संकल्पसूर्यकिरणप्रसरावधूतसंसार संतमसमम्बुजधामसक्तम् । दास्यश्रिया सह समेधितसौवसाम्यं स्वामिन् हयास्य ! मनवै शरणं भवन्तम् ॥ अद्वैतमते तत्त्वगत्या सर्वस्य मिथ्यात्वात् संसारस्याभावेन तन्निवर्तकान्वेषणमेव व्यर्थम् । न च मिथ्यात्वाज्ञानात् तत्र प्रवृत्तिः । मिथ्यत्वाज्ञाने रज्जुसर्प निवर्तक रज्जुज्ञानतुल्य जगन्निवर्तक तत्त्वज्ञान निर्धारणायोगात् । शास्त्रतो मिथ्यात्यमवगतं चेत् — तत उपायान्वेषणस्यैव न प्रसक्तिः । जगदस्तित्वभ्रमानुवृत्त्या तदन्वेषणमिति चेत् — एवं तर्हि मिथ्यात्वज्ञाने द्रढिमा नास्तीति तदर्थे यत्रः कर्तव्यः । अन्यथा निर्विशेषत्रह्मज्ञानस्य सर्वनिवर्तकत्वे संदेहात् तदर्थेऽपि न घटेत । सत्यपि दृढे मिध्यात्वनिश्चये आध्यात्मिकाधिभौतिकाधिदैविकतापत्र प्राभिधातकालिक वाचनापारवश्यात् संसारनिवृत्तिमाकांक्षतीति चेत् — किमस्य बाधनायां मिथ्यात्वज्ञानं नास्ति । किं वा बाघनेयं सत्या, येन रज्जुसर्पभ्रान्तस्य दष्टत्वभ्रमाधीनशरीरशैथिल्ये सति विषापनयनविध्यन्वेषणवत् एतत् युज्येत । तत्र सर्वस्य देशस्य चाभावेऽपि तमस्य वास्तवत्वात् तत्कृतवास्तव शरीरविकारपरिहाराय प्रयत्नो घटते लोकदृष्टया । इह तु जगत इव तापत्रयाभिघानदुःखादेरप्यवास्तवत्वेऽभिमन्यमाने कथं तन्निवर्तनप्रयत्नः । अतो दोषतज्जन्यभ्रम तदाश्रयपुरुषादेः सत्यत्वात् दृष्टान्ते तन्निवृत्तिरपेक्षिताऽस्ति; इह तु किमपि नास्तीति वैलक्षण्यान्न निवर्तकापेक्षेति । एवमपि निवर्तकमपेक्षमाणाः अनिवर्तकमेव निवर्तकं मन्यन्त इत्य् अपि निवर्तकानुपपत्तिरेव । 109 यज्ज्ञानं संसृतिव्याप्तं तज्ज्ञानं मोक्षदायि चेत् । कथं संसृतिरित्थं स्यात् अपवर्गोऽथवा कथम् ॥ *
किमिदं निवर्तकज्ञानम् । पात्वज्ञानं वा, जगन्मिथ्यात्वज्ञानं वा, अद्वितीयं ब्रह्मेति ज्ञानं वा अखण्ड ज्ञाने वा । आद्यत्रयस्य निध्यापदार्थविषयकत्वात् तत्त्वज्ञानत्वाभावान्न निवर्तकत्वम् । विशिष्य चोच्यते–ब्रह्मात्मैक्यज्ञानेपि जगदपलापाभावात् अविवानिवृत्तेरप्रसक्त्या न संसारनिवृत्तिः । अतः अहं ब्रह्मास्मीति ज्ञानस्य मुन्तिहेतुत्वमपास्तम्। जगह क्यज्ञानमूलकमेवेदं ब्रह्मात्मैक्यज्ञानमिति चेन्न-जगतो जडस्य वाध्यतया तदैक्यस्य यातया जीवब्रह्मैक्यज्ञानस्य तन्मूलकत्वायोगात् । न द्वितीयः प्रपञ्च मिथ्यात्वज्ञानेऽपि तत्कारणाविद्या निवृत्त्ययोगान्मुतयसिद्धेः कार्यकारणोभय मिथ्यात्वग्रहेऽपि शुद्धानेकजीवात्मना व्रताभावनिश्वतोऽसिद्धेः । आत्मनानात्वसमूलजडप्रपञ्चसर्व मिथ्यात्वज्ञानञ्चेत् तर्हि सर्वाविद्यानिवृत्त्या सर्वमुक्तिप्रसङ्गः । एकदेशमात्रनिवृत प्रमाणाभावात् । सर्वाविद्यानिवृत्तिपन्तमेकोऽपि न मुक्तो भवेत्ः निवर्तकज्ञानस्य सर्वगोचरत्वात् । अत एव न तृतीयः; द्वितीयस्य कस्यापि परिशेषानोगेन सर्वमुतयापतेः । न च चतुर्थः; अखण्ड विषयकज्ञानस्य स्वरूपचैतन्यातिरिक्ताविषयकले स्वरूपचैन्यानिवयविद्यानिवर्त कत्वस्यायोगात् । तद्वताबुद्धिं प्रतिवादिरूपतद्विरोधिधर्मानवगाहि निश्चयस्याविरोधित्वात्। धर्मिप्रकाशस्यैव विप्रपञ्चविभ्रनस्यैवानवकाशात् । स्वरूपचैतन्यं न विरोधि, किं तु वृतिरिति पक्षच पक्षान्तरवत् शतदूषण्यां खण्डित एव विस्तरेण । अपरिच्छिन्नानन्दत्वविशिष्टब्रह्मज्ञानं विरोधीति चेत्दुःखरूपत्वमेव तज्ज्ञानबाध्यं स्यात् न प्रपञ्चः । अनिर्वचनीयस्यैवासिद्धया चोक्तेष्वन्यतमेन केनापि ज्ञानेन न प्रपञ्चतदुपादाननिवृत्तिप्रसक्तिः । अतो निवर्तकत्वेनाभिमतं सर्वमनुपपन्नमिति संक्षेपः । सर्वमिदं विस्तरेण परमतसंभावित सर्वांशोद्भावन निरसनविधया व्युत्पादितमेव शतदूपण्याम् । एवंस्थिते यत् किञ्चित् शतभूषण्यामुक्तम् । तद् विमृशेम 1 ; 1 उदाहृतत्रह्मसिद्धौ तावत् — स्वरूपचैतन्यस्याविद्याविरोधित्वं नास्ति, विरोधित्वे जगदभावापत्तेः, अन्यत्तु आगन्तुकमविद्याविरोधि न ब्रह्मणः निवर्तकानुपपति-प्रसाधनम् 1 / ૦૬૭ किञ्चिदिति प्रश्न उपक्षिप्तः । अत्र स्वरूपचैतन्यस्याविद्याश्रयत्वं न भवति, स्वप्रकाशकस्य स्वाविद्यावत्त्वायोगादित्याशङ्कापि निगूढा । अथ समाधिःजीवा एवाविद्याश्रयाः स्वभावतः, तेषामागन्तुकं ज्ञानमविद्यानिवर्तकम् । जीवब्रह्मणोरभेदेऽपि विवचित व्यवस्थेति । अत्र स्वप्रकाशस्य ब्रह्मणः स्वविषये अज्ञानासंभवेपि जीवानां ब्रह्मविषयमज्ञानं भवितुमर्हति, तन्निवृत्तिश्च तेपूयन्नात् ज्ञानान्तरात् वृत्तिरूपात् । जीवानां प्रतिबिम्बतुल्यतयोपपद्यत एवाज्ञानाश्रयत्वमिति विवक्षितम् । अत्रोच्यते वास्तवबिम्बप्रतिविम्बभावः, नीरूपे न संभवतीत्यादिहेतुना भवद्भिरेव नेष्टः । अत एव विम्बवदिति वतिप्रयोगोऽप्यत्र । प्रतिविम्बनौल्यपि नास्ति । लोके प्रतिविम्बाश्रयत्वं जलादेरेव दृष्टम्, न तु जलाद्याश्रयत्वं प्रतिविम्बस्य इह चाविद्यायां प्रतिबिम्बवत् स्थितो जीवोऽविद्याया आश्रय इति विपरीतम् । प्रतिबिम्बत्व स्वीकारे चाविद्यावच्छिन्नचैतन्य जीव इत्येव वक्तव्यम् । किमिदमवच्छिन्नत्वम् आश्रयत्वमिति चेत् तर्हि चैतन्यस्याविद्याश्रयत्वं न भवतीति कथम् ; तत्पक्ष एव पर्यवसानात् । अवच्छिन्नचैतन्यस्य च शुद्धचैतन्यव्यतयनतिरिक्ततया प्रकाशमानचैतन्यां शविषये अविद्या दुर्वचा । तम्या अविद्यायाच विधैव विरोधिनीति शुद्धवृत्तिमात्र न विरोधित्वेन स्वीकर्तुं युक्तम् । अविद्यया अप्रकाश आयातः, वृत्त्या प्रकाशो जन्यतइनि च न वक्तुं शक्यते, अप्रकाशों यमिप्यमाणो न विशिष्टजीवविषये; किंतु शुद्धचैतन्यविषये । तस्य न कदापि प्रकाशहानिः । वृत्तेश्च न प्रकाशज्ञनकत्वम् ; जडत्वात् । आवरणनिवृत्तिमात्रं वृत्तिकार्यमिति चेन्न आवरणनिवृत्तिर्नाम अप्रकाशनिवृत्तिः ; अप्रकाश एव कथमिति अविद्यारूपवस्तुनिवृत्तिर्वृत्तिकार्येति चेत्–यद्विषयिणी अविद्या, तद्विषयकत्त्या तन्नाशः । अत्र विषयः कः । चैतन्यगतमद्वितीयत्वं विषय इति चेत् तस्य वृतिप्रकाश्यत्वं कथम् वृत्तेर्जडत्वात् 1 वृत्त्यवच्छिन्न चैतन्य प्रकाश्यं तदिति चेत् — न घटाद्याकारवृत्तौ तदभावात् अद्वितीयत्वाकारवृत्त्यवच्छिन्न चैतन्यनिति वक्तव्यत्वात् वृत्तेः स्वयं निर्विषयत्वेन अद्वितीयत्वाकारतायास्तत्रासंभवात् । वृत्तिर्जायमानदशायामेव स्वावच्छिन्न पृच्छ्यमानत्वात् ।
। चैतन्यबलादद्वितीयत्वाकारा भवतीति चेत् — अद्वितीयत्वं वृत्तौ सत्यां चैतन्यभास्यमित्यायातम् । तर्हि घटवृत्तिकालेऽपि चैतन्यभास्यं तदस्तु घटवृत्तेस्तदाकारत्वं नास्तीति चेत्-न; वृत्तेराकारो दुर्वच इत्येवोच्यमानत्वात् । ननु कस्य चिद् वृत्त्यवच्छिन्न चैतन्यस्य किञ्चिद्विषयकत्वं सभावः सामग्रीबलसिद्धः 1 तत्र किं चोद्यमिति चेत् — अस्विदम् । अद्वितीयत्वं चैतन्यादन्यत् अनन्यद्वा । अनन्यत्वे वृत्त्यभावेऽपि स्वरूपप्रकाशेनाद्वितीयत्वस्य प्रकाशमानत्वादविद्यैव न भवेत् । अन्यत्वे अतत्त्वविषयकेण वृत्त्यवच्छिन्नचैतन्येन तत्त्वविषयका विद्यामिवृत्तिर्न युज्यते । अविद्याप्यतत्त्वविषयिणीति चेत् तन्निवर्तनप्रयासोऽनपेक्षितः । न खलु रज्जुज्ञानिनः रज्जुसर्पभूदलनाम्बुधारादिविषयका विद्याः सहस्रशः सन्तीति तन्निवृत्त्यर्थं प्रयस्यते । स्वरूपात्मकः प्रकाशो न विरोधी; वृत्तिरेव विरोधिनीति तु हठवादः ; वृत्तेश्चैतन्यमुखेनैव प्रकाशकताया वक्तव्यत्वात् वृत्तिनिरपेक्षमेव प्रकाशे सति तदपेक्षणायोगात् । यत्तु सिद्धान्तलेशसंग्रहोक्तम् सूर्य प्रकाशस्यैव सूर्यकान्तसंसर्गेण दाहकत्ववत् वृत्तिसंसर्गेण चैतन्यस्याविद्यानिवर्तकत्वमिति –तन्न सूर्यकान्तस्य सूर्यकिरणगतान्यं शाविर्भावकत्ववत् अत्र निर्विशेषे विशेषस्य दुर्वचत्वात् । अतएवेष्टसिद्धिरपि निरस्ता । एवमद्वितीयत्वस्य ब्रह्मनिष्ठत्वेनैव वृत्त्यवच्छिन्नचैतन्येन ग्राह्यत्वात् चैतन्यस्यापि चैतन्यविषयत्वं फलव्याप्यत्वमायातमितिं दृश्यत्वात् ब्रह्मापि मिथ्या भवेत् । एवं चैतन्यस्य सर्वदैवान्तःकरणसंनिकृष्टत्वात् अद्वितीयत्वस्य च चैतन्यधर्मत्वात् धर्म्याकारवृत्त्यवच्छिन्न चैतन्यातिरिक्तस्य धर्माकारवृत्त्यवच्छिन्नचैतन्यस्य दुर्वचतया चैतन्य प्रकाश एवाद्वितीयत्व विशिष्टप्रकाशः स्यात् । तथा अद्वितीयत्व विशिष्ट धर्म्यकारवृत्त्यवच्छिन्नचैतन्यं शब्दतोऽन्यतो वा जायमानं सर्व भवन्मते संनिकर्षात् प्रत्यक्षरूपमेवेति श्रवणकाल एव सर्वप्रपञ्चनिवृत्त्या भाव्यमिति न मनननिध्यानादेः प्रसक्तिः । आदिमात् तत्त्वविज्ञानादनिवृत्तं जगद् यदि । पश्चाश्च न निवर्तेत सत्यत्वं तस्य तद् ध्रुवम् ॥ मिवतकानुपपार मिवत कानुचरितान 649 एवं जीवशुद्धचैतन्ययोरभेदात् शुद्धचेतन्यस्येव जीवस्यापि स्वप्रकाशस्वात् स्वप्रकाशवस्तुविषये अविद्याया दुर्वचत्वात् वस्त्वन्तर विषये अविद्यावर्णने च तस्य मिथ्यात्वेन मिथ्यावस्तुविषयकत्वस्याविद्यायामापत्तेः मिथ्या वस्तुविषयकाविद्यायाश्वानिवर्तनीयत्वात् किमपि वृत्तिज्ञानं तत्त्वविषयकं जगन्निवर्तकं दुर्वचमित्युपपादितत्वात्, " नेतिनेतिीति निषेधमुखेन सर्वप्रपञ्च मिध्यात्वज्ञानमपि, अखण्डाकारवृत्तिरिवाज्ञाननिर्वर्तकम्, अखण्डाकारवृत्तिमात्रोपहित चैतन्यरूपं वा ज्ञानमिति वस्तुस्थितिः " इत्युक्तमुदस्तं सिद्धम् । वृत्त्युपहितचैतन्यमित्यस्य वृत्तिप्रतिफलित चैतन्यमित्यर्थो वा वृत्त्युपलक्षितचैतन्यमिति वा, वृत्तिविशिष्टचैतन्यमिति वा, वृत्तिसमकालिक चैतन्यमिति वा । प्रतिफलनस्य भवदनिष्टत्वान्नाद्यः । अखण्डाकारत्वं वृत्तौ दुर्वचमिति प्रागेवोक्तम् । यदि वृत्तेः सविषयत्वम्, तर्हि विषयत्वविशिष्टचैतन्यमित्येयोच्यताम्, किं वेष्टनेन । द्वितीयं तु न; वृत्तेः पूर्व वा पश्चाद् वा कदापि चैतन्यस्य प्रपञ्चनिवर्तकत्वे हि उपलक्षितत्वं घटते । वृत्तेर्निवर्तकतावच्छेदकत्ववारणार्थमुपलक्षितेत्युक्तमिति चेत्, तर्हि किं वृत्तेः पृथक्कारणता ? तर्हि वृत्तिचैतन्योभयं निवर्तकमित्युच्यताम् । तदनिष्टौ चोपलक्षितत्वोक्तिः सर्वथा वृत्तेरनपेक्षणीयतामेवापादयेत् । एतेन तृतीयचतुर्थयोरपि निरासः । तथा वृत्तेः स्वप्रकाशस्य च समानविषयकत्वे वृत्तिरेव निवर्तिका, न स्वप्रकाश इति यादो हठवादः स्वसिद्धान्तस्थापनश्रद्धा मूलकल्पना विलसितः । एवञ्चैषां मते दुर्घटत्वं म केवलम विद्यामात्रस्य किं तु निर्गुणब्रह्मणः, निवर्तकवृत्तिज्ञानस्य चेत्येवं माव्यम् । यत्तु ‘स्वरूपात्मकब्रह्मप्रकाशस्याज्ञानानिवर्तकत्वे वृत्तिरूपज्ञानस्यापि तदनिवर्तकत्वमेव, प्रकाश्यस्या विशिष्टत्वात्’ इति शतदूषणीपरीक्षणायोक्तं वृत्तिज्ञानं ज्ञाताज्ञाताविभागेनाखण्डात्मज्ञानम्, स्वरूपभूतं तु ज्ञाताज्ञातविभागेन ब्रह्मप्रकाशरूपमिति मेदोऽस्तीति-तन-उक्तवैलक्षण्यस्य शुक्तिरूपाधिष्ठानज्ञानशुक्तित्वविशिष्टज्ञानरूपबाधकज्ञानयोः सुवचत्वेऽपि प्रकृते वक्तुमशक्यत्वात् । तत्र धि-८७०
ष्ठानज्ञाने शुक्तिव्यक्तिर्ज्ञाता शुक्तित्वमज्ञातमिति ज्ञाताज्ञातविभागोऽस्ति, बाधकज्ञाने चोभयं विषय इति न स विभाग इति । प्रकृते तु निर्धर्मिणि ब्रह्मणि ज्ञाताज्ञातांशविभाग एव दुर्वच इति वृत्तिस्वरूपयोः साम्यमेव । न हि सूर्यप्रकाशः सहजो न तमोनिवर्तकः, किन्तु उपरागापसरणाधीन एवेति सुवचम् । यदि च वृत्तिज्ञानस्य द्वितीयाभावादिव्यतिरिक्तविषयकत्वादेव निवर्तकत्वमित्युच्यते, ततत्त्वज्ञानं निवर्तकमित्यायातम् । पुनः सप्रपञ्चत्वरूपज्ञानान्तरेण चाख्यातत्त्वस्य निवृत्तिरिति न मुक्तिसिद्धिः । कथं द्वितीयाभावज्ञानेन सर्वनिवृत्तौ द्वितीयाभावमात्र परिशेषे जीवादेरभावात् सप्रपञ्चत्वज्ञानोदय इति चेत् — द्वितीयाभावे ब्रह्मातिरिक्ते विद्यमाने द्वितीयस्यैव सत्त्वात् द्वितीयाभावः कथमित्याशङ्कायां द्वितीयाभावस्य काल्पनिकत्वान्न दोष इति परिहारे जाते, अभावकाल्पनिकत्वस्य भावसत्यता संपादकत्वात् द्वितीये सत्ये सत्येव द्वितीयाभावकाल्पनिकत्वनिर्वाह संभवात् प्रतीतस्य प्रपञ्चसत्यत्वस्य तदर्थं बाधानावश्यकत्वाच्च द्वितीयः प्रपञ्चः सत्य एवेति ब्रह्मण्यद्वितीयत्वपरिशीलनदशायामेव निर्णयसंभवात् तन्मूलकाल्पनिका द्वितीयत्वाकारापरोक्ष्यस्य प्रपञ्चनिवर्तकत्वस्यैवाभावात् पुनः सप्रपञ्चत्वनिश्चयप्रादुर्भावात् । एवम्भूताद्वितीयत्वापरोक्ष्यस्य किं फलमिति चेत् -प्रपञ्चनिवृत्त्या वा संपादितया किं फलम् । सत्यपि प्रपचे ईश्वरवत्, ’ न कर्मणा वर्धते नो कनीयान् ’ इति स्थितिसंपादकशत्तयाविर्भाव संभवात् । अद्वैतमते वस्तुतः प्रपञ्चस्य वा बन्धस्य वाऽभावेनात्मन इदानीमपि मुक्ततया अपरोक्षवृत्तिनै फल्यस्य प्रागेव दर्शितत्वात् तैः फलप्रश्नकरणासंभवात् । अथवा सन्ति हि शिरश्छेदादयुग्रतपोनिष्ठेष्वविलम्बं प्रसीदन्तो देवाः । तथा सर्वस्य प्रपञ्चत्य स्वात्मनोऽपि विलापनेनात्मैकनिष्ठमेनं चेतनमवलोक्य कारुणिकः परमात्मा प्रसन्नः क्रमशो वास्तवतत्त्वज्ञानमावि र्भावयति वैराग्यतृप्तः सन्नित्यस्तु; अस्तु वा शान्त्यादिकमेव फलमिति किं तेन । सर्वमिदं वृत्तिज्ञानस्याधिकविषयकत्ववादमनुरुध्य । अत्र च पक्षे तत्त्वमस्याद्यर्थज्ञानस्य मोक्षहेतुत्वं न स्यात् । तथाच स्वरूपमात्रविषयकवृत्ति निवर्तकानुपपत्ति-प्रसाधनम् ८७१ रेवाखण्डाकारवृत्तिरित्येष्टव्यमिति तदा वृत्तेर्नाज्ञाननिवर्तनसामर्थ्यम् । वृत्तेर्ब्रह्मस्वरूपविषयकत्वप्रयुक्तञ्चेदज्ञाननिवर्तकत्वम्, तर्ह्येष दोषः । वृत्तित्वादेव तस्यास्तन्निवर्तकत्वमिष्यते इति चेत् न तर्हि तत्त्वमिथ्यार्थिसंकथाया इहावसरोऽस्ति । तथाच, " विरोधिप्रकाशातिरिक्तवृत्तित्वाद्याकारबाध्यत्वेन मुद्गरादिनिवर्त्य सत्त्य सर्पघटादेखि प्रपञ्चस्यापि सत्यत्वप्रसङ्गात् " इति शतदूषणीदूषणादनिर्मोक्ष एव ! एवञ्च भावरूपाज्ञानकल्पनाऽपि वृथा । मूलप्रकृतिकार्यप्रपञ्चस्य सर्वस्य वृतिवैभवत एव विलयसंभवात् । एतद्दोषपरिहाराय वस्तुप्रकाशत्वेनैव वृत्तेर्विरोधित्वे स्वरूपप्रकाशस्यापि तदक्षतं स्यात् । ज्ञाताज्ञातविभागाविभागचिन्ता चात्र न पदं धत्त इति प्रतिबोधितम् । शतभूषणी च, न हि भ्रमज्ञानं भ्रमज्ञानान्तरेण बाध्यते " इति लिखन्ती, शुक्तिज्ञानस्याखण्डाकारत्वमौपचारिकम्, ब्रह्मज्ञानस्य त्वखण्डाकारत्वं मुख्यम्, सत्त्वचित्त्वानन्दत्वादीनामपि प्रपञ्चस्येव मिथ्यात्वादिति शुक्तिज्ञानब्रह्मज्ञानयोवैषम्यं बहुप्रकारेणोपपादयन्ती च जगहाधकत्वेना द्वैत्युपवर्णितं सर्वं ज्ञानमबाधकमित्येव भङ्गयन्तरेण दर्शयतीत्यवधेयम् । वृत्तिज्ञानस्य वृत्तित्वेन बाधकत्वे मुद्गरहन्यमानस्य घटस्येव जगतः सत्यत्वापत्तिरिति शतदूषणीप्रतिविवक्षा यत् लिख्यते, न वृत्तेर्वृत्तित्वेन बाधकत्वम्, किंतु प्रमाणजन्यत्वेनेति -तत् अपरामरीकृतम् — लोके तत्त्वज्ञानस्य मिथ्यानिवर्तकत्वं तत्त्वप्रकाशकत्वप्रयुक्तमेव दृष्टमिति तद्रीत्यनुसारे स्वरूपप्रकाशस्यापि बाधकत्वापत्तिरिति मत्वा लोकरीतिमुपेक्ष्य असंप्रतिपन्नस्खरूपज्ञानवृत्तिज्ञानरूपविभागं विधाय वृत्तित्वेन वा प्रमाणजन्यत्वेन वाऽन्येन वा केनचिदाकारेण निवर्तकत्ववर्णने जगतः सत्यत्वापत्तिरपरिहार्येति ह्याक्षेपाभिप्रायः । अत एव वृत्तित्वादीति आदिपदं तत्र प्रयुक्तमस्ति । न च सर्वत्र वृत्तिरेव बाधिकेति सुवचम् । साक्षिभास्यसुखादिस्थले वृत्त्यभावस्यापि केषाञ्चिदिष्टत्वात् । सर्वज्ञस्य यत् सर्वव्यापिचैतन्यात्मस्वरूपाधीनमाविद्यक सर्वभानम्, तेन प्रतिभासिकाद्यनुत्पादस्य समततया प्रमाणजन्यवृत्तेरेव विरोधित्वमित्यस्या ૧
भावाच्च । यत्र चक्षुः सन्निकर्षकाले स्थितो घटो नाशकारणोपनिपातात् घटप्रत्यक्षकाले नष्टः, तत्र घटबडूतलमिति प्रत्यक्षस्य प्रमाणजन्यत्वेऽपि भ्रमत्वेन प्रमाणजन्यत्वमात्रस्य प्रयोजकत्वायोगाच्च । अो बाधकत्वाभिमतांशप्रकाश एव बाधकतायां प्रयोजकः । स स्वरूपज्ञानेऽपि तुल्य इति । सर्वमिदमखण्डाकारवृत्तिज्ञानेनाखिलप्रपञ्च निवृत्तिर्भविष्यतीति भवदाशामोदकस्याप्यशनायाशामकत्वकृत्वा चिन्तया । ईदृशवृत्तिज्ञानेनेश्वरस्यापि बिलापनप्रवृतेन प्रपञ्चप्रपञ्चनमेव’ करिष्यत इति सत्यजगन्निवृत्तिप्रसयिभावान्नास्य निवर्तकत्वकथापि । अविद्योपहितं चैतन्यं बाधकमिति शतदूषण्यामविकल्पनात् तदूषणमनुक्तोपालम्भः । अविद्याशबलपदघटितवाक्यस्य ह्ययमर्थः, वृत्तेः शुद्धब्रह्मविषयकत्वे स्वरूपप्रकाशतौल्य स्यादित्यविद्याशबलविषयकत्वरूप द्वितीयपक्षाङ्गीकारे इति । अतो वृत्तिप्रस्तावघट्टे अविद्योपहितचैतन्यस्य बाधकज्ञानरूपत्ववर्णनाप्रसत्तत्या अबद्धं कृत्वा किमपि विलिख्य, ’ इदं तु सौहार्दमात्रेणोद्बोधितम् " इत्यधिकप्रसंगविधानमयुक्तम् – भवन्मूल वेदनीयस्याद्वै परमरहस्यस्य कस्याप्यभावात् । साम्प्रतं त्वस्माभिरेव शतदूषण्यर्थः सौहार्दात् सहजात् प्रतिबोधित इति ध्येयम् । एवं वृत्तिज्ञानं प्रपञ्चनिवर्तकं न भवति प्रपञ्चसमसत्ताकत्वात् । व्यतिरेकेण शुक्त्यादिज्ञानमप्युदाहरणम् । शुक्तिरजतादिकं प्रातिभासिकं प्रति शुक्तिज्ञानादेः व्यावहारिकस्यैव निवर्तकत्वादिति । " अथाखण्डाकारज्ञानस्येव जगन्मिथ्यात्वज्ञानस्यापि बाधकत्वं वर्णयति शतभूषणी । इदं तु बहुत्र प्रागेव परिशीलितम् । अत्रापि किञ्चिदुच्यतेजगन्मिथ्यात्वज्ञानं किमाकारम् ? कदाचित्तदभावज्ञानस्य मिथ्यात्वासाधकस्वात् सर्वदा जगन्नास्तीति ज्ञानमिति वक्तव्यम् -तदपि न तत्साधकम् । बले सर्वदा गन्धो नास्तीत्यस्य गन्धमिथ्यात्वासाधकत्वात् । एकत्र स्थित स्यान्यत्र सार्वकालिकाभावस्येष्टत्वात् । सर्वदेशावच्छिन्नसर्व कालवृत्त्यभावप्रतियोगित्वं मिथ्यात्वमित्यपि न; जगदभावकाले सर्वदेशाप्रसिद्धेः । ब्रह्मनिष्ठस ।र्मकालिकाभावप्रतियोगित्वमिति चेत् तावता ब्रह्मणोऽनाधारत्वं सिद्धये
निवर्तकानुपपत्ति-प्रसाधनम् wwww ૮૩ येत् ; न जगदभावनियमः । ब्रह्मा निरूपिताधेयताशून्यत्वे सति ब्रह्मनिष्ठाभावप्रतियोगित्वमिति चेत् तर्हि अनाधेयमेव स्यात् । वसत्ताव्यापकब्रह्मनिरूपिताधेयताकत्वे सति ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वं तत् । जगत् यावदस्ति, तावत् ब्रह्म प्रति आधेयमेव ; अथापि वस्तुतो नास्तीति चेत् न आधेयतायाः सार्वकालिकाभावप्रतियोगितायाश्च विरोधात् । आधेयता कल्पिता, अभावश्च पारमार्थिक इति न विरोध इति चेत् अभावश्च ब्रह्म चेति अनेकपरमार्थापत्तिः । अनिर्वचनीयास्वीकारात् कल्पिताधेयतावत्त्वाद्युपपादनायोगश्च । ब्रह्म च तत्तद्वस्त्वभावश्चेत्यनेक परमार्थापत्तिश्च । ब्रह्मव्यतिरिक्तं मिथ्येति सर्वमिथ्यात्व कोडीकारा दे कपरमार्थसिद्धिरिति चेत् कथं तर्हि अभावः पारमार्थिकः । एवं मिथ्यात्वमिथ्यात्वं ततो न सिद्धयेदिति प्रागेवोपपादितम् । “मिथ्यात्वस्य च मिथ्यात्वे" इति कारिकार्थश्च प्रागेव प्रत्यपादि । B
यत्तु गोत्वात्वयोर्मध्ये गोत्वस्यारोपितत्वे अश्वत्वस्य सत्यत्वमिति यथा न नियमः, तथा मिथ्यात्वमिध्यात्वमात्रेण न सत्यत्वसिद्धिरिति तन्न वस्तुनि मिथ्यात्वमिथ्यात्वं नाम मिथ्यात्वाभावः । स च सत्यत्वञ्चेति द्वौ धर्मों समनियतौ । नैवं गोत्वाभावस्यात्वस्य च समनैयत्यम् । अतः ‘परस्परविरोधे च न प्रकारान्तरस्थिति’ रिति न्यायोऽलाक्षतः । यत्तु एकाभावे अन्यसत्त्वनिय मोमिन्नसत्ताकधर्मविषय इति तन्न सत्तावैविध्यस्य स्वमतवासनागोचरस्य परं प्रति व्यवहारेऽनुपादेयत्वात् । भिन्नसत्ताकविरुद्धधर्मविषय एवैकमिध्यात्वे अन्यसत्यत्वमित्यपि न गोत्वतदभावयोविरुद्धयोः खखाधिकरणे स्थितयोः सत्यत्वेन समसत्ताकयोरेवैकतरस्य क्वचिन्मिथ्यात्वे अन्यतरसत्यत्वनौव्यात् । प्रपञ्चमिथ्यात्वमिथ्यात्वेऽपि प्रपञ्चमिथ्यात्वमपि भवेत् प्रपञ्चतदभावयोर्व्यावहारिकत्वादित्यप्ययुक्तम् । अव्यावहारिकं सत्यम्, व्यावहारिकं मिथ्येति नियमस्या सिद्धेः । तथासति निरुपाख्यशशविषाणादेः सत्यत्वं स्यात् । प्रपञ्चाभावश्च न व्यावहारिकः ; व्यवहारस्य ज्ञानाधीनत्वात् प्रपञ्चान्तर्गतद्रष्ट्रादिसद्भावे प्रपञ्चाभावज्ञानायोगात् । प्रपञ्चकाल एव प्रपञ्चाभावोऽपि परमार्थतो 110 परमाथभूषणे ऽस्तीति चेत्, न तर्हि अभावस्य मिथ्यात्वम् । शतदूषण्याञ्च वन्ध्यासुततन्मरणोभयमिध्यात्ववत् एतदुभयं मिथ्या भवत्वित्याशङ्कय परिहारः कृत इहानुसंधेयः । अयं भावः मरणं हि नाम पूर्वकालावच्छिन्नदेहप्राणादि संबन्धस्योत्तरकालेऽभावः । तत्र विशेषणमिथ्यात्वात् विशिष्टस्य मिथ्यात्वम् । अत्र तु न स न्यायः उभयोर्धर्मयोर्वैषम्यात् । • बन्ध्याजमृतिमिथ्यात्वं वन्ध्याजे तस्य पोषकम् । मिध्यात्वस्य सु मिथ्यात्वं धर्मिमिथ्यात्वबाधकम् । प्रपञ्चमिध्यात्वं सत्यं ब्रह्मरूपमिति नाद्वैतहानिरित्यप्ययुक्तम् । तर्हि ब्रह्मणः प्रकाशमानत्वात् प्रपञ्चप्रतीत्यभावप्रसंगात् । यस्मिन् प्रकाशमाने तु यदारोपो न संभवेत् । तस्य तद्वयावृत्तिरूपत्वमित्येव नियन्त्रणा ॥ अनावृतवृस्युपहितब्रह्मविषयं ज्ञानं प्रमाणजन्यं बाधकमित्यपि न सत् वृतिपदेनास्यैव प्रमाणजन्यज्ञानस्य विवक्षणे वृत्त्युपहितेति निवेशस्य व्यर्थत्वात् । अमिथ्याभूताखण्डब्रह्मविषयकत्वस्यैव वृत्तौ समतत्वेन तद्विशेषणप्रवेशो श्रमापादको नैव युक्तः । ब्रह्मणोऽनावृतत्वमपि न तदा । आवरणस्य वृत्तिनाश्यत्यात् वृत्त्युत्पत्तिक्षणे अनावृतत्वायोगात् । तथाच ब्रह्मप्रकाशः स्वरूपात्मक इव वृतिरपि आवृतविषयिण्येव । पश्चादेव त्वनावृतत्वम् । किश्च पूर्वप्रकाशस्य आवृताकारब्रह्मविषयकत्वं दुर्वचमित्यप्युक्तमेव । आवरणीयस्याकारस्य कस्यचिदमायात् । स्वरूपस्य प्रकाशमानत्वादेवावरणायोगात् । आनन्दत्वादिकाल्पनिक कारभाने मिथ्याविषयकत्वं स्यादिति भवता सत्त्यागात् । यतु प्रपमिथ्यात्वग्रहो बाधकज्ञानफलम्, न तु तदेव बाधकज्ञानमिति तदपि न बाधक ज्ञानानन्तरक्षणे सर्व निवृत्तेरावश्यकतया मिथ्यात्वग्रहोत्पत्त्ययोगात् । निदिध्यासनपरिपाकलब्धापरोक्षसाक्षात्कार एवाविद्यानिवर्तक इति च कुतः ; निवर्तकानुपपति-प्रसाधनम् ८७५ अपरोक्षवत् परोक्षस्यापि निवर्तकत्वसंभवात् । द्विचन्द्रादिप्रत्यक्षानुवृत्तिस्तु दोषस्यानिवृत्तत्वात्’ । इह दोषोऽप्यज्ञानं परोक्षवृत्त्या निवर्त्यमिति न कथमपि प्रपञ्चभानप्रसक्तिः । परोक्षज्ञानस्याप्रामाण्यास्कन्दितत्वे च तदधीनमपरोक्षमपि ततू/सनावशात तथैव स्यात् । वेदवाक्यजन्ये निश्चये अप्रामाण्यज्ञानमास्तिकस्य न भवितुमर्हति । तथा दशमस्त्वमसीत्यत्रेव तत्वमसीत्यत्र प्रथमज्ञानमेव साक्षात्काररूपं भवतामिष्टम् । विषयवैलक्षण्यं तु न मात्रयापीति यतः प्रथमज्ञानं न निवर्तयति, अतोऽन्तिममध्य विशेषादनिवर्तकमेव । 1 अभिननिमित्तोप्रादानं ब्रह्म नानुमानमात्रेण सिद्ध्यतीति सत्यम् । निर्विशेषब्रह्मसिद्धौ तु का कथेति कथनं तु न घटते । किमनुमानसामान्यं सविशेषविषयकमिति स्वीकृत्यैवमुच्यते, किं वा निर्विशेषविषयकं भवदप्यप्रतिष्ठितमिति । बाद्यं यद्यप्यस्मत्संगतम्, अथापि प्रमाणसामान्यस्येयमेव गतिरिति सर्वथा निर्विशेषा सिद्धिरेव । अन्त्ये, यस्यानुमातुरप्रतिष्ठा नासीत्, तस्य तावन्मात्रेण मुक्तिरस्तु । भवन्ति हि केचित् वेदमप्यप्रमाणमाकलयन्तः खबुद्धिनिर्भातमनुमानमेव सर्वोत्कृष्टं घोषयन्तः । एवञ्चापशूद्राधिकरणविरोध एव । जीवन्मुक्तानामपि विधिनिषेधोल्लङ्घनं दोषायेति तत्रतत्र व्यक्तम्" इति भवद्वाक्यं निर्विवादं भवदीयसर्वाभ्युपेतं चेत् अस्तु शिला लिखितम् । उपदेश्याः शूद्रा अपि भवितुमर्हन्ति । अनुमानाधीननिर्विशेषनिर्णयेन तदर्थस्योपदेशसंभवात् । तावन्मात्रे विश्वासिनां तत एव बन्धनिवृत्तिसंभवात् । " यत्तु शूद्राणां ब्रह्मविद्यायामनधिकारे कथं द्राविडप्रबन्धमुखेन शूद्राणामात्मतत्त्वोपदेशादीति तत् किमेवंरीत्या शूद्रं प्रत्युपदेशादिकमद्वैतिपक्षेऽप्यस्तु इत्याशयेन, उता स्मत्पक्षे दोषोद्भावनमात्रबुद्धया । आद्ये अपसिद्धान्तः । अन्त्यस्तु न । न हि वयमुपनिषदादिचोदितं भक्तियोगं ज्ञानयोगं कर्मयोगं वा, अयमित्थमनुष्ठेय इति द्राविडादिप्रबन्धमुखेन शूद्रान् प्रति बोधयामः । किंतु सत्याहिंसादिवत् यत् सर्वसाधारणं भवितुमर्हति ज्ञानम्, तदेव भगवत्स्तोत्ररूपैर्दिव्यप्रबन्धैस्तेषा ૮૬
मुत्पादयामः । भवन्मते निर्विशेषे विषयभेदाभावान्न व्यवस्थेत्यलम् । पश्चसंस्कारादिना तेषां शूद्रत्वमपगच्छतीति नास्माभिरुच्यते ; पाशुपताधिकरणे श्रीभाष्य एव तन्निन्दनादिति न सांकर्यलेशस्यापि प्रसक्तिः । जगन्ध्यिात्ववादिभवन्मत एव तु वर्णाश्रमपुण्यापुण्यादि सर्वमिथ्यात्वाध्यवसाये जाते यो यावत्यंशे मिथ्यात्वधियं सोपपत्तिकमावर्तयिष्यति, तस्य तावदंशबाधस्यावश्यकत्वात् सर्वाऽपि व्यवस्था न स्थास्यतीत्यन्यत्र विस्तरः । अपि च निवर्तकज्ञानस्य न सर्वनिवर्तकत्वम्, स्वनिवर्तकत्वायोगात् । ‘ब्रह्मव्यतिरिक्तत्वाकारेण स्वस्यापि क्रोडीकार्यतया स्वनिवर्तकत्वमपि भवति, शब्दशब्देन स्वग्रहणवत्’ इति चेन्न -वैषम्यात् । बाधकस्य स्वकाले कार्यविघटकत्वात् बाघज्ञानवत् बाधज्ञानसामग्रया अपि कार्योत्पत्तिविरोधित्वेन निवर्तकज्ञानसामग्रया एव निवर्तकज्ञानोत्पत्तिविरोधित्वापत्तेः । ’ वह्नेर्दा विनाश्य अनुविनाशवत् तद्विनाश’ इति चायुक्तम् । इन्धनाद्यभावादन्यवयनुत्पत्तेः स्थितवह्निविनाशस्य च विशरणहेतुबलायत्तत्वात् स्वमात्राजन्यत्वात् । इतश्च निवर्तकत्वमनुपपन्नम् निवर्तकनिवर्त्यश्चेत् प्रपञ्चार्थनिवृत्तयः । अनवस्था ; न चेत् ताः स्युस्तन्मूलाविद्यया सह ॥ क्रमिकत्वा निवृत्तीनामाद्यपक्षेऽप्यविद्यया । भाव्यम् ; नितिश्चेद् ब्रह्म कथं तत् जन्यते धिया । अनन्तरवादान्ते चैतद्विशदं भविष्यति । प्राप्ते तत्त्वप्रकाशे निखिलमपि निवर्त्यत मिथ्येति क्लुप्तम् लोके वृत्तिव्यपेक्षा पुनरतदुदये बाधकार्थाप्रकाशात् । वृत्तिं वेदैकलभ्यां श्रवणमनन निध्यानपारम्परीजाम् भानात्मब्रह्म कांक्षेत् यदि भवशमने, स्यात् भवः सत्य एषः ॥ शुभमस्तु श्रीः