विद्ये द्वे वेदितव्ये विभुपर विषये ये परा चापरा च प्राप्या त्वाद्याsत्र वेदस्मृतिमुखवचनोपासनस्यैव भूम्ना । तस्मादेवाक्षराख्यप्रकृतिपरपरं त्वक्षरं योगिदृश्यं व्यक्त वक्तुं स्वमीशो गुरुरवतरः श्रोत्रियो ब्रह्मनिष्ठः ॥ आवर्तितोपनिषदो ऽन्वहमर्थ आसां ब्रह्मेति चिन्तनपरा अपि शब्दजन्याम् । ब्रह्मापरोक्ष्यमयवृत्तिमुदीर्य चित्रम्, नो शब्दवेद्यमिदमीषदपीति चाहुः !! ब्रह्मशब्दवृत्त्यनुपपत्तिवाद इति प्रथमवादशीर्षकमपि यथवदगृहीत्वा ब्रह्मणि शब्दवृत्त्यनुपपत्तिरुच्यत इति स्वगृहीतानुरोधेन सर्वशब्दविचारस्य शतभूषण्यां प्रथमवाद एव नीततया तत्रैव सर्वं विस्तरणोक्तमिति वादेऽस्मिन् विशेषतो न वक्तव्यं किञ्चित् । अतः सारं निष्कृष्य तदनौचित्यमात्र प्रदर्श्यते । मुण्डके, “तत्रापरा ऋवेदो यजुर्वेद" इत्यादिना साङ्गोपाङ्गाः सर्वे वेदाः ब्रह्मप्रतिपादकतया निर्दिष्टाः । “सर्वे वेदा यत् पदमामनन्ति" “तं त्वौपनिषदं पुरुष पृच्छामि " " तमेवैकं जानथान्या वाचो विमुञ्चथ, " नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ “, " येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् “, उत तमादेशमप्राक्ष्यः “, " भूय एव मा भगवान् विज्ञापयतु " ’ आचार्यवान् पुरुषो वेद’ ’ अधीहि भगव इति होपससाद’, ‘वेदैश्व सर्वैरहमेव वेद्यः’, ‘तावन्ति हरिनामानि’, ‘स्तवैरर्चेन्नरः सदा’, ‘विष्णुनामा स वेदेषु वेदान्तेषु च गीयते’, ‘अथातो ब्रह्मजिज्ञासा’, ‘आत्मेति तूप ’ गच्छन्ति ग्राहयन्ति च’, ‘शास्त्रयोनित्वात्’, ‘श्रुतेस्तु शब्दमूलत्वात्’ इत्येवं ८८६
ब्रह्मण एव शब्दवेद्यत्वं सुप्रसिद्धम् । एवंसति विपरीतार्थदर्शीनि कानिचिद् वचनान्यपि लक्ष्यन्ते, “यतो वाचो निवर्तन्ते”, “न चक्षुषा गृह्यते नापि वाचा,” “यद् वाचाऽनभ्युदितम्”, “प्रत्यस्तमित मेदं यत् सत्तामात्रमगोचरं वचसामात्मसंवेद्यम्” इत्येवम् । तत्रापरिमितगुणविभूतिविस्तारतया, ‘चतुमुखायुर्यदि कोटिवक्त्रः’ इत्युक्तरीत्या कात्स्म्र्त्स्न्येन वक्तुमशक्यत्वमेव वागवेद्यत्ववचनतात्पर्यविषयः कचित्तु परमात्मनो भ्रान्तपुरुषकर्तृकवागगोचरत्वमपि, कचिच्च विधिनिषेधा गोचरत्वमपीति सर्ववेद वेद्यत्वादिसंप्रतिपन्नार्थाविरोधेन सहदयं निर्वाहे सुकरे, अद्वैतिनोऽन्यादृशमेव पन्थानमादृतवन्त इति तदनौचित्यमत्र प्रदर्श्यते । सगुणस्य ब्रह्मणः सर्वविद्या वेद्यत्वं न प्रतिषिध्यते । अवेद्यत्ववचनं तु निर्गुणविषयमिति तदाशयः । ब्रह्मात्मादिशब्दास्तावत्, ‘बृहति बृंहयति तस्मादुच्यते परं ब्रह्म’, ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह’ इत्यादिबलात् किञ्चित्प्रवृत्तिनिमित्तविशिष्टमेव वदन्तीति न तेषां निर्गुणशक्तत्वम् । एवं सर्वेषां संगुणशक्तत्वात् यदृच्छाशब्दानां देवदत्तादाविव ब्रह्मणि निर्गुणे संकेत्यमानशब्दस्यादर्शनात् वाक्यस्य सुतरामनेकपदार्थान्वयपरतया निर्विशेषबोधकत्वायोगाच्च न निर्विशेषं शब्दवेद्यम् । निर्विशेषादिपदमपि विशेषाभावादेः प्रकारतया प्रतिपादकत्वात् न व्यक्तिमात्रपरम् । तर्हि कथं निर्गुणसिद्धिरिति चेत् — विशिष्टरूपेण प्रतिपादितेऽस्मिन् विशेषणानां द्वैतनिषेधश्रुत्या ‘नेति नेती’त्यादिकया प्रतिषेधे शुद्धखरूपलाभोऽर्थात् । तस्य च शुद्धखरूपस्य भावाभावरूपविशेषणानालीढतया केनापि वचसा वेदनाभावादवेद्यत्वं युक्तमेव । एवश्च तत् त्वमसीत्यादिकमपि विशेषणत्यागे तदर्थे पर्यवसास्यतीत्येतावदेव सहृदयाद्वैतिसंमन्यमानम् । एवमपि वाक्यार्थ चर्चावसरे किमप्युद्गीर्य वृथावाद विस्तृण्वते यथा ‘यतो वाचो निवर्तन्त’ इति वाक्यं वाग्विषय एव ब्रह्मणि वाग्विषयत्वाभावपरमपि भवितुमर्हति, ब्रह्मसमसत्ताकस्य वाग्विषयत्वस्याभावादिति । इदं न युक्तम् जागरका लिकप्रातिभासिकेषु व्यावहारिकशब्दगो शब्दवेधत्व-प्रसाधनम् ८८७ चरेष्वपि स्वसमसत्ताक वाग्विषयत्वाभावेन, यतो वाचो निवर्तन्त इति स्तवापतेः । वाङ्मनसयोः मतोरेव च ब्रह्मतो निवृत्त्युत्तया वाङ्मनससमसत्ताकस्य विषयत्वस्यैवाभावोऽत्र प्रतीयते; न तु ब्रह्मसमसत्ताकविषयत्वाभावः । एवं ब्रह्मण आनन्दस्य च गुणगुणिभावस्योत्तरार्धेऽवगत्या सगुणत्वदशायामेव वानिवृत्तिकथनात् वाग्विषयत्वाभावोऽपि व्यावहारिक एव निरूपणीयः, न पारमार्थिक इति । मन्ये वाग्लक्ष्यत्वेऽपि वाग्वाच्यत्वं नास्तीत्याहुः तदपि न वाच्यताया इव लक्ष्यताया अपि लक्ष्यतावच्छेदकधर्ममुखेनोपपाद्यतया तदयोगात् । शक्यसंबन्धरूपलक्षणाया अभावे लक्ष्यत्ववर्णना योगाश्च । शाखाचन्द्रस्थले शाखायाः आर्जवादिः संबन्धोऽस्त्येव । निर्विशेषेऽपि व्यावहारिको लक्ष्यतावच्छेदकधर्मः, व्यावहारिकः शक्यसंबन्धः, व्यावहारिकी च लक्ष्यता भवेदिति चेत्, तथा व्यावहारिको वाच्यतावच्छेदकधर्मः, वाच्यता च व्यावहारिकी भवितुमर्हतीति । अतो वाच्यत्वाभाववर्णनमयुक्तम् । एतदुक्तं भवति – सगुणं ब्रह्मेत्यनेन शुद्धब्रह्मण्येव किं गुणसंबन्धो विवक्षितः, उत शुद्धादन्यदिदं सदेति । अन्त्ये गुणविशिष्टात् शुद्धस्येव लक्ष्यतादिविशिष्टादपि शुद्धस्य मिन्नतया शुद्धे लक्ष्यतापि दुरुषपादा । आधे गुणसंबन्धवत् वाच्यत्वस्यापि धर्मिणि सुवचतया वाच्यत्वाभावकथनं न घटत इति । यथा कुण्डली देवदत्त इत्यत्र कुण्डलिपदवाच्यत्वं देवदत्तस्य तथा विशिष्टांशे विशेष्यस्य वाच्यत्वमस्त्येव । किञ्च यदि विशिष्टमिव शुद्धमपि किञ्चिदभविष्यत्तन्मात्रवाचकमपि पदं किमपि वेदो निरदेक्ष्यत् । वाक्यशेषञ्च तदर्थख्यापनाय प्रास्तोष्यत् । अभावादवसीयते तदेव नेति । ‘प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तद् ज्ञानं ब्रह्मसंज्ञित ‘मिति निर्दिष्टं पराशरेणेति चेत् — न ; ‘बृहत्त्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयत’ इति विशिष्ट परत्वेन संप्रतिपन्नसंज्ञाया एव निर्देशेन श्लोकस्य तदविरोध्यर्थान्तरपरत्वं हि निश्चीयते । तच्च प्रागेवोक्तम् । तस्मात् सगुणनिष्ठस्य वाङ्मनसविषयत्वा ટટટ
भावस्यैव संदर्भतोऽप्यवगमात् दमेवापि नूनं त्वं वेत्थ ब्रह्मगो रूपम्” इत्य दिकेनोपनिपदनुसाराच्च कात्स्न्यैन ब्रह्मणि वागादिविषयत्वाभावः सार्वकालिकः यतो वाचोनिवर्तन्त इत्यस्यार्थः 1 यद्यपि पामराणां त्रिवर्गपराणां वाचो मनश्च यतो निवर्तन्ते, ईदृशानन्दसान्द्रमप्यननुभूय हन्त वाङ्मनसयोरन्यत्र विनियोजनेन दुःख्यन्त एवैव भ्राम्यन्ति, तद्वेदनं कर्तव्यमित्यर्थ वर्णनेनापि सुनिर्वहमिदं वाक्यं नाद्वैतार्थावकाशप्रदम्अर्थापि पामरदुरवगाहत्वापेक्षया ब्रह्मज्ञैरपि दुवरगाहमित्यर्थवर्णने प्रशंसा धिनयं प्रकरण संगमनं परमार्थकथनञ्च भवतीति तथार्थवर्णनमादृतम् । किञ्च यत इति ब्रह्मनिर्देशादेव तदवाच्यत्वमपास्तम् । अपिच यतो वाच इति मनोमयपर्यायावसाने आनन्दरूपगुणमीमांसावसाने च द्विः पठ्यते तत्र प्रथमे यच्छब्देन ब्रह्मग्रहणस्य कथञ्चित् संभवेऽपि द्वितीये आनन्दस्य निरतिशयत्वनिरूपणौचित्याय यत इति ‘आनन्दं ब्रह्मण’ इति व्यतिरेक निर्देश सुव्यक्तब्रह्मनिष्ठानन्दरूपगुणग्रहणमेव कार्यमिति तस्य ब्रह्मनिष्ठस्य निरवधिकविभूतिमत्त्व निबन्धनस्य निर्विशेषत्वप्रयुक्तवाङ्मनसातीतत्ववर्णनं सर्वथैवासंगतमिति अपरिच्छिन्नत्वप्रयुक्तमेव वाङ्मनसातीतत्वं तदर्थः । आनन्दो ब्रह्मण इति षष्ठी राहोः शिर इतिवत् काल्पनिक भेदाश्रयणेनेति कल्पनायाञ्च न वाक्यार्थस्वारस्यमुपपादितं भवति । क्लिष्टनिर्वाहत्वा देवोपेक्ष्यत्वात् । शतगुणितक्रमेण परिच्छिन्नानन्दवत्त्वेनोक्तस्यापरिच्छिन्नानन्दवत्त्वकथनायोगादिदं शुद्धपरमिति चेन्न शतं सहस्रमयुतं सर्वमानन्त्यवाचकमिति शतपदघटितवाक्यस्याप्यानन्दापरिच्छिन्नत्व एव तात्पर्यात् । आदावसंभावितमानुषानम्दकल्पनयैव गुणनस्य क्रियमाणतया अपरिच्छिन्नत्वस्य तत्रैव सिद्धेश्च । अपरिच्छिन्नानन्दमादाय शतगुणनमत्यन्तापरिच्छेदमेव दर्शयति । ब्रह्मानन्दस्य शतगुणितत्वकथनपूर्वकं यतोवाच इति कथनाच्च अपरिच्छिन्नानन्दस्य शतगुणिततारूपपरिमितत्वासंभवेन ब्रह्मानन्दैकदेश एव चतुर्मुखानन्दशततुल्यत्वमभिधाय एवंविध गुणनानन्तरमपि उपर्युपरि गुणने प्रवृत्य अशक्त्यैवोपरतेन वेदेन यतोवाच इत्युच्यत इति ज्ञायते । प्राशस्त्यलाभात्, “यदि मन्यसे सुवेदेति शब्दवेद्यत्व-प्रसाधनम् ८८९ एवं गृहीतार्थविरोधकल्पनं विना गृहीतार्थपरिपोषकार्थसंभवे किमिति, सविशेषपरवाक्यावगत विशेषाणां ब्रह्मनिष्ठानां कदाचित् ब्रह्मणि निराकरणेन, ‘पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे ‘त्यनोपाधिकनित्यानन्तगुणक्रियाशालित्वेनावगमे सत्येव सर्वेषामविद्याद्युपाधिनिबन्धनत्वबाध्यत्वापारमार्थिकत्वादिकल्पनेन च ’ विषमसत्ताकविशेषवत्त्वं सविशेषवाक्यार्थः, समसत्ताकविशेषाभावश्च निर्विशेषवाक्यार्थ इति विभागवर्णना । अस्य विभागस्य पारमार्थिकत्वेनावगतेषु अपारमार्थिकत्वबुद्धयापादकतयोत्थित्य संभवात् । सर्वथा धर्मिरूपव्यक्तेः शब्दवेद्यत्वे सति अवेद्यत्वञ्च कथम् । पारमार्थिकधर्म इति च किं भवतां प्रसिद्धं किञ्चिदस्ति यदत्र निषेधाय प्रसक्तं स्यात् । 1 स्थूलारुन्धतीन्यायेन सूक्ष्मवस्तुप्रदर्शनार्थ सर्वानमित्येतदपि तथाविधस्य तस्य प्रामाणिकत्वे स्यात् । प्रमाणावेद्यञ्च वो ब्रह्म । स्वप्रकाशबलाच तत् प्रकाशेत । विशेषासद्भावोऽपि ततो निर्णेतुं न शक्यते । प्रत्युतैकत्वानुकूलत्वादिधर्मवैशिष्ट्यमेव ततो लभ्यत इति च वक्ष्यामः । अपि च खप्रकाशमात्मानं प्रतिबोधयितुं प्रवृत्ताश्चेदुपनिषदः, स्थूलभूतदेह प्राणमनोमुखनिरसनेन तत्तद्विशेषनिष्का सेन सूक्ष्मं बोधयन्तु । किमिति शास्त्रकसमधिगम्यसहस्राधिकविशेषाश्रय सर्वेश्वरतत्त्वकल्पनेन तत्र विशेषनिषेधव्यवसायः । विशेषनिषेधोऽपि “लब्धरूपे कचित् किञ्चित् तागेव निषिध्यते” इति न्यायेन व्यक्तिग्रहणपूर्वमेव कार्य इति न शब्दावेद्यत्व संभवः । ’ तत्त्वमसीति बाधार्थसामानाधिकरण्यमस्तु’ इत्यप्यत एव निरस्तम् । विशिष्टरूपेण निर्दिश्य विशेषणमात्रनिषेधे विशेष्यभूतब्रह्म शिष्यत इति चेत् -विशिष्टरूपेण निर्दिशे विशेष्यस्यापि निर्दिष्टत्वात् शब्दावेद्यत्वं कथम् । सर्वनाम्नां बुद्धिस्थव्यक्तिवचनतया विशेषनिषेधानन्तरं बुद्धाववस्थापिततद्व्यक्तिमात्रस्य तदादिना निर्देशसंभवादपि शब्दावेद्यत्वमयुक्तम् । अतो वाच्यविधया ब्रह्मवोधकत्वमपि स्यादेव । एवमपि वेदे तथा व्यवहाराभावात् तदभाव एव सिद्धयति । सति वस्तुनि, सति व तज्ज्ञापके वेदे वाच्यवाचकभावस्यानादितया, संकेतेनैव तस्य शब्दवेद्यत्व 112८५०
मित्यपि न भविष्यति । श्रुत्यनभिमतामेव संज्ञां प्रत्यस्तमित मेदमितिलोकेन पराशरश्चिकीर्षेच्चत् श्रुत्यननुसारितया तद्वचनमप्रमाणं स्यात् । अतोऽपि पराशरवाक्यमन्यार्थकम् । " न द्वैतिनो बापदमपि ब्रह्मावोधकमिति वदन्तिः किं तु वेदान्तवाक्यानि वाच्यविवया न तत् बोधययन्तीति” इति ब्रह्मणि पदवेद्यत्वमस्ति वाक्यवेद्यत्वं तु नास्तीति भवतोच्यते । तन्न सर्वत्र वाक्यमेव प्रमाणम् ; न तु पदम् । वेदान्ते वाक्यवेद्यत्वं यम्य न, तस्य पदवेद्यत्वमपि न भवेदेव; वाक्यानन्तर्भावेन पदमावतया किश्चिदेशस्थितेः प्रमाणभूते वेदान्ते वक्तुमशक्यत्वात् । पदेन ब्रह्मवोधने च तद्धटितवाक्येऽपि तस्य बोध्यत्वात् । शुद्धे पदार्थान्तरान्वयस्य दुर्वचतया वाक्यवशेव्यत्वं दुःस्वीकरमिति चेत्-पदवेद्यत्वमप्येवम्, वेद्यत्वस्यापि शुद्धिलावकत्वात् । " ब्रह्मण्यनिर्देश्ये” इति भागवतप्रश्नोत्तरविवरणं तु प्रागुपक्रम एव व्यवापि । “शुद्धस्यापि महावाक्यजन्याखण्डाकारवृत्तिव्याप्यतया वेदान्तवेद्यत्वं ब्रह्मणोऽद्वैतिनोपि न निहुवन्ति” इति लिखता भवता एतद्वादपरीक्षणमारभ्य बहुलेखनं क्रियमाणमनवसरम् । ‘शब्दावेद्यत्वं निरस्य शब्दवेयत्वं स्थाष्यते चेत् तत् अद्वैतिनामिष्टमनुकूलञ्च’ इति परं विलिख्यो परन्तव्यम् । अन्यथा तु व्याहतिरेव । ब्रह्म शब्दवाच्यं वस्तुत्वात् घटवदित्यनेन सांकेतिकशब्दवाच्यत्वमादाय सिद्धसाधनं भवतोच्यते पूर्वपक्षप्रकारस्यापरिशीलनात् । एवं हि पूर्वपक्षिणोक्तम्घटादिष्वपि पारमार्थिकस्य वाच्यत्वस्याभावात् पारमार्थिकं वाच्यत्वं न साध्यम्; किंतु सामान्यतो वाच्यत्वम् । तत्र व्यावहारिकं वाच्यत्वमादाय घटादौ समन्वयः । ब्रह्मणि तदभावेऽपि प्रातिभासिकं वाच्यत्वमस्तु इति । अनेन च पूर्वपक्षिणा सांकेतिकशब्दवाच्यत्वं न विमृष्टम् । अत एव सिद्धान्ते तं प्रति, “संकेत्यतां व्यवहाराय तथाविधः शब्दोऽपि इत्युच्यते । अत एवं सिद्धसाधनमिति न युक्तं वक्तुम् । करिष्याम इति युक्तं कथयितुम् । / अनुमानमभ्युपगम्येतः परं संकेतमपि नूनं वसमत ब्रह्मणः ‘ब्रह्मसंज्ञितम्’ इति शब्दवेद्यत्व-प्रसाधनम् ८९१ किमिति च निषेध्यम् ; शब्दवाच्यं निर्वि शेष स्मृतिमनुरुध्य कथञ्चिद्वाचकशब्दखीकरणं खमतानुकूल्यायेति विमूश्य नूत्नोऽयं सांकेतिकस्वीकारधादः । भवत्वेतत् । काल्पनिकवाच्यत्वस्वीकारी पूर्वपक्षी कथं निराक्रियत इति चेत् — उच्यते । यदि घटादिवत् वाच्यत्वं ब्रह्मणीष्टम्, तर्हि ब्रह्म मिथ्या वाच्यत्वात् घटवदित्यादिप्रयोगापत्तिः । घटब्रह्मणोर्वाच्यत्वं विलक्षणं व्यावहारिकप्रातिभासिक भेदादिति चेन्न ब्रा खसमसत्ताकवाच्यत्ववत् वस्तुत्वात् घटवदिति घटतुल्यवाच्यत्वानुमानात् । साध्ये स्वपदं ब्रह्मपरं शब्दपरं वेति । तथाच वाच्यत्ववैषम्याभावात् सिध्यात्वसाधनं न हृष्यम् । अस्त्वयं मिथ्यात्वानुमानविचारः । लोकसिद्धवाच्यत्वातिरिक्तवाच्यत्वाभावो ब्रह्मणि साध्यत इति चेत् तत्सत्यं केनोक्तम् । असिद्धयोगिकत्वान्निषेधासभवश्चेति । त्रह्म न त्वादिति प्रत्यनुमानं शतद्रूपण्यामेव दूषितम् । ऋहा (पक्ष) शब्दवेद्यत्व साध्यवत्त्वोभवस्वीकारिणा निर्विशेषत्वादिति हेतुप्रयोगो विरुद्धः । एवं ब्रह्म न लक्ष्यम् ब्रह्म न वृत्तित्र्याप्यम् ब्रह्म न भासमानमित्याद्यनुमानापातश्चेत्यादि भाव्यम् । वस्तुत्वं व्यवहारकाला बाध्यसत्ताकत्वरूपम; अतो न शुक्तिरजते हेतुः । अथवा शुक्तिरजतादेरेव युक्तिभिर्निराकरणादसिद्धतया न तत्रानैकान्त्यप्रसक्तिरपि । अतः खसमसत्ताकवाच्चत्वं साधतुं शक्यम् । अथवा वाच्यत्वमात्रे साध्यम् । न च प्रातिभासिकमादाय सिद्धसाधनम् -प्रतिभासमात्रस्य संभवेऽपि प्रातिभासिक पदार्थो नास्तीति साधनेन तद्दोपपरिहरणात् । अन्यथा वाच्यत्वाभावः प्रातिभासिकोऽस्तीति तत्साधकभवदनुमाने सिद्धसाधनापत्तेश्च । , प्रत्यस्तमितभेदमिति श्लोको मुक्तजीवपर इति श्रीमाप्ये विशदं न्यरूपि । तत्र प्रत्यस्तमितभेदत्वसत्तामात्रत्वादिकं न घटत इति शब्दमात्रेण न किश्चित् । परिशील्य भाषितस्यार्थस्यादृपिततया भवद्वाक्यस्यैव तत्राघटमानता । यदि भवता, ‘बृहति बृंहयति तस्मादुच्यते परं ब्रह्मेत्यादि उपेक्ष्य निर्गुणे ब्रह्मसंज्ञाविधान ‘ब्रह्मसंज्ञित ‘मित्यनेन चिकीर्षितमित्युच्यते, तदपेक्षया मुक्ते ब्रह्मसंज्ञा विवक्षणमेव ततः समीचीनम् । मुक्तस्योभयसंप्रतिपन्नत्वात् । ब्रह्मशब्दस्य शुद्धजीवे प्रयो ८९२
1 गस्य गीतायां बहुत्र दर्शनात्, ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’, ‘अक्षरं ब्रह्म परमम्’, ‘ब्रह्मभूतः प्रसन्नात्मा’ इत्येवम् । अत एव परमात्मा, ‘परं ब्रह्म परं धाम’ इति परत्वेन विशेष्यते । ‘तस्मादुच्यते परं ब्रह्मे ‘त्यत्रापि । संज्ञितमिति प्रयोगोऽपि संज्ञायाः मुक्ते किञ्चिदमुख्यवृत्त्या समानयनमनावीति दर्शयति । भवत्पक्षे दोषान्तरप्रदर्शनाय, भवतु वा तस्य परब्रह्मविषयत्वमिति अनास्थायां वाशब्दे प्रयुक्ते स्थिते इदमेव शतदूषणीसंमतमिति कथं कल्प्येत । एवमेव सर्वश्रुत्यर्थ कल्पनगपि भवतामित्येतावदितः सिद्धयेत् । वचसामगोचरमिति सामान्यशब्दस्य वाच्यतया शब्दाविषयत्वमिति विशेषे पर्यवसानं यदीष्यते, मुक्तात्मस्वरूपं देवमनुष्यादिवागगोचरमित्यर्थे काऽनुपपत्तिरिति । अत्रेदमवधेयम् अवेद्य ब्रह्मेति वदद्भिरनुमानावेद्यमित्युक्तौ कामं मृष्येत । शब्दा वेद्यमिति तु नैवास्तिकसाम् । निर्गुणब्रह्म सर्वथैवाप्रामाणिकमिति च स्थितमन्यत्र ; अतस्तस्य शब्दवाच्यत्वमस्तीति स्थापनार्थं नैतद्वादारम्भः । सगुणस्य वाच्यत्वं भवतामपीष्टमेवेति न तदपि साधनीयम् । किंतु निर्विशेषमप्यस्ति । शब्दानां सप्रवृत्तिनिमित्तकत्वखाभान्यात् निर्विशेषस्य वाच्यत्वासंभवात् श्रुति नेत्रवतीति अद्वैतिमतं न युक्तम्, वेदपुरुषेणैव नामकल्पनसंभवात् तत एव तमित्यतया सहजवाच्यवाचकभावसिद्धेः । सर्वथा तस्य शब्दवेद्यत्वाभावे च तदुद्देशायोगात् तत्र प्रपञ्चरूपविशेषनिषेधस्यापि दुष्करत्वात् । अतो विशिष्टान्तर्गतविशेष्यांशतयेव पृथगपि तद् वेदवेद्यमेव स्यात् । तथाच यदि निर्गुणं स्यात् वाच्यं स्यात् । यतः शब्दवेद्यमपि तत् न वेदितम्, अतो नास्त्येव तदिति अत्र निरूष्यते । ननु स्यान्नाम निर्विशेषस्यापि किञ्चिद् वाचकम्, स्याच्च निर्विशेष विशिष्टवाचकपदेऽपि विशेष्यमात्रतात्पर्ये सति वेद्यम् — अथापि पदमात्रस्याप्रमाणत्वात् तद्धटितवाक्यप्रयोगे क्रियमाणे तद्घटकपदार्थानां मिथोऽन्वये च सति विशिष्टमेव वेदितं भवति, न निर्विशेषम् । यद्यपि सत्यं ज्ञानमित्यादि शब्दवत्कायनम् ८९३ समानाधिकरणवाक्यानामखण्डार्थबोधजनकत्वम् –अथापि न स बोधः प्राथमिकः, एकैकस्यापि पदस्य वस्तुतो विशिष्टपरत्वात् । अतो वाक्यजन्यप्राथमिक बोधाविषयत्वमेव शब्दावेद्यत्वमिति चेत् — अत्रोच्यते-अद्वैतिषु कैश्चिद् वाच्यत्वमेव नास्तीति, अन्यैः लक्ष्यत्वमपि नास्तीति, अपरैः स्वयम्प्रकाशत्वात् तस्य शब्दवेद्यत्वमेव नास्तीति, शब्दस्य प्रपञ्चनिषेधमात्रबोधकत्वमिति, इतरैः वेद्यत्वसत्त्वेऽपि तस्य मिथ्यात्वादवेद्यत्वमिति किमपि किमपि तत्र तत्रोक्तम् । तस्य तस्य यथाश्रुतेऽनुपपतिरस्ति । अत एवं भावो वर्णनीयःवाच्यत्वं नास्तीत्यस्य वचनार्हत्वं नास्तीति नार्थः ; किंतु वचर्नार्हत्वेऽपि वाचकं पदं न वेदे दृश्यत इत्यर्थः । लक्ष्यत्वं नास्तीति च विशिष्टान्तर्गते विशेष्ये पृथक्तात्पर्यविषये मुख्यार्थहानिप्रयुक्ताखारस्ये सत्यपि तत्र शक्यसंबन्धरूपलक्षणाया दुर्वचत्वादुच्यते । स्वयम्प्रकाशत्वात् वेद्यत्वं नास्तीत्यस्य च शब्दादिजन्यवृत्तिमात्रव्याप्यत्वेऽपि फलव्याप्यत्वं नास्तीत्यत्र तात्पर्यम् । मिथ्यात्वादित्युक्तिश्व, लोके पदार्थानां वेद्यत्वं पदार्थसत्ता समसत्ताकम् ब्रह्मणस्तु मुक्तौ सर्वयात् वेद्यत्वमपि निवृत्तमिति पदार्थान्तरवैषम्य प्रदर्शनार्था – इति । 1 अस्तु तावदेव खमते प्रमेयनिष्कर्षः । एतच्छोधनञ्च किमभिप्रायेण ‘यतो वाचो निवर्तन्ते’, ’ यस्यामतं तस्य मतम् ’ ‘यद् वाचाऽनभ्युदितम् ’ इत्यादिवेदान्तवाक्यानामीदृशार्थवर्णनेन स्वाभिमतस्य निर्विशेषस्य श्रुत्यारूढस्वप्र दिदर्शयिषया । एकं श्रुत्यर्थ वर्णनमप्यवेद्यत्वभावादे निरस्तमेव । शब्दवेद्यत्वे श्रुतयश्चात्र विशिष्य प्रदश्यन्ते । एवं वाग्भिरेवोच्यमाने तस्मिन् वाच्यत्वाभाववर्णनमयुक्तम् । अन्यथा घटपटादीनामपि घटत्वादि किञ्चिद्धर्मविशिष्टतयैव वाच्यतया व्यक्तिमात्रवचनाभावात् सर्वमेवावाच्यं भवेत् । एवमवाच्यत्वमात्रेण वस्तुतो निर्विशेषसद्भावासिद्धिश्च । वेदनादौ वृत्तिः फलमित्यशविभागेन वृत्तिव्याप्यत्वेऽपि फलव्याप्यत्वं नास्तीति वर्णनमप्यमुक्तम् अशविभागे प्रमाणाभावात् वेदनं ज्ञानमनुभव इत्यादीनां सविषयकैकवस्तुबोधकत्वात् अर्थान्तरस्येव ब्रह्मणोऽपि वृत्त्यवच्छिन्न चैतन्यविषयत्वमेव विशिष्टस्य शुद्धादतिरेक ८९४
कल्पनया वाऽन्यथपि वा वक्तव्यमित्युपपादितत्वाच्च । स्वयम्प्रकाशस्यापि ज्ञानान्तरवेद्यत्वस्य ज्ञानव्यत्तत्यानन्त्यस्य चानुभवसिद्धत्वाश्च । अवेद्यत्व-भङ्गवादे चास्य विस्तरः । ‘वेद्यत्वस्य मिथ्यात्वात् कदाचिदभाव’ इत्यप्ययुक्तम्मिथ्यात्व एव प्रमाणाभावात् । मिथ्यात्वे सर्वदेव तदत्यन्ताभावो वक्तव्य इति कदाचिदभाव इति कथनायोगाच्च । उत्तरकाले तदभावतात्पर्यकत्वे ‘यतो वाचो निवर्तिव्यन्ते ’ इति वक्तव्यं भवेत् । यस्यामतमिति भूतकालनिर्देशा योगश्च । अस्त्वत्यन्ताभाव एव विषय इत्य् अपि न वाचोनिवर्तन्त इत्यनेन हि वाचां सद्भाब एव ब्रह्मणस्तदविषयत्वमुच्यते । मिथ्यात्वपक्षे वाचामभावः तद्विषयत्वाभावश्च सह स्याताम् । न तु वाक्सत्त्वे विषयत्वमात्राभावः । विशिष्टान्तर्गतविशेष्यग्राहितया अखण्डपरतया वाक्यघटकपदार्थान्तरान्वयितया कथमपि वाग्विषयतायां सत्यां तन्द्रभावकथनमशक्यम् । अतो बहुदूरं कथितत्वेऽपि मतत्वेऽपि कथनीयमननीयानन्ताकारवैशिष्ट्यात् कार्त्स्न्येनावेद्यत्वमेव श्रुत्यर्थतया विवक्षणीयम् । स्वयम्प्रकाशत्वादिहेतुना तस्यावेद्यत्ववर्णनं त्वेवं निरस्यमेव । यत्तु वाक्यजन्यप्रथमबोधविषयत्वं निर्विशेषस्य नास्तीति तदपि न वस्तुतो निविशेषस्यैव सविशेषतया तत्र विषयत्वात् । निर्विशेषत्वेन रूपेण विषयत्वं नास्तीति चेन्न तस्यापि ‘नेति’ इति वाक्यप्रतीतत्वोक्तेः । प्राथमिकवोध इव पाष्ठिकबोधेऽपि अखण्डतन्मात्रविषयकतया निर्विशेषत्वेन रूपेण तदविषयकत्वमेवेत्यविशेषाच्च । निर्विशेषमात्र विषयकत्वं तु तस्याभावान्न भवतीति ब्रूमः । न केवलं निर्विशेषस्य, सर्वस्यापि पदार्थस्येतराग्रहर्णेन पृथग्ग्रहणं वाक्येषु न भवत्येव नानापदार्थान्वयविषयकत्वात् वाक्यस्य । तस्मात् स्वरस प्रकरणानुगुण प्रतीतार्थाविरुद्धार्थत्यागेन, ‘यतो निर्विशेषस्य शास्त्रार्थत्व’ मिति व्याहतवचनञ्चोपेक्षणीय मिति । अनुभूतेरवेद्यत्व-भङ्गः पूर्वं प्रपञ्चितः । G शब्दैकवेद्यं ब्रह्मेति यतस्तस्माद् विशेषतः ॥ १ * शब्दवेद्यत्व-प्रसाधनम् शब्द । वेद्यत्वमङ्गेन युक्तया श्रुत्याप्यनेकया । शब्दवेद्यत्वमत्रैवमस्य स्थापितमादरात् ॥ श्रुतिस्मृतिवाक्यानि चात्र वादे शतद्रूपण्यामन्यत्र च द्रष्टव्यानि ॥ व्यावृत्तमानुभविकादखिलात् यदेवं दूरच वाङ्मनसयोर्ननु तुच्छमेतत् । ईदृक् खयम्प्रभमपीदमितीयते चेत् कथ्येत तत् कथमवाङ्मनसानुबन्धम् ॥ शुभमस्तु ८९५ श्रीः