४९ ऐक्यार्थापत्ति-भङ्ग-प्रसाधनम्

गुणित इव गुणानां चेतनादेवनानां बहुमुखमवाप्तो भेट आहत्य यस्मात् । तमहमखिलप्रत्यनीकं मुकुन्दे निरवधिगुणवार्थि माधवं नाथमीडे ॥ जीवेश्वरैक्य-भङ्गः प्रसार्पितः । अत ऐक्योपदेशस्यैवासिद्धया तदन्यथानुपपत्त्या किमस्ति कल्पनीयम् । यत् ब्रह्मात्मैक्यान्यथानुपपत्त्या भेदस्या पारमार्थि कत्वं तन्मूलञ्चाज्ञानं नीचे मन्यन्ते तेन कीदृशैव समर्थितं भवति ; उपदिष्टनैक्यं तदकल्पनेऽपि सिद्धयति न वेति संप्रति चिन्त्यते । ऐक्योपदेशस्तावत्, ‘तत् त्वमसि’, ‘अयमात्मा ब्रह्मे’ त्ये रूप इह विवक्षितः । प्रत्य ;९१० परमाश्रभूषण क्षानुमानागमा वगमितस्य भेदस्य एतद्वाक्यप्रतिपादितस्या भेदस्य चोभयोविरोधादेकस्मिन् त्यक्तव्ये भेदस्यायथार्थत्वसंभवाद भेदः पारमार्थिक इत्युच्यते । ‘तत् त्वमसी’ति वाक्ये तच्छन्दस्य प्रकृतपरागर्शित्वात् जगत्कारणत्व सर्वशक्तित्वादिविशिष्टब्रह्मवाचित्वम्, त्वं शब्दस्याल्पज्ञत्वाभिमुखत्वविशिष्टजीव परत्वञ्च संप्रतिपन्नम् । विजिष्टयोश्चैक्यं न संभवतीत्यद्वैतन एव प्रतिपन्नाः । अत्र तु विशिष्टक्यमेवोच्यते । त्वमित्युक्ते विशिष्टात्मनि बृहत्त्ववृणत्वविशिष्ठैक्यञ्च यथाश्रुतमेव श्रुतिबलादिष्टा यदि भेदस्यापारमार्थ्यं साध्येत तदा तत्त्वमस्यर्थो रक्षितो भवेत् । विशिष्टयोरभेदस्य सत्यत्वे चैतद्वाक्यप्रतिपन्नानां विशेषणानामपि, सत्यत्वमेष्टव्यम् । अन्यथा निष्क्तिं बाधितमेव भवेत् । एवं विशेषणसत्यत्वे च जगत्सत्यत्वमेव स्वीकृतं भवतीति मिथ्याभूताज्ञानकल्पनं कथं स्यात् । किञ्चैक्यं संख्या प्रकृत्यर्थोपसर्जनम् । प्रकृत्यर्यश्च विशिष्टः प्रधानम् । एवं प्रकृत्यर्थः पूर्वगृहीतः; विभत्तत्यर्थश्चैक्यं पश्चादवगम्यमानम् । असंजातविरोधित्वात् प्रकृत्यर्थज्ञानं प्रबलम् । अपौरुषेयवेदपर्यन्तसर्वप्रमाणावगतो मेदः । अभेदश्चाल्पप्रमाणप्रतीतः । अपिच प्रकृत्यर्थस्य श्रुतस्य सर्वस्य प्रत्ययार्थस्याभेदस्य श्रुतस्य च मध्ये कस्यापि यथा बाधो न स्यात् तथाऽर्थवर्णने संभवति एकतरबाधोऽप्ययुक्तः । प्रमाणान्तरावगतो भेदोपि चेन्न बाध्यते, तर्हि सुतरां स एवार्थः स्वीकार्यः । एवञ्च तत् त्वमसीत्यस्य तज्जन्यस्त्वमसीत्यर्थस्वीकारेऽपि श्रुतानामंशानामत्यागात् विभक्तयर्थस्यैक्यस्याप्यत्यागात् नानुपपत्तिः । सर्वज्ञैक्यं जीवे श्रुतं त्यज्यत इति चेत् — बोधोत्पत्तेः प्राक् सर्वज्ञैक्यं श्रुतमिति कथमुच्येत । बोधस्तु बाधान्न भवति । तत्तत्पदवाच्यार्थः कोऽपि न त्यक्तः । परस्परान्वयस्तु कल्प्यः, स च प्रतीताविरोधेनैव कल्पनीयः । अत एव सिंहो माणवक इत्यादौ सिंहसदृशो माणवक इत्यर्थग्रहणम् । ननु तत्र सिंहत्वमाणवकत्वरूपधर्मत्यागेऽपि व्यत्तयैक्यमसंभावितम् । न तथा प्रकृते इति चेत्अत्र पर व्यत्तयैक्यं संभावितमिति कुतोऽवगतम् । व्यत्तक्ये निश्चिते धर्म त्यागः, धर्मत्यागे व्यत्तयैक्यसंभावनेत्यन्योन्याश्रयात् । प्रत्यक्षादितो व्यक्ति ऐक्यार्थापति-प्रसाधनम् ९११ भेदस्य सिद्धत्वादैक्यसंभावनैव नास्तीति प्रागेवोपपादितम् । धर्माणामत्यागेन निर्वाहे त्यागो न युक्त इति चेोक्तम् । एवमुपदिष्टरूपस्यैक्यस्य भवद्भिरेव त्यागात् तदन्यथानुपपत्त्येति न युक्तं वक्तुम् । न च धर्माणां शब्दार्थत्वत्यागमात्रम् । तथा सत्यपि घटपटयोरिव व्यक्तयैक्यायोगात् । अतो धर्म मिध्यात्वकल्पनम्, दोषमन्तरा तदसंभवात् दोषकल्पनम् तस्य वास्तवत्वे द्वैतापत्त्या तन्मिथ्यात्वकल्पनमित्याद्यनेककल्पना, लोकानुभवापलापश्चेति महान् दोषः । तावत्सिद्धावेव व्वत्तयैक्यावगमः इति । शतभूषण्यां तु आदित्यो यूप इत्यादौ अभेदापदेशावसरेऽपि विवेकप्रहत्यानुवर्तमानत्वात् गौण्याश्रवणमित्युक्तम् तत्

प्रकृतेऽपि तुल्यम् । भेदका कारोपस्थापकपदद्वयबलात् विवेकग्रहस्यानुवर्तमानत्वात् । अभेदतापग्राहक प्रमाणमस्तीहेतिचेत् किं तत् । अस्त्येवाभेदग्राहकप्रमाणम् ; कयोरभेद इत्यत्रैव विवादः । अपिचोपक्रमे ‘सदेव सोम्येद’ मित्यत्रेदशब्दार्थजगदभेदः सति अवगतः । जडप्रपञ्चाभेदश्च ब्रह्मणि बाधितः । आरोपित तादात्म्यमस्तीति चेत् न हि तादात्म्यमिति किञ्चिदनिर्वचनीयमुत्पद्यते । न चानिर्वचनीय एव किञ्चित् प्रमाणम् । अतस्तादात्म्यारोप इति वक्तव्यम् । तत्रेदमर्थसदर्थविषयकारोपात्मकवोधजनकत्वे वेदस्याप्रमाणत्वापत्तिः । इदमित्यस्येदत्वारोपविषय इत्यर्थे स्वीकृते तु लक्षणापत्तिः । अतो विवर्तोपादानत्वे एवं दोषात् ऐक्यं प्रकारान्तरेणैव निर्वाह्यम् । तथैवोपसंहारेऽपि तत्थमसीत्यत्र एकरूपे वाक्यार्थे वक्तव्ये वैषम्यमयुक्तम् । एवं सर्वं खल्विदं ब्रह्मेत्यत्रापि तादात्म्यस्यारोपितस्याभावात् सर्वतादात्म्यविषयकारोपात्मक बोधजनकत्वस्वीकारे वेदोत्थ ज्ञानस्याप्रमात्वा पत्तेः सर्वत्वारोपविषय इत्युक्तौ लक्षणापत्तेः लक्षणायां स्वीकर्तव्यायां जगन्मिथ्यात्व मिथ्याभूताज्ञानादिकल्पनां विना सर्वसंमतलक्षणाविशेषेणैव निर्वाहौचित्यात् अन्य एवार्थ आदरणीयः । तत्र तत्त्वमसीत्यत्रान्यत चैकरूपार्थः कः संभाव्यत इति स्वयं विमृश्यम् । बाधार्थसामानाधिकरण्यञ्च जगन्मिथ्यात्वनिश्चयधीनं तदसिद्ध्या न शक्यवर्णनम् ; अननुगतञ्च । ९१२

अन्यच समानाधिकरवानामेकपच्युनस्थापितार्थविशेष्यकापरपदवृत्त्युपस्थापितार्थाभेदविषयको प्रति जगत्यं क्लान् । वृतिश्च क्वचित् शक्तिः कचिलक्षणेति ययावचम् । अतः शक्यार्थसाधारण्येनैक्यपरत्वस्य सामानाधिकरणवाक्त्रगतत्वात् ऐक्योपदेशवाघः कदापि न भवति । न खलु विभत्तत्यवगतमैक्यं परित्यज्य मंत्र स्वीर्मः कुत्रापि । यथातत्याने भवतामध्यविशिष्ठे अनुभवान्नरावाचेन लगाकल्प कुत्रेति लाघवगौरवचिन्तनपूर्वमेवार्थनिर्धारण कार्यम् । सुमिवाप्यनिर्धारिणं कार्यम्-जीवश्वरैक्य-भङ्गे च स राष्ट्रमा दर्शितं शतपण्याम् । ये कश्चित् संनिकर्षं पुरस्कृत्व सामानधिकरण बहु श्रुतौ यथा, सं त्वं यज्ञस्त लोक इति । अत्र ब्रह्म वेद । स इदं सबै भवति", ‘ओंकारो वै सर्वा वाक्’, ‘संवत्सम’, ‘सक्सरोऽसावादित्यः, ’ ‘त्वं यज्ञस्त्वं वषट्कारः’, ‘गायत्री वा इदं सर्वम् इत्येव । सायुज्यमकरणे चाभेदनिर्देशाः जीवेश्वरैक्यमप्रसाधने दर्शिता एवं । पपई एतादृशानि वाक्यानि समुपलभ्यमानान्येवेति किं विस्तरेण । सर्वमिदं लक्षणां कृत्वा चिन्तया । यदा तु मुख्या कल्यमेवास्मन्मते स्थास्यति, तदा न शङ्कातुषशकलस्याप्यवकाशः । यत्तु इदं रजतनिति शुक्तावारोपनिबन्धनाभिलापवत् स्थूलोऽहमित्यभेदानुभवमूलोऽपदेशः कूल्ऌप्त इति तेनैव निर्वाहे न शरीरशरिरिभावनिबन्धनऐक्यापदेशः स्वीकर्तव्य इति तन्न –इदं रजतमिति बुद्धिर्व्यवहारश्च भ्रान्तस्यैव । अभ्रान्तस्तु रजतमिदमित्ययं मन्यत इति गृहीयात् ; न तु रजतमिदमित्येव । तत् कस्मात् शुक्तौ रजततादात्म्यस्य वस्तुतोऽभावात् । यदि त्वनिर्वचनीयं रजतं कस्यचिद विद्याबलेनोपात्तम् । यदि च तत्तादात्म्यं काल्पनिकं किञ्चिदस्ति शुक्ौ, तर्हि सर्वज्ञेन तस्यापि ज्ञेयतया सोऽपि इदं रजतमिति मन्येत । न चैवम् । अतो नानिर्वचनीयम् । आरोपात्मकं तु तत् ज्ञानं भेद / ऐक्यार्थापत्ति-भङ्ग-प्रसाधनम् स । ९१३ ग्रहवतो बाधकसत्त्वान्न जायते । एवं भेदग्रहे सत्यपि, स्थूलोऽहम्, विप्रो sहम्, देवदत्तः श्यामो युवा लोहिताक्षः इति परमर्षिप्रभृतीनां परमाप्तानां व्यवहारो विश्वविदितः । श्रुतिश्च, ‘राजा राजसूयेन स्वाराज्यकामो यजेत ; ‘यदि ब्रह्मगो यजेत’ ‘ब्रह्मचार्याचार्य कुलवासी’, ‘स खल्वेवं वर्तयन् यावदायुषम्,’ ‘चतुर्विधा भिक्षवस्तु स्मृताः सामान्यलिङ्गिनः । तेषां पृथक्पृथ नाम वृत्तिभेदात् कृतं श्रुतौ’ इति तत्तद्वमहं पर्यन्ताश्रमपुरस्कारेण विधयो न विवेकिनं प्रति भवितुमर्हन्ति । देहात्मभ्रान्तिमन्तः खलु पारलौकिक फलसाधनेषु कर्मसु न कथमपि प्रवर्तितुमर्हन्ति, प्रागेव त्वपवर्गे इति विवेकिनः प्रत्येव वैदिकविधयः । एवं सति ब्रह्मगोयजेनेत्यस्य ब्राह्मणत्वाभिमानीति कमर्थः स्यात् । अभिमानश्च किमारोपात्मक, उत यथार्थः अन्त्ये आत्मनि ब्राह्मणत्वादिना भाग्यम् । आद्ये तु यः खवमब्राह्मगोऽप्यात्मानं ब्राह्मणं मन्यते, पौण्डुक इवात्मानं वासुदेवम्, तस्यापि तत्र कर्मण्यधिकारः स्यात् एवं राजत्वाभिमानिनो विप्रादेशी राजनूयेऽविकारापतिः । शूद्रा अपि त्रैवजिंकत्वेन स्वयं मन्यमानाः वैदिककर्मस्वधिक्रियेरन् । अतो ब्राह्मणादिदेहसंबन्धः स्वामित्वरूपो यस्यास्ति स तत् कर्म कुर्यादित्येवार्थवर्णनं कार्यमिति आरोपात्मकज्ञानमादाय श्रुत्यर्थनिर्वाहायोगात् अनारोगात्मकज्ञानमादाय वाक्यार्थे वर्णयितुं शक्ये यत्यादिष्वारोपेण व्यवहारनिर्वाहस्यानुचितत्वाच्च विप्रत्वादिविशिष्टदेहसंबन्धीत्येव तत्र विप्रादिशब्दार्थः । अत एव भगवात् बादरायणोऽपि, “अनुज्ञापरिहारौ देहसंबन्धात् ज्योतिरादिवत् " इति देहसंबन्धं स्वामित्वरूपं दर्शयति । यत्त्वत्र कूटस्थनित्यस्यात्मनोऽपरिणामिनो नास्ति देहेन संयोगः समवायो वाऽन्यो वा कश्चित् संबन्धः; सकलधर्मातिगत्वादित्यभिसंधाय देहस्यारमना संबन्धो मिथ्यातादात्म्यरूप इत्यभिप्रायेण, ‘कः पुनरयं देहसंबन्धः ? देहादिरयं संघातोऽहमेवेति आत्मनि विपरीतप्रत्यत्योत्पत्तिः’ इति शाङ्करभाष्यम्, तदेतेन निरस्तम् । तादृशप्रत्ययस्य पारलौकिकफलाधिकारिषु 115 ९१४

वक्तुमशक्यत्वात् । सौनसंबन्धशब्दस्वरमार्थत्यागेनारोपार्थवर्णनस्यायुक्तत्वाच्च । वस्तुतस्तु अध्यासभाष्ये, ‘शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वाऽऽत्मनः परलोक संबन्धमधिक्रियते तथापि न वेदान्तवेद्यमशनायाद्यतीतमपेत ब्रह्मक्षत्रादिभेदम संसारि आत्मतत्त्वमधिकारे अपेक्ष्यते’ इति वाक्यपर्यालोचने देहाध्यासरहितानामेव कर्माधिकारस्तदिष्टो निश्चीयते । परंतु देहाध्यासाभावेऽपि देहादिसंघातनिविष्टाहंकारतादात्म्याध्यसात् कर्मसु प्रवृत्तिरिति विवक्षितम् । एवञ्च ब्राह्मगी यजेतेत्यस्य ब्राह्मणत्वजात्यवच्छिन्नदेहघटित संघातनिविष्टकिञ्चित्तादात्म्याध्यासवान् यजेतेत्यर्थ इति तदाशयः । एवञ्च स्थूलोहमिति विवेकिव्यवहारे अनर्थे स्थूलत्वात्वाभावात् स्थूलत्वाश्रयदेहाध्यासस्याप्यभावात् स्थूल देहवटित संघातनिविष्टोऽहमित्यर्थवर्णनं कार्यनिति तदभिसंधिः । एवञ्च देहात्मभ्रान्तिगत्पुरुपव्यवहारमूल मृतदेहाभ्यासेनैव सर्वत्र निर्वाहाभावात् अद्वैतिभिरात्मनिर्विशेषत्वसिद्वान्तानुसारेण स्थूलोऽत्यत्रान्यः कश्चिद इष्यते । विशिष्टाद्वैतिमिस्तु अध्यासलेशस्यास्यवदनेनार्थान्तरं वयत इति न कस्यापि मते क्लृप्तेन निर्वाहः । अहमये देवाध्यात तदभावरूपवैपम्यनिबन्धनस्य व्यवहारभेदस्य समन्तव्यत्वात् । इयान् विशेषः -जीवन्मुक्तेषु परमात्मनि चाध्यासस्य कराने क्लेशोऽद्वैतिनाम् । विशिष्टाद्वैतिनां मुक्तपरमात्मकर्तृकव्यवहारा अपि यथावस्थितशरीर शरीरिभावरूपवास्तव संबन्धमादाय सुनिरूढाः । इदमप्येकमवधेयम् देहसंबन्धादिति संबन्धपदं प्रयुञ्जानो बादरायणः, संबन्धो नास्ति; अभ्यासमात्रमिति मतं प्रत्याचष्ट इति । अद्वैतमतरीत्याऽपि शुद्धस्यात्मनो देहस्य च शरीरात्मभावाभावेऽपि जीवदशायां स न प्रतिषेध्यः । अत एव देही, शरीरी, ममेदं शरीरमित्यादिर्व्यवहारः । एवमविद्याशबलस्येश्वरस्य जगन्निरूपितमात्मत्वमपि निरूपविष्यते । एवञ्च विवेकिप्रयुक्ते स्थूलो हमिति वाक्ये स्थूलत्वाश्रयनिरूपितशरीरित्यरूपार्थे लाघवम् सर्वानुगमश्चेत्यपि भाव्यम् । यत्तु पूर्वमीमांसायामुत्तरमीमांसायाचैतादृशस्थले ऐक्यापदेश इदन्तया न निर्धारित इति तदपि शोधनीयम्–ब्राह्मणो यजेतेत्यादिविधयां विचा ऐक्यार्थापत्ति-भङ्ग-प्रसाधनम् ९१५ रिता एवं पूर्वमीमांसायाम् । पारलौकिकफलार्थिविषये देहाध्यासमूलोऽयं व्यवहारो नैव प्रसज्यते । जगन्मिथ्यात्व अत्मनिर्विशेषत्वादेमीमांसकादिसर्पतान्त्रिका निष्टत्वात् देहादिघटिताहं काराध्यासवानित्यर्थवर्णनस्य नावकाशः । तादृशाज्ञानं कर्माधिकारिविषयेऽनपेक्षितमिति अध्यासमाप्य एवोक्तत्वात् तादृशात्मज्ञानात पूर्व तथार्थवनमप्रसक्तञ्च । देई प्रति जीवस्य स्वामित्वञ्च सर्वान्निकम् । असे त्राह्मण इत्यस्य ब्राह्मणशरीरस्वामीत्याद्यर्थः खयमेवावगत निरूपणम् । उत्तरमीमांसायां तु एवं कर्मकाण्डलोकारसिंहे शरीरात्मभावं दृष्टान्तीकृत्य, ‘न तु दृशन्तभावात्’ इति ब्रह्मणि सातिः । वाक्यान्यवाधिकणे च जीवब्रह्मतादात्म्यं कीदृशमिति विचारयता अमरौडुलोममनविसेन जीवात्मनि ब्रह्मणोऽवस्थितिप्रयुक्तं तदिन कामाद्रियत । सोऽयमेव स्वपक्षः सर्वैरपि विद्यानिष्ठैरभ्युपगन्तव्य इति, आगेनि तूपगच्छन्ति काशकृस्नादयः, ग्राहयन्ति च शास्त्राणीति चतुर्वे निरूपका पुनरवोधि । अनुज्ञापरिहारसूत्रञ्च देहसंबन्धित्वविशिष्टपरत्वं ब्राह्मणादिपदस्य दर्शयत प्रागुद्धृतम् । अस्त्यन्यदपि, चराचरव्यपाश्रयशरीरात्मभावपर्वतशोधनेन अभिमानित्वमात्र पुरस्कारेण तादात्म्यव्यवहारः कविदिति अभिमानिव्यपदेशेण दर्शितम् । किमितोऽन्यद् वक्तव्यम् । उपादानोपादेयभावनिबन्धन ऐक्यापदेशः अद्वैमिने दुर्निरूप इति, देवमित्येतदशाधने प्रागुक्तमेव । बाधा सामानाधिकरण्यं हि । तत् । कथं सस्यादैक्यापदेशः । सत्यमिध्यार्थ वरैक्यायोगात् । अस्म न्मते सर्वस्य विशिष्टबावाचितयैक्यं सुस्थम् । उपादानत्व विचारे च शिष्टं द्रष्टव्यम् । सूत्रम् । T यत्तु अपृयसिद्धिः संबन्धविशेष लोके वेदे वा न क्लृप्त इतितत्रोच्यते । नीलो घट इतिवत् घटस्य नील इति भेदव्यवहारस्यापि सत्त्वात् घटस्य गुणस्य च कथित संबन्धो वतः गुणगुणिनोर्भेदाभेद इति भवदीयमतं किञ्चिदास्तां नाम । भेदो निर्विवादः । तत्र समवायश्च सूत्रकारेण प्रति ९१६

‘अन्तः षिद्धः । अतः स्वरूपमेव संबन्ध इत्यंगीकारेऽपि किं पृथकूसिद्धयोरयं स्वरूपसंबन्धः उतापृथक्सिद्धयोरिति विचारे ययोर्मध्ये एकतरस्याम्यतरस्मात् पृथगवस्थानं दुर्वचम्, तयोः स एव संबन्धोऽपृथक्सिद्धिरित्युच्यते । तत्राकूऌप्तांशः कोऽस्ति । तत्तत्स्वरूपस्य तयोरितरेतरापृथग्भावस्य अत एव पृथक्सिद्धिशब्दयोगार्थस्य सर्वस्य कुऌप्तत्वात् । न हि समवायवत् किञ्चिद पूर्वमस्माभिरुच्यते । गुणगुणिसाधारण्येनैवमुक्तम् । परमात्मनस्तु द्रव्यान्तरैः संयोगो भवत्येव । अपृथक्सिद्धिनिर्वचनञ्चास्मत्कृतायां नयद्युमणिभूमिकायां द्रष्टव्यम् । यच कथमचेतनायां व्यामिकायां नित्यस्य व्यापकस्य परमात्मनोन्तः प्रवेशः । अतोऽन्तः प्रविश्य नियन्तृत्वरूपमात्मत्वं दुर्वचमिति । ईदृशक्षुद्रोपद्रवस्यापि नैवावसरो निष्कृष्टशरीरात्मभावविज्ञाने । वस्तुतः परमात्मनः जीवविशिष्टवेषेण अन्तरवच्छिन्नसंयोगावच्छिन्नव्यापारवत्त्वं नासंभवि । प्रविष्टः शास्ता जनानाम्’ इति अचित्परिणामेषु शरीरेष्वेवान्तः प्रवेशस्योक्तस्वात् । अन्यत्र तु, ‘य आत्मनि तिष्ठन्’ इति रीत्या संबन्ध एव विवक्षितः, न तु प्रवेशः । न च क्रिया विरहे संयोगायोगः । तार्किकैरप्यजसंयोगांगीकारात् । विभुद्वयस्या संयुज्यावस्थानमेव तु दुरवगाहम् ; न तु संयोगः प्रतिषेध्योऽस्ति । [ संज्ञामूर्तिकूलप्तिस्तु विशेषानुगतिभ्याम् इति सूत्रपाठश्चापपाठः ] पृथग्व्यवहारानर्हयोः संबन्धविशेषः अपृथक्सिद्धत्वं संयोगविशेषः शरीरशरीरिभावं विनाऽप्युपपद्यत इति यदुक्तम्, किं तेन ; अस्माभिरपि धर्मभूतज्ञानतदाश्रयविषये तदङ्गीकारात् संयोगविशेषातिरिक्तमप्यपृथक्सिद्धत्वमस्त्येव गुणगुणिविषये । अस्तु वा सैव रीतिः सर्वत्र । किं तेनापि । पृथग्व्यवहारानर्हत्वञ्च न शब्देन पृथग्विवक्षायामपि वक्तुमशक्यत्वम् ; किं तर्हि ? पृथक्हानोपादानाईत्वाभावः, यथा घटमुपाददानो रूपविशिष्टमेवोपादत्ते, जहद्वा विशिष्टमेव जहाति । ‘तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्यास्यार्थश्च प्रागेवाबोधि । सर्वव्याप्तोऽपि परमात्मा, ‘सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते’, ‘पूर्वोत्पन्नेषु भूतेषु तेषुतेषु कलौ प्रभुः । अनुप्रविश्य कुरुते यत् समीहितमच्युतः’
ऐक्यार्थापत्तिभन-प्रसाधनम् ९१७ इत्येवं कदाचिदनुप्रविशन्नपि वर्णितः । यथाऽयमनुप्रवेशः, तथा खव्याप्तचर एव सर्वत्र सत्यवस्तुनि गुणविशेषाधानप्रयोजकाभिमानविशेषप्रयुक्तोऽप्यनुप्रवेशव्यवहारो भवति । अद्वैतिमत एवानुप्रवेशोऽनुपपन्नः । कूटस्थचैतन्यस्य देहादिना संयोगादिसंबन्धस्याध्यसंभवो हि भामत्यामनुज्ञापरिहारसूत्रे उक्तः । परमात्मनस्तत्तद्रूपेणाभिव्यक्तिरनुप्रवेश इति चायुक्तम्, अभिव्यक्तिरियमुत्पत्तिर्भानं वा । आद्या तु सृष्टृत्यनेनैवोक्ता । भानस्य भावे इवाभावेऽपि अनुप्रवेशस्य स्थितत्वान्न भानमनुप्रवेशः । सद्विद्यायां शरीरशरीरिभावनियामकम् अनुप्रविश्य नियन्तृत्वं नोक्तमित्यपि न –अनेन जीवेनात्मना ऽनुप्रविश्येत्यनुप्रवेशस्योक्तत्वात् ‘उत तमादेश’ मिति नियन्तृत्वस्योपक्रम एवोक्तेः । ‘ऐतदात्म्यमिदं सर्वं स आत्मा’ इति आत्मशरीरभाव एव च कण्टोक्त इति किं निबन्धनान्तराः वेषणेन । न चात्रात्मशब्दः स्वरूपपरः ; ‘गौणश्चेन्नात्मशब्दात्’ इति सूत्रे ईक्षतेर मुख्यत्व निराकरणायात्म शब्दं साधकतया प्रयुञ्जानस्य सूत्रकृतः, आत्मशब्दः शरीरप्रतिसंबन्धिपर इत्यभिप्रायावगमात् । खरूपपरत्वे हि प्रधानस्वरूपमपि स्यादिति नैतेना मुख्यत्ववारणं कृतं स्यादिति । धर्माधर्मनियन्तृत्वस्य परमात्मनि श्रुतत्वात् जीवस्य शरीरनियन्तृत्वं न भवतीति शतभूषणी । अस्य तेन कः संनन्धः । " इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इति वाक्येन करचरणाद्यवयवोपेतमेव शरीरमित्यगम्यत इत्याह । स्वशरीरमात्रमर्जुनशरीरमात्रं वा शरीरमित्यवगम्यते, इदमितिश्रवणादिति कस्मान्नाह । एतद् यो वेतीति ज्ञातृत्वेत निर्देशात् नियन्तृत्वं नास्तीत्याह । एवं तर्हि भोक्तृत्व कर्तृत्वस्वप्रकाशत्वेतर वस्तुज्ञातृत्वादिकमपि न भवेत् । सर्वक्षेत्रेष्ट्रितिपदं प्रतिक्षेत्रवर्तिभिन्नभिन्नक्षेतज्ञविलक्षणत्वं मामित्युक्तऽर्थे दर्शयति । क्षेत्रज्ञञ्चापि मां विध्दीति क्षेत्रज्ञमात्रेणाभेदवर्णनात् अचिदभेदो नास्तीति ज्ञायत इत्युक्तमपि न सम्यक् — अन्यथा चापीत्यपिशब्दवैयर्थ्यात् । उपरि । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं ममेति क्षेत्रक्षेत्रज्ञज्ञानस्य स्वज्ञानत्वकथनेन क्षेत्रक्षेत्रज्ञयोः स्वाभेदस्य ज्ञापितत्वात् । कथं जडब्रह्माभेद इति चेत् ९१८

कथमज्ञसर्वज्ञाभेदः । भवन्मते उभयवैकरूप्याभावपर्यालोचनया क्षेत्रवत् क्षेत्रज्ञस्य परमात्मशरीरत्वमापतिव्यतीति भीत्या च क्षेत्रमुपेक्ष्यते भवद्भिः । “न चैताव सविशेषवाक्यापाण्येन व्यावहारिकं सविशेषनियस्पत्यं चितोऽचितश्च दण्डेन वाहिली शतभूषणी सविशेषस्य चेतना वेतन नियन्तृतं खमनेन । एवञ्च तत्पदादीनामपि सविशेषपरत्वात् सर्ववि। सर्वनियतृत्वरूपार्थः परं किमिति दण्डेन सर्वशब्दस्वैवमर्थश्च नामसहस्रयाकरमाप्येऽप्यदर्शि प्रमाण वार्यते । । उत्पत्तिलय मुखेन, ‘असतच सतश्चैव सर्वस्यात् । सर्वस्य सर्वदा ज्ञानात् सर्वमेन प्रचतो (बाबा.उ. 70-11 ) इति । अत्र भूतभविप्यमानसर्वोत्पत्तिलयकारणत्यात सर्वज्ञत्वाच सर्ववाच्यत्वमुक्तम् । कारणत्ववचनात् उपादनत्वप्रदर्शनम् । उपादानस्य कार्ये व्याप्तिखभावत्वात् पूर्वार्धे व्याप्तिज्ञष्यते । सर्वज्ञानादिति निम्तृत्वविवक्षा । तथाच व्यापित्वे सति नियन्तृत्वं दर्शितं भवति । इदमेवाभिप्रेत्य ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र, ’ तज्जलानिति’ तज्जत्वतलत्वतदनत्वरूप हेतूपन्यासः । त्रितयमिदमनेनैव क्रमेण पूर्वस्मिन् वचने निर्दिष्टम् । ‘सबै समाप्नोपि ततोऽसि सर्वः ’ इति गीताऽपि नियन्तृत्वविशिष्टव्याप्ति हेतूकरोति । सर्वान्तर्यामित्वमित्यर्थः प्रामाणिकः । अतः सर्वशब्दस्य एवमवर्णनादरणे निर्विशेषवाक्य प्रामाण्यं रक्षितं न भवेदिति विभेति । विशेषणानामपारमार्थिकत्वे निर्विशेषत्वमप्यपारमार्थिकमेव स्यादित्यपि भेतव्यम् । प्रतियोग्यपारमा अभाव’ पारमार्थ्यायोगात् । अनिवर्चनीयस्यासिद्धेश्च । अतो विशेपाभावपारमर्थ्य विशेषपारमार्थ्यायत्तम्, विशेषपारमार्थ्यं तु विशेषाभावपरमार्थ्यं नापेक्षत इति सविशेषवाक्यं प्रमाणं भवत् निर्विशेपवाक्यमपि खाविरुद्धार्थेऽवस्थापयतीति न किञ्चिदप्रमाणम् । अपिच तत्त्वमसिवाकां न निर्विशेषमात्त्रपारगार्थ्यपरम् । तथासहैवमुक्तया, ‘वामनसि पो मनः प्राणे’ इत्युत्कान्तिनिरूपणायोगात् । ’ तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इति तत्त्वज्ञान ऐक्यार्थापत्ति-भङ्ग प्रसाधनम् निष्पत्यनन्तरमपि निवृत्तये कालप्रतीक्षादर्शनाच्च । पश्चान्मिथ्याज्ञाननिवृत्तये कालप्रतीक्षा भवितुमर्हति । ९१८ न हि तत्त्वज्ञानात् । अस्मदाचार्यकृतं भेदसाम्राज्यं दृष्ट्वापि पुनः तत्पदस्य त्वम्पदस्य शुध्दब्रह्मशुध्दात्मपरत्वाश्रयणालक्षणेति दोषोद्घाटनं गगने पक्षेपणमेव । तत्त्वमसीत्यसिशब्दार्थः अद्वैतमते सर्वथैवानन्वितः । अस्मन्मते तु विशेषणेऽन्वेति त्रिशीर्षाणं त्याष्टमनमित्यादौ हननकर्तृत्वादिवत् । निरवशेप्रमेव समाहितं सर्वं न्यायारिशुद्धावाचा रिति तत्रैव द्रष्टव्यम् । यत्तु [-भेदपराणि वाक्यानि ज्ञातविपत्रकत्वात् व्यपदेशरूपाणि । अभेदविषयकवाक्यराशिरुपदेशः । अत एव सूत्रे भेदव्यपदेशादित्युच्यते, अभेदविषये तु अधीयत इतीति तदपि न भेदनिर्देशस्थलेऽप्यस्त्येवोपदेशशब्दः, ‘उपदेशभेदानेति चेन्नोमयस्मिन्नप्यविरोधात्’, ‘कल्पनोपदेशाच्च’, ‘प्रत्यक्षोपदेशात्’ इत्येवम्। अधीयत इति निर्देशोऽपि भेदविषये, ‘उभयेऽपि हि भेदेनैनमधीयत’ इति । व्यपदेशशब्दो भेद विषय एवेत्यपि न ; अंशसूत्र एव, ‘नानाव्यपदेशादन्यथा चापी’त्यत्र अन्यथेत्यत्रापि व्यपदेशपदानु षङ्गस्य भाष्येपि दर्शितत्वात्, अज्ञातविषये विशिष्टोऽप्रदेशो व्यपदेश इति व्यपदेशोऽप्युपदेश एव । उततमादेशमित्यादेशशब्दार्थशोधने च पराक्रान्तं सूरिभिः । उपनिषद्भाव्यपरिष्कारावप्यत्र द्रष्टव्यौ । किञ्चोपदेशशब्दोऽज्ञातविषयः, व्यपदेशशब्दश्च ज्ञातविषय इत्यस्तु । तावता ज्ञातं मिथ्या, अज्ञातं सत्यमिति न नियमो ऽस्ति । गरुडमात्मानं जानीयादित्यज्ञातैक्योपदेशमात्रेण तस्य सत्यत्वं न भविष्यति । अस्थूलमनण्विति आत्मनि कतिपयव्यावृत्तेर्ज्ञाताया ज्ञापनमालेग व्यावृत्तेर सत्यत्वं न भविष्यति । ‘ज्ञानी त्वात्मैव’ इत्यैक्यवर्णनान्न शरीराभाव इत्य् अपि न ; ज्ञानिनोऽज्ञानिनः सर्वस्यापि वतुनः सर्वदा तदैक्यात् ज्ञानिमात्रे तदैक्यकथनायोगात् । अस्मन्मते त्वाहार्य आत्मत्वारोपः खाभिमते सर्वत्र पुरुषे भवितुमर्हति न तस्य सर्वजीवान्तर्यामित्वस्य च कश्चिद् विरोधः । ऐक्योपदेशान्यथानुपपत्त्या हि ब्रह्मण्यज्ञानं जगन्मिथ्यात्वञ्च कल्ष्यते । उपदेशा-९२०

न्यथानुपपत्त्यैव ऐक्यं नास्तीति सिध्दौ ऐक्योपदेशान्यथानुपपत्तेः का प्रसक्तिरिति च भाव्यम् । प्रसाधिता चोपदेशानुपपत्तिः उपदेष्टु रूपदेशस्यचक्यज्ञाने स्वान्यस्य सर्वस्य मिथ्यात्वज्ञाने, वन्धस्यैव वस्तुतोऽभावज्ञाने चोपदेशस्यैवासं भवात् । यत्तु निर्विशेषवाक्यानां दूरस्थोपासनाशेषत्वमयुक्तमिति तन्न सगुणवाक्यानामप्युपासनामकरणदविष्ठानामुपासनशे षत्व कल्पनायोगात् । केवलस्यैक्यज्ञानस्य मोक्षहेतुत्वाभावेनैक्योपासनपर्यन्ते तात्पर्यस्य भवताऽपि वक्तव्यत्वाच्च । यत्तु अनुगीताप्रामाण्यात् क्षेत्रज्ञपरमात्म्यैक्यप्रतीतिरिति तदपि न ‘मनो मे ब्राह्मणं विद्धि बुध्दि मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय” इति वचनं हि पूर्व ब्राह्मणब्राह्मणीक्षेत्रज्ञशब्दैर्विवक्षिताः मनोबुध्दिपरमात्मान इत्येव वदति । यदि क्षेत्रजशब्देन परमात्मोक्तः, तावता सर्वत्र क्षेत्रज्ञशब्दवाच्यजी वैक्यं तस्य न भवितुमर्हति । न ब्राह्मणादिशब्दतो मनःप्रभृतिग्रहणमात्रेण लोके ब्राह्मणातिरिक्तमनस्तत्त्वाभावः ब्राह्मणातिरिक्त बुध्दितत्त्वाभावो वेति । सिध्दे खस्यैक्ये तदन्यथानुपपत्तिः । तदेव नः यतः

चितमिव जडमाहत्येष्ट ऐक्योपदेशो द्वयमिदमविशिष्टं स्याच्छरीरात्मभावे । ’ पदमुभयमखण्डं बोधयेच्चेत् निमित्त द्वयविरहत ऐक्यं नैव शक्योपदेशम् ॥ शुभमस्तु श्रीः