५० अधिकारि-भङ्ग-प्रसाधनम्

बुभुक्षयैश्वर्यफलेषु कर्मस्वभीक्ष्णसक्ताः क्रमशो विरज्य । मुमुक्षया यच्चरणं प्रपन्नास्तरन्ति सुख्यन्ति स मे रसोऽस्तु ॥ साधनचतुष्टयाश्रयो ब्रह्ममीमांसायामधिक्रियते इति वदन्ति । कोऽसौ, कथं तस्य मुमुक्षाश्रयत्वमिति प्रकृतवादे विचार्यते । तत्र विकल्पितेषु कल्पेषु. कञ्चन कल्पमाहत्य तत्र मुमुक्षाश्रयत्वमुपपादनीयम् । तत् विहाय ‘कथयन्तु’ इत्युक्तमेव सत्यापयति कथाविस्तरेण शतभूषणी । अहङ्कारान्तहृदयग्रन्थिनिवृत्तिर्मोक्ष इति प्रथममाशेते । अथ मायावस्थाविशेषरूपोपाधिनिवृत्तिरिति । अन्ते तु मोक्षप्रतिबन्ध काज्ञाननिवृत्तीच्छा मुमुक्षेति वदन्ती अज्ञाननिवृत्तिर्मोक्ष इति मन्यते । तत्र मोक्षप्रतिबन्धकेति विशेषणमनन्वितम् । स्वनिवृत्तौ स्वस्य प्रतिबन्धकत्वेन व्यवहाराभावात् । प्रतियोगिविधया कारणत्वं तु स्यात् । अस्त्वेतत् । बद्धस्य मुक्तिः । बन्धश्चोपाधिब्रह्मोभयघटनेनोपपादनीयः । उपाधिचैतन्योभयातिरिक्तं वा मिथ्यातथ्यो भयातिरिक्तं वा न किञ्चिदिति द्वयोर्मध्ये कस्य मुमुक्षाश्रयत्वमित्येव प्रश्नः । तत्रोपाधेर्नश्यत्तया मोक्षाश्रयत्वमसंभवि । अतः स न स्वं मुमुक्षति । चैतन्य तु निर्धर्मकत्वात् न मुमुक्षाश्रयः । उपहितचैतन्यं गृह्यतामिति चेत् — तदपि उपाधिचैतन्यो भयातिरिक्तं न भवति । तत्रापि चैतन्या भेदे धर्माश्रयत्वमेव न, तद्भेदे तु मिथ्यात्वात्रिवर्तनीयतया मोक्षेऽभावात् न मोक्षाश्रयत्वमिति न मुमुक्षा । पक्षद्वयं परिगृह्य समाधित्सति शतभूषणी, ‘उपहितरूपं स्वरूपेण सत्यमित्यङ्गीकृत्या मेदोपदेश उपपादितः ; साम्प्रतं तु अहमर्थस्यानात्मत्वकल्पमाश्रित्य मुमुक्षोपपाद्यते" इति । प्रथमपक्षे अहङ्कारावच्छिन्नचैतन्यमहमर्थो जीवः ; तस्य मुमुक्षा । द्वितीये अहङ्कार एवाहमर्थों जीवः तस्य मुमुक्षा । द्वितीयपक्षे च तत्त्वमसीतिबाधार्थ सामानाधिकरण्यम् । तत्पक्षे मोक्षः जीवस्य 116 ९१२

नाश एवेति नाशेच्छैव मुमुक्षेत्यापतति । प्रथमपक्षे तु मोक्षे खरूपमात्रमवति ष्ठते, अथापि यादृशस्य मुमुक्षाश्रयत्वम् तादृशं तु नास्त्येव । न च ब्राह्मणत्वादिविशिष्टः स्वर्गेच्छया प्रवर्तते, फलभाक् तु तदुपलक्षित आत्मैवेति संप्रतिपन्नम् । तद्वत् उपध्युपहिते मुमुक्षा, तदुपलक्षितस्वरूपे च फलमिति न दोष इति वाच्यम् — वैषम्यात् । तत्र हि फलेच्छा आत्मन्येव फलमपि तत्रैव । इह तु मुमुक्षारूपेच्छा उपहितान्तर्गतविशेष्यांशे न भवति, तस्य निर्विशेषत्वात् । ‘कामः संकरूपो विचिकित्सा -एतत्सर्वं मन एवे ‘ति मनसोऽन्तःकरणस्यैवेच्छाश्रयत्वसंभवात् तस्य च मोक्षे नाशात् स्वगतमोक्षविषयकेच्छा रूपमुमुक्षाया दुर्वचत्वात् । न चान्यगतमोक्षविषयकेच्छा मुमुक्षा भवति । तथा सम्प्रत्ययायोगात् । धातोः कर्मणः समानकर्तृकादिति सूत्रात् । न चान्तःकरण-: तादात्म्याध्यासात् मुमुक्षुत्वाभिमान इति वाच्यम् -तर्हि मुमुक्षुत्वाभिमानेऽपि मुमुक्षुत्वाभाव एवेति नाधिकारलक्षणमस्ति । अध्यासो वाऽभिमानो वाड्यं किंनिष्ठः । न चैतन्ये तत्संभवः । अन्तःकरणनिष्ठ इति चेत्–तर्हि अमुमुक्षु चैतन्यं मुमुक्षुत्वेनाभिमन्यतेऽन्तः करणेनैवेत्युक्तं भवतीति । अथ —— नैवम् ; मोक्षो नाम उपहितखरूपनिष्ठा उपाधिनिवृत्तिः । तादृशमोक्षाश्रयत्वं चैतन्येऽस्त्येव । अन्तःकरण चैतन्यतादात्म्याध्या सवशात् मोक्षं स्वनिष्ठतयाऽध्यस्य मुमुक्षते । अनया मुमुक्षया मीमांसायां निष्पन्नं ज्ञानं चैतन्यस्य मोक्षाय कल्पत इतिः चेत्-एतावता मोक्षाभाववत एवान्तःकरणस्य स्वस्मिन् मोक्षाश्रयत्वभ्रमाधीना मुमुक्षेत्युक्तं भवति । तथाच नेयं यथार्था मुमुक्षा । यो बुभुक्षया कर्मसु चिरं प्रवृत्तः तस्येहामुत्रफलभोगविरागपूर्विका स्वस्य मुक्तत्याश्रयत्व संभवप्रमाघीना मुमुक्षैव हि लोके तान्त्रिकैरधिकारिविशेषणत्वेनावधृता । सा तावन्नास्तीति । भवन्त्यपीयं भ्रममूला मुमुक्षा प्रथमाधिकरणोक्तरीत्या सर्वस्याध्यासमूलकत्वावधारणे सति न स्थास्यति । अन्तःकरण विनङ्क्ष्यति, चैतन्यमात्रमवस्थास्यते, प्रवृत्तिरियं स्वविनाशाय चैतन्यस्य मुक्तये चैव भविष्यतीत्यस्यान्तः करणेन परिशीलनसंभवात् ततः प्रभृति अन्तःकरणस्य न मुमुक्षा । एवं विवे. * अधिकारि प्रसाधनम् ९१३ कहितकारिपरिचयात् प्रवर्तमानानां प्रथमतोऽपि खनाशेच्छेव मीमांसाया प्रवर्तिका स्यात् । तथाच नाशश्चतुर्थपुरुषार्थ इत्येव प्रसिद्धधा भाव्यम् । तदिच्छाया एवाधिकारिविशेषणत्वमभिधानीयम् । तथाच निरस्ताखिलदुः खोse भवेयमिति मोक्षकामनयैव प्रवृत्तेरानुभविकत्वात् नाशकामनया प्रवृत्तेरनुभवपराहतत्वादयुक्तमिदमिति श्रीभाष्याद्युक्तं सुस्थम् । ‘स्वरूपस्य दुःखहेतुत्वे स्वविनाशार्थं प्रवृत्तिरपि दृश्यते’ इति यदुच्यते, तत्रेदमवधेयम् । देहात्मभ्रान्तिमत उद्बन्धनादौ प्रवृत्तिरप्यत्र शतदूषण्यां दर्शितैव । प्रकृतं त्वेतावत्-चतुर्थपुरुषार्थमर्थयमानाः अहं मुक्तो भवेयमिति प्रवर्तन्ते वा नष्टो भवेयमिति या । बन्धान्मुक्तिरेव हि श्रुत्याप्युच्यते, ‘विमुक्तश्च विमुच्यते’, ‘निचाय्य तं मुत्युमुखात् प्रमुच्यते’ इत्येवम् । सूत्रे च, ‘मुक्तोपसृप्यव्यपदेशाच्च’, ‘एवं मुक्तिफलानियमः’, ‘मुक्तः प्रतिज्ञानात्’ इत्येवम् । अतो बुभुक्षुत्व भोक्तृत्वं मुमुक्षुत्वं मुक्तत्वञ्चैकनिष्ठमिति प्रसिद्धम् । तदुपपादनीयम् । इदमद्वैतिमते न सभवतीति लोकवेदसंप्रदायविरोधप्रदर्शनं हि श्रीभाष्ये क्रियते । न तु लोके स्वनाशार्थप्रवृत्तिर्नास्तीति । उपरि च मयि नष्टेऽपि मत्तोऽन्या काचित् ज्ञप्तिरवस्थिता’ इत्यनेन चैतन्यस्थित्यर्थप्रवृत्तिरपि न भवतीत्युक्तम् ; इंदानीमपि चैतन्यस्य स्थितत्वात् । मुक्ततया तत्स्थित्यर्थमिति चेत् — बद्धस्य किल मुक्तिः । चैतन्यस्य को बन्धः । दुःखाद्याश्रयत्वस्य तत्राभावात् । अन्तःकरणतादात्म्याध्यासो वा अन्तःकरणतादात्म्यमेव वा कल्पितं बन्ध इति चेत्, अन्तःकरण चैतन्यं तत्तादात्म्यमिति त्रयस्य अहं सुखीत्यादौ केनाप्यननुभूयमानत्वात् । अहमित्यहं त्वतदाश्रययोरेवानुभवात् । अननुभूयमाने च कल्पितत्वस्यापि वक्तुमशक्यत्वात् । तादात्म्यमपि हि तावदनिर्वचनीयमैव । अनिर्वचनीयस्य च सत्येन साकं कश्चित् संबन्धो दुर्वच इति भामत्यामप्युक्तम् । तथा चाध्यास एव वाच्यः । स चान्तःकरणगतः न चैतन्य इति कथं चैतन्यस्य बद्धत्वम् । अतो न तस्य मुक्तत्वमपि । ननु अध्यासाश्रयत्वाभावेऽपि अध्यासविषयत्वमस्ति । स एव बन्धः । न । तस्य किश्चिदनिष्टपर्यवसानाभावात् ।

न हि चैत्रेण मैत्रस्य दुःखित्वेन गृहीतत्वं मैत्रस्यानर्थः । अकल्पने च तदभावात् हेयत्वाभावाच्च तन्निवृत्तिर्नापेक्षणीया । अपेक्षितत्वेऽपि तन्निवृत्तीच्छा किंनिष्ठा ? न चैतन्ये, किंत्वन्तः करणे । चैतन्यगतो यो निवृत्तिरूपो मोक्षः, तदिच्छा चेदन्तःकरणनिष्ठा, सा तर्हि न मुमुक्षा । मोक्षस्य चेच्छायाश्चैकनिष्ठत्वाभावात् । तस्मान्मुमुक्षा दुर्वचैवाहं शब्दस्योपहितखरूप परत्वेऽपि । अन्तःकरणमेवाहमर्थ इति नैष्कर्म्यसिद्धिपक्षे तु अहं मुक्तः स्यामिति सर्वजनीन प्रवृत्त्युपपादनमशक्यमेवेति सुस्पष्टम् । तथाच चैतन्यमिति किञ्चित् अध्यासविषयत्वं विना कदाचिदवतिष्ठतां वा, मा वा । किं तच्छोधनेन । तस्याः मुमुक्षात्वाभावात् । अतः स्वनाशकामनैव प्रवर्तिका वाच्या । साऽपि न मुमुक्षेति सर्वतीर्थकर समतमुमुक्षाप्रकारः सर्वथैवाद्वैतिभिर्दुरुपपादः । एतदनुपपादनेन बिस्तरः कथामात्रम् । प्रतिबिम्बो जीवः । उपाधेः प्रतिबिम्बपक्षपातित्वाद् बद्धत्वं तस्यैवेति बन्धनिवृत्तये जीवस्येच्छेति यदुक्तम्-तत्र पृच्छयते बिम्बप्रतिबिम्बयोः किं भेद इष्यते, उत बिम्बमेव प्रतिबिम्बत्वविशिष्टं भवति, दर्पणे मम मुखमि त्यनुभवादित्युच्यते । आये, प्रतिबिम्बं तत्त्वज्ञाने सति नङ्क्ष्यतीति नाशेच्छेव मुमुक्षा स्यात् । अन्त्ये, उपाधेः प्रतिबिम्बपक्षपातित्वात् बिम्बे दोषो नास्तीति कथम् । जलादिप्रतिबिम्बिते सूर्ये बिम्बे वक्रत्वमलिनत्वादि न लक्ष्यत इति चेत् तर्हि प्रतिविम्बं सूर्यश्च भिन्ने इत्यास्थीयताम् । जलादि -प्रतिहतचाक्षुष रश्मिवशात् सूर्य एव तथा गृह्यत इति सूर्यापेक्षया कः प्रतिबिम्बो नामेति चेत् तर्हि उपाधेः प्रतिबिम्बपक्षपातित्वादिति किमुच्यते । उपाधावेव वकत्वादिकम्, यस्योपाधिः, तस्य तु न किञ्चिदित्येवोक्तं भवति । एवञ्च प्रकृते चैतन्ये बद्धत्वादिकं न ; किंतूपाधाविति, तन्निवृत्त्यपेक्षा नामोपाधिना शापेक्षैवेति । एवं स्थिते, यथा परमात्मप्रेरितः तच्छरीरभूतो जीवः स्वमोक्षार्थ प्रयतते श्रीभाष्यमते, तथा प्रतिबिम्बं प्रवर्ततामद्वैतिमत इत्युक्तिरसंगता, अधिकारिभजप्रसाधन in प्रतिबिम्बे प्रवृत्तिशत्तयभावात् ; मोक्षकाले तन्नाशेन मुमुक्षाया अपि दुर्वचत्वाच्च । प्रतिबिम्बत्व विशिष्टचैतन्यमपि चैतन्यमेवेति न तस्येच्छादिविकारवत्त्वम् । विकारवत्त्वस्वीकारे च स मुक्तौ नश्यत्येव, अतिरिक्तत्वात् । चैतन्यस्य मुक्त्तयुपपादने च नायं प्रतिबिम्बबन्धमोक्षपक्षः स्यात् । तत्र च पक्षे प्रागेवोक्तो दोषः । कूटस्थचैतन्यकल्पित आभासरूपो विनश्यन् बाधि-तोऽहमर्थोऽधिकारीति भवदुक्तनैष्कर्म्यसिद्धयनुरोधिपक्षे चाधिकारिनाश एवान्ते इति कथं तदिच्छा मुमुक्षा स्यात् । ‘श्रीमाध्यमते सशरीरस्यात्मनः परमात्मशरीरत्वात् आत्मस्वरूपनाश एव मुक्तौ’ इति निमीलितनेत्रेणोच्यमानमन्ध एव श्रद्दध्यात् । प्राकृतेनाप्राकृतेन च शरीरेण सशरीरो वा अशरीरो बा आत्मा सर्वदा परमात्मशरीरमेव ; तावता कथं तन्नाशः ; तस्य नित्यत्वात् । ‘न जायते म्रियते वा विपश्चित्’ इति शरीरनाशेपि तदनाशः प्रसिद्धः । ‘रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’ इति श्रुतिरपरिच्छिन्नानन्दविशि ष्टतया आनन्दखरूपतया च आनन्दमयशब्दवाच्यपरमात्मप्राप्त्या तत्तुल्यानन्दभाक्त्वं मुक्तस्य स्थितमुपदिशतीति स्पष्टम्, “अस्मिन्नस्य च तद्योगं शास्ति” इति सूत्रेऽपि । सेयं श्रुतिरानन्दांशावरण निवृत्त्याऽवस्थानमेव नवीतीति शतभूषणी मन्यते । कोऽयमानन्दो नामेति प्रश्ने तु दुःखरूपत्वाभावमा तमित्येव वक्ष्यति । एवं श्रुतिकदर्थनमानन्दत्व-भङ्गवादे पृथगेव व्यक्तीकरिव्यते । अविद्या निवृत्तित्वोपलक्षितचिन्मात्रतैव मुक्तिरिति कथम्, आनन्दावातेरप्यवगमादित्यत्र तदपलापार्थमेवं शतभूषणी प्रवृत्ता । अविद्यानिवृत्तित्वोपलक्षितचिन्मात्रतारूपमुक्तौ तत्त्वज्ञानसाध्यांशः कः । चिन्मात्रत्वं ज्ञानानाश्रयत्वे सति जडत्वाभावः । तत्तु प्रागेव स्थितम् । अविद्यानिवृत्तिः साध्येति वक्तव्यम् । निवृत्तित्वोपलक्षितेत्यनेन निवृत्तिरपि चिन्मात्रानतिरिक्तेत्याविष्करणात् असाध्यत्वमेव सिद्धम्, सिद्धत्वात् । एवमात्यन्तिकदुःखनिवृत्तिस्वोपलक्षितचिन्मात्रता मुक्तिरिति पक्षेऽप्यनुपपत्तिर्भाव्या । “मुक्तौ स्थूलशरीरनियन्तृत्वाभावः, सूक्ष्मशरीरताप्राप्त्यर्थ प्रयत्नः” इत्येवमपार्थानां श्रीभा ९२६

व्यमते कल्पनेनोच्चावचवचनाभिनिवेशो न विवेकिहृधः । कर्मशरीरयोर्बीजाहुरन्यायदूषकशाङ्करभाष्यञ्च प्रागेव द्विः परीक्षितम् । ** 1 ‘चण्डमारुतोक्तं ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायं प्रकृते अप्रवर्तमान कण्ठचामीकरन्यायमेव तु प्रवर्तमानं मन्यते शतभूषणी । सोऽपि न्यायः चामीकरस्य कण्ठस्थताज्ञानात् असंबन्धित्वभ्रमनिवृत्तिर्यथा, तथात्र स्थितमंशं प्रदर्श्यावतारणीयः । तत्रासंबन्धित्वभ्रमाधीनचामीकरलिप्साप्रयुक्तप्रवृत्तिकः पुरुषः कण्ठस्थता ज्ञापनेन निवृत्तभ्रमः प्रवृत्तिं जहाति । तद्वत् ब्रह्मभावाभावभ्रमाधीनतल्लिप्सापूर्वक प्रवृत्ति ब्रह्मभावस्य स्वत एव स्थितत्वज्ञानेन जहातीति वाच्यम् । एवञ्च श्रवणमात्रं पर्याप्तमिति मननादि व्यर्थमपि । श्रवणेन ज्ञानाभावरूपाज्ञाननिवृत्तावपि अनिर्वचनीयमज्ञानमपरोक्षज्ञानादेव निवर्तते, तदनिवृत्ति यावत् पुंसः संसारबन्धो न निवर्तत इति चेत्-अपरोक्षज्ञाने जातेऽपि बन्धो न निवर्तत इत्येवानुभवः । प्रारब्धनिवृत्त्यनन्तरं निवत्स्र्त्स्यतीति चेत्-निवृत्तेरभावित्वात् प्रारब्धावसानस्याप्यभाव एव । केवलमियं मुक्तिः स्वाभिमतमुक्तिभावित्वविषयका विस्त्रम्भपरिहारार्थकल्पनैव । तत्त्वज्ञाने सति मिथ्याभूतांश निवृत्तये कालप्रतीक्षायाः कुत्राप्यदर्शनात् । अज्ञानं मा निवर्तिष्ट । तत्त्वज्ञानं तु जातम् । ब्रह्मभावो मोक्ष इदानीमप्यस्तीति च ज्ञातम् । सांसारिकं सर्वं मिथ्येति च विदितम् । अतो मनने प्रवृत्तिरनपेक्षिता । एवं कण्ठचामीकरस्थलेऽपि चामीकरलिप्सोः चामीकरप्राप्तत्वज्ञानवतः चामीकरप्राप्तिमतश्चैक्यमपेक्षितमेव । तथेह ब्रह्मभावलिप्सा ब्रह्मभावसिद्धत्वज्ञानयोः ब्रह्मभावस्य च सामानाधिकरण्यं वक्तव्यम् । तलु म म; लिप्सादेरन्तःकरणगतत्वात् ब्रह्मभावस्य च चैतन्यनिष्ठत्वात् । सर्वथा मोक्षभाक् यो भविष्यति, तस्मिन् मुमुक्षा दुर्वचेत्येव सिद्धम् । सर्वानिष्ट निवृत्तिपूर्वक महानन्दानुभूत्याशया ‘सर्व क्षुद्रमुपेक्ष्य यान्ति शरणं ब्रह्मेति तत्त्वस्थितिः । इष्टप्राप्तिविचार वर्जमितरैरुक्ता मुमुक्षा तु या साऽप्यद्वैतिमताऽपि तैर्न सुवचा; न ब्रह्मचिन्ता ततः ॥ शुभमस्तु श्रीः