेत्येवं किमप्यन्यदेव पदं प्रयुक्त स्यात् । अतः स हरिरिति पाठोऽप्रामाणिकः । तथा हर्बतिरिक्तस्यान्तर्यामित्यं सहस्रशीर्षं देवनित्यनुवाकप्रतिपाद्यत्वं ब्रह्मशिवादिसर्वशब्दवाच्यत्वं सर्व सगुणपरविद्योपास्यत्वमित्यादिकमप्यप्रामाणिकमिति भाष्यमिदं सम्यगाविष्करोति । ‘सतांगतिः’ इति नामार्थवर्णनेऽपि मुमुक्षूणां विष्णोरन्यस्य गतित्वं न भवतीत्युक्तम् । एवं शिवापेक्षया हरेरुत्क र्षमुक्तवतः स्वगुरोर्यदि शिवद्रोहित्वेन दूषणं भवान् अनक्षरमा वेदितवान् भवति, ततः शिवमशिवं वेति किञ्चित् सहृदयं विमृश्यम् । कियत्कालपर्यन्तं शाङ्करमते वैष्णव श्रीर्व्यराजत, कदा च विष्णुद्रोहेण वैष्णवद्रोहमूलेन शैवाभिमानेन चाद्वैतमतनिष्ठेष्वपि पदं न्यधायीति भवत्पूर्वपुरुषसामान्यचारित्रशोधनेऽवतीर्य भवद्भिरेव सुकरो निर्णय इति किमस्माकं तद्विस्तरेण । अद्रोहिषु शिवद्रोहमसकृत् कल्पयन्नयम् । निर्गुणश्रुति संकोच-प्रसाधनम् तत्काल गुरुतृप्तयर्थी पूर्वद्रोहं न पश्यति ॥ अलं प्रासङ्गिकेन । ९६१ अत्रेदमधिकमप्यावश्यकं विचिचारयिषामःः घटवद्भूतलमित्यादिविधिस्थले सकलघटाग्रहणेन योग्य किञ्चिद्धटमात्रग्रहणवत् गुणवानीश्वर इत्यादौ विवक्षित किञ्चिद्ग्रहणं योयुज्यते, निर्गुणमित्युक्तौ तु गुणसामान्याभावग्रहणमेव युक्तम्, अघटमित्यादौ घटसामान्याभावप्रतीतेरेवानुभवात् । नञः स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मावच्छिन्न प्रतियोगिताकाभावबोधकत्वस्यैव व्युत्पत्तिसिद्धत्वात् । अन्यथा, ‘न ब्राह्मणं हन्यादित्यादौ यत्किञ्चिदेकब्राह्मणहनननिषेधेनापि वाक्यसार्थक्यप्रसंगात् । अत एवोक्तम्, “सामान्यविधिरस्पष्टः संहियेत विशेषतः । स्पष्टस्य तु विधेनैवमुपसंहार इष्यते " इति । विधिवाक्येषु पशुमालभेतेत्यादिषु सर्वपचनुष्ठानस्याशक्यतया व्यक्तयपेक्षायां पश्वादिशब्दाः संकुचितवृत्तयो भवन्ति । निषेधेषु त्वविशेषेण सर्वनिषेधस्य सुकरत्वात् किमिति संकोचकल्पनम् । अतो निर्गुणमित्यस्य कतिपयगुणरहितमित्यर्थो न युज्यत इति — अत्रोच्यते नञः स्वसमभिव्याहृतपदार्थतावच्छेदकावच्छिन्नप्रतियोगिताकाभावबोधकत्वमित्युत्सर्गः । तात्पर्यग्राहकप्रमाणानुरोघेन निषेधस्थलेऽपि विशेषविषयकत्वे परश्शतान्युदाहरणानि । यथा अमर इति देवानां नाम । न हि ते मरणरहिताः । अतो मर्त्यवत् क्षिप्रमरणाभावस्तत्र • विवक्षितः । ‘अमृत इह भवती’ त्यत्रामृतत्वश्च अनुपोष्य यदमृतत्वम्, तादृशविशेषरूपमित्युक्तम् । ‘आभूतसंप्लवं स्थानममृतत्वं हि भाष्यत’ इति च विशेषे संकोच्यते । ‘वायुश्चान्तरिक्षञ्चैतदमृत’ मित्यत्रापि चिरकालस्थायित्वं विवक्षितम् ; न तु मृतत्वसामान्याभावः । एवम्, “सैषाऽनस्तमिता देवता यद् वायुः” इत्यत्रापि । ‘अकर्दममिदं तीर्थं भरद्वाज निशामय’ इति तीर्थस्य कर्दमराहित्यमुक्तम् । जलस्य वा अवतरणदेशस्य वा सर्वप्रकारपङ्कराहित्यं तावदसंभावितम् । तस्मात् खानकालिकशरीरले पावह कर्दम राहित्यरूपविशेषविवक्षैव तत्र । ‘यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते ’ इत्यस्ति । सकृत् 191 ९६.२
रामायणपठनमात्रेण सञ्चितप्रारब्धसर्वपापविनिर्मोकः किमिष्यते । एवं तर्हि विशेषतो वेदान्तार्थश्रवणमनननिध्यानसाक्षात्कारपर्यन्तश्रम एव नापेक्षितः स्यात् । एवञ्च सर्वपापपदं सर्वशब्दघटित सदपि संकुचितार्थकमेव । ’ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः’ इत्यत्रापि सत्यपि सर्वसब्दे पञ्चमहायज्ञानुष्ठानमात्रेण ज्ञानसाध्यसर्वपापक्षयस्यासंपाद्यत्वात् किल्विषविशेषमुक्तिरेव विवक्षिता । तथा च भाव्यम्, यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व किल्बिषैः सर्वैः पापैः चुल्ल्यादिपञ्चसूनाकृतैः प्रमादकृत हिंसादिजनितैश्च’ इति । आत्मयाथात्म्यावलोकन विरोधिपापनिवृत्तिमात्रविवक्षा, न ब्रह्मप्राप्तिविरोधिसर्वपापनिवृत्तेरिति च संमतम् । " निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः " इत्युच्यते । अत्र संशय सामान्यराहित्यमविवक्षितम् । हरिरस्ति न वेति संशयराहित्यमेव विवक्षितम्, लौकिकानेकार्थविषयकानेक कारसंशयसत्त्वेऽपि निःसंशयत्वस्य निरूपणीयत्वात् । एवं लोके, अकिञ्चनः, निर्धन, सुखरहितः, अज्ञः, अगतिः, अक्रोधः, अक्रियः, अचलः, अनपेक्षः, अपापः, अशक्तः, अभयमित्यादयो विशेषनिषेधविवक्षयैव प्रयुज्यमानाः बहवः शब्दाः । ‘काममा मरणात् तिष्ठेत् गृहे कन्या ऋतुमत्यपि । न तु दिशेत् गुणहीनाय कर्हिचित्’ इत्युक्तौ गुणहीनपदं न खलु सर्वप्रकारगुणाभाववत्परं स्यात् । ‘नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ’ इति लोके प्रतियोगिवाचकं सर्वं मामान्यपदं विशेषपरं व्याख्यायते । अत्र बुद्धिरिति न सर्व ज्ञानम्, किंतु आत्मस्वरूपविषया । अयुक्तस्येति न सर्वविधयोगाभावपरम्, किंतु आत्मविषयसमाधिरहितपरम् । भावनापदम् आत्मज्ञानाभिनिवेशपरम् । शान्तिरत्र विषयस्पृहाशान्तिरूपा । सुखं न भवतीयुक्तावत्र सुखं पारमार्थिकसुखम् । ‘नायं लोकोऽस्त्ययज्ञस्ये ‘त्यत्र च पञ्चमहायज्ञाद्यनुष्ठानरहितस्य जीवस्य एतल्लोकसंबन्धाभाव उच्यमानः कथं घटतामिति विशेष त्रिवर्ग पुरुषार्थप्राप्तिर्नास्तीत्येवंप्रकारेणैव तन्निर्वाहः । ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः’ इति कर्मकर्तृत्वे वर्तमाने तदभावोऽप्युच्यते । इदं निर्गुणश्रुतिसंकोच-प्रसाधनम् ९६३ काम संकल्पपूर्व कर्म कर्तृगत विशेष काराभावमात्रेणेति विशेषविषयमेव निर्वहणीयम् । तथा जगत्कारणं वस्तु, ‘सदेव सोम्येदमग्र आसीत् ’ इति सच्छब्दनिर्दिष्टमेवान्यत्र, ‘असद्वा इदमग्र आसीत् ’ इत्यसच्छब्देन निर्दिश्यते । न च सदेवासद्भवितुमर्हति । तुच्छं स्वल्वसत्पदेन ग्राह्यम्, अथवा अवर्तमानं भूतं भविष्यद्वा । न चैवं ब्रह्म । अतः असच्छन्दघटके सत्पदं नामरूपव्याकृतवस्तुविषयं कृत्वा तद्भिन्नं कारणमसदित्युच्यते । एवम्, ‘इदं वा अग्रे नैव किञ्चनः सीत्’ इत्यत्रापि सर्वनिषेधस्य कर्तुमशक्यतया विशेषनिपेधपरत्वमेष्टव्यम् । तथा सदेवेति ब्रह्मातिरिक्तसर्वनिषेधेऽवगम्यमानेऽपि शुद्धब्रह्ममात्रसद्भावे सृधसंभवादपारमार्थिका विद्यादिसद्भावोऽपि स्वीकृत इति तदतिरिक्तकार्यरूपा पारमार्थिकवस्तुविशेषाभाव एवं पर्यवसानं कर्तव्यम्, क्रियते चेति स्पष्ट विशेषविषयकत्वं निषेधस्य । ‘यो कामो निष्काम आत्मकामः’ इत्यत्र आत्मविषयक कामनावत्त्वस्य कण्ठोक्ततया अकामपदं तद्व्यतिरिक्त काम निषेधपरं वाच्यम् । तत्रापि अकाम निष्कामपदयोरपौनरुतयाय ऐहिकामुष्मिकादिरूप कामविशेषनिषेधपरं पदद्वयमिति विवक्षणीपम् । एवं वैराग्यपदमपि मुमुक्षुत्वाविरोधेन नेयम् । ‘अपशवो वा अन्ये गो अश्वेभ्यः पशवो गोअश्वाः’ इति श्रुत्या गवाश्वातिरिक्तेषु पशुपशुत्वमुच्यमानं कथं घटेत, यदि पशुसामान्यप्रतियोगिकभेद एव विवक्ष्येत । अतः प्रशस्त पशुप्रतियोगिकत्वं तत्र भेदस्येष्टम् । अजायमानो बहुधा विजायते ’ इति श्रुतौ भगवतो जन्माभावो बहुप्रकारजन्मवत्त्वञ्च युगपदुच्यते । तत्र जन्मविशेषवत्त्वं जन्मविशेषाभावश्च विवक्ष्यते । न च निषिध्यमानं जन्म परिणामरूपम्, विधीयमानश्च देहसंयोगरूपमित्यर्थ भेदान्न दोष इति वाच्यम् एतद्विवरणरूपे, ‘अजोऽपि सन्नव्ययात्मा-संभवाम्यात्ममायया’ इत्यत्राजपदस्य परिणामाभावरूपार्थस्याविवक्षितत्वात् । ૧૬૪
अपरिणामस्य देहसंयोगरूपजन्मनश्च मिथोविरोधप्रसत्त्यभावेन अपिशब्दवैयर्थ्याच्च । तत्र शाङ्करभाष्ये, “कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावे जन्मेति —— उच्यते” इत्यवतरणस्य दत्तत्वेन धर्माधर्मकृतजन्माभावानुवाद एव अजपदेनेह क्रियत इत्यस्य व्यक्तत्वाच्च । ‘बहूनि मे तीतानि जन्मानि तव चार्जुन’ इति जीवस्येश्वरस्य चोभयोर्जन्मनि अधस्तादुक्ते, जीवस्य जन्म युज्यते, न त्वीश्वरस्येति शङ्कायां तत्परिहारार्थमयं घट्टः प्रवृत्त इति तेन सूचनात् जीवस्य यादृशे जन्म, तादृशजन्माभावेऽपीत्यर्थस्य विवक्षणीयतया परिणामरूपजन्मन इह प्रसत्तयभावात् । द्वितीयाध्याय एव च, ‘न जायते म्रियते वा’, ’ तथा शरीराणि विसृज्य जीर्णान्यानि संयाति नवानि देही’ इनि परिणामाभावो देहसंबन्धरूपजन्मवत्त्वञ्च वेदितमेवेति न तस्यात्र प्रसक्तिः । अतः अजशब्दः अजायमानशब्दश्च धर्माधर्मनिमित्तजन्मरूपविशेषाभावार एव शाङ्करभाष्यानुरोधेनापि संमन्तव्यः । नामसहस्रे संभवनामव्याख्यानभाष्यञ्च, “स्वेच्छया समीचीनं भवनमस्येति संभवः, ‘धर्मसंस्थापनार्थाय संभवामि युगेयुगे’ इति भगवद्वचनात् " इति प्रकृतगीतोदाहरणपूर्व कमिच्छा गृहीताभिमतदेहत्वदर्शकं सत् स्वेच्छातिरिक्तकरणाधीन देह संबन्धरूपजन्माभावं स्वेच्छाकृतनानादेहसंबन्धरूपजन्मशालित्वञ्च श्रुत्यर्थत्वेन ज्ञापयति । ‘यतो वाचो निवर्तन्ते’ इत्यत्र लक्ष्यत्वतात्पविषयत्वादिसत्त्वात् वाच्यत्वरूपविशेषाभावमात्रस्य, यस्यामतमित्यादौ वृत्तिविषयत्वसत्त्वात् फल्याप्यत्वमात्राभावस्य विवक्षेत्येवं तत्रतत्र विशेषाभावपर्यवसानं भवतामपीष्टम् । यज्ञोपवीतसंध्यावन्दनादित्यागिदोषपरवचनानि च भवद्भिः परमहंसव्यतिथिक्तविषयतया संकोच्यन्ते । एवं बहु । यदुक्तम् अघटमिति घटसामान्यनिषेध एवावगम्यते इति -तदपि न नियतम् — घटं केतु कुलालरहितं ग्रामं गच्छन् पुरुषो निवार्यते, कुत्र गच्छसि तत्र घटो नास्तीति । कथं तस्य ग्रामस्याघटत्वम्, प्रतिगृह बहूनां घटानामुपयुज्यमानत्वस्य तत्राप्यविशिष्टत्वात् । अतः क्रय्यघटाभाववि निर्गुणश्रुति संकोचप्रसाधन’, ९६५ वक्षया अघटः स ग्राम इति प्रयोगः । एवमेव सिष्णासुस्तटाकं गच्छन्, वार्यते, तत्र जलं नास्तीति । पश्वादिपेयखल्पजलसद्भावेऽपि स्नानोपयोगिजलाभाव एव तत्र विवक्षितः । एवं तत्र ग्रामे पुरुषो नास्तीति अपेक्षितकार्यनिर्वहणासमर्थपुरुषाभावविवक्षयैव प्रयुज्यते । तस्माल्लोकवेदप्रसिद्ध विविधोदाहरण सर्वसंमततदर्थरीतिविरुद्धमिदं निषेधस्थले सर्वत्राविशेषात् श्रुतसर्वग्रहणं कार्यमिति कल्पनम् । । एतदुक्तं भवति विधिर्वा निषेधो वा पदोपात्तसर्वग्रहणसंभवे सर्व गृह्णाति, अन्यथा तु विवक्षितविशेषपर्यवसायी । ‘सामान्यविधिरस्पष्टः’ इति वार्तिकस्याप्येतावानेवार्थः । स्पष्टत्वं सर्वग्राहितया सुनिश्चितत्वम् । ‘अनुष्ठानाय विशेषापेक्षत्वमस्पष्टत्व’ मिति व्याख्यानं तु मी सकक्रियमाणमुपात्तोदाहरणमात्रविश्रान्तत्वादुपेक्ष्यम् । विशेषपरत्वनिश्चयश्च तात्पर्यग्राहकानेकप्रमाणाधीनः । व्यक्तिवाचिनां संनिहित ( उपस्थित) मात्र गामित्वमिति न्यायो विधिस्थल इव निषेधस्थलेऽप्यतः प्रसरत्येव । विशिष्य च निषेधस्थले, ‘न ब्राह्मणं हन्यात् ’ इत्यादौ ब्राह्मणहननप्रवृत्तिमुद्दिश्याभावबोधनम्य मीमांसकोक्तत्वात् पूर्वज्ञातस्यैवोद्देश्यत्वसंभवात् उपस्थितं प्रतियोगीति ज्ञायत एव । परं तु एकैकपुरुषस्यैकैकब्राह्मणहननप्रवृत्ती रागप्राप्ता संनिहिता भवतीति अविशेषेण सर्वब्राह्मणहननप्रवृत्तेरुद्देश्यत्वलाभः । अत एवोपस्थितिविशेषवशात् पुरुषार्थभूतहननप्रवृतिरेव गृह्यते, न तु क्रत्वर्थापीति भामत्यां भगिनम् । एवमपि पुरुषार्थस्यैव युद्धमध्यहनना देरग्राह्यत्वायोत्सर्गापवादनयसंचरणगवर्जनीयमिति तु परिमले । अत उपस्थितव्यक्तिविश्रमो भवत्येव । तादृशव्यक्तिषु कतिपयत्यागो न कार्य इत्येव तु नञः खसमभिव्याहृतपदार्थसामान्यप्रतियोगि काभावबोधकत्वमिति व्युत्पत्तिप्रदर्शकानामभिमतम् । अत एव पशुना यजेत, अरुणया क्रीणातीत्यादावेकत्वपुंस्त्वस्त्रीत्वादिविवक्षयात्रातिपदिको पस्थितसर्वाग्रहणेन विधिस्थले संकोचवत् नञ्स्थलें संकोचं विना उपस्थितस प्रतियोगिकत्वग्रहणम्; उद्देश्यविशेषणस्याविवक्षितत्वात् । विशेषग्राहकगमकाभावे सर्वग्रहणमिति तु सर्वत्राप्य ९६६
स्त्येव । गमकं तु यथायथं प्राह्यम् । ‘न हिंस्यात् सर्वा भूतानी ति बाक्ये सर्वपदं प्रशस्तप्राणिमात्रविवक्षया वाक्यचारितार्थप्रसंग परिहासायात एव सार्थम् । एवमपि विशेषविहितस्यापि क्रोडीकारो न मन्तव्यः, उत्सर्गापवादनयेन विहितातिरिक्तग्रहणेन वाक्यचारितार्थ्यादिति वैधहिंसाव्यतिरिक्तविषय एव स निषेध इति सर्वसंमतम् । एवं यथा विधिस्थले अग्नीषोमीयं पशुमित्यत्र पशुपदेन सामान्योपादानेsपि, ‘छागस्य वपाया’ इति मन्तवर्णानुरोधात् पशुपदं विशेषपरम्, तथा निषेधस्थलेऽपि सामान्यतो निषेधप्रतियोगिवाचकं पदं विशेषनिषेधे श्रयमाणे तादृशविशेष रोष्यते । अत एवाध्वरमीमांसा कुतूहलवृत्तौ आग्नेयचतुर्धाकरणाधिकरणे, “वार्ताकं न भक्षयेत्’ इति निषेधवाक्यं शाखान्तरक कण्टयनयात् ‘श्वेतवार्ताकं न भक्षयेत्’ इति वचनान्तरनिषिद्धश्वेतवार्ताकमात्रनिषेधपरतया न्यरूपि । नन्वेवम्, ‘न हिंस्यात् सर्वा भूतानि’ इत्यस्य, न ब्राह्मणं हन्यात् ’ इत्यनेनैककण्ठ्यात् अब्राह्मणहनने दोषाभावप्रसङ्गः । न । द्वयोरपि वाक्ययोरे कशाखास्थतया समानार्थकत्वे सामान्यवाक्यवैयर्थ्यापत्तेः तत्र सामान्यविशेषभावास्वीकारात् । विधिस्थले तु कश्चिद् विशेषोऽस्ति सामान्यविधेविशेषविधेश्चैकशाखास्थत्वे, ‘निर्विशेषं न सामान्य ‘मिति न्यायेन सामान्यविघेरपि विशेषाकांक्षायां विशेषवाक्योपस्थितविशेषस्य ग्रहणम् । अन्यथा सामान्यविविना विशेषान्तरग्रहणे तेनैव विशेषवाक्यविहितविशेषस्यापि ग्रहणसंभवात् विशेपवाक्यवैयर्थ्यापत्तिः; ‘विशेषान्तरस्य सामान्यविधिना ग्रहणेनानुष्ठानम्, उपात्तविशेषस्य तु विशेषविध्युपस्थितत्वे सत्येवाभ्युदयः, अन्यथा न’ इति कल्पने तु कदाचिद् विशेषविध्यभावेऽपि फलम्, कदाचिद्विशेषविधिज्ञान एवेति कल्पनप्रसंगादसामञ्जस्यञ्चेति विमृश्य विशेषविधिसामान्यविध्युभयाधीनज्ञानतोऽनुष्ठान एव फलमिति वाक्ये अभ्युदयशिरस्कत्वं स्वीक्रियते । न चैवं निषेधस्थले सुवचम् ; निषेधवाक्यार्थज्ञानपूर्वमेव निषेध्यान्निवर्तनीयमित्यस्याभावात् । निवृत्तिमात्रेण साध्यस्य फलस्याभावाच्च । अतो निर्गुणश्रुतिसंकोच-प्रसाधनम् ९६७ वाक्यावैयर्थ्याय सामान्यनिषेधः सर्वनिषेधकः, विशेषनिषेधः विशेषमात्रविषयक इष्यते । सामान्यत एव निषेध्यस्य विशेषवाक्येन पुनरपि निषेधादधिकपापकल्पनया वाक्यसार्थक्यम् । विभिन्नशाखागतौ सामान्यविशेषनिषधौ तु प्रतिपत्त्रभेदमधिकृत्य प्रवृत्ततया समानार्थकत्वेऽवि सार्थकौ । अन्यथा सामान्यनिषेधस्यान्यत्वे शाखान्तरे तदनुतया तत्प्रवेशकल्पनम् प्रकृतशाखायां विशेषनिषेधस्या पूर्वतया प्रवेशकल्पनम् संभवद्वैकार्थत्यागः इत्येवं दोषा आपद्येरन् । अतः कुतूहलवृत्त्यादृतरीत्या सामान्यनिषेधोऽपि विशेषनिषेध । रूप एव । यद्येवं निषेधोल्लङ्घने प्रत्यवायार्थप्रवृत्तेषु निषेधवाक्येष्वेव प्रत्यवायन्यूनाधिकभावकल्पनया चारिता हिंसासामान्यनिषेधह्मणनिषेधरूपवाक्यद्वयादौ कूलप्तमुपेक्ष्य समानार्थकत्वस्वीकारः, तदा तथाचारितायैवर्णनप्रसक्तिविधुरेषु तत्त्वविषयकेषु सामान्यविशेषनिषेधेषु संभवदैकरस्यापरित्यागेन सामान्यनिषेधस्यापि विशेषनिषेधविषयत्व स्वीकारे कः संदेहः । तथाच सामान्यरूपेण कृतस्य निषेधस्य व्युत्पादनं विशेषकार्यम् । यस्तु विशेषनिषेधावगताभावातिरिक्तविशेषान्तराभावोऽपि ‘नेति नेति’ इतीहासामान्यनिषेधविषयी कार्य इति मन्यते तेनापि उपलभ्यमानानां विशेषनिषेधानामुदाहरणमात्रतया व्युत्पाद नार्थानुवादत्वमेव वक्तव्यम् । न हि सामान्यनित्रेधावगमितसर्वाभावविशिष्टं वस्त्वेकम्, विशेषविषेविषयीकृतं धर्मि तु तदन्यदिति वस्तुभेद इज्यते । न च विशेषभावास्ततद्रूपेण ब्रह्मचिन्तनेऽनुसंधेयाः । तेषामानन्त्यादशक्योप संहारत्वात् । तदुक्तमक्षरध्यधिकरणकल्पतरौ । तत्र कतिपय विषयाणामेकीकारेण कतिपयनिषेधतः सर्वनिषेधकोडीकारे कल्पतरूत्तया क्रियमाणे तयैव रीत्या एकनिषेधेनैव सर्वक्रोडीकारोऽपि शक्य एव; इष्टश्च । स च सामान्यनिषेधः सर्वप्रपञ्चाभावरूपो मा भूदिति प्रतिपिपादयिपयैव विशेषवाक्यानि प्रवृत्तानि । तेन निर्गुणादिसामान्यनिषेवल स्वाक्यं हेयनिषेधरूपं पर्यवस्यति । सामान्यनिषेधवाक्यस्येदृशविशेषनिषेवपरत्वम्, ‘सनस्त हेयरहितं विष्ण्वाख्यं ९६८
परमं पदम्’ इति वचनेनापि ज्ञाष्यते । एवं समस्त हेयराहित्यार्थकत्वस्य स्पष्टत्वात् कतिपय हेय विशेषनिषेधमात्रे उपसंहारोऽपि न भवति । तस्मात् सामान्यविशेषन्यायोऽपि यथासंभवं ग्राह्यः । एवं सामान्यनिषेधानां विशेषनिषेवैकरस्यमदर्शि । सामान्यविधेर्विशेषविधैश्धकरस्थं तु निर्विवादम् । अत एव ‘आग्नेय चतुर्धा करोति, ‘पुरोडाश चतुर्धा करोति’ इति वाक्यद्वयमेकार्थकमित्यमी पोमीयपुरोडाशादेर्न चतुर्धा करणमित्युक्तम् । अतः सामान्यतो गुणवत्ताप्रतिपादकं वाक्यं ब्रह्मविषये स्थितं वाक्यान्तरावगतकल्याणगुणविषयं स्थास्यति । " गुणी सर्वविद्यः” इति हि भूमप्रशंसा नित्य योगातिशायनार्थेषु इनिप्रत्यय इति । तस्मादखिलहेयप्रत्यनीकं कल्याणगुणैकतानं ब्रह्मैव सर्वश्रुतिसमधिगम्यम् । सर्वविशेषराहित्यरूपनिविशेषत्वरूपेण ब्रह्मप्रतिपादकं तु किमपि न लक्ष्यते । किञ्च निर्गुणमिति श्रुतिर्जीववैलक्षण्यस्य परमात्मनि प्रतिपत्तये, “त्रिभिगुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहित नाभिजानाति मामेभ्यः परमव्ययम्” इत्यत्रेव श्रुतिस्मृति प्रसिद्धसत्त्वरजस्तमोगुणराहित्यपरा स्वरसा । यदि गुणसामान्याभाववदित्यर्थः, तदा गुणवत्त्वेन प्रमिते वस्तुनि गुणसामान्याभावानन्वयादन्यदेव तादृशमिति सगुणवस्तुमिध्यात्वं तावता न सेत्स्यति । ‘एकमेवासीत्’, ‘नेह नाने’ त्यादिना तदेकसत्यत्वावधारणादन्यमिथ्यात्वमवगम्यत इति चेत् तर्हि जीवब्रह्मैक्यादि न सिद्धयेत्, जीवनाश एव च मुक्तिः स्यात् । किञ्च गुणशब्देन कस्य ग्रहणम् ? तार्किकपरिभाषितगुणमात्रे गुणत्वस्वीकारे न किञ्चित् प्रमाणम् । सत्त्वरजस्तमसामपि ग्राह्यतया उपसर्जनसामान्यस्य गुणत्वौचित्यात् । अस्तु तथैवेति चेत् — निरवद्यत्वादीनामपि गुणतया तदभावे बोध्यमाने सावद्यत्वापत्तिः । न चोभयनिषेधसंभवः । भावाभावयोरेकतर परिशेषस्यैव प्रामाणिकहृदयङ्गमत्वात् । एवं गुणसामान्या भावस्याप्येवं गुणतया तद्वति तदभावः कथम् ? स तु धर्मिखरूप इति चेन्न निर्गुणश्रुतिसकोच-प्रसाधनम् ९६९ गुणसामान्यस्य, तथा कर्मसामान्यादीनामपि द्रव्यात्मकतायाः महद्दीर्घाधिकरणभाष्योक्ततया सर्वस्याप्युपसर्जनस्य धर्म्यतिरिक्तत्वाभावेन सर्वस्य ब्रह्मणि स्वीकारेऽपि धर्म्यतिरिक्तगुणाभाववत्त्वरूपार्थस्य सिद्धया निर्गुणमित्युक्तिमात्रेण नगदपलापप्रसत्तयभावात् । तथाच चिदचितामपि ब्रह्मप्रकारत्वस्यैव श्रीभाष्योततया सर्वस्यापि गुणत्वात् गुणगुणिनोरभेदकल्पनया धर्म्यतिरिक्तगुणाभावस्यैव भवद्भिरुच्यमानत्वात् सर्वस्य प्रकारतया सद्भाव एव स्थापितो भवेत् । एवञ्चैकत्ववादोऽपि धर्म्यनात्मकवस्त्वन्तराभावाभिप्राय इति नूनमद्वैतमिदं विशिष्टाद्वैतमेव । गुणाभावरूपनिगुणत्वमपि गुणत्वात् ब्रह्मणि नास्त्येवेति चेत् -तर्हि गुणाभावशून्यं ब्रह्मेत्येव व्यवह्नियताम् । गुणाभावात् सगुणमिति व्यवहारमनिच्छन् गुणाभावशून्ये निर्गुणमिति व्यवहारं परं कथङ्कारमूरीकरोति । प्रतियोग्यप्रसिद्धिश्च ; गुणाभाववतः कस्यचिदभावात् । सर्वस्य यत्किञ्चिद्गुणकत्वात् । अतो गुणाभावस्य ब्रह्मणि स्वीकारे सति तत्र तदभावायोग एव । गुणाभावाभावस्य गुणरूपत्वात् गुणस्य तत्रा निष्टतया गुणाभावाभावायोग एवेति । निरवद्यत्वरूपगुणसत्त्वे च गुणाभावासंभवः । निरवद्यत्वं धर्मिस्वरूपमित्यपि न युक्तम्, “अदृश्यत्वादिगुणको धर्मोक्तेः " इति गुणपदप्रयोगनैर्भर्येण भगवता बादरायणेन अभावानामपि स्वरूपतो वा भावरूपतया वा गुणत्वमेव स्वीकार्यम्, न तु धर्मिरूपत्वमित्याविष्करणात् । अत एव निर्गुणत्ववादो बादरायणाशयविरुद्धः । अत एव भावरूपगुणाभाववत्त्वं निर्गुणत्वमित्यपि निरस्यम् – अभावस्यापि भावे पर्यवसानस्यैवैष्टव्यत्वात् । भावरूपगुणाभाव इति विशेषपर्यवसानसंमतौ च प्रमाणान्तरप्रसिद्धकल्याणगुणव्यतिरिक्तगुणाभावपर्यवसानमार्जवेनेष्यताम् । एवञ्च कस्यापि मिथ्यात्वकल्पना दिक्लेशोऽपि न भविष्यति । ब्रह्मरुद्रसंवादगतं वाक्यमप्यत्र स्मर्तव्यम् । तत्र हि, “न स शक्यस्त्वया द्रष्टुं मयाऽन्यैरपि सत्तम । सगुणो निर्गुणो विश्वो ज्ञानदृश्यो झसौ स्मृतः” इति ब्रह्मरुद्रादिव्यतिरिक्तस्य परमात्मन एव सगुणत्वं निर्गुणत्व 122९७.
श्वोभयमुक्त्वा उभयदशायामपि विशुद्ध मनोग्राह्यत्वं चक्षुरादितो यथावदप्रायञ्चोक्तम् । न त्वदृश्यत्व निर्गुणत्वे, दृश्यत्वं सगुणत्व इति विभागः कृतः । अतः प्रकृतिनियमनायावतीर्णोऽनवतीर्णश्च विग्रहविशिष्टः तद्रहितश्चेति द्विरूप इति वा हेयगुणरहितः कल्याणगुणविशिष्टश्चेति वाऽर्थो ग्राह्यः । आत्मैक्ये च, न त्वं द्रष्टुं शक्यः, नाहं शक्य इत्यप्युच्येत । + किश्च ‘निर्गुण गुणभोक्त च’ इति गुगभोक्तत्वादिगुणविशिष्टतया वर्णयदेव वाक्यं निर्गुणमिति गुणसामान्याभावं कथं ब्रूयात् । गुणभोक्त इत्यत्र ये गुणाः सत्त्वरजस्तमोरूपाः ग्राह्याः, तेषामेव निर्गुणमित्यत्रापि गुणपदेन ग्रहणमैकरूप्यात् युक्तमिति सर्वगुणनिषेषधप्रसक्तिरपि नास्ति । " सत्त्वरजस्तमांसि गुणाः; तर्वर्जितम् " इत्येव निर्गुणमित्यत्र शाङ्करभाष्यमपि । अतः श्रुतिवचनमपि तत्समानार्थम् । ‘निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ’ इति मैत्रेयप्रश्नेऽपि यदि निर्गुणत्वं गुणसामान्याभाववत्त्वं सर्वमिथ्यात्वादिप्रयुक्त ब्रह्मणि प्रष्टृसंमतम्, तर्हि सर्गादिकर्तत्वस्यापि मिथ्यात्वात् तद्विषये कथन्ताया नावसरः । यदि च मिथ्यात्वानवगमात् कथमपि प्रश्नः तर्हि पराशरेण जगन्मिथ्यात्वं पुरस्कृत्य समाधेयम् । तद् विहाय, " शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः” इति विचित्रशक्तिमत्त्व रूपसगुणत्वस्वीकारेण समाधानं न संगम्स्यते । एवमेव, ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’ इति निरवयवस्य कार्यात्मना कारणात्मना चावस्थानं कथमित्यत्र यदि शाङ्करभाष्यारूढं समाधिं सुत्रकृदविवक्षिप्यत् – ‘श्रुतेस्तु शब्दमूलत्वात्’ इति न समाधास्यत् । किंतु जगद्ब्रह्मणोः कार्यकारणभावस्य कल्पनामात्रत्वादवास्तवत्वात् कार्यस्यैव कस्यचिदभावात् निरवयवं तत् स्वरूपत एव सर्वदाऽवतिष्ठत इति कार्यकारणभावसिद्धवत्कारेण पूर्वपक्षणमयुक्तमित्येवादर्शयिष्यत् । एवमुक्तौ च द्वितीयाध्यायप्रथमपादेस्य, अथवा अध्यायद्वये कृतानां चिन्तानामनवकाशविधानात् शास्त्रं लघूकृतं स्यात् । कार्यकारणभाव कृत्वा चिन्तेयमिति चेत्, सत्यमध्यायचतुष्टयमपि कृत्वाचिन्तैव । कृत्वाचि 1 निगुणश्रुतिसंकोच-प्रसाधनम् ९७१ न्तामध्ये च वास्तवाद्वैतार्थस्य तत्रतत्र भाष्यादिषु ग्रहणेन सूत्रव्याख्यानं तर्ह्ययुक्तं स्यादित्यलमधिकेन । हेयगुणमात्रनिषेधकत्वेन निश्चितानि निरञ्जनादिपदानि तु नाद्वैतसाधकानि । निष्कलत्वनिष्क्रियत्वे परमात्मस्वरूपे सुघटिते । अस्थूलत्वादिकमनवच्छिन्नपरिमाणे तत्र परिच्छिन्नत्वाभावादन्वितमेव । अवाय्वानाकाशमित्यादि च वाय्वाकाशादिधारके तस्मिन् देहादिषु भौतिकेषु वाय्वाकाशादेर्यादृशः संबन्धः तादृशसंबन्धाभावप्रयुक्तम् । अन्यथा वाय्वाकाशाद्यध्यासाधिष्ठानतया सर्वात्मना तत्संबन्धाभावो दुर्वचः स्यादिति क्वचिद् विशेषे पर्यवसानमावश्यकमेव । तत्र ‘एतस्य वा अक्षरस्य प्रशासने गार्गि’ इति प्रशासितृत्वादिवचनात्, ‘साच प्रशासनात्’ इति सूत्रकृता च तदभ्युपगमात् प्रशासितृत्वाद्याकारं विनाऽन्यादृशो जीवादिषु दृष्टसजातीयो वस्तुसंबन्धो न परमात्मनीष्यत इति प्रकरणैकरस्यम् । ; ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ इति वाक्यं तु प्रलयकालपरमिति निर्विवादम् । अन्यथा अग्र आसीदिति पदद्वयवैयर्थ्यात् । एवकारादिकं सृष्टिकालिकपदार्थानां स्थूलरूपाणां तदानीमभावमेव दर्शयेत् न तु अविद्यायाः जीवतत्कर्मादीनामप्यभावम् । तथा सति अविशेषात् सृष्टेरेवानवकाशात् । अद्वितीयपदं निमित्तभूतस्रष्ट्रन्तराभावपरमिति शाङ्करोपनिषद्भाष्यतोऽपि सिद्धम् । परेष्वेकदेशिभिस्तु स्वगतभेद सजातीय भेद-विजातीयमेदानां निषेधः ‘ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् इति एकम् एव, अद्वितीयमिति पदैः क्रियते इति एकपदेन खगतभेदनिषेध उक्तः । तावता निरवयबत्वमेव सिद्धयेत् । गुणरूपस्वगत भेदराहित्यपरत्वेऽपि समनन्तरभावि यत् तदैक्षतेति श्रुतं सृष्टय संकल्परूपमीक्षणम्, तादृश विशेषरहितमेवासीत्, पश्चादेव संकल्पोऽप्यभवदित्येतावदेव गमयितुमर्हति । एवंस्थिते मुत्तयवस्थारीतिमेतद्वाक्यार्थतया प्रदर्या द्वैतिभिः क्रियमाणो जगदपलापोऽर्थप्रकरणपरामर्शिभिः कथं समन्तुमर्हः स्यात् । ९७२
द्वैत निषेध श्रुतीनामर्थः परमार्थप्रकाशिकायामुपनिषद्भाष्यपरिष्कारे चास्माभिरपि सुव्यक्तमुपपादितः । अतस्तदन्यथानुपपत्त्या निर्गुणत्वं नाक्षेप्यम् । समानाधिकरणवाक्यस्याखण्डार्थत्वं तु पृथग् दूषितमेव । तत्र शाब्दबोधे प्रवृत्तिनिमित्तत्यागेऽपि सोयंदेवदत्त इति वाक्यप्रतिपन्नदेवदत्तादाविव वस्तुतो नानाधर्मसंभवान्न तदन्यथानुपपत्त्या शक्यं निर्विशेषत्वकल्पनम् । अथ त्वेतावद् वक्तव्यम् जगत्कारणं ब्रह्म तावदात्मेत्यविगीतम् । आत्मनि च संभावितो गुणो ज्ञानमानन्दश्य, अन्यस्तु दुःखादिर्हेयगुणो दोषो वा न ब्रह्मणो भवितुमर्हति । तावपि ज्ञानानन्दौ न भवतः; स्वयं तस्य ज्ञानानन्दस्वरूपत्वात् ज्ञाने ज्ञानस्यानन्दे आनन्दस्य चायोगादिति अत्र यद् वक्तव्यम्, तत् सर्व विशदमेवोदितं शतदूषण्याम् । ज्ञानानन्दवत्, ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इत्युक्तशक्तिरूपविशेषः वस्त्वन्तरसंयोगादिरूपः साधारणधर्मश्च संभवतीति न निर्विशेषत्वप्रसक्तिरस्ति । जगन्मिथ्यात्वस्य निराकरिष्यमाणत्वाच्च न निर्विशेषत्वसंभवः । न च ज्ञानानन्दादिगुणवत्तया प्रतीतं नापलष्यते, तत्प्रतिपादकश्रुतीनां सविशेषावर ब्रह्मविषयत्वात् । अन्यत्तु सर्वविशेषवैदेशिकमिष्यत इति वाच्यम् —— निर्विशेषप्रतिपादकत्वाभिमतस्य सर्वस्यापि वाक्यस्य सविशेषपरपूर्वा परवाक्य संदृन्धतया वाक्यभेदे प्रमाणाभावात् । अन्यथा, ‘पौर्वापर्या परामृष्टः शब्दोऽन्यां कुरुते महिम्’ इत्येतल्लक्ष्यत्व । तथाच, असद्वा इदमग्र आसीदिति श्रुतिः शून्यवादस्य स्थापिका स्यात् । तदिदं प्रतिनिर्विशेषवाक्यं परामर्शनीयम् । , यत् पुनः शतभूषण्यां शाबरभाष्यमनूद्य गुणभूतसुखा द्विव्यतिरिक्तस्य धर्मिभूतस्यात्मनोऽसद्भावः शबरखामिसंमत इति प्रदर्शनम् ईदृशं व्यामोहं विप्रलम्भनं वा संचिन्त्य चित्रीयामहे । कदाचिदिदं पूर्वपक्षभाव्यमिति कोऽपि मा शक्ङ्किष्टेति मायाजालप्रस्तारिणा, “अत्रेदं शावर भाष्यमात्मवादान्ते” इत्युपक्रमः कृतः । शाबरभाष्यं खलु व्याख्योपव्याख्यादिना लब्धभूयः प्रचारं बहुप्रकारमुद्रितं बहुश्रुत पठ्यमानं प्रसिद्धं मीमांसकानां सर्वेषाम् । तत्रात्म निर्गुणश्रुति कथनम् ९७३ वादारम्भे स्थितं पूर्वपक्षभाष्यमनूद्य पूर्वपक्षस्य बौद्धादिकृतस्य स्वपक्षाविशेषमाकलय्य स्वपक्षत्वादेवाय सिद्धान्तपक्षः शबरखामिन इति च परिकलय्य, तद्वाक्यमध्यनिविष्टं ‘वक्ष्यामः’ इति पदञ्च शारीरके वक्ष्यमाणत्वाभिप्रायमित्यपि मत्वेव अमीमांसकव्यामोहनायातिसाहसमकारि शतभूषणीकारेण । तत्त्वं तु ’ स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति’ इति श्रुतिमुपादाय (१-१-५ सू.) यज्ञायुघरूपयज्ञपात्रश्लिष्टस्य शरीरस्य खर्गगमनं कथमुच्यत इति कृत्वा, ‘यज्ञायुधीतिपदं न शरीरमात्रवाचि ; किं तु यस्य तत् शरीरम्, सोऽपि तैर्यज्ञायुधैर्यज्ञायुधीत्युच्यते इति शरीरप्रति संबन्ध्यात्मपरमिति समाहितम् । अत्र शरीररूपेणाध्यासाघिष्ठानमात्मेत्यनुक्त्वा, यस्य तच्छरीरमिति स्वस्वामिभाव संबन्धवर्णनात् ब्राह्मणादिशब्दः ब्राह्मणशरीराध्यासाधिष्ठानपर इत्यद्वैतिपक्षः प्रतिक्षिप्तः । अथ शरीरातिरिक्त आत्मा मा भूदिति पूर्वः पक्षः । प्राणनादिव्यापाराश्रयः शरीरातिरिक्त इति समाधिः । न केवलमेतावत्सुखाद्याश्रयतया चात्मा स्वीकर्तव्यः । न च सुखादिकं शरीरनिष्ठम् ; शरीरनिष्ठगुणवैलक्षण्यात् । रूपादिः शरीरगुणः स्वेनेव परेणापि गृह्यते; नैवं स्वसुखादीति अतिरिक्तात्ससाधनं कृतम् । तदुपरि पूर्वः पक्षःअस्तु सुखादिकं शरीरावृत्ति । अथापि तस्याश्रयो न कल्पनीयः । सर्वस्य साश्रयत्वेऽनवस्थाप्रसङ्गात् । अतः सुखं विज्ञानमित्यादि निराश्रयमिति । अयमेव पूर्वपक्षभागः शतभूषण्यां शाबर सिद्धान्तत्वेनावभासितः । एतदुपरि कोटयश्चैवं शाबरे जानातीति धर्मधर्मिभावेन प्रतीत्या विज्ञानादेराश्रयः कश्चित् स्वीकर्तव्य इति समाधानम् । अथ पूर्वः पक्षःशब्दः खलु व्यवह्रियमाणो वक्तृगृहीतार्थप्रतिपादकः । वक्ता तु न कश्चिदतिरिक्ततया आत्मानं प्रत्यक्षितवानस्ति । तस्मात् तस्य शब्दो न प्रमाणम् । अथ सिद्धान्ती ज्ञातवतो लोके इच्छा भवति । अन्येन ज्ञातमन्यो नेच्छति । अतो ज्ञानेच्छोभयाश्रयभूत ज्ञानदिनादारभ्येच्छा दिनपर्यन्तस्थायि वस्तु स्वीकर्तव्यम्; स आत्मेति । पुनः पूर्वः पक्षः चेत्रेण दृष्टे मैत्रो नेच्छतीति सत्यम् । तन्ननं ज्ञानादिसंतानस्क ९७४ न्धभेदात् । एकस्कन्धनिवेशित्वे
इच्छा स्मृतिरित्याद्युपपद्यत इति । अहमित्यात्मग्रहणं भवति । न पुनः प्रतिक्षणं ज्ञानादिभेदेऽपि संतत्यैक्यात् अथ समाधिःअथ समाधिःपूर्वेद्युरहमिदमदर्श मिति संतानक्रमेण वस्त्वनुभवस्थल इव मत्पूर्वपुरुषीयमिदमिति मन्यते । अतोऽहमिति व्यक्तिरेकैव पूर्वापरकालस्थायिनी । अहंशब्दस्य वक्तव्यक्तिपरत्वस्वाभाव्यात् । औपचारिकश्चेदहं शब्दप्रयोगः अहमेवेत्यवधारणं न स्यादिति । एवं ज्ञानसुखाद्याश्रयमात्मानं स्थापयित्वा परोक्तश्रुतेरर्थान्तरमुपवर्ण्य स्वपक्षस्थापकश्रुतिमपि प्रदर्श्य तदुपरि तर्हि स आत्माऽयमिति प्रदर्श्यतामित्याशङ्क्य —तम्यतम्यात्मनस्तत्तन्मात्रग्राह्यत्वात् अन्यं प्रति प्रदर्शनं दुष्करम्, अन्धस्य रूपादिप्रदर्शनवदिति परिहृतम् । तेन ज्ञानसुखाद्याश्रयात्मसाधनवत् आत्मनां भेदसाधनमपि कृतमित्यद्वैतविरोध एव । अथ, ‘अग्राह्यो न हि गृह्यत’ इति श्रुतिमुपादाय एकैकोप्यात्मा अन्येन न गृह्यत इत्यर्थवर्णनात् आत्मनः सर्वथैवाग्राह्यत्ववादोऽद्वैतिनामपास्तः । अथ च, ‘नेतिनेति’ इति वाक्यं गृहीत्वा निर्विशेषवादस्यापि निरासायार्थान्तरं वर्णितम् । स्वात्मनः परेणानुपलभ्यमानत्वात्, यत् त्वयोपलभ्यते शरीरम्, यत् त्वया लिंगैः कल्ष्यते सुखादि, तदपि नात्मा, तदपि नात्मा; किं तु यथा त्वं त्वदीयशरीरसुखादिविलक्षणः, तथा परात्मापि तत्तद्विन इति श्रुत्यर्थ इति । एवं सुखाद्यतिरिक्तस्य तदाश्रयस्यात्मनः तन्नानात्वस्य च स्थापकमद्वैतश्रुतीनां समञ्जसार्थवर्णनेनाद्वैत निषेधकञ्च शाबरभाष्यं समनन्तरं जाग्रदयं शतभूषणीकारो निगूह्य पूर्वपक्षग्रन्थेन स्वपक्षं पोषयितुं प्रायतिष्ठेति सर्वे विदाङ्कुर्वन्तु ॥ अदृश्यत्वमुख्या हि शारीर कोक्ताः गुणाः, निर्गुणोक्तिः कथं तान् निषेधेत् । अतस्तुल्ययुक्त्तयाऽस्तु कल्याणभिन्नो गुणोऽन्यत्र दृष्टः परस्मिन् निषेध्यः ॥ शुभमस्तु श्रीः