यद् बृंहतीत्यपि च बृंहयतीति वित्तं ब्रह्मादसीयगुणवैभवभूमवित्त्यै । वेदोपबृंहणपुराणमुखप्रणेतृन् दृष्टा खिलश्रुतिगतीन् मनवै मुनीन्द्रान् ॥ " " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इति वचनं सर्वसंप्रतिपन्नम् । तत्रेतिहासौ द्वौ संप्रति प्रसिद्धौ रामायणं महाभारतञ्चेति । पुराणानि चाष्टादश । इति खलु प्रागासीदिति भगवदवतारचरित्रप्रधान रामायणम् । भगवत्प्राणभूतपाण्डवपञ्चकप्राधान्येन भगवदवतारविशेषचरित्रसंग्रहपरं महाभारतम् । उभा उपबृहण व्याधनम् ९०१ भ्यामपि तदवतरण शिष्टपरिपालनदुष्ट निबर्हण धर्मस्थापनादिविवरणेन तदीयसौलभ्यसौशील्यवात्सल्य सर्वशक्तत्वादयः गुणाः विधिशिवशतमखादिदेवप्रभृतिसर्वनिरूपितमैश्वर्य मोक्षान्ताशेषपुरुषार्थप्रदत्वमित्यादि विशद वयते । धर्मस्थापनार्थत्वादवतारस्य धर्मतत्त्वमपि प्रपञ्चपने यथायथम् । पुराणलक्षणञ्च प्रसिद्धम् " सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितञ्चति पुराणं पञ्चलक्षणम्" इति । तथाच सृष्टिस्थितिप्रलयहेतुत्वरूप ब्रह्मलक्षणप्रपञ्चनं पुराणार्थ इति सिद्ध्यति । तत्र स्रष्टुभगवतः सृष्ट्यौपयिकखरूपरूपगुणादीनां सृज्यान्तर्गतविधिशिवादिस्वभावानाञ्च यथावद्विवेचनात् कारणतत्त्वविषयवैशद्यं सम्यग् भवति । तत्र भगवतो नाभिपद्मात् चतुर्मुखस्य प्रादुर्भावं तदुपरि सर्वदेवसृष्टिं ततः प्रागेव महदहङ्कारभूत ब्रह्माण्डादिसृष्टिम्, सृष्ठे लोके समुचितस्थापनाय दशावतारावेशावतारादिक भगवदाहृतम्, युगभेदेन धर्मभेदादिकञ्च प्रतिपादयद्भिः पुराणैरविचाल्यं वैभवं भगवतो विशदमेव दर्शितं भवति । एवं वैशद्ये इतिहासपुराणतोऽवगम्यमाने, तत्तल्लक्षणबलाच्च तथात्वे तेषां स्पष्टे सर्वमिदमुपेक्ष्यापलप्य, निर्विशेषमेव ब्रह्म, नान्यत् किमप्यस्तीति निरूपयितुमेवेतिहासपुराणानीति वदतां धाष्टर्यस्यावधिरेव न लक्ष्यते । अथसगुणब्रह्मविषयप्रपञ्चनमेव क्रियते इत्येव ब्रूमः ; ‘मुनेस्तु मौनं व्याख्यान’ मिति स्थिते निर्विशेषनिरूपणाय वाक्प्रपञ्चस्य कथङ्कारमपेक्षा । शब्दावेद्यं खल्वातिष्ठामहे तत्त्वम् । तत् सगुणपरमेव सर्वमिति पुराणलक्षणादिकं सुस्थम् । एवमपि सत्यज्ञानादिवाक्य इव तात्पर्यगत्या गम्यमेव तद् भविष्यतीति चेत् — इदं ततो वरम् ; स्वानुभवसिद्धत्वाभिमतस्य तस्योत्सूत्रत्व -उद्वेदान्तत्वादिवत् उत्पुराणादित्वस्याप्यादरणेनानुरूप्यसंघटनात् । यदि चोपबृंहणानां श्रुत्यवगतसपञ्चत्वनिष्प्रपञ्चत्वविषयसंदेहापोहनेन निष्प्रपञ्चत्वनिरूपणमेव लक्ष्यमभविष्यत् श्रुत्यवगतचेतनाचेतनप्रपञ्चविषयपरमविस्तारे अवतरणादिमुखेनानन्तगुणगणाविष्कारे चावकाशमव्यपोह्य उपनिषदाद्यनुक्ताने कलोकतद्गत कार्यादिवर्ण भरमपि विहाय उपनिषदायुक्तानामपि ब्रह्मणि रज्जौ सर्पभूदलनाम्बुधारादीनानिव ९०२
कल्पनामात्रत्वं कण्ठतोऽभिधाय अतएव निर्विशेषं तदिति व्युत्पादनमकरिष्यत । तथा चोपबृंहणमिति नाम्नः स्थाने निष्प्रपश्ञ्चनं निर्विशेषणमुद्वासनमित्येवं किमपि नाम कर्तव्यं स्यात् । " इतिहासपुराणाभ्यां वेदार्थ प्रविलापयेत्’ इति च वक्तव्यं स्यात् । एवञ्च पुराणादिभिरेवमर्थ उपदेष्टव्यः स्यात्; यथा परमात्मन् ! त्वमेवाहम्, जगदेतन्न वास्तवम् । त्वद्भक्तिरेव ज्ञानस्य मुत्त्यर्थस्य प्रदायिनी ॥ पारतन्त्र्यमत्रं दुःखं व्यपोह्यं भविनो मम । तवैश्वर्यं यावदस्ति तावदेतन्न नंक्ष्यति ॥ अतस्त्वद्वैभवं सर्वं तवानन्दैकदाय्यपि । विलोपयितुमिच्छामि त्वदनुग्रह भावितात् ॥ ब्रह्मात्मैक्यस्य विज्ञानात् कृपां कुरु महाप्रभो ! । नित्यशुद्ध स्वरूपोऽसि मा काङ्क्षीस्त्वं गुणानपि ॥ इत्येवं भक्तिरूपेण तपसा तोषितः परमात्मा भस्मासुराय भवो भस्मीकरणशक्तिमिव स्वात्मपर्यन्तसर्वविनाशवहां विज्ञानशक्ति प्रदास्यति । तथाच - मृढं भस्मासुरं योऽसौ वञ्चयामास चाटुना । तद्वञ्चनमहोपायस्तद्भक्तिरिति भाव्यताम् इति । एवमुपदेशे निर्विशेषात्मशेषणाय कर्तव्ये यत इतिहासपुराणानि वेदान्तापातप्रतीतसगुणब्रह्मवर्णन एव लब्धविश्रमाणि उपबृंहणनाम्ना च प्रख्यातानि, अत इमानि लोकसंजिवृक्षया संमान्यमानान्यपि हृदयोद्धाटनपूर्वव्यवहारे उपेक्षणीय कोटावेव निक्षेप्तव्यानि; यतो रामायणभारतादौ निर्विशेषतत्त्वनिरूपक वाक्यदुर्भिक्षमेव लक्ष्यते यतश्चोपनिषदुपदिष्टमैक्यं शरीरात्मभावरूपहेतुमेव पदेपदे प्रदर्श्य अद्वैतमतानभिमतप्रकारेणैवेमानि निर्वहन्ति । समाद्रियमाणानि तु भवन्तु सूतसंहितायोगवासिष्ठादीनि । अविच्छिन्नप्रवचनप्रकर्षकल्पनेन च परिग्रहा तिशयोऽपि तेषां प्रत्याययितव्यो ऽद्वैताभिमानिभिरित्यल उपबृंहण वैधव्य-प्रसाधनम् ९०३ मधिकेन । एवं निर्विशेषस्वात्ममात्र सत्यता बुध्दद्या स्ववैभवं सर्वमपि ध्वंसयितुमुद्युक्तानामेषां स्वस्मिन् भक्तिमव्यभिचारिणीमुत्पादयितुमनिच्छन्नेव त्रिमूर्तिसाम्यभ्रमं तत्रापि शैवपाशुपतागमै कान्तिसहवासाभिरुचिञ्चाधिकमक्षप्यभूमा रमापतिरेषामापादयामासेति वस्तुस्थितिः । तदेषामेवं गण्डस्यो परि पिटकः संवृत्त इति एवमेषु परमपुरुषवरणीयता हेतु गुणविशेषविरहो मा भूदिति सर्वानुकूल्यदृष्टयः सर्वसुहृदः सत्पुरुषाः सानुक्रोशाः तमेव वैद्यसार्वभौमं पुरस्कृत्य चिकित्सितुमध्यवस्यन्ति । भाग्यायत्तमतः परम् ।
शतभूषणीकारस्तु – कर्मकाण्डमात्रप्रामाण्याभिमानिनो मीमांसकान् उपासनाकाण्डप्रामाण्यमपि समुच्चिन्वतोऽर्धवेदान्तिनश्चावधूय ज्ञानकाण्डप्रामाण्यस्यापि स्थापनार्थमितिहासपुराणप्रवृतिरित्याह । इदञ्चापूर्वेतिहास पुराण निर्माणेनैवोपपाद्यम्; विद्यमानानां सविशेषपरत्वस्यैव स्थितेः । श्री पराशरः स्वस्य देवतापारमायैवेदितां प्रपञ्चय जगत् सर्वं विष्णोः सकाशादुदभूतमिति श्रौतस्य जगत्कारणस्य देवताविशेषत्वमेवाविष्करोति । न पुननिर्विशेषे सर्वमिदं कल्पितमिति निर्गुणपारमार्थ्यं वेदित्वमात्मन आविर्भावयति । एवं सर्वत्र भाव्यम् । निर्विशेषवाक्य कल्पनेन तत्प्रामाण्यस्थापनच्छलेन कर्मकाण्डोपासनाकाण्ड सर्वापायाण्यमेवाद्वैतिभिराविष्क्रियत इति कथमिदं वेदोपबृंहणम् । अन्तर्यामिपरमात्माराधनतामशेषस्य धर्मस्य, ‘वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते’ इत्युक्तरीत्योपदिशन्तीतिहासपुराणानीति स्वीकारे सलु तत्तद्विधिवाक्यगताग्न्यादिशब्दवास्तवार्थप्रशस्तफलमार्गप्रदर्शनेन तत्तद्वाक्यकृत्स्नार्थवेदनात् वेदोपबृंहणत्वं विशिष्टमवतिष्ठते । कर्मकाण्डोपासानाकाण्डातिरिक्तं निर्विशेषज्ञानकाण्ड किञ्चिदस्तीत्यद्वैतिनः 1 तदतिरिक्तमपि शून्यकाण्डं किञ्चिदस्तीति वेदबौध्दैकरस्येदम्परा आधुनिका ब्रूयुः । त इमे इतिहासपुराणयोरप्येतदर्थ एव प्रवृत्तिं प्रवक्तुं संरभरन् । यादृशे तत्त्वे संमन्यमाने कर्मकाण्डोपासनाकाण्डाद्यवगतस्य वैभवस्य मालयाध्यबाधः स्यात्, प्रत्युत सर्वप्रकारातिशयशालित्वमवस्थाप्येत, तादृशतत्त्वप्रतिपादनप्रावण्य
मेहासादेर्युक्तमिति तेभ्यो वक्तव्यम् । तत एव निर्विशेषनिरासोऽपि सिद्ध एव । अन्यथा खलु —शून्यं बुद्धोदितं यत्त्वं साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते निर्गुणा धिगुणोक्तिभिरिति प्रत्यवस्थानस्यैवावसरः प्रदर्शितः स्वात् । साक्षात्कृतसर्वतत्त्वार्थमहापुरुषमुखेन स्वावगतार्थव्यक्तये उपबृंहणापेक्षा सर्वेषामप्यस्तीति सर्वमितिहासपुराणकृत्यं भवेत् । योगवासिष्ठं प्रामाणिकपरिवृढैः प्राच्यैरनुदाहृतं क्लृप्तेतिहासपुराणानन्तर्गतश्चेति तत्प्रदर्शनं न युक्तम् । भगवद्गीतायाः निर्विशेषतत्त्वनिरूपकत्वं तु न कथमपि शक्यम् । “मत्तः परतरं नान्यत् किञ्चिदम्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव”, “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च” इति विस्पष्टं निखिलगुणविभूतिविशिष्टनारायणप्राप्तिव्यतिरिक्तपरमपुरुषार्थाभावे प्रत्याय्यमाने कथं ततो निर्विशेषसिद्धिः । ‘न त्वेवाहं जातु नासं न त्वं नेमे’ इति आत्मबहुत्वेनोपक्रमः, ‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु’ इति नन्तृनन्तव्यभावाराध्याराधकभावरूपभेदप्रतिपादनम्, अन्ते, मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामीति शरणागतत्राणवचनमेवमादि श्रुत्वापि को निर्विशेषमेवाऽऽद्वियेत । ‘मामेकं शरणं व्रजे ‘त्यस्त्र शुद्धात्मखरूपं निर्विशेषमेवानुसंधत्स्वेत्यद्वैताभिमानकृतमर्थवर्णनं संस्कृतभाषानभिज्ञपरिषदि क्षणं जातु प्राण्यात्ः नाभिज्ञसहृदयपरिषदि । अन्यथा, ‘त्वामेकं शरणं व्रज । त्वं तु त्वा सर्वपापेभ्यो मोक्षयिष्यसीत्यप्युपदिष्टवान् स्यादित्यादि उक्तमेव । उपबृंहणान्यपि यदि वेदान्तवाक्यापेक्षयाऽप्यधिकं हन्यमानान्येवात्मवशं नीयन्ते तर्हि कियदिदं स्वाभिमतार्थव्यक्ती करणमिति स्वयमेव विभाव्यताम् । अधीतशाखावगतांशाधिकांशानां शाखान्तरादिगतानामवगम इतिहासपुराणेभ्यो भवतीति तेषामुपबृंहणत्वमितीदं निर्विशेषस्येतिहासपुराणार्थत्वे हि न घटते । अधीतशाखात एवाद्वैतवाक्यश्रा विणा सर्वविशेष राहित्यस्यावगतत्वात् तस्यैवेतिहासपुराणतोऽप्यवगम्यमानत्यात् । निर्विशेषत्वमपि विहायाखण्डाकार उपबृंहण वैघट्य-प्रसाधनम् ९०५ ज्ञानमात्राधायकत्वे तु नतराम् । अतः प्रधानार्थविषये इतिहासपुराणयोरनुवादमात्रत्वान्नोपवृह्णत्वसंभवः । वस्तुत इतरव्यावृत्तिरपि यावता विस्तरेणोपनिषद्भिरुपदिश्यते, सत्यं ज्ञानमनन्तं ब्रहा, अस्थूलमनण्वहखम दीर्घम् अद्रेश्यमग्राह्यमगोत्रमवर्णम् इत्यादिनिर्विशेषवाक्यैः न तावता विस्तरेणेतिहासपुराणादित इति न सामान्याभावविशेषाभावकत्वरूपेण प्रत्यायनप्रयुक्तवैशद्यमपिं । व्यर्थञ्च सर्वमिदम्, अखण्डाकारसाक्षात्कारस्यैवापेक्षितत्वात् । किञ्च पुराणानि सात्त्विक राजसतामसभेदेन विभक्तानि यथायथं तत्तदेवतामाहात्म्यमतिपादन नराणीति पुराणत एवावगम्यते । पुराणानां प्रामाण्यमभ्युपगच्छद्भिस्तदन्तर्गतस्यास्यापि वाक्यस्य प्रामाण्यमेषितव्यम् । नैवं निर्विशेषतत्त्वपारम्पयोक्ता कश्चित् पुराणविभाग इह प्रदर्शितोऽस्ति । यदि परमसात्त्विकसात्त्विक राजसतामसभेदेन चतुर्धा विभज्य निर्विशेषभागः परमसात्त्विक इति दर्शितं स्यात्, पुराणानां तत्परत्वमवसीयेत । अतो विभक्तदेवतामाहात्म्यैदम्पतैिवावगमात् तत्र वस्तुनि विकल्पायोगात्, सर्वजगज्जन्मस्थितिलयनिमित्तोपादानत्वेनैकस्यैव वस्तुनः श्रुतिषु घोषिततया कल्पभेदेन जगत्कारणभेदस्य तत्रतंत्र तत्प्रयुक्तमाहात्म्य नियमस्य चाशक्याङ्गीकारत्वात् कतमा देवता स्यादुत्कृष्टेति विचारः प्राप्नोत्येव । तत्र श्रुतिगतकारणवाक्यगत्यादिपर्यालोचने नारायणः परदेवतेति निष्कर्षो भवतीत्यन्यत्र स्थितम् । तदनुरोधेन पुराणादिध्वपि श्रुतिसंवादशालिपुराणभागानुसारेण भागान्तराणामान्यपर्यं वक्तव्यमित्यालोचितमेव । एवं तर्कोंपष्टब्धश्रुतिपुराणार्थस्यानायासेन सिद्धिवहमिदं वाक्यजातमपि यद्युपलब्धम्, तर्हि कस्तत्र विशयः । न केवलं ब्रह्मविष्णुरुद्राणां त्रयाणम्, अग्न्यादीनामपि माहात्म्यं वर्णयन्त्येव पुराणानि । तत्राग्निमाहात्म्येऽन्यथा नीयमाने शिवस्य माहात्म्यमपि तथैव भविष्यतीति ज्ञापनार्थमेव, अग्नेः शिवस्य माहात्म्यमिति वाक्यारम्भः । " अग्निरवमो देवतानां विष्णुः परमः" इति च श्रुतिः । तन्माहात्म्यमिव शिवमाहात्म्यं तामसेष्टम् । शिवस्थापि सृज्यत्वसंहार्थत्वानपहतपाप्मत्वनारायणानुग्रह लब्धातिशयत्वादिकं श्रूय 114 1 ९०६
माणं प्रकृतवाक्याभिमतभगवत्पारम्यानुकूलम् । मोक्षपर्यन्तपुरुषार्थवहयथावस्थितार्थ ज्ञानहेतुसत्त्वप्रवर्तकत्वरूपो हि विशेषो भगवत एव जगदशेषविधकारणत्वज्ञानं द्रढयति । किं बहुना — शाङ्करे नामसहस्रमाप्ये, ‘हरिवंशे कैलासयात्रायां महेश्वरवचन ‘मित्यारभ्य अहं त्वमिति रुद्रस्य विष्णोक्यप्रतिपादकं यद् वाक्यमुपात्तम्, तत्रैव सर्वगत्वाद्विष्णोः अहमपि स एवेति तस्यान्तर्यामित्वमेवामेदव्यवहारे हेतुत्वेनोपदर्शितम् । उपरि, ’ त्वद्विस्तारो यतो देव ह्यहं भूतपति स्ततः’ इति विष्णुविस्तारत्वं भूतपतेरुक्तम् ; न तु भूतपतिविस्तारत्वं विष्णोः । न तदस्ति विभो देव यत्ते विरहितं कचित् विना किञ्चित् त्वया न हीति वाक्यद्वयं भगवद्व्याप्तिनिबन्धनमेवैक्यं दर्शयति । एवं त्वदुपासना मदुपासना, त्वन्नामानि मन्नामानिीति भगवतं स्तुवता महेश्वरेण विप्रेभ्यो यस्तत्त्वहितोपदेशः कृतः, सोऽपि तत्रैव सहस्रनाममाप्ये विश्वशब्दव्याख्यानावसरे समुद्धृतः, ‘हरिरेकः सदा ध्येयो भवद्भिः सत्त्वसंस्थितः । ओमित्येवं सदा विप्राः पठत ध्यात केशवमिति हरिवंशे कैलासयात्रायां हरिरेको ध्यातव्य इत्युक्तं महेश्वरेण पि’ इति । एवं महेश्वरोक्तिमपि प्रदश्य हरिमात्रस्य सदा ध्येयत्वे सहस्रनामभाष्यप्रतिपादिते सति हरिं विहाय रुद्रध्यानं विप्रैः क्रियमाणं कथं गुरुसंमत स्यात् । यदि च रुद्रोपासना हर्युपासना, तर्हि किमिति अहमेकः सदा ध्येय इति रुद्रो नोक्तवान् स्यात् । तत्र सत्त्वसंस्थितैरिति पदेनापि —ये के चिन्मामेव सदा ध्यायन्ति, ते तमः संस्थिताः क्षुद्रेप्सव इति ज्ञापयति । ये तावत् ब्रह्मविष्णुरुद्राणां साम्यं मन्यन्ते, सत्त्वसंस्थिततया मोक्षप्रदत्वरूपोऽतिशयो विष्णोरेवेति दर्शयदिदं वाक्यमेव तेषां पर्याप्तं समाधानम् । त्रिमूर्त्यत्तीर्ण तत्त्वं किञ्चिदस्ति, न तन्नारायणादिशब्दव्यपदेश्यम्, किंतु सामान्यतः दैवं जगत्पतिः, कारणम्, महानीश्वरः, परम ईश्वर इत्येवमेव व्यपदेश्यमिति ये मन्यन्ते, तानपि समाधत्ते चतुर्मूर्तिनामव्याख्यानावसरे भाष्यम् । सृष्टिहेतुमूर्तयः ब्रह्मादयः चतस्रोपि हरिविभूतयः, स्थितिहेतुमूर्तयो विष्णुप्रमुखाश्चतस्रोपि विष्णुविभूतयः, / उपबृंहणव घट्य-प्रसाधनम् ९०७ संहारहेतुमूर्तयो रुद्रादयश्चतस्रोपि जनार्दनविभूतयः इति त्रिमूर्ति विभूतिको हरि विष्णुजनादिनादिभगवदसाधारणनामनिर्देश्य एवेति वदता पराशरेण तत्रैव विष्णुशब्दमेव प्रयुञ्जानेन, ‘विष्णोः सकाशादुद्भूतं जगत् तत्रैव च स्थितम् ’ इति प्रक्रमे विष्णुमेव सृष्टिस्थितिलयकारणत्वेन निर्दिशता नारायणस्यैव विष्णुरूपेणावतीर्णत्वं ब्रह्मरुद्रयोरतथात्वञ्च यत् व्युत्पादितमस्ति, तत् सर्व भाग्येऽस्मिन् अभिमतं लक्ष्यते । भूतकृदिति नामव्याख्याने च " रजोगुणं समाश्रित्य विरिञ्चिरूपेण भूतानि करोति, तमोगुणमास्थाय च रुद्रात्मना भूतानि कृन्तति" इति तत्तद्रूप निर्देशं विधाय पश्चात्, “सत्त्वगुणमधिष्ठाय भूतानि बिभर्ति" इति रूपनिर्देशम कुर्वन् भाषमाणः विष्णोर्जगत्कारणस्य चैक्यं मन्यते ; तथा विष्णोरेव सत्त्वाधिष्ठातृत्वम् । कृष्णरामोपेन्द्रवामनादिनाम्नां विष्णुविषयत्वे यथा न विवदः, न तथा शर्वः शिवः स्थाणुः इत्यादावित्यालोच्य, “स ब्रह्मा स शिव इत्यभेोपदेशात् शिवादिनामभिर्हरिरेव स्तूयते" इति शिवशब्दो जीवविशेषवाच्यपि अभेदभावनया हरिपरत्वेन ग्राह्यः, यथा विश्वमिति प्रथमं नामेति प्रबोधयन् शिवस्य सर्वात्मैक्यनिबन्धनैक्ये सत्यपि कृष्णादिवन्नारायणरूप सर्व कारणवस्त्ववतारत्वं नानुमन्यते । नारायणनामव्याख्याने च नारायणमन्त्रस्यैव यतिसमादरणीयत्वं भाषितम् । एवं नारायणतदवतार रूपाणामेवाच्यत्वसंकीर्तनीयत्वोपासनी पत्वादौ गीताभाष्य इव सहस्रनाममाप्येऽपि स्पष्टे तद्विहाय केनावि कारणेन रुद्राचनकीर्तनोपासनाद्यादरणेऽपि विष्णुसाम्यमेव ब्रह्मशिवयोरिति हटात्करणेऽपि प्रवृत्तिर्न सहृदयस्य युज्यते । एतावत्यप्यनुपम्य सर्वभूतसुहृदः श्रीवैष्णवान् शिवद्रोहित्वेन स्वयं क्रियासमभिहारेण कथयन् त द्वलादेवायं कैलासं करस्थं कलयतीत्यप्यद्भुतम् । उपादत्ते च किञ्चिद्वचनाभासम्, “मद्भक्तः शङ्करदोही मद्रोही शंकरप्रियः । तावुभौ नरकं यातो यावश्चन्द्रदिवाकरम्" इति । अस्तु वेदं प्रमाणम् । अत्रत्यद्रोहिशब्दार्थमप्येष द्रोहाभिभूतमनस्कतया नाबुध्यत । द्रोहो नाम न प्रणामाभावः, किंतु जिघांसा वा तत्कार्योपरोधबुद्धिर्वा तदनिष्ट चिन्तनं वा । ईदृशं द्रोहं वैष्णवाः क्षुद्रेष्वपि न ९०८ मुनयः,
वहन्ति, किमुत देवे । यथा गुरुहृदयमननुवर्तमानो गुरुद्रोही, तथा नारायणं नमस्कृत्येति स्वपरगुरुत्वाभिमतनारायण हृदयविरोधमाचरन्तेः अत एव नारायणद्रोहिणो भवन्त एव प्रकृतश्लोक लक्ष्याः स्युः । न वामद्रोहमात्रेण शिवे वर्तामहे, प्रकर्षं तस्य यथावदवगम्य प्रशंसामश्च । अत एव श्रीभगवद्यामुन“विधिशिवसनकाद्यैर्थ्यातुमत्यन्तदूरं तव परिजनमाचे काम कामवृत्तः " इति स्वस्य शिवस्य च महत् तारतम्यत्समः । आवाचिरणाश्च श्रीमति रहस्यत्रयसारे, ‘सर्वज्ञो रुवोऽप्यवोचत्’ इति प्राशंसन् । ईससंदेशे च, ‘अर्चाहेतोरुपहरति या नूनमर्धेन्दुमौलेः’ इत्युत्प्रेक्षमाणः कालहस्तीश्वरस्य वर्णगुरूरादिदेवताच्यत्वरूपमतिशयमाविरका । ‘सूस्यैिव तु यो मक्तः सहजन्मान्तरं नरः । तस्यैव तु प्रसादेन बकः प्रजान इति सूर्याचाख्यत् । ’ अण्डजाः पुण्डरीकेषु समुदेषु जनार्दनाः । नीलकण्ठाय शैलेषु निवसन्ति न तेन ते’ इति ब्रह्मविष्णुरुदान् स्वरूपं गृहीला शहा । विन्ध्याचलविकट संध्यानटजटापरिया पोप दि गङ्गा निपति’ इत्यादिशिववर्णनपराः श्रीमदाचार्यसूक्तको बचः । वादावे प्रस्थानसिंहनादे च श्रीभगवद्यामुनमुनिभिः, ‘आ शैलादद्रिकन्याचरण किसलयन्याराघोपकण्ठात् आ रक्षोनीतसीतामुखकमलसमुल्लासीच सेतोः । आ च प्राच्यप्रतीच्यक्षितिधरयुगलात् चन्द्रसूर्यावनंसात् मीमांसा मुख्यशास्त्रश्रमविमलमनाः मृग्यतां मादृशोऽन्यः " इति घोषणेन प्रथमपादकृतवर्णन वैलक्षण्यत एव दैष्णवेपु शिवदोहित्ववचनं भ्रान्तिविलसित प्रलोभनमात्रं वेति विष्टवेदितम् । अहे तर्हि कस्मान्महेश्वरो न वन्द्यते, कस्मात् तदालयं प्रति न गम्यत इति चेत् — मोह । वन्दनच समनियते । वचनानि तावदत्रापेक्षितानि तत्परविचारे प्रदर्शनः । इदं तु किञ्चित् पृच्छामः अस्तु तावदयं जीवविशेषोऽस्मार्मिन वन्द्यत इति । बुद्धः ऐक्याथ पतिप्रसाधनम ९०९ साक्षाद् भगवोऽवतार इति भागवतादिप्रसिद्धमेतत् । कथं भवद्भिरस्माभिश्च वुद्धो न वन्यते, बुद्धायश्च न प्रविश्यते । ते पाषण्डिनः, ये बुद्धोपदेशमनुरुन्यत इति चेत् किं तेन स तु वुद्धः साक्षादू भगवानेव A 1 पाष पिंडलक्षणञ्च शास्त्रस्यमिदम्, यत्–‘ये तु सामान्यमावेन मन्यन्ते पुरुषोत्तमम् । पाण्डवाः सर्वकर्म । अत्र प्रतिपदमवधातव्यम् । सुदूर गखा । सोदिषु विद्रोहित्वनर कप्राप्त्यादिवर्णन शतभूपणीकृतं प्रतिविधातुरिं दिवमदर्शनमात्रम् । शिवस्य वैष्णवानाञ्च सौहारे प्रथिः । शिवकार्न की शिवहिलका ॥ विविशिवमुखको पुराणपणानप्रभावः । नरकनिखनामा करिपुर्नविकर्म नः सदाऽस्तु ॥ शुभमस्तु । श्रीः