४३ मायाविद्या-विभाग-भङ्ग-प्रसाधनम्

अन्यव्यामोहदक्षाद्भुतविषयसमुत्पादिनी यस्य माया हान्या बुद्धेर्विमत्या विविधचरणतश्चाऽप्यविद्यात्रयान् । मा या त्रातुं सदारः स्थलमधिवसति प्रीयमाणाऽस्य तस्याः मायावी वय एष श्रय हृदय ! परं मान्यमेनं तु ; माऽन्यम् ॥ नित्यशुद्धस्य चैतन्यस्योपाधिसंबन्धमन्तरे णेश जीव विभागायोगात् पृथगुपाध्यपेक्षायां स्वीकृत ईशोपाधिर्माया, जीवोपाधिरविद्या । मायया महाभूतभौतिकसृष्टिः, अविद्यया सूक्ष्मभूततत्कार्यान्तःकरणादिसृष्टिः । तत्र जीवकार्यसूक्ष्मभूतानामन्तः करणाद्युत्पादनायेश्व र कार्यमहाभूतोपष्टव्यत्वमप्यपेक्षितमिति केचित्, नेत्यन्ये इति मायाविद्या भेदवादिप्रक्रिया । अभेदवादिषु पुनः केचित्, ’ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति ईश्वरोपाधिर्माया, जीवोपाधिस्त्वन्तः करणं मायाकार्यमित्याहुः । तत्त्वविवेके तु त्रिगुणात्मिकाया मूलप्रकृतेरेकस्या एव माया चाविद्या चेति रूपभेदौ । रजस्तमोनभिभूतशुद्धसत्त्वप्रधाना माया । तत्प्रतिविंव ईश्वरः । अभिभूतमलिनसत्त्वा त्वविद्या । तत्प्रतिबिंब जीव इत्युक्तम् । जीवस्यैवाज्ञत्वात् ईश्वरस्य च स्रष्टृत्वात् जीवे तस्याः आवरणप्राधान्यम्, ईश्वरे विक्षेपप्राधान्यमित्यप्याहुः । जीवानामनेकत्वात् जीवाश्रिता अविद्याः भिन्नभिन्नाः, ईश्वराश्रिता तु माया प्रपञ्च हेतुरित्यविद्यानानात्वमपि केषाञ्चिदिष्टम् । नानाविधातिरिक्तमायासद्भावमन्ये नेच्छन्ति । एवञ्च मायाविद्या विभाग-भङ्गस्यात्र वादे क्रियमाणस्य भामतीसंमतस्याद्वैतिषु खागतवादिनोऽपि भूम्ना सन्तीति युक्तमत्र शतभूषण्या खयमुपरन्तुम् । अथापि तया किञ्चित्पक्षनैर्भर्याभावात् सर्वत्र किञ्चित् प्रतिवक्तुं प्रयत्यते वैतण्डिकवेषेण । यत्तु ——आवरणशक्तिमती माया स्वतन्त्रा, विक्षेपशक्तिमती तु मायाऽपरा इति मायाविद्याविभागं प्रस्तुत्य तस्य श्रीभाष्य मायाविद्याविभागम-प्रसाधनम् ८५९ सम्मतत्ववर्णनम् तत् काल्पनिकम् । अविद्या कर्मरूपा जीवाश्रितेति श्रीभाष्यसंमतिमात्रेणेदृशविभागकल्पनानुपपत्तेः । कर्मणां जीवाश्रितत्वस्याद्वैतिनामपीष्टत्वात् । यच्च मायाविद्याविभाग-भङ्गोऽयं श्रीभाष्यानुयायिनामेव शृङ्ग-भङ्ग इति तदपि छलमात्रम् । नानार्थके पदे वक्त्रभिप्रायं पुरस्कृत्यैव वादस्य प्रस्तोतव्यत्वात् । अद्वैतिसंमतमायाविद्या विभागप्रकारेऽनुपपत्त्युद्धाटनस्यैव वादकृत्यत्वात् । शतदूषण्यामेव वादान्ते, " अतो यस्य मते माया सत्या, मायाविनश्च न भ्रमः ; व्यामोहनीयाश्च जीवाः परस्मादत्यन्तभिन्नाः सत्याश्च परेण च यथावद् दृश्यन्ते, तस्यैव मायाविद्याविभागेन ब्रह्माज्ञानं सुपरिहरम् ; न तु निर्विशेषैकचिन्मात्रवादिनः " इति वक्तव्यमुक्त्वा वक्तृतात्पर्थमाविष्कृतम् । अत्रेदं बोध्यम् अविद्यातिरिक्तायाः ईश्वराश्रिताया मायाया अपलाप एव भागत्यारूढः । तन्मते मायाविद्या विभागस्य भङ्ग एव । ये त्वन्ये मायां स्वीकुर्वन्ति, तैर्मायाया अविद्यायाश्च स्वरूपशोधनं किञ्चित्प्रकारेण क्रियमाणं न संभवतीति तत्कृतविभाग-भङ्गश्चेह विशदं निरूष्यते । तत्रेश्वराश्रितमायानङ्गीकारिभामतीपक्षः परिशील्यमानो भामतीकारस्यानीश्वरवादिप्रायतामेव दर्शयिष्यति । तथाहि तत्र किं मायाप्रतिनिबस्वीकारः मुक्तप्राप्यत्वायावश्यक इति तदर्थं मायाकल्पना, किं वा जगमोपयोग्यावरण संपत्तये इति विकल्प्य तदधीनत्वसूत्रकल्पतरौ दूषणमुपन्यस्तम्निर्विशेषब्रह्मभावस्यैव मुक्तप्राप्यत्वात् न तदर्थं मायाप्रतिबिंबरूपेश्वरापेक्षा ; जगद्रमस्तु द्रष्टृणां जीवानां दोषभूताभिरविद्याभिरेवोपपद्यत इति । अथेश्वरस्योपादानत्वार्थमपेक्षेत्यपि न जीवाश्रिताविद्याविषयस्य ब्रह्मण एव जगदध्यास्याधिष्ठानत्वात् । तावदेव हि विवर्तोपादानत्वम् । तत्र यावत्योऽविद्याः, तावतीभिः संभूताभिरेकप्रपञ्चसृष्टिः । एकाविद्याविलये च शिष्टाभिः पुनः सभूय प्रपञ्चान्तरसृष्टिः । तत्रैक्यांशे भ्रमः । यद्वा अविद्याभेदेन प्रपञ्चभेद एव । भ्रान्तपुरुषभेदेन शुक्तिरजतस्य क्लृप्तस्य भिन्नत्वेऽप्येकत्वभ्रम इवेहापि प्रपञ्चैक्यभ्रममात्रमित्येवं ;८६०

तन्मत स्थितिः । ततश्च प्रपञ्चवत् तत्कारणत्वेन सार्वस्य सर्वशक्तित्वाद्याश्रयतयेश्वरोऽपि तत्तदविद्याकल्पित एव । एवञ्च यो यादृशमीश्वरं स्वाविद्यया कल्पयति, तस्य स तादृश एव । तत्तदीश्वरोपासनेन तस्य तस्य फलप्राप्तिस्तत्तदविद्याविलसितम् । अनीश्वरजगत्कल्पनकौशलच येषां स्वाविद्यावशात्, तेषां तादृशमेव जगत्, तदनुरूपमेव च फलमिति न तत्रैकेनान्यस्य निषेधप्रसक्तिः । अविद्यावैचित्र्यञ्च सर्वैरनुभवानुरोधेन सर्वत्र संमन्तव्यमेव । अतो ये तावत् स्वाविद्यावैशेप्यात् सर्वज्ञं सर्वशक्ति च किञ्चित् वेदप्रमाणकं कल्पयित्वा तदनुगुणलोकयात्रायै घटन्ते, तैरतादृशाः जैनवौद्धादय उच्चावचा वेदवाद्याः स्वाविद्यामहिमभावनीयाद्भुतप्रपञ्चविहारपरायणा न दूषणीयाः । निर्विशेषतत्त्वज्ञानान्मुक्तिरित्येतत्तु सर्वसमादरणीयमित्येतावन्मात्रमद्वैतवादिजीवानुबन्ध्यविद्याप्रभावविशेषनिकृष्टमिति । नूनमीदृशदोषापत्तिं " जीवा तामिमां निरीश्वरवादानुमति भामतीमते समापतितामालोचयन्ति चेत् — वाचस्पतिरपि विस्रष्टव्य एव भवेत् । मनसिकृत्येव सिद्धान्तलेशसंग्रहे वाचस्पत्यप्रपञ्च निरूपणानन्तरम्, श्रिताविद्यानिवहादू भिन्ना मायैवेश्वराश्रिता प्रपञ्चकारिणी ; जीवानामविद्यास्तु आवरणमात्रे प्रातिभासिक शुक्तिरजतादिविक्षेपेऽपि वोपयुज्यन्त इत्यपरे " इति मतान्तरमुपन्यस्तम् । तत्र वाचस्पतिर्मायां नैवेच्छतीति वा स्वीकर्तव्यम् ; कल्पतरुत्र्याख्यामुपेक्ष्य कथमपि वाचस्पतिरपि मायाभ्युपगमं कारयितव्य इति वा मन्तव्यम् । एवंभूतेश्वरमायाया अपि केन चिद्रूपेणा विद्यात्वमप्यस्तीत्याशय्यैव भामत्युपक्रमे, अनिर्वाच्या विद्याद्वितयसचिवस्येत्युक्तिः ; न पुनः पूर्वपूर्वविभ्रमसंस्कारस्य द्वितीयाविद्यात्वकल्पनयेति चैतत्पक्षोपष्टम्भः । एवं तु विचारे क्रियमाणे जीवानां ब्रह्मणि जगमध्येवेश्वरस्यापि जगद्रमस्य स्वस्मिन् तदाधारत्वतन्नियन्तृत्वादिविचित्रभ्रम वर्गस्य च विद्यमानत्वात् तादृशभ्रम हेतुतायास्तन्मायायामेव वक्तव्यत्वात् स्वाश्रयस्य भ्रान्तत्वा वहत्वरूपा विद्यालक्षणं मायायां पुष्कलमेवेति न मायाया अविद्या मायाविद्याविभाग-भङ्ग-प्रसाधनम् ་་ सामान्यपार्थक्यम् । गोबलीवर्दन्यायस्तु संभाव्यताम् ; किं तेन । मायाविद्याविभागवादिनिः, मायाः अविद्याया इव स्वाश्रयव्यामोहकत्वं नास्तीति वादो न युक्तः ; ईश्वरस्यापि भ्रान्ततया तत्र तदीयमायाया एव हेतुत्वादित्या क्षेपस्य शतदूषणीकृतस्य समाधानं विहाय शतभूषणी मायाप्रपञ्चने व्याप्रियते व्यामोहनाय । ‘व्यावहारिकेषु मायापरिणामेषु ब्रह्मानुप्रवेशोऽस्ति ब्रह्मविवर्तता च । ब्रह्माननुप्रवेशेन मायापरिणामाः स्वामिकशुक्तिरजतादयः । व्यावहारिकेषु मायाविकारप्रकृतित्वमिव खामिकादिषु तन्नास्ति, किंतु मायाविकारमात्रत्वम् । अत एव मायामात्रमितिसूत्र’ मित्यादि च लिखति । स्वामिकादीनां जीवो निमित्तकारणम्, न तु व्यावहारिकप्रपञ्च इव ब्रह्मणः कर्तृत्वमिति स्यान्नाम । तेष्वपि व्यावहारिकेष्विव ब्रह्मानुप्रवेशे ब्रह्मोपादानकत्वे च स्वीकृते काऽनुपपत्तिः । स्वप्ने घटादिनिर्माणान्नपचनादिषु दृश्यमानेषु स्वामिकमृत्पिण्डतण्डुलादीनामेव घटौदनात्मना परिणामस्वीकारे वा किं बाधकमस्ति । असतोऽप्यर्थक्रियाकारित्वं व्यावहारिक इव नानुपपन्नम् । प्रातिभासिकस्य व्यावहारिककार्योपादानत्वायोगेऽपि स्वसजातीयं प्रत्युपादानत्वं नायुक्तम् । प्रतीतिमात्रमेवास्ति, न त्वनिर्वचनीयं किञ्चिदिति वादिनां मते तु तत्र तण्डुलौदनादिषु प्रकृति विकृतिभावस्याभावः स्यात् । ब्रह्मस्वरूपं नानुवर्तते, मायावस्थाश्रयचैतन्यांशोऽनुवर्तते ’ इति चार्थहीनम् । मायामात्रसूत्र विचारस्तु प्रथमप्रसाधन एव प्रस्तुतः । स्वामिकानामिव व्यावहारिकाणामपि सति बांधे उपादानेन साकं विनाशस्तुल्य एव । अथ शतदूषणीकृताक्षेपसमाधाने प्रवृत्य ’ मायाश्रयत्वं ब्रह्मणः । अविद्यैव तु माया । मायागतावरणशक्तिरेवाविद्या । अद्वैतमते अविद्याविषय एव ब्रह्म, नाश्रयः’ इत्येवं किमपि किमपि लिखति । ईश्वराश्रिता माया, जीवाश्रिता अविद्येति विभज्य ततल्लक्षणविशेषोऽद्वैत् येकदेश्युक्तः खण्डयते शतदूषण्याम् । तत्रानेन न कश्चित् परिहार उक्तो भवति । तदुपरि च, ‘परव्यामोहनहेतुर्माया, अविद्या तु स्वाश्रयव्यामोहहेतुः ’ इति ८६२

ऐन्द्रजालिकव्यामुग्धमायाविद्या विभागपरम् ; न ब्रह्माश्रितमायाविद्याभिप्रायम् ’ इति लिखता पूर्वम्, ‘मायालक्षणं परव्यामोहनेन वाश्रयविवर्तमानतासहकृतम् ; ‘परव्यामोहसहकृतपरिणामित्वमात्रं मायायाः साधारणं लक्षणम् ’ इति विरुद्धमेव व्यलेखि । मायाविद्ययोरैक्यमङ्गीकुर्म इति चेत्-न हि तत्पक्षे दोषोद्भावनं शतदूषण्यां प्रकृतम् । विभागवादिपक्ष एव विभाग । प्रकारस्योक्तस्यासंभवाविष्करणात् । अथेश्वरोपाधिर्माया, जीवोपाधिरविद्येति, तथा परव्यामोहहेतुत्वं मायालक्षणम्, स्वव्यामोहोऽविद्ययेति लक्षणमिति च स्वीकृत्यैव शतदूषणीकृतं दूषणं परिजिहीर्षुगा यदुक्तन् मायापरिणामात्मकवृत्त्या व्यामोहानां परेषां दर्शनात् न निर्दोषदर्शनविषयताप्रयुक्तं व्यामोह्यसत्यत्वं वा ब्रह्मणः स्वाभाविकं ज्ञातृत्वं वा भवितुमर्हतीति । तत्र पृच्छयते—माया पृथक् स्वीकृता दोषो न वा । ईश्वरे किञ्चिद्धे कार्यकरत्वाभावे मायायानेश्वरं प्रति दोषत्वम् । तदा च निर्दोषदर्शनविषयत्वं व्यामोह्येषु प्राप्तमेव । अथातात्विकव्यामोह्यजीवादि विषयकज्ञानस्येश्वरे उत्पादनात् तस्याः दोषत्वम्, तर्हि मायाया अविद्यात्वं सिद्धम् । यत्तु व्यामोह्यान् परान् मिथ्याभूतान् मिथ्यात्वेनैव दर्शयतीति तर्हि व्यामोह एव न पदं लभते । किञ्च यथा शुक्तिरजते अन्येन ज्ञायमाने स्वयमभ्रान्तः पुरुषः तेन गृहीतं रजतं मिथ्येति गृह्णाति, तथेश्वरोऽपि व्यामोह्यान् परगृहीतत्वेन रूपेण गृहीत्वा मिथ्याभूतान् मन्यते, उत स्वयमेव व्यामोह्यान् गृह्णाति । आद्ये तु ईश्वरोऽभ्रान्तः स्यात् । स तु पक्षो न संभवति । परेषामपि कल्पनाधीनत्वेन तेषामेवाभावेन तद्गृहीतत्वेन ग्रहणायोगात् । अतो यथा कश्चित् पूर्वं शुक्तौ रजतमध्यस्यति अथ च मिथ्येत्यध्यवस्यति, तथेश्वरः परान् गृह्णाति, अथ मिध्येति च मन्यत इति वक्तव्यम् । तदा तस्य भ्रान्तत्वमप्यवश्यम्भावि । रजताध्यासो रजत मिथ्यात्व } ग्रहणञ्च युगपन्न भवितुमर्हति । अथ पीतशङ्खभ्रमः मिथ्यात्वग्रहणञ्च युगपद्भवतीति तद्वीतिरादर्तव्या । अथापि दोषवत्त्वं भ्रान्तत्वञ्च दुष्परिहरम् । 1 मायाविद्याविभाग-भङ्ग-प्रसाधनम् ८६३ अत एव तत्र पित्तदोषपरिहाराय प्रयत्नः । तादृशश्च दोष इह मायैवेति सा नूनमविधैव भ्रान्तिहेतुत्वात् । दोषाभावे तु मिथ्याभूतवस्तुग्रहणमेव न भवति ; कुत्र तथा मिथ्यात्वज्ञानापेक्षा । एवञ्चेश्वरस्य व्यामोह्यपरदर्शनं मायाविशिष्टस्वदर्शनं तन्मिथ्यात्वग्रहणमिति किमपि न स्यात् । तत्त्वमुतब्रह्मप्रकाशमात्रेण भवितव्यम् । अपि च भवन्मते वस्तूनां तद्गतस्य मिथ्यात्वस्य च सर्वस्य मिथ्यात्वात् मिथ्यात्वेन सर्ववस्तुज्ञानमपि मिथ्याभूतपदार्थग्रहणमेवेति ब्रह्मातिरिक्ततद्ग्रहणं दोषजन्यमेवेति ईश्वरस्य दोषवत्त्वं मायाया अविद्यात्वश्चावजनीयम् । एतेन ऐन्द्रजालिकमायायां परव्यामोहकत्वमात्रम्, ईश्वरमायायां तु परदर्शनव्यामोह नोभयहेतुत्वमित्युक्तिरपि मायाया अविद्यात्वसंपादिकैवेति सिद्धम् । यदि व्यामोह्यान् दृश्यमानान् परान् मिथ्यात्वेन गृह्णन् ईश्वरः तन्मिथ्यात्वं सत्यं मन्यते, तर्हि ब्रह्मातिरिक्तसत्यत्वज्ञानादज्ञानं तत्कारणं तस्यावश्यकम् । यदि च मिथ्येति मन्यते, तर्हि मिथ्यात्वं मिथ्या, ते तु सत्या इत्येव तेन गृहीतं भवति, तदा च भवद्दृष्ट्या स भ्रान्त एव । अभ्रान्तो निर्देषश्च यदि सः, परदर्शनप्रसक्तिरेव नेति ध्येयम् । उक्तरीत्या परगृहीतार्थ माहित्वाभावात् स्वभ्रमविषयमिथ्यात्वस्यैव स्वयं ग्रहणादीश्वरस्य भ्रान्तत्वं भवेदेव । अथ तु शतभूषणी शतदूपण्यां दूषणार्थं ये पूर्वपक्षांशा अनूदिताः, तानेव, मायाया अपरमार्थदर्शन हेतुत्वेऽपि अपुरुषार्थदर्शन हेतुत्वं नास्ति, जीवानां स्वप्रतिबिंबत्वेन ग्रहणेऽपि, बालः क्रीडनकैरिव " इत्यादि प्रामाण्यात् बालोन्मत्तादीनामिवेश्वरस्य लीलारसहेतुः प्रवृत्तिरित्यादीन् तत्खण्डितान् स्वयमपूर्ववदनूद्य खण्डनांशमस्पृष्टा तत्परिहारहेतुञ्चालाभादनुपन्यस्य स्वयमुपरि कोटिं प्रदर्शितवतीव भूत्वा तृप्यति । तदर्थे शतदूषण्याः शुकवत् पठनं स्फुटम् । पर्याप्तमिति नेदृक्षखण्डने व्याप्रियामहे ॥ ८६४

ईश्वरः सत्यत्वेन वा मिथ्यात्वेन वा किञ्चिद्विषयकज्ञानवान् वा न वा । एवं स परव्यामोह हेतु महाभूतादिसर्ग करो वा न वा । आद्ये बाध्यार्थविशिष्टत्वं कल्पनामन्तरा न भवतीति कल्पकदोषवत्त्वमपि सिद्धम् । जीवा एव तथा तं मन्यन्ते, वस्तुतस्तादृशो नास्तीति चेत्, निरीश्वरवाद एवायम् । यथा सुषुप्तिदशायामन्तः करणशरीरश्वासप्रश्वासादिसर्वाभावेऽपि द्रष्टृबुध्यैव श्वासशरीरादिसद्भावोऽद्वैतिमते । तदुक्तं परिभाषायाम् । तदा च मायांऽपि नास्तीति न तदा मायाविद्याविभागानुपपत्तिं ब्रूमः । इतस्त्वेवं वक्तुमुचितम् ईश्वरस्य परव्यामोहनार्थ मायाप्यस्ति स्वयं व्यामुग्धत्वायाविद्याऽपि । तथाच मायाविद्योभयपरिकर्मित ईश्वरः मायादरिद्राज्जीवादधिक इति । एवं वा ब्रूत, मायाया एवाविद्याशक्तिरप्यस्तीति वा । तथाच मायाविद्याविभाग-भङ्गस्यास्मद्विवक्षितस्य भवदिष्टत्वात् नात्र वादस्यावकाश इति । एवं मायाया इव ब्रह्मणोऽप्यभावप्रतियोगित्वान्मिथ्यात्वं स्यात् । मायाभावो मायाभावाभावश्च माया । अतो मायारूपाभावप्रतियोगित्वं ब्रह्मण ब्रह्म । इत्यादि चण्डमारुते उक्तम् । शतदूपणी-परीक्षायामेवं विलक्षणायां चण्डमारुतं सहस्रकिरणञ्चापि दृष्ट्ा तत्र विचारितेषु गहनेष्वर्थेष्वप्रवेशेन किमपि स्थूलमीषद् गृहीत्वा इदं व्याख्यातमिति वाभ्यस्तया परिपाट्या सर्वप्रत्याख्यानं कृतं मन्यत इत्यलं विडम्बनोक्तिविषयविवेचनेन ॥ मायाव्याप्तान् रक्षितुं स्वं प्रपन्नान् मायाव्याप्तो ( मायावी आप्तः) Sस्त्येष मायाः प्रियो नः । मायात्रादो मायिनं वक्ति मुग्धं मायाजालान्मोचयेत् तं कथं सः ॥ शुभमस्तु । श्रीः