यन्माया विलयं न याति यमिमं तेते प्रपद्याञ्जसा मायासंतरणेन यान्ति परमं स्थानं निवृत्त्युज्झितम् । नित्यानित्यसमस्तलोक निलयप्रख्यातसूरिस्तुतो यद्वेष गुणैकधाम जयतु श्रीधाम दामोदरः ॥ अत्र वादे शतभूषण्यामौद्धत्यनिर्भराणि वाक्यान्यधिकानीत्ययमेव विशेषः । ’ यदा च भवदभिमता सदसद्विलक्षणे’ त्यादि एतद्वादान्तशतदूषणीवाक्यं तु न कञ्चिद्वैतिनं निन्दति न कुत्राप्याक्रोशमपि प्रदर्शयति । अपि स्वलीलयैवाभिमतमर्थं मनस्यर्पयितुमनुरूपदृष्टान्तग्रथनमात्रम् । तावदपि निवृत्त्यनुपपत्तिप्रदर्शनपर्यन्तभागेन प्रायः श्रीमाप्ये तन्मतसंमतसर्वांशदूषणस्य निष्पन्नतया तदर्थोपसंजिहीर्षामात्रेण । काममेष “महत्या चूर्णिकया शतदूषणी आत्मानमेव चूर्णयति” इति धृष्टं ब्रूताम् ; सर्वप्रपञ्चनिवृत्त्याशंसन इवात्राप्यनुपपत्तय एव खहानिवहा इत्यलमनेन । यत्तु पञ्चमं प्रकारमिदन्तया न निर्वक्ति ; अज्ञात्वैव खण्डनमित्यादि तत् तदुपन्यस्तदूषणगणान्मोचयितुमशक्यमित्येतदज्ञानादिति दर्शयिष्यामः । इष्टसिद्धौ प्रथमाध्यायनवमकारिकाविवरणे, अन्तिमे चाष्टमेऽध्याये अज्ञाननिवृत्तिविषये पञ्चमप्रकारत्वाशयेन यदुपन्यस्तम्, तत् सर्वमालो यात्रानूदितमिति तावत् उभयग्रन्थदर्शिनां सुगमम् । तत्र पक्षचतुष्टयनिरासेन पञ्चमः परमवशेषितः । इह पुनः पक्षत्रयनिरासेन असत्पक्षे क्षणं स्थित्वा पञ्चमपक्ष प्रत्युपसर्पणं प्रादर्शि । नैतदकाण्डताण्डवम् । सर्वत्र सदसद्वैलक्षण्यं ब्रह्मतुच्छोभयभिन्नत्वरूपमावर्तयद्भिर्भवद्भिरिह परं भावाभावविलक्षणस्वरूपमभिमन्यते । इष्टसिद्धिरपि, " भावोऽभावो वा स्यात् अभावश्च भावान्तरं भावान्तरधर्मो वा ; न तुच्छः " इति अत्र संदर्भे अज्ञानविषये लिखति । तत्र भावाभावविलक्षणभूताज्ञानप्रत्यनीकभूता तन्निवृतिः e
भावाभावान्यतरभूता सती भावरूपा मा भूदिति द्वैतिमतप्रवेशमिया, ‘न सतीति’ आदावेव खण्डितम् । अभावरूपा तु स्यान्नाम का हानिरिति कस्यचिदद्वैतिनो हृदयम् । स चायमभावः तुच्छो वा स्यात् अर्थक्रियाकारित्वाभावरूपसाजात्यात् अन्यादृश एव वेति मन्यते । अत उभयविधदूषणमुपरि । न ह्येकस्यैव ग्रन्थस्य खण्डनं शतदूपण्या, न च प्रतिग्रन्थं नामनिर्देशपूर्व कानुवादविस्तरो वा, वृथाकालहरणविद्वेषादिति प्रागेवाब्रूम । एवं ये खल्वविद्यां भावरूपामभिमन्यन्ते, तैरवश्यम विद्यानिवृत्तिरभावरूपैव वक्तव्येति असतीति पक्षपरिशेषण स्थाने । अथ पुनरिष्टसिद्धीष्टस्याप्यनुवाद इति । अथ माध्यमिकतत्त्वस्येव भवन्मता विद्यानिवृत्तिपदार्थस्यापि पश्चमप्रकारत्वकल्पनमयुक्तमिति विशदयामः । भवद्भिः सत् ब्रह्म, असत् शशविषाप्रणम्, तदुभय विलक्षणमज्ञानमित्यास्थितम् । सदसदिति किञ्चिन्न स्वीकृतम् । मिथो व्याघातात्तथा किञ्चिद् दुर्वचमिति चोपन्यस्तम् । तथाच तथाविधस्यैव बुद्धयनारूढत्वे, ‘न सदसती’ इति तद्विलक्षणत्वेना विद्या निवृतेर्निरूपणं नैव कर्तुं शक्यम् प्रतियोगिनः विशिष्टस्याप्रसिद्धेरिति एकप्रकारविलोपात् चतुर्थप्रकारतैव कथञ्चित् स्यात् । वस्तुतश्चतुर्थताऽपि नास्ति ; किंतु मिथ्यापदार्थरूपप्रकारनिविधैवेयम्, तथापि तत्र किञ्चिद्वैचित्र्याबवान्तरभेद इत्येव वक्तव्यम् । अतएवेष्टसिद्धिव्याख्याने ज्ञानोत्तमेन “अत्र चाज्ञाननिवृत्तेस्तादृशमेवानिर्वाच्यत्वं खण्ड्यते, यादृशमज्ञानस्य ज्ञाननिब स्वेमा निर्वाच्यत्वम् । न तु सर्वथा वास्तवरूपेण निरूपणासहत्वम् । इतरथा मिथ्यात्वानुमान-भङ्गप्रसङ्गात् " इति वदता अज्ञानस्येव तन्निवृत्तेरपि मिथ्यात्यादिकमिष्टम् । भवदुपात्तन्यायरत्नदीपावल्यपि, अज्ञाननिवृत्ते र्ज्ञानानिवत्यैस्वेपि, ‘नेह नास्ति किञ्चने’ ति बाघगोचरत्वमनुमन्यते । सर्वमिदमभिप्रेत्यैव, “यक्षानुरूपो बलिः " इतीष्टसिद्धिकथितमेव घटयित्वाऽनूद्य दूष्यते, “न च यक्षानुरूपो बलिरितिन्यायस्याभावकाश” इत्यादिना । निवृत्त्यनुपपति-प्रसाधनम् ४७९ इदमत्र बोध्यम् अज्ञान तच्चित्संबन्ध जीवेश-तद्भेदानां मिथः स्वरूपभेदेऽपि तथा अज्ञानस्य तत्कार्यप्रपञ्चविस्तारस्य चानादित्वतदभावरूपवैषम्येSपि यथा एकप्रकारेण तृतीयतया कोडीकारः, तथैवाविद्यानिवृत्तेरपि युक्तः । तथात्वे अन्यस्येवाध्यासिकत्वज्ञाननिवर्त्यत्वाद्यापत्तिरिति परोक्तदोषोन्मोचनाशतथा पञ्चमप्रकारत्वमवलम्ब्यते । तदयुक्तम्, पचमत्वमेव न भाषतीति खल्वाक्षेपकाणामाशयः । तत् कथं तत्सिद्धवत्कारेण मोचनाभिमानः । ननु अज्ञाने अज्ञानत्वम्, सत्संबन्धादिष्वज्ञानप्रयुक्तत्वम्, प्रपञ्चे चाज्ञानकार्यत्वम्, एतदन्यतमाभावादज्ञाननिवृत्तेस्तद्वाह्यत्वमिति चेत् — अन्यतराभावरूपहेतुना किमिति तदन्तर्भावितमपि किञ्चिन्न बहिर्भाव्यताम् । अस्ति चाज्ञानसंबन्धस्येवाज्ञाननिवृत्तेरपि अज्ञानप्रतियोगित्वं साजात्यमन्तर्भावकम् । तथा अज्ञानाधीनत्वमपि । निवृत्तेरुपादानानपेक्षणेऽपि ध्वंसं प्रति प्रतियोगिनः कारणतया निमित्तापेक्षा दुस्त्यजा । आध्यासिकत्वे तु दोषाद्यपेक्षाऽप्यस्तीत्यन्यत् । अतोऽज्ञानाधीनत्वाविशेषात् तत्कोटयन्तर्भाव एव । अत्रायं शतदूषण्यर्थः -यक्षानुरूपो बलिरित्यनेन यद्यज्ञानस्येव कोटित्रयवहिर्भावमात्रेण साजात्यं विवक्षितम्, तर्हि एतावदुक्त एव दोषः । यदि अज्ञानं कोटित्रयविरोधि यथा, तथा तद्विरोधीदमित्येवं रूपमानुरूप्यम्, तदापि तुरीयकोटिविरोधमात्रस्य पर्याप्ततया तत्पूर्वकोटिविरोधित्वे मानाभावात् पञ्चमप्रकारत्वासिद्धिरिति । वस्तुतः अस्ति, नास्तीति प्रतीतिसिद्ध कोटिद्वयानन्तर्गतस्य कस्याप्यभावात् तृतीयकोटिप्रभृतिः सर्वापि कोटिंगगनकुसुममेवेति ॥ ’ यत्तु अज्ञाननिवृत्तेर्ज्ञाननिवर्त्यत्वं नाङ्गीक्रियते, पारमार्थिकत्वेन दुर्निरूपत्वरूपं मिथ्यात्वं त्वस्तीति — तन्न दृश्यत्वेन हेतुना सर्वविधमिध्यात्वस्याप्यनुमानसंभवात् । अन्यथा प्रपञ्चेऽपि ज्ञाननिवर्त्यत्वं मा सैत्सीत् । यथा हि अज्ञाननिवृत्तावपरमार्थतः सत्यामेव तदभावोऽपि वस्तुतः, नेहनानेति श्रुत्यभिमतः, तथा प्रपञ्चतत्कारणानां सद्भाव एव तदभावोपि वस्तुतोऽस्तीत्येतावतैव मिथ्यात्वम् ; न तु तत्त्वज्ञानेन तन्निवृत्तिरित्यस्तु । तर्हि मुक्तावपिટ°
प्रपञ्चानुभवः स्यादिति चेन्न न हि स्थितं सर्वमनुभवितव्यमिति नियमोऽस्ति । कर्तुरुपकरणस्य च विलयतोऽप्यप्रकाशसंभवात् । अथवा स्यान्नाम बन्धनिवृत्तिः सगुणपरमात्मभाव एव । अतो रागद्वेषमोहाद्यभावात्सुखमय सर्वानुभवादुच्छेद्यस्य कस्याप्यभावात् प्रपञ्चस्य तत्कारणस्य तन्नियन्तृत्वादिगुणस्य सर्वस्य मिथ्याभूतस्याप्यनिवृत्ततयैव स्थितिः । हेयांशविगमेन परमात्मसायुज्यमेव फलम् । तदा चोपकरणसापेक्षदर्शनश्रवणमननादीनि सर्वसाक्षाकारिपरमात्मरूपेऽस्भिन् न संभवन्ति । अद्वैतवाक्यं सर्वं पारमार्थिकैक्यपरम्, अनादिमिथ्यापदार्थवत् अनन्तस्यापि तस्याज्ञाननिवृत्तेरिव स्वीकारसंभवात् । यदि तु दृश्यत्वे ज्ञाननिवर्त्यत्वमावश्यकमिति मन्यते, तर्हि अविद्यानिवृत्तेरपि तदस्तु । अपिचा विद्यानिवृत्तिर्न चाव्या अनुभवितुरभावात्; अतएव नाभावप्रतियोगिनी, बाधा विषयत्वादिति तस्याः सत्यत्वमेवास्तु । कथं मिथ्याप्रतियोगिकनिवृत्तेः सत्यत्वमिति चेत् — प्रातिभासिकरजतनिवृत्तेः प्रातिभासिकसत्ताविलक्षणसत्ताकत्वमेव चितम् । अन्यथा अविद्यामिध्यात्वं वा त्याज्यम् ; न तु निवृत्तिसत्यत्वम् । बाध्यत्वस्वीकारे तु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपबाध्यत्वोपपादनाय उपायौ अज्ञाननिवृत्तिमत्त्वेनानुभवोऽपि निवृत्तिसमसामयिकोsपेक्षितः । निवृत्तिकाले च साक्ष्येवान्तःकरणोपहितमविद्योपहितञ्च नास्तीति कथं तत्साक्षिभास्यता । अकल्पना विषयस्य च निवृत्तेः पूर्वं भवेदित्युत्प्रेक्ष्यमाणाया अप्यनुभवदूरत्वादसत्त्वमेव वा, पारमार्थिकसत्त्वमेव वा । परमार्थस्य प्रतीतिप्राणत्वाभावात् । एवं निवृत्तेर्बाध्यत्वे जन्यत्वे च सति दोषजन्यत्वं सजातीयसंस्कारोद्बोधादिकारणापेक्षत्वमपि स्यात् । तदभावात् किमपि मिथ्यात्वं मा भूत् । यत्तु दृश्यत्वेन मिथ्यात्वविशेषस्याज्ञाननिवृत्तिव्यावृत्तस्य साधने अज्ञाननिवृत्तौ व्यभिचारवारणायैतद्भिन्नत्वनिवेशोऽपि हेतौ सिद्धीष्ट इति — तदपेशलम् तद्भिन्नत्वं विशेषणमिति कृत्वा व्यभिचारपरिहारे तेन तेन खखाभिमतसाधनस्यानायासेन संपाद्यत्वापत्तेः । तस्मात् सर्वविधमिध्यात्वं वेप्यताम् ; सर्वं त्यज्यतां निवृत्त्यनुपपत्ति-प्रसाधनम् ८८१ वा । किञ्चाज्ञाननिवृत्तेरध्यासं विना मिथ्यात्वं न भवति । अध्यासाघिष्ठानञ्च ब्रह्म नेष्टम् । तदा तस्यानावृतत्वात् । एवञ्च नेहनानेतिवाक्यमधिष्ठाने कल्पितानामभावपरम्, न त्वकल्पिताया निवृत्तेरपीत्यस्तु । यदि तु यक्षानुरूपो बलिरिति न्यायेन अविद्यावत् अविद्यानिवृत्तिरपि किञ्चिद्रूपेण मिथ्यैव । ज्ञानानिवर्त्यत्वमात्रेण सत्यत्वापत्तौ तदप्यस्त्वित्युच्यते तर्हि यथा सेयमधिष्ठानं विनाप्युत्पन्ना, तथा प्रपञ्चोऽप्युत्पत्तमर्हति । तत्कारणाविद्या निवृत्तिश्व निरधिष्ठा निकैव मुक्तिरित्यापद्यते । अत एव ‘त्रय्यन्तवादवारवाणमवधूय पञ्चमप्रकारेयमज्ञाननिवृत्तिः प्रच्छन्नमप्रच्छन्नं कुर्यात्” इत्युक्तम् । “असद्रूपत्वपक्षेोऽप्यसत्पक्ष एव, यमेवालम्ब्य महत्या चूर्णिकया शतदूषणी आत्मानं चूर्णयति” इत्येतदपि सूत्यर्थानवबोधविलसितम् ; सदसद्विलक्षणस्य शशविषाणायमानत्वं प्रस्तुत्य हीथं चूर्णिका । येयं सर्वानेवाद्वैतग्रन्थसारान् चूर्णीचकार –यदपि चूर्णं चण्डमारुतेन दिक्षु विष्वक् अपुनर्भेलनाय विक्षिप्तमेव । अथापि निरर्थकग्रन्थभरणेन मिथ्यावादनिर्भरैर्भवद्भिः कदर्थयितुं यत्यत इति तत्त्वम् । + यत्त साक्षात् ज्ञाननिवर्त्यत्वमज्ञानस्यैव तत्संबन्धजीवेश्वर मेदानामनादीनामज्ञानकार्याणां घटादीनाञ्च परम्परयेति — तथा सति तत्त्वमसिवेदिनः सर्वेऽपि जीवन्मुक्तंमन्या भवेयुः । कथं बन्धोऽनुवर्तत इत्यत्र अज्ञानं तु मूलं निश्शेषनिवृत्तमेव । परम्परया निवर्तनीयानि निवर्तमानानि सन्ति कृत्स्ननिवृत्तिं यावत् बन्धोऽनुवर्तते इति जनमोहनसंभवात् । कथञ्च भवद्भिरेवं बन्धानुवर्तनमनुपपाद्या विद्यावशेषणम् । अपिचायं पक्षः पटाद्याश्रयनाशाद् तद्गुणादिनाशवत् कपालदिनाशात् घटादिनाशवत् अज्ञाननाशात् प्रपञ्चनाशमाकलयतीति तेषामिव प्रपञ्चस्यापि सत्यत्वं कुतो न स्यात् । अपि चास्मिन् पक्षे प्रपञ्चस्योपादानं न ब्रह्म, तत्राध्यस्तत्वस्य प्रपञ्चेऽनिष्टे, किंतु परिणाम्युपादानमात्रमज्ञानमिति ब्रह्मलक्षणहानिः । भामतीमते सर्व प्रति विवर्तोपादानत्वं 111 ८८२
तत् ब्रह्मण एव, अज्ञानस्य मिथ्यात्वमेव तु दोषसत्यत्वानुभवमप्युपेक्ष्य क्लेशेनोपपादनीयमिति अखण्डब्रह्मसाक्षात्कारे खलेकपोतन्यायेर्न सकलविलय एव स्वीकार्य इति न युक्तं क्रमकल्पनम् । तस्मात् चरमवृत्तिकाले यद्यदस्ति, सर्व तदुपारूढेन ब्रह्मप्रकाशेन निवर्त्यत एव सहाविद्यया । यास्त्विमाः निवृतयस्तदा समूढाः ताः किं न निवर्तन्ते उत निवर्तन्त इति विचारः । तासां जन्यत्वात् ज्ञानजन्यत्वात् दृश्यत्वाच्च ज्ञानरूपब्रह्मातिरिक्तत्वं तुच्छान्यत्वच्च समन्तव्यमिति मिथ्यात्वे स्थित एव ज्ञाननिवत्र्यत्वं परं नास्ति । ईदृश किञ्चिन्न दृष्टमिति चेत् इदमेव दृष्ट विलक्षणमस्तु इतीष्टसिद्धिकाराद्याशयः । इमं पक्ष पोषयितुमेन शतदूषण्यामसत्कोटिः पृथगादृता लोके असतः प्रध्वंसस्य जन्यस्य नित्यत्वादियमपि तथा भवत्विति निरूपणौचित्यायेति च असत्कोटिस्वीकाराभासस्याप्यनौचित्यमानिना भवता भाव्यम् । तदाऽपि दूषणं दत्तम् अभावरूपातिरिक्तपदार्थवादिभिः वास्तवभावप्रतियोगि कत्वस्यैवाभावे संमतत्वात्तदनुसारिणा भवता निवर्तमानस्य सर्वस्य सत्यत्वमेष्टव्यं स्यादिति । अथ मन्यते सत्यस्य निवृत्तिः सत्या, असत्यस्य निवृत्तिश्चासत्येति सर्वा अपि निवृत्तयः निवृत्तिकालेऽपि न सन्तीति, एवं तर्हि असत्यान्तरतुल्यमेवासत्यत्वमेषितव्यम् । न हीष्टसिद्धिकारस्वीक्रियमाणत्वमात्रेण वस्तुस्थितिः । लोकदृष्टप्रक्रियानुगुण्यमवधूय स्वतन्त्रानुशासने क्रियमाणेऽपि सदसद्विवेकभिर्न भवति तत्परिग्रहः । तथाच निवृत्तीनां कल्पको दोषः, दोषसंबन्धः, तदाश्रयश्चेतनः इत्यादिकमावश्यकम् । आसाञ्च निवृत्तीनां जन्यत्वात् मिथ्यात्वाच्च नाशो निवृत्तिश्वावश्यमिति तत्कारणमप्यावश्यकम् । स्वप्रतियोगिभिः सहाssसां समकालिकत्वाभावात् प्रतियोगिनिवर्तकनिवर्त्यत्वस्यात्राभावादनन्तरभावि किचित् स्वीकर्तव्यम् । एवं निवृत्तिनिवृत्तेर्निवृत्तये चान्यदिति । एवमापाद्यमाननिवृत्तिद्रष्टा क इति चेत् — प्रथमनिवृत्तिद्रष्टाऽपि कः, तदुत्पत्तिकालेऽपि जीवान्तःकरणादेरभावात् । योगमहिम्ना भाविविषयक साक्षात्कारप्रत्याशा तु सर्वत्र संभाव्यते । निवृतिप्रवाहस्या विश्राम्यतः कारणकलाप रूपा विद्याप्रपञ्चरूप निवृत्त्यनुपपत्तिप्रसाधनम ८८३ ક્ सर्वानुवृत्तिरवर्जनीयेति एतन्निर्वाहक एकोऽपि वा जीवः स्वीकार्यः । ईश्वर एव वा सर्वधुरन्धरः समन्तव्यः सततानुवृत्तसार्वश्य सर्वशक्तित्वादिरिति कथं कार्त्स्न्येनाविद्यानिवृत्तिरिति । यथा कस्यचित् रज्जुसर्पबुद्धौ जातायाम्, अन्येन च, अयं निवृत्तभ्रान्तिः, निवृत्तोऽस्य सर्प इति भ्रान्त्या ग्रहणे कृते पुनस्तस्य भयादिकं पश्यतः, अनिवृत्त एवास्य सर्प इति विवेके सति, तत्कल्पिता सर्पनिवृत्तिर्निवर्तत एव — तथा प्रतिभासिकी निवृत्तिरिव व्यावहारिकी निवृतिरपि निवर्तेतैव, कल्पितत्वाविशेषात् । ननु निवृत्तिकाले बाधकज्ञानं नष्टं कथं तन्निवृति जनयिष्यति, बाधकज्ञानकाले च निवृत्तिरूपप्रतियोग्येव नेति न तन्निवृत्तिप्रसक्तिरिति चेत् —तर्हि प्रथमनिवृत्तिरपि न जनिष्यते जाय मानत्वे मिथ्यात्वे समसमयप्रतीत्यवश्यम्भावात् । अस्तु सत्यत्वमेवेति चेत्सत्यस्य ध्वंसस्य सत्यमेव प्रतियोगि । ततो जगदपि सत्यं स्यात् । सत्यश्चेत् जगत् पुरुषभेदेन जगद्भेदायोगात् कतिपयमुक्तावप्यन्येषां जगदुपलम्भान्न सत्यं तदा निवर्तेतेति चेत् — सत्यम्, न निवर्तते । मिथ्यास्थले अनिर्वचनीयस्यैवाभावात् जगतोऽप्यनिर्वचनीयत्वाभावात् तन्निवृत्तिरप्यनिर्वचनीयतया न निर्वचनीयेत्येव तत्त्वम् । यदि तु पञ्चमप्रकारत्वासंभवं स्वाभिमतिमात्रेण प्रतिवादिकृतदूषणपरिहारासंभवञ्च विमृश्य अज्ञाननिवृत्तिर्ब्रह्मवास्त्विति प्रथमकोटावुलुतम्, तदा ब्रह्मणः साध्यत्वाभावात् तत्त्वज्ञानवैयर्थ्य दोष उदभावि । स्वरूपतोऽसाध्यस्यापि किञ्चिदूपेण साध्यत्वमिति प्रतिवदन्ति । पूर्वसिद्धानामेव व्रीहीणां वैतुष्यविशिष्टत्वेनावह ननसाध्यत्ववत् अनावृतत्व निवृत्ता विद्यत्वादिरूपेण साध्यत्वस्वीकारे तद् रूपं मिथ्या सत्यं वेति विकल्पे पूर्वदोषतादवस्थ्यमेव । अन्ततः अविद्यानन्तरभाविनः कस्यचिद्रूपस्य स्वीकारमन्तरा मुमुक्षुप्रयत्नसाफल्यवर्णनासंभवात् तत्र च सत्यत्वासत्यत्वनित्यत्वानित्यत्यविचारावतारणेन पुर्वदोषप्रतिष्ठितेः ।
अस्मन्मते कर्माख्या विद्यानिवृत्तिर्वा ज्ञानसंकोचरूपाज्ञाननिवृत्तिर्वा सर्वप्रकाराऽपि संजाघटीति । उपायस्येवो पेयस्यापि साध्यस्य सद्भावात् । स च स्वरूपाविर्भावः अप्रकाशितानेकाकारविशिष्टात्मविषयकज्ञानविकासो निरन्तरानुवृतः इति सुस्पष्टं प्रतिपादितमर्थं सुस्पष्टं प्रतिपादितमर्थं पांसुभिरिवाकिरन्त्या शतभूषण्या नूनमात्मैवाऽऽच्छाद्यते । ध्वंसरूपनिवृत्तेरधिकरणस्वरूपत्वाभावे अत्यन्ताभावस्याप्यधिकरणात्मत्वं न स्याद् भावान्तराभाववादिनामिति चेत्नैतदनिष्टम्, अत्यन्ताभावान्योन्याभावयोरपि धर्मिंगत स्थिरधर्मरूपत्वस्वीकारात् । भूतले घटात्यन्ताभावस्तु घटसंयोगध्वंसप्रागभावान्यतररूपोऽप्यस्तु । अथ वा घटानधिकरणत्वाभिमतक्षण संघसंबन्धरूप इत्यन्यदेतत् । मुक्तिरूपस्तु ध्वंस उपायजन्य उक्तरूप एवेति भावे पर्यवसानमावश्यकमित्यलं पिष्टपेषेण । ननु जीवन्मुक्तौ अविद्यानि वृित्तिरवशिष्टांश व्यक्तिसंघरूपा सुवचेति चेत् — जीवन्मुक्तिर्न भवन्मते सुवचेत्युक्तमेव । केवलम्, “ तिष्ठति संस्कारवशात् चक्रभ्रमिवत् धृतशरीरः" इति सांख्योक्त भवदीयैः स्वपक्षे तदसंभवापर्यालोचनयेतरांशवद् गृहीतमिति तत्त्वम् । जीवन्मुक्तिसत्त्वेऽपि जीवननिवृत्तौ अविद्यानिवृत्तिः किं रूपा । सर्वथा अविद्यांशसत्त्वे अविद्यानिवृत्त्यनुपपत्तिरेव प्रतिष्ठिता स्थादिति । शेषं षष्टितमे सत्त्वासत्त्वविवेकवादे द्रष्टव्यम् । भावादभावाच्च परं न किञ्चित् भावान्तरं वस्तुगतौ त्वभावः । कुतस्तृतीयं कुत एव तुर्यम् कुतस्तमां पञ्चमता निवृत्तेः ॥ शुभमस्तु श्रीः