e विश्वोपादानकोटिस्थितिमपि सहकारित्वमेवं भ्रमादे हेतुत्वं प्राप्तवत्यः प्रकृतिरिति च कर्मेति चाथाज्ञतेति । प्रख्याता या अविद्याः, स्ववशविनिहिताः येन ताः सत्यरूपाः, श्रीमान् स ज्ञानभूमा श्रितजनसुलभः स्यादविद्याविधूत्यै ॥ अद्वैति संमता विद्या स्वरूपानुपपत्तिप्रपञ्चनमेतद्वादार्थः । अविद्यायाः भावरूपत्व प्रा. वारकत्व ब्रह्माश्रितत्व जीवाश्रितत्वानामसंभवः प्रत्यपादि । अत्रापारमार्थिकत्वादिकं तत्स्वरूपं विशोध्यते । तस्याः पारमार्थिकत्वे द्वैता पत्तिः । न च तस्याः तत्त्वज्ञाननिवर्त्यत्वात् तदनन्तरं ब्रह्ममात्र परिशेषादद्वैतमेवेति वाच्यम् तर्हि ब्रह्मणि व्यावृत्तिरूपाभावपदार्थस्वीकारिभिर्भावाद्वैतकल्पनवत् नित्यवस्त्वद्वैतकल्पनं कृतं स्यादिति । वस्तुतः पारमार्थिकत्वे तत्त्वज्ञाननिवर्त्यत्वमपि न भविष्यति । कामं कर्माभावात् कार्याणामनुत्पत्तिः स्यात् । अतो द्रष्टदृश्यादिविभागविरहेऽप्यनाद्यविद्यानाशे मानाभावादद्वैतहानिरेव । अतः, सिद्धान्ताच्चापारमार्थिकत्वमेवाविद्यायाः । एवश्व कल्पकसापेक्षत्वात् कल्पनात्तः प्रागविद्या न स्थिता स्यात् । अनादित्वादुत्पादकमनपेक्षितमित्युक्तावपि प्रतीयमानत्वस्य मिथ्यात्वोपपत्तये अङ्गीकार्यतया प्रतीतेश्च मिथ्याविषयिण्या दोषमन्तरेणायोगात् कल्पकदोषकल्पनमवर्जनीयम् । दोषान्तरनिरपेक्षत्वे तत्रेप्यमाणे प्रपञ्चमोऽपि दोषनिरपेक्ष एव स्यादित्यविधैव न सिद्धयेदित्यादि प्रपञ्चितं शतदूषण्यामेव । तत्र ब्रह्मसिद्धीष्टसिद्धितत्त्वप्रदीपिकादिग्रन्थानुवादाः अविद्याया अनि र्वचनीयत्वमद्वैतिसम्मतमित्येतावत एवोपयुज्यन्ते ; न पुनः शतदूषण्युद्भावितानां दोषाणां तत्र मात्रयापि परिहारोऽस्ति । अनिर्वचनीयत्वञ्चेदमन्त्रैवान्ते विवेचयिष्यामः । श्रीभाष्यमतेऽपि प्रकृतिर्ब्रह्मणो भिमा न वेत्यादिप्रतिबन्ध अविद्यास्वरूप-भङ्गप्रसधानम् द्घाटनं न स्वपक्षदोष परिहारकम् श्रीभाष्यमतानभिज्ञमात्रवञ्चनञ्चेति न तत्र किश्चिद्वक्तव्यमस्ति । ’ वस्तुतस्तु ब्रह्मैवोपादानम्, अविद्या तु दोषविधया निमित्तकारणमात्रम् ; न तु श्रीभाष्यमत इव प्रकृतेः परिणाम्युपादानते’ ति स्वमतोपन्यासः, " अविद्यायाः पारमार्थ्यस्य ब्रह्माभिन्नत्वस्य भास्करमते संभवेऽपि भवन्मते तदभाव एव । अन्यथा ब्रह्मण एव विश्वभ्रम हेतुदोषत्वमुक्तं स्यात् " इति शतदूषणयुक्तार्थदूषको न भवतीति व्यर्थः । न चानुपादानत्वमविद्याया भवन्मते सर्वसंमतम् । भामतीपक्षत्वात् तस्य । परिणाम्युपादानत्वस्य प्राचीन संमतस्य परिभाषादिष्वप्यङ्गीकाराच्च । अपारमार्थिकत्वं जगतो यदि अन्यथाख्यातिवादितार्किक सरण्योपपाद्येत, तदा विप्रकृष्टवस्तुमानमात्रसत्त्वात् पदार्थसत्त्वाभावात् परिणाम्युपादानमनपेक्षितं स्यात् । अनिर्वचनीयोत्पत्त्यादिखीकारात्तु तेनावश्यं भाव्यम् । अन्यथा सत्कार्यवादस्त्यक्त एव स्यात् । सत्कार्यवादो हि कार्यस्य कारणस्य च द्रव्यस्यैक्यमादृत्य वादः, यथा पिण्डत्वघटत्वादिरूपपूर्वोत्तरावस्थाभाक् मृद्दव्यमेकमिति । तथा ब्रह्मणि प्रपञ्चकल्पनायां प्रपञ्चरूपानि च नीयमुत्पद्यमानं प्रपञ्चावस्थाविलक्षणकीदृशावस्थापन्न किंद्रव्यात्मकं प्रागासीदिति प्रश्ने अव्यक्तप्रकृतिरूपेणेत्येव हि वक्तव्यम् । ततः कथं न तदुपादानम् । न च ब्रह्मणो जडप्रपञ्चस्य चैक्यमस्ति, येन तत्र सत्कार्यवादोपपादन’मुत्प्रेक्ष्येत । सति त्वैक्ये सर्वं खल्विदं ब्रह्मेत्यत्र बाधार्थसामानाधिकरण्यवर्णनक्लेशो नादर्तव्यः स्यात् । सत्यमिध्यावस्तुनोरैक्यं हि नैव भवितुमर्हति । तत्रापि चोरः स्थाणुरितिवत् समानाधिकरण निर्देशमात्रेण तादात्म्यमपि किमपि कल्पयतस्तु अग्निरनुष्ण इत्यादिकं सर्व वाक्यं साधु स्यात् । सर्व ब्रह्मेत्यत्र सर्वपदस्य सर्वावच्छिन्नचैतन्यमित्यर्थं कृत्वा ऐक्यवर्णने तु शरीरात्मभाव निबन्धनसामानाधिकरण्यपथः प्रविष्टप्रायः । न चैतावताऽप्यनिर्वचयीयस्य तदभिन्नमुपादानं किञ्चिदुक्तं भवति । अतः परिणाम्युपादानापलापः अनिवैचनीयवस्तूत्पत्तिप्रतिषेधायैव स्यादित्यपसिद्धान्तापादक एव । तर्हि कार्ये एकत्र परिणाम्युपादानविवर्तोपादानोभया पेक्षणादर्शनात् ब्रह्मण उपादानत्वं भज्येतेति चेत् —भममेतद् भवदीयैरित्यत्र सिद्धान्तलेशसंग्रहोऽपि साक्षी ।
एवमुत्पद्यमानानिर्वचनीय विषय इवानाद्यविद्यारूपानिर्वचनीये परिणाम्युपादानापेक्षाविरहेपि अनिर्वचनीयमानप्रयोजक दोषापेक्षा टुग । भ्रमसामान्यस्य दोषजन्यत्वात् । तदभावादविद्याज्ञानं न भ्रम इति न तस्या अपारमार्थिकत्वमिति तज्जन्यस्य प्रपञ्चस्यापि पारमार्थिकत्वमेव । अस्तु लौकिकं पारमार्थि कत्वमिति चेत् -अलौकिकं पारमार्थिकत्वं किमन्यदस्ति । ब्रह्मगतं पारमार्थिकत्वमस्य नास्तीति चेत् — तत्तद्गतं पारमार्थिकत्वं ततोऽन्यत्र न भवतीति सिद्धमेवेति को विशेषः । ब्रह्मातिरिक्तस्य बाध्यमानत्वादुभयं नैकरूपमिति चेत् — बाध्यमानत्वं यदि निवर्तमानत्वम्, तद् घटादीनां मुद्गरादित इव भवत् न पारमार्थिकत्वविरोधि । यदि स्वकालेऽप्यभावो बाध्यमानत्वम्, तर्हि लौकिकं पारमार्थिकत्वमिति वाङ्मात्रम् ; पारमार्थिकत्वभ्रम एव, न तु पारमार्थिकत्वमित्येव तदर्थात् । दोषं विनापि भ्रमखीकारे तु दोषविधयैव कारणत्वेन स्वीकृतमज्ञानमपि मास्तु । न च तदभावे प्रपश्चविभ्रमानुपपत्तिः; पूर्वपूर्वविभ्रमवशादुत्तरोत्तरसंभवात् । न च संसारानुच्छेदप्रसंगः, तत्त्वज्ञानेनाज्ञानस्येव साक्षात् प्रपञ्चस्यैव निवृत्तिसंभवात् । ‘तत्त्वज्ञानप्रागभाव एव प्रपञ्चभ्रमकारणमस्तु कृतं दोषविधयैव कारणत्वेन स्वीकृतेनाज्ञानेने ‘ति शतदूषणी । एवं सति प्रागभावस्य स्वप्रतियोगिनं प्रति दोषत्वेन रूपेण कारणत्वमुक्तमिति कृत्वा दूषणमनुतोपालम्भः । न चाभावस्यादोषत्वम् ; विशेषादर्शनादेर्दोषत्वस्य प्रसिद्धत्वात् । प्रागभावस्य ’ दोषविधयैव कारणत्वमित्यपि न शतदूषण्यां कण्ठोक्तम् । तर्हि काचकामलादिकं विनाऽपि ज्ञानप्रागभावमात्रात् कार्योत्पत्त्या पत्तिस्तु अन्वयव्यतिरेकविरोधादयुक्ता । तर्हि प्रपञ्चमेऽपि तत्त्वज्ञानप्रागभावातिरिक्तमपेक्षितुं युक्तमिति चेत् — तन्न भावदिष्टमज्ञानम् । तस्यानादेरेकरूपस्य विचित्रक्रमिक कार्यहेतुत्वायोगात् तदर्थ मन्यापेक्षायां व्यर्थैवेयमविद्येति च तत्र दर्शितमेव । बागलस्तन इत्ययुक्तम् । तस्य सर्वसंमतत्वात् । तदनङ्गीकारे तदा कार्यसत्त्वापातात् । यदि कार्यप्रागभावो नाम द्रव्यगता कारणावस्थैवेति विवक्ष्यते, प्रागभावस्त्व अविद्यास्वरूप भङ्गप्रसधानम् ૮૪૧ तर्हि युक्तम् । तदा च तस्य निमित्तकारणत्वमात्रम्, नोपादानत्वमिति भवदभिमतं भज्येत । प्रकृतेरुपादानभूतायाः श्रीभाष्याभिमतत्वे स्थिते कथमज्ञानदूषणमिति च न शक्यम् — अपारमार्थिकाज्ञानस्वीकारे तद्भानार्थ दोषान्तरकल्पना स्यात्, दोषं विनैव तद्भाने प्रपञ्चभानमपि दोषरूपतयैव कारणत्वाभिमतमज्ञानं विनैव स्यादिति निमित्तकारणमात्रभूतापारमार्थिकाज्ञानदूषण ह्यत्र क्रियते ; न च प्रकृतिस्तथात्वेनास्मदिष्टेति । अतः प्रकृतिमहदहङ्कारादेभगवति तदन्तर्यामिकत्वस्य चास्मदभिमतत्वं नास्मदाशङ्काविरोधि । नन्वविद्याया मिथ्यात्वं नाविद्याकार्यत्वप्रयुक्तम्, किं तु ज्ञाननिवर्त्यत्वप्रयुक्तमिति चेत्-एवमप्यविद्यायाः अकार्यभूताया एव प्रतिभासार्थदोषापेक्षा ऽस्त्येवेत्यनवस्थेत्युक्तम् । अथाविद्याविरहे कथं ब्रह्मणः प्रपञ्चोपादानत्वमिति चेत् यथैवाविद्यान्तराभावेऽप्यविद्याभ्यासाधिष्ठानत्वं त्रह्मणः तथैव प्रपञ्चाध्यासाधिष्ठानत्वं सुवचम् । एवं निर्वाहे किमन्यत् तस्योपादानत्वं नामेति । आवरणं विना कथमध्यास इति चेत् निर्विशेषस्वप्रकाशम्यावरणं न भवतीति प्रागेवोक्तम् । शुक्तिरूप्यादौ दोषापेक्षा दृष्टेति चेत्-सलं दृष्टा, न त्वपारमार्थिकदोषापेक्षा । ज्ञाननिव पल्लवाज्ञानमेव शुक्तिरजतादिकारणं क्लृप्तमित्यपि नः मूलाज्ञानस्यैवालीकत्वे पल्लवप्रादुर्भावस्यानवकाशात् । मीमांसकाभिमतं तत्तत्कर्मापूर्वमेव प्रपञ्चपरिणामिकारणमस्तु किं प्रकृत्येति प्रश्नः किं प्रति तस्य परिणामिकारणत्वाशयेन । किं पृथिव्यादिभूतानि प्रति, उत तत्तज्जीवभोग्यभोगोपकरणादि प्रति । नाद्यः, ‘न कदाचिदनीदृशं जगत्’ इति तन्मतस्थिते भवतैवोक्तत्वेन अनादेः पृथिव्यादेः कारणापेक्षाभावात् । नान्त्यः, पृथिव्यादेरेव भोग्याद्युपादानस्य सत्त्वेनोपादानान्तरापेक्षाविरहात् । अपूर्वस्यात्मनिष्ठगुणस्य बाह्यद्रव्योपादनत्वायोगाच्च । अतो निमित्तकारणमेवापूर्वम् । वस्तुतोऽपूर्वमेवातिरिक्तं नास्तीति देवताधिकरण निष्कर्ष इत्यन्यत्र विस्तरः । 107८५०
विवर्तपरम्परा नाम कार्यान्तर कारणानुगतद्रव्य स्वरूपमिति भवदुक्तिः विवर्तपरम्परा नाम किमविद्याकार्याण्येवेति द्वितीयकल्पोद्भावितो यो दोषः, निर्वाह्यस्यैव निर्वाहकत्वादिति, तत्परिहरणक्षमा न भवतीति ध्येयम् । आवृतस्यैव ब्रह्मणः सर्वाध्यासहेतुत्वादावरणार्थमविद्या पेक्षेत्यपि आवरणानुपपत्तिप्रसाधनेन प्रशमितम् । “ब्रह्मोपादानत्वस्यौपचारिकस्यैव स्वीकारात्" इत्येतत्तु भवन्मत एव, नास्मन्मत इत्युक्तमेवः वक्ष्यते च तदर्थे वादे । अथापि न यत्तु -अविद्याविषयकः प्रकाशो ब्रह्मणो नातिरिक्तः । सार्वदिकः, तत्त्वज्ञानोदयादच्द्यिा निवृत्तौ तदभावादेव तदप्रकाशात् । तिरोधानस्य निवृत्तत्वाच्च नानिर्मोक्षदोषोऽपीति-तत्रोच्यते यदि ब्रह्मवाविद्याप्रकाशः तर्हि यावद्ब्रह्मसत्तम विद्याप्रकाशेन सता भाव्यम् । तथा च कथं निर्मोक्षः । अविद्यायां निवृत्तायां कथं तत्प्रकाश इति चेत् एवं भगुरस्य प्रकाशस्य कथम-भङ्गुरब्रह्मक्यम् । यथा च सर्वज्ञस्य वस्त्वभावेऽपि सार्वकालिकं सार्वश्यम्-तथैवाविद्याऽपि प्रकाशमानाऽस्तु । तथाच तदभावेऽपि तत्प्रकाशसद्भावात् संसार एव । द्वैतप्रकाशात् । एवं प्रकाशब्रह्मणोरैक्ये साक्षिभास्यानां सर्वेषां सुखादीनां प्रकाशश्चिद्रूप एवेति सर्वदा सुखादिभानापत्तिः । किञ्च यथा सुखादिकं स्थितमनुभू भवतीति न दृष्टम्, तद्वत् साक्षिभास्त्वे अविद्या सदैव प्रकाशेत । न ह्यहमज्ञ इत्यज्ञानभानं सार्वकालिकं कस्यापि दृष्टम् । एवं शुक्तिरूप्यादेरपि साक्षिभास्यस्य प्रकाशो यदि ब्रह्मैव, तहि ब्रह्मवत् तत्प्रकाशस्यापि नित्यत्वापत्तिः । रूप्यमहमित्यपि स्यात् ; शुतयवच्छिन्नचैतन्ये रजतस्याध्यस्तत्वात् तस्य च प्रमातृचैतन्याभिन्नत्वात् । परिभाषायाम्, सत्यरजतस्थलीयेदमाकारानुभवो यः इदंरजतमित्याकारकः तदाहितंसंस्कारसहकृताविद्याकार्यत्वाद्रजतस्य इंदरजतमित्येव प्रत्ययः, न त्वहं रजतमितीत्युक्तं न युक्तम् ; सत्यरजतस्यापि चैतन्य एवाध्यस्ततया तस्य प्रमातृचैतन्या भेदस्याक्षततया तत्राप्यहं रजतमिति प्रतीतेरापादनीयत्वादिहापि तदापत्तेरपरिहारात् । सर्वत्र विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य चाभेदात् अहं घटः, अहं पट अविद्यास्वरूपभर-प्रसाधनम् ८५१ इत्येवं प्रत्यक्षस्य दुर्वारत्वात् । घटोऽस्तीति अस्तित्वेनैव घटमहं जानामीति चैतन्यत्वेनापि मानसत्त्वात् अभेदस्य तत्तदवच्छिन्न चैतन्ययोः सत्त्वे कारणान्तरनिरपेक्षं तद्भानस्यावश्यकत्वात् । एवमभेदस्य ग्राह्यत्वादेवाहमर्थस्य वृत्ते विषयस्य च भेदेन भानमयुक्तम्, किंतु घटोहं ज्ञानमित्येव । चैतन्यभानत्यागे तु चैतन्याभेदोऽप्यप्रामाणिकस्त्यज्यताम् । अविद्यायाः साश्रयत्व निराश्रयत्वविकल्पे साश्रयत्वं भवदिष्टम् । नित्यशुद्धब्रह्मणोऽविद्याश्रयत्यमसंभवीत्याशङ्कायां मिथ्याभूताशुद्धिमत्त्वमस्तु तांवता न वस्तुतो दोष इति पक्षश्च स्वीकृतः । एवञ्च तन्निवृत्तिनैरपेक्ष्यात् व्यर्थमुपदेशप्रबन्धनानुष्ठानादिकमित्यत्र तु न कश्चित् समाधिरुच्यते । ‘न हि ब्रह्मापि स्वाश्रयम्" इत्यादिस्तु, “ब्रह्मणस्तु खाश्रयत्वं नास्त्येव” इति शतदूषण्यनुवादविस्तर एव । स्वप्रकाशब्रह्मणोऽप्यावरणमविद्यया विचित्रशक्तिवशात् यदि क्रियेत, सा शक्तिरप्रकाशरूपया वृत्त्यापि न निवर्तयितुं शक्यत इत्यनिर्मोक्ष एव । मिथ्यैवावरणमिति चेत् — तर्हि वृत्तये प्रयासोऽपि विफलः । यत्तब्रह्मणोऽविद्याश्रयत्वं नामाविद्याध्या साधिष्ठानत्वमेव । भूतलस्य घटाश्रयत्वं तु न तथा; उभयोः समसत्ताकत्वादिति -तत्र भवदीयग्रन्थगमनिकाविरोधः शतदूषण्या स्मारितः स्मर्तुमर्हः । " अन्यथा तत्रैव तत्सत्यत्वप्रसंगात्" इति ह्युक्तम् । भूतले कदाचिद् घटसत्त्वस्वीकारे च प्रतिपन्नोपाधौ त्रैकालिक निषेधप्रतियोगित्वरूपमिथ्यात्वं घटादेः कथम् । अयं पटः एतत्तन्तु निष्ठात्यन्ताभावप्रतियोगीति चित्सुखाचार्योक्तानुमानादीनां तर्हि धिक्कार एव । ‘अपरमार्थभूतेयम विद्याप्रतीतिर्नाहङ्कारतद्वृत्तितदवच्छिन्नह शिष्यन्यतमा’ इति शतदूषणयुक्तदूषणादात्मानं मोचयितुं तस्याः ब्रह्मप्रकाशरूपत्वम्, न त्वेतदन्यतमत्वमित्युच्यते । तत्रापरमार्थभूतेयमित्युपक्रमस्थे पदेऽवधानं विधेयम् । अपरमार्थत्वमविद्याप्रतीतेरिति पक्षे किलान्यतमत्वोक्तिः । न च ब्रह्मप्रकाशोऽपरमार्थभूतः । एवमङ्गीकारेऽप्युपरि दोष उपन्यस्त एव ब्रह्मप्रकाशस्य ब्रह्मा नतिरेकात् तदुपाया अविद्याप्रतीतेरपरमार्थत्वे ब्रह्मणोऽप्यापारमार्थ्यापत्ति ८५२
रिति । इतस्तु भवता अविद्याप्रकाशस्यापारमार्थ्यपक्षमुपेक्ष्य पारमार्थ्यपक्षोsबलम्वनीयः । सत्रेदं घटते, यथा शुक्तिरजतस्वानपदार्थानां मिथ्यात्वेऽपि तद्विषयकज्ञानं न मिथ्या, तथा मिथ्याभूता विद्याविषयकप्रकाशोऽपि परमार्थः ब्रह्मस्वरूपश्चेति । तत्त्रोच्यते-एवं तर्हि अहं सुखी, अहं दुःखीति प्रकाशानामपि परमार्थता स्यात् । एवञ्च तेषामुत्पन्नत्वविनाशित्वादिप्रतीतिविरोधः । तेषां साक्ष्यधीनत्वात् साक्षिणश्च किञ्चिदुपहिततया अपारमार्थ्यमस्तीति चेत् — अविद्या परं किं शुद्धब्रह्मणा प्रकाश्यते, अहं न जानामीति साक्षिभास्यत्वस्यैवानुभवात् । अथ मन्येत अविद्याप्रकाशः साक्षिरूपः । साक्षिणो विशिष्टरूपेणापारमार्थ्यवत् अविद्याप्रकाशस्याप्यपारमार्थ्यमेव । एवं विशिष्टापारमार्थ्येऽपि शुद्धं परमार्थ इति तन्न विशिष्टस्य शुद्धादतिरिक्तत्वे जडत्वकल्पितत्वादेरवश्यम्भावेन किञ्चित्प्रकाशकत्वायोगात् । तस्मात्, ‘अक्षमा भवतः केयं साधकत्वप्रकल्पने’ इति न्यायेनापारमार्थसंबन्धः सर्वोऽपि शुद्धचैतन्य एव स्वीकर्तव्यः । तच्च शुद्धं स्वप्रकाश अनादेव सादेव स्वविरोधिनो मिथ्याभूतस्य स्वस्मिन् कल्पनायां न क्षमम् । गत्यभावादनुपपन्नमपि स्वीकर्तव्यमिति समादधदिव प्रतीयमानमध्यासभाष्यं तु अन्धपरम्परात्वापादनं तद्भाष्यकारकृतं तत्रैव प्राप्तं प्रतियन्तो नाद्रियन्ते । अतो निरंशस्याविद्यातिरोधेयांशविहीनस्याखण्डब्रह्मणोऽविद्याप्रकाशरूपत्वमसंभवि । तस्मात् शुद्धचैतन्याधीनप्रकाशवत्त्वं नाविद्यास्वरूपम् । विशिष्ट चैतन्याधीनप्रकाशस्वं तु विशिष्टसिद्धेरविद्याधीनत्वात् विशेषणस्य चापरमार्थस्य चैतन्येऽध्यासमन्तरा सम्बन्धस्य परमार्था परमार्थयोरध्यासातिरिक्तसंबन्धासंभवेन दुर्वचत्वादपि दुरुपपादम् । तदुक्तम्, " तेषां तदपत्यत्वात् " इति । यत्तु शतदूषणी, किमविद्या ब्रह्मात्मना प्रकाशते उत ब्रह्मान्यत्वेनेति विकल्प्य द्वितीयपक्षादूषणात् स्वरूपेणा विद्याप्रकाशं ब्रह्मप्रकाशस्वरूपमनुमन्यत इति तत्रोच्यते द्वितीयपक्षदूषणं कृतं न वेति पश्चाद्विचार्थम् । अदूषणेऽपि अविद्या प्रकाशस्य ब्रह्मप्रकाशस्वरूपत्वमनुमतमिति कथम् । प्रकाशान्तरा अविद्याखरूप-भङ्ग-प्रसाधनम् ८५३ भावादिति यदि, तर्हि प्रथमपक्षेऽपि ब्रह्मप्रकाशरूपत्वमेवेष्टमिति को विशेषः, " अपि प्रकाशमानेयमविद्या " इत्युपक्रम एव हि ब्रह्मप्रकाशरूपत्वं सर्वपक्षेष्वभ्युपगम्यापि दोषोद्भावनार्थं प्रवृत्ति दर्शयति । अथ स्वरूपेणाविद्याप्रकाशोऽनुमत इत्येव भवदभिमतञ्चेत् — किं तत् स्वरूपम् । ब्रह्मान्यत्वेन प्रकाशात् तदेव स्वरूपमिति चेत् — ब्रह्मान्यत्वं नाम चित्स्वरूपान्यत्वं विद्यान्यत्वम् । एवञ्चाविद्या विद्यान्यत्वेन प्रकाशत इतीष्टौ अहं मां न जानामीत्यादौ अज्ञानभाने प्रतियोगिभूतज्ञानस्यापि भानमावश्यकम् । तच्च विषयनिरूप्यमिति ज्ञानप्रागभावरूपाज्ञानपक्षे भवदुक्तदोषोन्मेषः स्यात् । निर्विषयनिराश्रयसंविदन्यत्वेनाविद्या भासत इति चेत् प्रतियोग्यसिद्ध्या लोके तद्भानायोगः । अत एव ब्रह्मत्वेन ब्रह्म गृहीत्वा तदन्यत्वेन भानवर्णनमपि दुर्भणम् । अन्यतु स्वरूपं दुर्वचम् । अपारमार्थ्यमेव स्वरूपमिति चेत् — अविद्या भासमाना परमार्थत्वेन भासत इत्येवानुभवः ; न त्वपरमार्थत्वेन । सर्वमिदमुपरितनसूक्तौ संगृहीतम् । अन्यदप्यवधेयम् पक्षद्वये द्वितीयपक्षो न दूषित इति भवतोच्यते । वस्तुतः पक्षद्वये उत्तरपक्षद्वयं न दूषित मिति भवतोद्भावनीयम् । अविद्या किं ब्रह्मात्मना प्रकाशते, उत तदन्यत्वेन, यद्वाऽन्यत्वानन्यत्वसाधारणात्मने ‘ति विकल्पत्रयस्य कृतत्वात् तत्र प्रथमकल्पस्यैव चतुर्धा विकल्प्य दूषणस्य स्पष्टमुपलम्भात् । अस्तु तथैवेति चेत् — तर्हि कल्पद्वयमपि किं सम्मतं भविष्यति । किं वा कल्पद्वयमपि भवदिष्टमपि । तर्हि कल्पद्वयस्यादूषणं कथमिति चेत् — उपरि, “ स्यादेतत् यथा दर्पण – ” इत्याद्युद्भावनतदूषणग्रन्थेन कल्पद्वयमपि खण्डितं मन्यताम् । तथाहि–ब्रह्मणि अविद्याध्यासः तादात्म्याध्यासो वा संसर्गाध्यासो वा । आद्यो भेदाग्रह एव सुवच इत्युक्तम् । तेनान्यत्वानन्यत्वसाधारणात्मना अविद्या प्रकाशरूपतृतीयपक्ष एव तादात्म्याध्यासः सुवच इति दर्शितं भवति । यतस्तादात्म्याध्यासो नास्ति, अतः साधारणात्मना न प्रकाश इति तृतीयपक्षों निवृत्तः । द्वितीयपक्षः शिष्टः । मुखदर्पणयोरिव तत्तस्वरूपप्रकाशे सत्येव अविद्याब्रह्मणोः संसर्गाध्यासो वक्तव्यः । मुखदर्पणयोः संसर्गाध्यास चान्तरा 1 ८५४
लाग्रहणात् । दीपकज्जलादौ च तदध्यासः सामीप्यात् । परं तु तत्र नाध्यासः वस्तुत एव संसर्गसत्त्वात् । एवंरीत्या चेंदविद्याया ब्रह्मणश्च संसर्गोपपादनम् तर्हि तयोः परिच्छिन्नत्वापत्तिः । अप्रतिघातात् कात्स्न्येन ब्रह्मणि तत्संश्लेषे च ब्रह्मणः सर्वात्मनैवाप्रकाशः स्यात् । अत एवा विद्याप्रकाशोऽपि न स्यादिति ततो ग्रन्थादवसीयते । एवं पक्षद्रयदूषणस्यात्रोपक्षेपपर्यालोचनयैव दूषणान्तराणि च कर्तव्यान्यध्यवसाय, " एवमन्यान्यप्यनन्तानि विकल्पदूषणानि अविद्यास्वरूपमनुबध्नन्ति " इति भङ्गया तत्संग्रहो व्यधायि । एवं सामान्यतो विकल्पदूषणानीत्युक्तया प्रथमकल्पेऽपि दूषणविस्तरः संभावित इति ज्ञाष्यते । न केवलमेतावत् । वादारम्भे, अविधाख्यो दोषः परमार्थोऽपरमार्थो वेति विकल्पद्वयं कृतम् । तत्राद्यपक्षदूषणमुपक्रान्तम् । तत्प्रचारे स्थिते, ’ अपरामार्थभावरूपदोषपक्षेऽप्ययमेव दोषः’ इति वाक्यं व्यलेखि । तेन अविद्याख्यदोषे अपरमार्थत्वपक्षो दूप्यत इति यदि मन्यते तर्ह्यस्तु तथा । यदि तु सहकारिणो दोषस्य प्रस्तुतस्वात् स दोषः तत्त्वज्ञानप्रागभावो न भवतीत्युक्त्वा, तस्य दोषस्य पारमायें पुनर्ब्रह्मरूपतापत्त्या पारमाध्यपक्ष परित्यज्य स सहकारिभूतो दोषः अपरमार्थभावरूपवस्त्वन्तरमिति सहकारिदोषविषयमात्रे प्रवर्तितः स ग्रन्थ इति मन्यते तर्हि प्रथम विकल्पविषयोऽपरमार्थपक्षोऽपि कश्चिद् दूषणीयोऽस्ति । एवं दूषणीयं तं कल्पं पूर्वं पृथक्कृत्यादृषितौ द्वौ कल्पौ चेति त्रीनपि मनसिकृत्य, " एवमन्यान्यप्यनन्तानि विकल्पदूषणानि " इति सूक्तमिति भाव्यम् । एवं तदन्यत्वेनेति पक्षे प्रागस्मदुपक्षिप्तं दूषणमप्यत्र ग्राह्यम् । अपारमार्थिकत्वपक्षे श्रीभाष्ये तत्त्वसारे चोपपादितानि दूषणानि मनसि निधाय चैवं संग्रहो व्यधायि । तद्वैशद्याय च किञ्चिदिह प्रस्तुमः अविद्याख्यो दोषो यद्यपरमार्थः, तदा स किं दृशिः, द्रष्टा, दृश्यं वा । दृशिपक्षेऽप्यनवच्छिन्नदृशिर्वा अवच्छिन्नदृशिर्वा । तत्राद्येऽपि ब्रह्मस्वरूपात्मकदृशिर्वा तदन्या वा । प्रथमे तदपारमार्थ्ये ब्रह्मस्वरूपापारमार्थ्यात् अविद्याखरूप-भङ्ग-प्रसाधनम् ८५५ शून्यवादप्रसङ्गः । न द्वितीयः, तादृशदृशिद्वयानङ्गीकारात् । अङ्गीकारेऽपि काल्पनिकतत्प्रतिभासार्थदोषान्तरकल्पनयाऽनवस्था तस्य अपरमार्थतैया प्रसङ्गाच्च । अवच्छिन्नदृशिपक्षे ब्रह्मस्वरूपत्वं न भवति ; स्वरूपस्यावच्छिन्नत्वापारमार्थ्ययोरनभ्युपगमात् । अतोतिरिक्तत्वमेव, तदापि काल्पनिकत्वाद्दोषान्तरकल्पनयाऽनवस्था तदवस्था । तदिदं द्रष्टृपक्षे दृश्यपक्षे च तुल्यम् । पारमार्थ्यस्वीकारे चाद्वैतहानिः । परमार्थतया क्लृप्तब्रह्मण एव दोषत्वे तु तत एव दोषात प्रपञ्चदर्शनसंभवे अविद्या ख्यदोष कल्पनमेव व्यर्थम् । ब्रह्मणो दोषत्वे तस्यानिवर्त्यत्वादनिर्मोक्ष एव स्यात् । तस्माद् ब्रह्मणो दोषत्वायोगात् दोषस्यापारमार्थ्यायोगाच्च ब्रह्मव्यतिरिक्तपारमार्थिकदोषस्वीकार आवश्यक इति । तदिदं सटीकं भाष्यमभ्यस्यतां सुगमम् । नन्वनवस्थादोषो बहुधा परिहर्तुं शक्यते । जीवाज्ञानवादिभिर्वीजाङ्कुरन्यायादनवस्था न दोषायेति सुवचम् । ब्रह्माज्ञानवादेऽपि अविद्याखरूपस्यानादित्वस्वीकारान्नानवस्था । यद्वा उभयैरपि वादिभिः दुर्घटत्वमविद्याया भूपणमिति परिहारः सुवचः । अथवा स्वपरनिर्वाहकत्वादविद्या दोषान्तरनिरपेक्षैव भवत्विति चेन्न — प्रवाहानादित्वपक्षस्य जीवानित्यत्वा कृताभ्यागमादिदूषणग्रस्तत्वेन ब्रह्माज्ञानवादिभिरेव दूषितत्वात् । ब्रह्मसिद्धयुक्त भीजाङ्कुरन्यायस्य भामतीनिष्कर्षशोधनया शतभूषण्यामप्युपेक्षितत्वाच्च । अनादित्वाद् दोषापेक्षा नास्तीति तु न युक्तम् — जीवस्यानादित्वेऽप्यविद्यापरिकल्पितत्वाङ्गीकारात् । अन्यथा अधिष्ठानस्यानादित्वादधिष्ठानान्तरापेक्षा नास्तीति अपारमार्थ्यमेवास्तु । तथाच जितं माध्यमिकैः । अधिष्ठानापारमायै तत्कल्पनाया अधिष्ठानान्तरमन्तरेणासंभवादनवस्थेति खलु तत्र दूषणमुपन्यस्तं भवद्भिः । किञ्चानादिवस्तुन उत्पत्तिकारणापेक्षा विरहेऽपि मानकारणापेक्षाऽस्त्येवेति स्यादेवानवस्था । अज्ञानप्रकाशः सार्वकालिक एवास्तीत्येतदप्यनुभवदूरम् । दुर्घटत्वं भूषणमित्यपि न तर्हि प्रपञ्चस्य दोषमन्तरा दुर्घटत्वम् अधिष्ठानमन्तरा च दुर्घटत्वं भूषणमिति अविद्याया अधिष्ठानस्य च कल्पनैव न स्यात् । अथ दुर्घटत्वं ८५६
परमार्थत्वप्रयुक्तोपपत्तिनिरपेक्षत्वमात्रम् । अपरमार्थत्वप्रयुक्तोपपत्त्यपेक्षा त्वस्त्येवेति चेत् — तर्हि दोषस्याप्यपरमार्थत्वोपपत्तये दोषन्तिरापेक्षा स्यादेव । अतोऽधिष्ठानपारमार्थ्यवत् दोषपारमार्थ्यमपि स्वीकर्तव्यम् । उपपत्तिनिरपेक्षा चेदविद्या, मुक्तानप्याश्रयतु । मुक्तौ निवृत्तत्वादेव नाश्रयतीति चेन्न बाधकज्ञाने सत्यप्यविद्याया अनिवृत्तिसंभवात् । बाधकसंनिधौ बाध्येन न भवितव्यमित्युपपत्तिम विद्याऽनुरुन्धे इत्यत्र प्रमाणाभावात् । शुद्धब्रह्मखरूपे स्वयम्प्रकाशे सत्यप्यविद्याविजृम्भणवत् तद्विषयकवृत्तिज्ञानकालेऽपि तथैवानुवृत्तिसंभवात् । अत उपपत्त्यनुवर्तनमविद्याया आवश्यकम् । अद्वैतसिद्धावपि दुर्घटत्वमुपेक्षितमिति प्रागेवावोचाम । एवं स्वपर निर्वाहकत्वमप्ययुक्तम् प्रपञ्चस्यैव खपरनिर्वाहकतया दोषाधिष्ठाननिरपेक्षत्वापत्तेः । परं प्रति निर्वाहकत्वे सिद्धे स्वनिर्वाहकत्वमपि स्वीक्रियेत । अतः प्रपञ्चनिर्वाहकतया दोषः क्लृप्तः खापरमार्थ्यमपि स्वयमेव निर्वहतीति चेत् —तर्हि अधिष्ठानस्याप्यापारमार्थ्यमेवास्तु प्रपञ्चापारमार्थ्यमपि खयमेव निर्वहतीति अनवस्थापरिहारात् । बौद्धपक्षपसरोऽयम् । यदि सर्वत्राध्यस्ताधिष्ठानयोर्भेददर्शनादधिष्ठानान्तरमपेक्षितम् । अपेक्षितमेव तर्हि तथैव दोषान्तरमपि । तदिदं सर्वमुदितं तत्त्वसारे वरद गुरुभिः 6 ; 1 स्वरूपानादित्वखपरघटने दुर्घटनता प्रवाहानादित्वं पुनरिति चतस्रो हि गतयः । असत्याविद्याया गदितुमनवस्था परिहृतौ मतास्त्वेतास्तुल्याः स्फुटमसदधिष्ठानसरणौ ॥” इति । यतु दुर्घटत्वम विद्यायाः आगमलोकव्यवहार निर्वाहार्थमा द्वियामह इति — किं तेन । स्वपक्षनिर्वाहार्थमेव माध्यमिकोऽपि दुर्घटत्वमाद्रियते । परपक्षनिर्वाहार्थं को नु किञ्चिद्रक्ष्यति । अनुपपन्नं किञ्चिदुक्त्वा अन्यथा गतिर्नास्तीति किमित्यात्मा क्लिश्यते ; सुघटपक्षावलम्बनेनैव सर्वागमलौकिकव्यवहारनिर्वाहात् । भावरूपाशान-भङ्ग-प्रसाधनम् ८५७ यत्तु सत्त्वासत्त्वाभ्यामनिर्वचनीयत्वमित्यादि तदिदमनिर्वचनीयत्वं पञ्चपञ्चाशे वादे परासिष्यामः । अत एव दोषस्य वा प्रपञ्चस्य वा यदपारमार्थ्यम्, तन्न सर्वात्मना तदभावरूपम् । किंतु कचित् कदाचित् स्थितस्यान्यत्रान्यदैवाभावरूपम् । शुक्तिरजतप्रत्यक्षे च विषयभूतं रजतं कचित् स्थितमेव । अतो भ्रमविषयभूतपदार्थानां विशकलितरूपेण वा क्वचित् सत्त्वमावश्यकमिति तादृशवस्तुनिवृत्तिर्न कथमपि यथार्थज्ञानेन ; किन्तु तद्भूमनिवृत्तिर्वा तदधीनव्यवहारनिवृत्तिर्वा । तत्र पूर्वं पूर्वं भ्रम विषयस्य प्रपञ्चस्योंत्तरोत्तरभ्रमविषयत्वमित्युक्तौ सर्वोऽपि व्यवहारः शुक्तिरजतव्यवहारवत् विफल एव स्यात् तादृशोऽपि व्यवहारो दोषं परमार्थमन्तरा न स्यादिति सिद्धं दोषस्यापारमार्थ्य न स्वरूपमिति / } ; दृष्टे नानुपपन्नमित्युपगतम्, प्रत्यक्षमीक्ष्येत चेत् भावाभावविरोधहानिमिह च प्राज्ञा न सम्मन्वते । अध्यक्ष प्रतिकूलमेव किमपि स्वीकृत्य तद् दुर्घटं स्यादित्यप्युपगम्य तृप्तमनसां पक्षः परं दुर्घटः ॥ 108 शुभमस्तु । श्रीः