४७ विकल्पप्रामाण्य-प्रसाधनम्

स्वसंकल्पक्लुप्तप्रपञ्चस्य विष्णो जंगुर्निष्प्रपञ्चत्वहेतुं नियोगम् । परेऽन्ये तु नैच्छन् ततस्तद्विचारात् विरम्याssहताथो विकल्पार्थचिन्ता ॥ न कल्पते येन विकल्प्यतायै कल्पद्रुमो वाऽप्यथ कामधेनुः । अनन्तशाखोत्थफल द्विजेडयं हरिं नमोऽशेषनिवासवृक्षम् ॥ माध्यमिकैः विप्रतिपन्नः प्रत्ययो निरालम्बनः प्रत्ययत्वात् स्वप्नादिप्रत्ययवदिति शून्यस्थापने प्रवृत्तम् । अधिष्ठानस्य निर्विशेषस्याङ्गीरात्तु अद्वैतिभिः ८९६

प्रत्ययत्वेन ग्रहणमनुपपन्नमिति मत्वा ब्रह्मविषयकनिर्विकल्पवारणाय विकल्पो मिथ्याविषयः विकल्पत्वादिति विशेषे पर्यवस्थापितपनुमानम् । तत्र शतदूषप्युक्तदूषणपरिहाराय शतभूषणी पक्षसाध्यहेतून् अन्यथा परिष्करोतियथा— सत्तादात्म्यावगाहिज्ञानमधिष्ठानविपमसत्ताकप्रकारकं बाधितार्थकं वा अधिष्ठानारोप्यविषयकज्ञानत्वात् शुक्तिरजतमस्तीतिज्ञानवदिति । अत्रोच्यतेघटोऽस्तीत्यादिज्ञानं सत्त्वप्रकारकघट विशेष्यकमेव न तु सत्तादात्म्यावगाहि । कथञ्चित् घटोऽस्तीति तार्किकमीमांसकवैयाकरणपक्षान् प्रथमान्तार्थ धात्वर्थाख्यातार्थभावना मुख्यविशेष्यकबोधरूपान् परिहृत्य सत्त्वाश्रयविशेप्यकबोधकल्पनेऽपि प्रत्यक्षे तादात्म्यमानाभावस्य अवयवग्रन्थे दीधित्युक्तप्रकारेणाङ्गीकार्यतया प्रकृते पक्षीभूतः प्रत्यक्षात्मक विकल्पः सत्त्वप्रकारकघटविशेष्यक एव । अतएवाधिष्ठानस्य ब्रह्मणो विशेष्यतया भानाभावादधिष्ठान विशेष्यकारोप्यप्रकारकज्ञानत्वहेतुः तद्रूपपक्षतावच्छेदकधर्मश्चासिद्धः । अधिष्ठानविषमसत्ताक प्रकारकत्वरूपसाध्याप्रसिद्धिरपि । सत्तात्रैविध्यवादिमते घटोस्तीत्यादौ व्यावहारिक सत्ताभानस्यैवेष्टतया तदा तस्य ज्ञानस्याविष्ठानविशेष्यकारोप्यप्रकारकज्ञानत्वाभावात् सदिति ब्रह्मण एव भानमिति पारमार्थिक सत्तामात्रवादिमत एव प्रकृतानुमानप्रयोगात् तत्राधिष्ठानविषमसत्ताकत्वस्य घटादावभावात् । यदि न्यूनकालसंबन्धरूपसत्ताऽस्तीति घटादौ तत्साधनम्, तत् द्वैतिनामपीष्टमिति व्यर्थमनुमानम् । अतो बाधितार्थकत्वमेव साघनीयम् । तत्तु बाधितम् । प्रत्ययो निरालम्बन इत्यनुमाने “वैधर्म्याच्च न खप्नादिवत्” इति सूत्रे जागरप्रत्ययस्या बाधितार्थकत्वं प्रदश्य दोषस्योपन्यस्ततया बाधितार्थकत्वबाधसिद्धेः । नेदानीं बाधोऽस्ति किंतु पश्चादेवेति चेत् — यदा कदाचिदिप्यताम् । त्रैकालिकाभावप्रतियोग्यर्थकत्वं तत्र दूषितमिति भवदनुमानमपि दूषितमेव । कादाचित्काभावप्रतियोगि विषययकत्वसाधने तु सिद्धसाधनम् । कादाचित्काभावोपपादनञ्च यदि द्वैत निषेधश्रुतिमूलं क्रियते, तदा तासामर्थान्तरखर सत्वोपपादनेन तन्निरासे बाधितत्वं तदवस्थमेव । एवमभावप्रतियोग्यर्थकत्वे साध्ये सत्प ;

विकल्प प्रामाण्य प्रसाधनम्

• ལ दवाच्यब्रह्मरूपस्यैवाभावप्रतियोगित्वसंभावनया विपरीतसिद्धिश्च । ब्रह्मनिष्ठाभाषप्रतियोगित्वसाधने च घटादौ तदनाधारकत्वमेव सिद्धयेत् । न तु वस्त्वभागः । तदितरावृतित्वविशिष्टतन्निष्ठाभावप्रतियोगित्वञ्च दुःसाधम् ; घटादौ भूतकादिवृत्तितया बाधात् । श्रौत ब्रह्मासिद्धौ च दृष्टान्ते साध्यवैकल्यमपि । मधिष्ठामविशेष्यकारोप्यप्रकारकज्ञानत्वादिति हेतुरप्यसिद्धः । ’ घटोऽस्ति इति ज्ञाने सद् भासते; तत् अधिष्ठानम् ; घटस्तवारोपित ’ इति यदि ज्ञानं प्रागेबास्सि, किमिति बाधितार्थकत्वसाधनम् ? यदि नास्ति, कथं हेतुज्ञानम् ! यदि चाधिष्ठानत्वारोप्यत्वादिकमविवक्षितमिति किञ्चिद्विशेष्यककिञ्चित्मकारकज्ञानत्वादित्येवोच्यते, तर्हि सद्विशेष्यकज्ञानविशेषस्यैव पक्षीकारात् तदतिरिके चैत्रः पचतीत्यादिज्ञानेऽपि हेतुसत्त्वात् तत्र साध्यस्य प्रागसिद्धतया अनेकान्तः । सर्वस्य ज्ञानस्य पक्षीकरणे च विकल्पसामान्यग्रहे शतदूषणयुक्तदोषः स्यादिति सत्तादात्म्यावगाहि विकल्पमात्रे पर्यवसानं भवत्कृतं त्यक्तं भवति । तथाच प्रकृतानुमानजन्यानुमितौ बाधितार्थकलविधेयिकायां बाधितार्थकत्वस्य प्रकृतानुमानतः सिद्धौ विकल्पानां सर्वेषामबाधितार्थकत्वसिद्धिः । अन्यथाऽत्रैव व्यभिचारः । अथ सद्विशेष्यकब्रह्मव्यतिरिक्तप्रकारकत्वादिति हेतुरस्तु । प्रकृतबाधितार्थकत्वानुमितौ तन्नास्तीति न व्यभिचार इति चेन्न प्रकृतपक्षोऽस्तीत्यादिज्ञाने हेतुसत्त्वात् तत्र साध्यस्याङ्गीकार्यतया प्रकृतपक्ष एव नास्तीत्यवसायात् तदभाववेदिना तत्पक्षीकारेण प्रयोगायोगात् । आश्रयासिद्धेः । सति पदार्थाभावेऽप्यन्यत्रास्तीति चेत् —न — अन्यथाख्यातिखीकारापत्त्या वस्तुमिथ्यात्वापायात् । अनिर्वचनीयासिद्धिश्च वक्ष्यते । हेतुपक्षतावच्छेदकयोरक्यादनुमानं न संभवतीति च प्रागेवोपपादितम् । अप्रयोजकश्च हेतुः । श्रुत्या बाधितार्थकत्वसिद्धावनुमानवैयर्थ्यम् । श्रत्यर्थश्चान्य एवेत्याकर एव व्यक्तम् । तौ सद्विशेष्यकत्वादेर्व्यभिचारवारकतया सार्थक्यं न भवति । सिद्धान्ते सप्रकारकज्ञानसामान्यस्य मिध्यार्थविषयकत्वस्यांगीकृतत्वात् । घटोऽस्तीत्यादौ प्रत्यक्षे सद्विशेध्यकत्वानुभवा भावस्योक्ततया हेत्वसिद्धिश्च । अथ सत्त्वनिष्ठविषयता 113 દ્રઢ

निरूपितविषयतानिरूपकत्वमेव हेतुः । अखण्डाकारवृत्तौ च निरूप्यनिरूपकभावापन्नविषयताद्वयाभावान्न व्यभिचार इति चेन्न सत्त्वेन वेद्यत्वस्याबाधितार्थकत्वं प्रत्येव प्रयोजकतया विपरीतसाधकतया हेतोर्विरुद्धत्वात् । सत्त्वनिष्ठेत्यंशत्यागेन हेतुप्रयोगेऽप्यप्रयोजकत्वं द्रष्टव्यम् । बाधितत्वं तु प्रागेवोक्तम् । अन्यथा विकल्पत्वादिति स्थाने वृत्तित्वात् ज्ञानत्वादिति प्रयुज्य ब्रह्मापि बाध्य ताम् । स्वयम्प्रकाशत्वात् कथं बाघ इति चेत् — स्वयम्प्रकाशत्वं ज्ञानान्तराणां सुखदुःखादेश्व तुल्यम् । तत्र ज्ञानान्तरवलादेव वेद्यत्वे अत्रापि तदेव किं न भवेत् । विप्रतिपन्नं परप्रकाश वस्तुत्वात् घटादिवदित्यनुमानस्यापि संभवान् । श्रुतिप्रमितं ब्रह्म न हेयमिति चेत् — तुल्यमिदं प्रपञ्चेपि तद्विभूतौ । अद्वैतश्रुतीनां मानान्तरप्रतिपन्नार्थाविरोध्यर्थपरत्वस्य भवदीयातिरिक्त सर्वतान्त्रिक संप्रति पन्नत्वात् । ‘आत्मघातिनामीदृशानाम्’ इति अनुमानस्य स्वघातित्वे शतदूषण्या प्रोच्यमाने आत्महत्याकरत्वेनाद्वैतिनो दूण्यन्त इति स्वयमबद्धं कृत्वा, ‘न वा आत्महत्या अद्वैतिनः’ इति विलिख्य तदुपर्यसह्येनाऽऽग्रहेण खण्डनतुण्डनमुण्डनपरमात्महत्यापर्यन्तप्रवृत्तिः शतभूषण्यादृता न साम्प्रतम् । " निर्विकल्पकस्य संवादो विकल्पगृहीतो न वा । आद्ये विसंवादि निर्विकल्पकं स्यात् । अन्त्ये स्वेनापि संवादाग्रहणात् तदसिद्धिः" इति शतदूषणीप्रतिपाद्यम् ’ । शतभूषणी तु वदति ’ प्रमाणानां स्वतः प्रामाण्यात् । घटादीनामिव ब्रह्मणो बाधाभावात्’ इति । किमत्र विवक्षितम् । संवादः प्रामाण्यम् । तत् स्वतो गृह्यते । अतो न विकल्पापेक्षेति चेत् यदि निर्विकल्पकं निर्विशेषवस्त्विव स्वनिष्ठप्रामाण्यमपि गृह्णाति कथं तत् निर्विकल्पकम् । निर्विकल्पकज्ञानमसंवेद्यमनुमेयमेवेति नैयायिकाः । संवेद्यं यत् ज्ञानम्, तस्य संवेद्यत्वं ज्ञानान्तरमादाय वर्ण्यते चेत्, गौरवमिति तस्यैव तत् स्वप्रकाशमिष्टम् । अतो निर्विकल्पक प्रामाण्यस्य विकल्प ग्राह्यत्वं न शक्यं प्रतिषेद्धुम् । निर्विकल्पके प्रामाण्यमस्तीति यो विकल्पः, स च सत्तादात्म्यावगाहितया प्रामाण्यस्य बाधि विकल्पशा राण्य-प्रसाधनम् ८९९ तत्वमेव स्थापयेत्ः अपिच प्रामाण्यं नाम तद्वति तत्प्रकारकत्वं परिभाषोक्तम् । तत् निर्विकल्पकज्ञानस्यासंभावितम्, प्रकारानवगाहित्वात् । तदभाववति तत्प्रकारकत्वाभावः प्रामाण्यमिति चेत्-घटपटादेरपि प्रामाण्याश्रयत्वापातः । निर्विषयकतया किञ्चित्प्रकारकत्वस्याभावात् । ज्ञानत्वमपि समुच्चेयमिति चेत्ब्रह्मातिरिक्तविषयकनिर्विकल्पस्यापि प्रामाण्यापत्तिः । सोयं देवदत्त इत्यादेर्ज्ञानस्य व्यक्तिमात्रविषयकत्वस्य भवदिष्टत्वात् । घटादिसविकल्पात् पूर्वं निर्विकल्पस्यापि शतभूषण्यां प्रत्यक्षनिरूपणावसरे उक्तत्वाच्च । तत् सधैं नेष्यते चेत् — ब्रह्मनिर्विकल्पकमपि श्रुतिविरोधात् नैवेष्टुं शक्यम् । स्थापितञ्च प्रागेव, न सर्वप्रकाराभानप्रयुक्तं निर्विकल्पकत्वम् । किंतु संस्कारसंभेदाभावप्रयुक्तमिति । न च निर्विशेषं प्रामाणिकम्, येन तम्मात्रज्ञानस्यान्यादृशनिर्विकल्पकत्वमवर्जनीयं स्यात् । स्वतः प्रामाण्ये च ज्ञानानां घटादिविकल्पानामपि प्रामाण्यस्प गृहीततया तद्विरोधादद्वैतश्रुतयः अविरोध्यर्थान्तरग्रहणेनैव प्रमाणमिति प्रकृतानुमानस्य बाधितत्वमेवैतावतोक्तं भवति । अतो बाधक ज्ञानस्य दुर्वचतया घटादीनां वास्तवपदार्थत्वात् अन्यस्यान्यथोल्लेखाभावात्, मिथ्याविषयकत्वरूप साध्यस्य बाधकज्ञानान्तरवत्त्वानर्थभूतत्वानर्थ विषयकत्वान्यप्रकारोल्लेखादिनिर्वचनानि अशक्यस्थापनान्येवेति स्थिते, सर्वे कल्पाः सुवचा इति लेखन बाधितम् । सर्व श्रुत्यर्थनिरूपणे आयतत इति च किं पृथगेतद्विचारेण । स्मृतिप्रामाण्यानभ्युपगमपक्षस्वीकारेणापि विकल्पाप्रामा सुवचमिति वादस्तु यथावत् शतदूषणीपङ्कयनवलोकनात् । " स्मृतित्वलक्षणमप्रामाण्यं प्रसज्येत ; न पुनर्विसंवादित्वलक्षणम्” इति युक्तम् । तदवधाने च कृते स्मृतिन्यायेनाप्रामाण्यवर्णनस्य नैव प्रसक्तिः । " स्मृतिरूपः परत्र पूर्वदृष्टावभासः" इत्यध्यासभाष्यवास्तवार्थ विचारश्चानपेक्षितोऽस्माकमिति त्यज्यते । पदेपदे शतदूषणीपङ्क्तीनामशुध्द मुद्रणहृष्टप्रकारेणानुवादो वाक्यार्थापरिज्ञानमेव शतभूषणी कर्तृगतं प्रकटयेत् । यदुक्तम् श्रवणादिज्ञानानामखण्डार्थवृत्तिरूपत्वात् ब्रह्मणो विकल्पविषयत्वाभावेऽपि श्रोतव्यत्वादिसंभव इति — तन्न –अखण्डवाक्यार्थखण्डनस्य प्रागेव कृतत्वात् शब्दावेद्यत्ववादिनां भवतामपि तस्येष्टत्वात् श्रवणस्य नानापदार्थावगाहिनो विकल्पत्वस्यावश्यकत्वात् । मननमप्यनुमानेन गृहीतार्थ स्थापनरूपमिति अनुमितेरुद्देश्यविधेयोभया वगाहित्वस्यावश्यकतया विकल्पत्वमेव । मतार्थध्यानमपि तथा । असंप्रज्ञातसमाधावपि शब्दानुल्लेखेऽपि विशेष्य प्रकारो भयावगाहनमपरिहार्यमिति प्रागेवोपपादितम् । तस्मात् विकल्पविषयत्वेन बाधितत्व प्रकल्पने । ब्रह्मणोऽप्यस्तु बाध्यत्वम्, जयेन्माध्यमिकस्ततः ॥ सत्तादात्म्यावगाह्यत्वात् बाधेऽन्यस्य तु कल्पिते । तत्तादात्म्यावगाह्यत्वात् स्वप्नवत् सच्च बाध्यताम् ॥ बौद्धाः खपरसिद्धस्य हेतुतामात्रकल्पकाः । अद्वैतिनः साध्यसमैरा तिष्ठन्तेष्टसाधनम् ॥ शुभमस्तु श्रीः