अनिदम्प्रथमैरनेकरूपैश्वशान् कर्मभिरावृताननादीन् । अवति च्छलतो य एप जीवान् अनघोऽयं विदधात्वयं रमेशः ॥ विलक्षणाज्ञानासंभवोपपादिभिर्वादिभिः ब्रह्माज्ञानं जीवाज्ञानं वा न शक्यं वक्तुमिति लखण्डनं युक्तम् । ब्रह्माश्रितमपि भवति, जीवाश्रितमपि ’ अज्ञानमभ्युपगच्छद्भिस्तु अज्ञानं इत्युभयस्थापनमयुक्तम् ; अन्यत रस्यैव संमतेः । उभयमप्युपपन्नं वदंस्तु अनिर्धारिततत्त्व एव स्यात् । तत्त्वे विकल्पायोगात् । अथवा अद्वैतिनां सर्वत्रानिर्धारणमेव, सर्वस्य युक्तिमात्रशरणत्वात् ; तर्काप्रतिष्ठानात् । द्वैतिभिरुद्धावितान् आक्षेपांस्तदा तदा स्वश्रुतान् परिहर्तुं प्रयस्यन्तः खल्वद्वैतिनः प्रस्थानान्तरं परिगृह्णन्ति । एवं प्रकारानन्त्याद्धि तत्सङ्कलनाय सिद्धान्तलेशसंग्रह ग्रन्थस्यावतारः । इदमेवाभिसंधाय सूक्तमाचार्यैः, “ कन्थाशतमन्थिलाः सिद्धान्ता न समिन्धते यति " ४३२
- वरग्रन्थानुसंधायिनि " इति । तत्त्वनिर्णिनीषुणा पुनः ब्रह्माज्ञानं जीवाज्ञानं वा किश्चिदेव स्त्रीकार्यम् । अन्यम इष्टापत्तिरेवोद्घाटनीया । यथा चात्र प्रतिर्विवादे अवच्छेदवादे च समकक्षं परिमलादावुपपादितेऽपि प्रतिबिंब पक्षमुपेक्ष्य शिष्टमेव शतभूषणी वादेऽस्मिन् आद्रियते, तथैवात्र विषयेऽप्येकतरस्मिन् विश्रमितुं युक्तम् । श्रीमाप्ये चारम्भणाधिकरणे ब्रह्माज्ञानवादं प्राक्तनं प्रस्तुत्य बद्धमुक्तादिव्यवस्थासिद्धये नानाजीववाद्यभिमतं जीवाज्ञानपक्षमुपक्षिप्य तत्खण्डनविस्तरेण ब्रह्माज्ञानपक्ष एवाद्वैतिनिकर्षणीय इत्याविरकारि । तच्चेत् रोचते, त्यज्यतां जीवाज्ञान-भङ्गपरीक्षणम् । न चेत्, पूर्व ब्रह्माज्ञान-भङ्गः शतदूषण्यां कृते न परीक्षणीयः । अन्यथा वृथा विस्तरः स्यात् । यथा ह्यत्र वादे शतभूषणी, अविद्या किमकल्पितजीवस्वरूपाश्रिता, उत कल्पिताकाराश्रिता, किंवा कल्पिताकारविशिष्टस्वरूपाश्रितेति विकल्पे प्रथमद्वितीयपक्षाचनङ्गीकारपराहताविति तृतीये नैर्भय वहूति, तथा खलु ब्रह्माज्ञानजीवाज्ञानान्यतरपक्षेऽपि स्थेयमिति ।
- ,
- आस्तामेतत् । य इह ब्रह्मसिद्धयनुवादः, स सर्वोऽपि शतदूषण्यां प्रपञ्चनेनानूदित एव । केवलमाकर प्रदर्शनमेतावता कृतं भवति । तत्र बिंबप्रतिबिंब भावमाश्रित्यापादितानि दूषणानि अस्थाने इति कथनमयुक्तम् । भवता तदनङ्गीकारेऽपि ब्रह्मसिद्धौ बिंबप्रतिबिंबभावस्यैव कथितत्वात् तत एव जीवभेदव्यवस्थाया उपपादितत्वात् मण्डनमिश्रानुसारिणा वाचस्पतिमिश्रेणापि आन्तर । भिमत्या वा वासनावशाद्वा परोद्भावितदोषपरिहरणपथान्तराला मेन वा तत्रतत्र विप्रतिविबभावस्योपक्षेपात् तत्र दूषणापादनस्यावश्यकत्वात् । दूष्यार्थत्यागे तु दृढे दूषणत्यागोऽपि खत एव भवति । नैतत् प्रार्थनीयम् । एवमेव अविद्यया जीवभावः जीवभावे अविद्याश्रयणमित्यत्र बीजाङ्कुरन्यायासम्भवोपप इनं शतदूषणीकृतमपि नानवसरे ; ब्रह्मसिद्धावेव, " अद्याजीवयोर्वीर सन्तानयोरिव " इति तन्न्यायस्योपक्षिप्तत्वात् । तद् अन्यमतमिते चेत् तर्हि ततः प्रागुक्तमविद्याया अनुपपन्नतैकवेषत्वं केषाञ्चिन्मतमिते स्वमतं किमपि न स्यात् ।
- खमतस्या
- जीवाज्ञान-भङ्ग-प्रसाधनम्
- कथनान्न्यूनता च । पश्चादुक्तत्वादुपष्टम्भनाच्च बीजाङ्कुरन्याय इष्ट इत्येवावसीयत इति शतदूषण्यां तदूषणं नास्थाने वेदपाठः ।
- ૧
- विस्तरो मा भूदिति, कल्पिताकारविशिष्ट जीवस्वरूपाश्रिता अविद्येति भवदुक्तिः शतदूषण्युद्भावितद्रूपणपरिहाराय न प्रभवतीत्येतावदुपपाद्यते । प्रतिबिंबवादस्तावद् भवता सावष्टम्भं त्यक्तः । कचित् तदुपक्षेपेऽपि भाक्तोऽसौ प्रतिबिंबत्वव्यवहार इति उपाध्यवच्छिन्न एव जीव इत्यागृहीतम् । बन्धमोक्षादिव्यवस्थासिद्धये चाविद्यानानात्वम्, तासां प्रत्येकं विभिन्नजीवाश्रितत्वञ्च स्वीकृतम् । तत्र कल्पिताकारविशिष्टजीवखरूपाश्रितत्वमेव जीवाश्रितत्वमिति च निष्कृष्टम् । तत्र किं नाम जीवत्वम् ? कल्पिताकारविशिष्टत्रह्मस्वरूपमेव जीव इति चेत् तर्हि विशिष्टम्वरूपेत्येतावदुच्यताम् ; किं तत्र पुनर्जीव पदघटनेन । अस्तु तावदेवेति चेत्-तत्र विशिष्टस्वरूपस्याविद्याश्रयत्वमित्यनेन विशेषणविशेष्योभयाश्रितत्वं विवक्षितम् उत तदेकतराश्रितत्वम् । आद्ये प्रत्येकाश्रितत्वपक्षद्वयोक्तदोषद्वय समावेशः ; अन्त्ये अन्यतरदोषादनिर्मोक्षः । विशिष्टं शुद्धादतिरिक्तम् अत एव विभिन्नञ्चेति अविद्यानां पृथक्पृथगाश्रितत्वसिद्धिरिति चेत् — विशिष्टस्यातिरिक्तत्वे मिथ्यात्वं जडत्वं बाध्यत्वञ्च स्यादिति स्वरूपोच्छित्तिरेव मोक्षः स्यात् । स्वरूपैक्यप्रतिपादकत्वमपि हीयेत ।
- ·
तत्त्वमसीत्यत्र बाधार्थसामानाधिकरण्यस्यैव जडान्तर इव जीवेऽपि वकव्यत्वात् । जीवब्रह्मैक्ये तु संमन्यमाने ब्रह्मस्वरूपे अविद्यासंबन्धः आविद्यक संबन्धश्च कथमनुपगतो भवति । भवतैव, यथा घटोपधानमात्रेण घटाकाशसिद्धिः, तथाऽविद्योपधानमात्रेणाविद्याश्रयसिद्धिः ’ इत्य् अपि दृष्टान्तो दर्शितः । तेन च घटसंबन्धो यथा आकाशस्वरूपे तथा ब्रह्मखरूप एवाविद्या संबन्ध उपपादितो भवति । भवतैव पूर्वम्, साहि जीवमाश्रयन्ती स्वमहिम्ना चिन्मात्रस्य जीवत्वमिव स्वीयान् धर्मानप्युपदधाति " इति लिखितत्वात् प्रकटार्थकारविवरणकारादिमतस्य जीवब्रह्मजीवेश्वर बिंबप्रतिबिंबभावस्याभाववर्णनाच्चाविद्या स्वगतं कर्तृत्वभोक्तृत्वादिकं चिन्मात्रे उप 105 " **
दुधातीतीष्ठमिति स्पष्टम् । एवं सति ब्रह्म संसरति मुच्यते चेति नैतन्मतमिति कथमुच्यते । एकजीववादे संसारन्यूनता ब्रह्मणः, अत्र त्वनन्तजीववादे तदानन्त्यमिति प्रत्युतानर्थ एव । एवमनेकाविद्यास्वीकारादनेकप्रपञ्चापत्तिश्च । न च -अविद्या नास्मिन् मते उपादानम्, किंतु सहकारिमात्रम् ; ब्रह्मैव तूपादानम् । तूपादानम् । अतोऽनेका विद्यासह कृतेनैकेनोपादानेन ब्रह्मणा प्रपञ्च एक एवोत्पाद्यत इति वाच्यम् सर्वाविद्याकल्पितस्य प्रपञ्चस्यैकत्वे एकजीवमुक्तौ तदविद्याया इव तत्कार्यप्रपञ्चस्यापि निवृत्तौ सर्वेषां प्रपञ्चानुभवाभावप्रसङ्गात् । पुनरवशिष्टविद्याभिः सम्भूय प्रपञ्चान्तरजननस्वीकारे च क्षणभेदेन प्रपञ्चभेदः प्रपञ्चानन्त्यञ्च स्यात् । एकमुक्तौ तदविद्यामात्र निवृत्तम् ; न तु प्रपञ्च इति चेत् — तर्हि तस्याविद्याननुभवेऽपि प्रपञ्चानुभवानुवृत्त्यापत्तिः । सर्वाविद्यानिवृत्त्यवसरेऽप्येवं प्रपञ्चाविलयापत्तिश्च । ब्रह्मातिरिक्तं सर्व मिथ्येति ज्ञाने सति कथं तदनिवृत्तिरिति चेत् तदिदं प्रथमजीवमुक्त्यवसरेऽपि समानम् । तस्मादव्यवस्थया प्रपञ्चमेकं प्रति अविद्यानां कारणत्वमपेक्ष्य जीवभेदेन प्रपञ्चभेद एव युक्तः । आस्तामेतत् । ब्रह्मणि बन्धमोक्षावस्मिन् पक्षेऽप्यविशिष्टाविति तु नः प्रकृतम् । यत्तु कल्पिताका र विशिष्टस्वरूपाश्रिता अविद्येति स्वीकारे अविद्याथयणमन्तरा कल्पिताकारवैशिष्ट्या सिद्धिः, तद्विशिष्टजीवासिद्धौ अविद्याश्रयणासिद्धिरित्यन्योन्याश्रये आपाद्यमाने, नात्रोत्पत्तौ स्थितौ तप्तौ वाऽन्योन्याश्रय इति परिहरणम् -तदयुक्तम् — भावानवबोधात् । कल्पिताकारोऽयं जीवस्य किमविद्येव, उत तदधीनः कश्चित् । अन्त्ये कल्पनाया अविद्याश्रयत्वसापेक्षत्वादसंभव एव । आद्ये अविद्याश्रयतावच्छेदकस्य कल्पिताकारस्य तदभेदात् स्वस्थ स्वाश्रयतावच्छेदकत्वमुक्तं भवति । तत्रावच्छेद्यावच्छेदकयोरैक्यापत्या, अन्यावर्तकतया च स्वरूपेण ब्रह्मण आश्रयत्वमेवोक्तं स्यात् । यत्तु सिद्धावनूदितम्, " स्वेनैव कल्पिते देशे व्योम्नि यद्वत् घटादिकम् । तथा जीवाश्रयाविद्यां व्योम्नियद्वत् । मन्यन्ते ज्ञानकोविदाः " इति तदिह न समाधानम् । व्योमनिरवयवत्व जीवाज्ञानभावन ૧ संबन्ध एव तस्मादव पक्षे योनि पटसन्धः किं कात्स्म्यैम, कि वैकदेशेन । नाद्यः, देशान्तरेपि घटसंबन्धानुभवप्रसङ्गात् । नान्त्यः, निरवयवे एकदेशस्य दुर्वचत्वादित्याशङ्कायाम्घटः स्वकल्पितप्रदेश एवाकाशे संबध्नातीत्युक्तम् । तेमावच्छेदकान्तरान्वेषणं न कार्यम् ; तथासति तस्यापि घटवत् व्योनि संबन्धितया तदवच्छेदकान्तरान्वेषणेऽनवस्थानादित्युक्तं भवति । अन्यथा घटेन तत्र संबध्यैव देशस्य कल्पनीयतया देशाभावात् स्वकल्पितदेशे सबभातीत्युक्तययोगात् । तत्रानयस्थापरिहारायावच्छेदकान्तरत्यागवत् आत्माश्रय परिहाराय स्वावच्छिन्नप्रदेशे स्वयं संबध्नातीत्यपि त्याज्यमेव । अवच्छेद्याधिकरणत्वेन यदभिमतम्, तत्संबन्धिनो ह्यवच्छेदकत्वम् । कथमिति विचारे स्वसंबन्धिनि स्वसंबन्ध इति को नु ब्रूयात् । च्छेदकान्तरानपेक्षामात्रमेव तत्र विवक्षितम् । तर्हि घटसंबन्धो व्योम्नि कि कात्स्न्येनेति चेत्-प्रश्नेऽस्मिन्, घटसंबन्धो हि संयोग एव; संयोगश्चाव्याप्यवृत्तिः स्वाभावसमानाधिकरण इत्येवोत्तरम् । निरवयवेषु कात्स्न्यैनं एकदेशेन वैति विकल्पोऽपि न शक्यः कर्तुमिति च ध्येयम् । एवञ्चावच्छेदकनिरपेक्षं घटः सम्बध्नाति । संयोगस्याव्याप्यवृत्तित्वानुभवात् संयोगमनुभूयमानमादाय घटावच्छिन्नव्योम तदनवच्छिन्नव्योम प्रदेश मेदग्रहः । प्रकृते च जीवस्याविद्याश्रयत्वं कल्पिताकारावच्छेदेनेत्युक्तेरपि ब्रह्मणि अविद्यावच्छिन्नतद नवच्छिन्नवास्तव प्रदेशद्वय जिज्ञासापरिहारार्थत्वञ्चेत् — काममस्तु — वस्तुतोऽविद्याया अपि विभुतया ब्रह्मणि तदनवच्छिन्नप्रदेशदुर्भिक्षमेव एवञ्च सर्वांसामविद्यानां सर्वतो ब्रह्मसम्बन्धे तत्तदविद्यावच्छिन्नस्तत्तजीव इति व्यवस्थाऽपि न स्थास्यतीत्यन्यदेतत् । —— घटाकाशदृष्टान्तोऽयं ब्रह्मण्यविद्यासम्बन्धो नास्ति, किं तु जीव इत्युपपादनोपयुक्तस्तु न भवति । घटस्याका शसंयोगस्य । घटस्थाकाशसंयोगस्य सम्प्रतिपन्नत्वात् । अन्यथा श्रोत्रे शब्दस्तार्किकैन वक्तुं शक्यैत । आकाशस्यैव शब्दसमवायित्वात् कथं कर्णे शब्द इत्यत्र कर्णशष्कुल्य वच्छिन्नाकाश एव शब्दोत्पत्त्या लावत एव कर्णश्रोत्रादिपदविवक्षितत्वान दोष इति ते मुक्ते । श्रोत्रमन्यत्, श्रोत्रसमवेतत्वेऽपि शब्दस्य नाका शसमवेतत्वमिति
तु न ब्रुवते । अतो जीवस्याविद्याश्रयत्वम्, न तु ब्रह्मण इति ब्रह्माज्ञानदूषणमयुक्तम् । ब्रह्माज्ञानवादिनोऽपि किमविद्या कल्पित देशभिन्नदेशावच्छेदेन ब्रह्मण्यविद्या संबन्धमाहुः, येन ततो वैलक्षण्यं स्यात् । वस्तुतः किञ्चिदवच्छिन्ने जीवाख्ये अविद्याश्रयत्वमित्युक्तावपि विशिष्टम्य शुद्धादनतिरिक्ततया ब्रह्मण्यविद्यासंबन्धो दुर्बार इति प्रागेवोक्तम् । तदधीनत्वादिति सूत्रे परिमलेऽपि ‘ब्रह्मण्यनतिप्रसङ्गार्थं जीवत्वोपधानमर्यादाभ्युपगमेप्यज्ञानस्य तदुपहितस्वरूपाश्रितत्वानपायात् ’ –इत्याकाशदृष्टान्तनेनोक्तम् ।
अत यच्चोक्तं सिद्धौ — अविद्याप्रतिबिम्बतचैतन्यं तदवच्छिन्नचैतन्यं तत्कल्पितभेदं वा जीव इति । तत्र प्रतिबिम्बपक्षी भामत्याद्यसम्मत इति भवतैव व्यलेखि । तत्कल्पित भेदमिति चायुक्तम् किमविद्यया चैतन्ये स्वस्माद्भेदः कल्पितः, किं वा चैतन्यात् यद्वा जीवात्, आहो ईशात् । नायः, चिदचिद्भेदस्य सत्यमिथ्याभेदस्य च स्वतः सिद्धेः ; अव्यावर्तकत्वाच्च । तस्मादेव तस्मिन् भेदकल्पनञ्चासंभवि । चैतन्ये जीवाद् भेदश्च न जीवस्वरूपव्युत्पादकवाक्यार्थघटको भवितुमर्हति । असंभावितश्च शुद्धे विशिष्टाद्भेदः । एवेश मेदोपि दुर्वचः । ईशभेदो जीवे विवक्षितः, न तु चैतन्य इति चेत्, को जीव इति प्रश्ने कथमिदमुत्तरम् । तत्कल्पितभेदमिति क्लीबनिर्देशश्च चैतन्यमेव विशेष्यं दर्शयति, न जीवम् । भेदस्य सादित्वे च जीवस्यापि सादित्वापत्तिः; अनादित्वे च नाविद्याकल्पितत्वम् । अकल्पितत्वे कथं मिथ्यात्वमिति चेत् — अविद्याया अविद्यान्तरेणाकल्पितायाः कथं मिथ्यात्वम् । अतों भेदस्यानादित्वेऽविद्याकल्पितत्वमनपेक्षितम् । ब्रह्मातिरिक्त मिथ्यात्व प्रतिपादुकादागमत एवाविद्यायामिवानादिमिथ्यात्वस्य सिद्धेः । भेदश्चानुयोगि प्रतियोगिनोर्भिन्नरूपेणोपादानेन ग्राह्य इति न भेदावच्छिन्ने अविद्याश्रयत्वोपपादन संभवः । यदि नियामकं विना न युक्तमविद्याश्रयत्वमिति कृत्वा मेदस्य मिथ्याभूतस्य नियामकत्वमिष्यते, तर्हि भेदस्याविद्या संबन्ध तदभावप्रयुक्तत्वात् भेद } जीवाज्ञानभश-प्रसाधनम् ११५ स्याविद्याश्रयतावच्छेदकत्वं न भवतीत्यपि मन्यताम् । प्रकारान्तरेण भेदोपपादने च तदेवाविद्याश्रयतावच्छेदकं विशिष्य निर्दिश्यताम् ; किं भेदस्य सिद्धवत्कथनेन । व्योमादौ इह घटः, न तत्रेति प्रतीतिन्यम्नः सावयवत्वा-, देवोपपद्यते । एकाविद्या अविद्यान्तरावच्छिन्न चैतन्यात् स्वावच्छिन्नचैतन्यस्य भेदं कल्पयित्वा भेदावच्छिन्न चैतन्यमाश्रयतीति पूर्वगृही तपरिमलघट्टोक्तमप्यत एवायुक्तम् । असंबध्य भेदकल्पनायोगात् । स्वरूपाश्रितत्वस्य तत्रैवेष्टत्वाच्च । जीवमिथो भेदस्योपाधिभेद एव पर्यवसानाच्च । अतः, लाघवाच्चाविद्यावच्छिन्नचैतन्यं जीव इत्येव वक्तव्यम् । तत्र चावच्छेद्यावच्छेदकयोरैक्यादनुपपत्तिरुक्तैव । सर्वथा ब्रह्मसंबन्धोऽविद्याया मनिषेध्यः । अथान्योन्याश्रयत्वमुत्पत्तौ ज्ञप्तौ स्थितौ वेति विकल्प्य कृतं दूषणमपि विमृशामः । जीवस्याविद्यायाश्वानादित्वात् ‘परस्परोत्पत्त्यधीनोत्पत्तिकत्व, प्रसक्तिरेव नास्तीत्युक्तमयुक्तम् । नित्ययोर्धर्मधर्मिणोरिव अनुत्पन्नयोः प्रयो ज्यप्रयोजकभावेऽप्यन्योन्याश्रयोपपादनसंभवात् । घटाभावाश्रयताप्रयोजकं किमिति प्रश्ने घटाभावविशिष्टमेव तत्प्रयोजकमित्युक्तौ भवत्यन्योन्याश्रयः, घटाभाव विशिष्टभूतले सिद्धे घटाभावसिद्धिः, तत्सिद्धौ विशिष्टसिद्धिरिति । L 3 अनादित्वश्च न मिथ्याभूतस्यानादित्वायोगात् ।ः कल्पना समसामयिकत्वमेव खलु शुक्तिरजतादौ मिथ्याभूते दृष्टमिति अविद्यादीनामपि तथात्वाभावे मिथ्यात्वं दुर्मणम् । तथाच कल्पनातः प्रागस्थितस्य कथमनादिता । यथा च कश्चित् शुक्ति रजतमध्यस्यन् इदं पूर्वस्मिन् दिनेऽप्यासीदिति केनचिदिदमर्थत्वेन गृहीत्वोक्ते स्वयं मन्यते रजतमिदं पूर्वदिनेऽप्यासीदिति–तंत्र रजतस्य तेन परंदिन एवं कल्पितत्वात् पूर्वदिन वृत्तित्वप्रतिभासमात्रम्, बाध्यं तु तद् रजते तथा अविद्यादौ कल्पमोपजीविनि सादित्वें सत्यप्यनादित्वमारोपितमेवाभिमन्तव्यम् । सर्वदैवा विद्याभानसत्त्वा दनादिः सेति चेत् — कस्य तत्सत्त्वम् ? जीवस्येति चेत्ननु जीवः कः । किमन्तःकरणावच्छिन्नचैतन्यम् अविधावच्छिन्न चैतन्यं वा । तंत्र + ་ 44. परनाथपभ महं न जानामीत्यज्ञानभानमहमिति जीवग्रहणेनोपपाद्यम् । अहमिति च न शुद्धचैतन्यम्ः शुद्धचैतन्यस्य सर्वदा भानेऽपि विशिष्टजीवत्वरूपभानं तावता नोक्तं भवतीति विशिष्टभानमावश्यकम् । विशेषणीभूतमन्तःकरणम विद्या या मिथ्या कस्य भासते । साक्षिण इति चेत् — साक्षीति किं शुद्ध गृह्यते, उतोपहितम् । शुद्धग्रहणे ब्रह्मणः कल्पनाश्रयत्वमापतितम् । उपहितश्च्चोपाध्यसिद्धया दुर्ग्रहम् । एवं विशिष्टस्याहमित्यगृहीतत्वे व तत्राविद्याश्रयत्वभानं कथम् । $ अथोच्येत ईश्वरेणाविद्याः कल्पिताः । तेनाविद्यावच्छिन्नचैतभ्यरूपजीवसिद्धौ तत्राज्ञानभानमिति । तत्र वक्तव्यम् -ईश्वरोऽविद्यां किमाश्रितरवेन कल्पयति । चैतन्याश्रितत्वेनेति चेत् ब्रह्माज्ञानं प्राप्तम् । जीवाश्रितत्वेनेति चेत्-अविद्याकरूपनं विना जीवकल्पनं कथम् तस्यास्सदुद्घटकत्वात् । अविद्यावच्छिन्न चैतन्यमिदमिति विशिष्टरूपेणैव कल्पयतीति येत् तर्हि विशिष्टस्य जीवस्य मिथ्यात्वं ब्रह्मव्यतिरेकः स्यादिति तत्त्वमसीस्यैक्यबोधासामञ्जस्यम् । अविद्याश्रयचैतन्यमिदमिति कल्पनयैवोपपतौ अविद्यावच्छिन्न चैतन्यरूपजीवाश्रिता अविद्येति विशिष्टाश्रितत्वकल्पनं व्यर्थम् । कल्पिते च विशिष्टचैतन्ये विशेष्यस्यापि कल्पितत्वात् अकल्पितब्रह्मचैतन्यभिन्नस्वात् तस्य स्वयम्प्रकाशत्वे मानाभावः । तत्स्वयम्प्रकाशत्व स्वीकारेण ब्रह्मणो वा स्वप्रकाशप्रत्यक्षसिद्धत्वसिद्धान्त उपेक्षणीयः स्यात् । एवमीशोऽपि यावदात्मानं न गृह्णाति तावदसिद्धः सन् न जीवादिकं कल्पयितुं प्रभवेदिति तेन स्वात्मकम्पनं सर्वदा कियत एवेति वक्तव्यम् । तत्र अहमिति खस्य तेन ग्रहणे सोऽहमर्थः क इति विचारे अविद्या वच्छिन्नचैतन्यं मायावच्छिन्नचैतन्यं का माध्यमिति तद्भकमायादेः कल्पनामन्तरेणासिद्धेः चैतम्यमात्रेण सत्कल्पनेच ग्रह्मणो भ्रान्तत्वापातात्, तत्कल्पमातः पूर्व विशिष्टरमा सिता विशिष्टनिष्ठतायाः कल्पनायां दुर्वचत्वात् पूर्वपूर्वकल्पना सिद्धविशिष्टवस्तुमृतेश्वरनिष्ठत्यः तरोतर कल्पना नामूरीकर्तव्यम् । तथाचैतदुक्तं भवति मायावच्छिन जीवाज्ञान-भङ्गप्रसंधानम् । चैतन्यात्मकमीश्वरतत्त्वं सर्वदा स्वकल्पकं सत् सिद्धमविद्यावच्छिन्न चैतन्यरूपान् जीवान् कल्पयति ; तदधीनस्थितिकाः जीवाः स्वयमपि व्यवहारं निर्वर्त यन्तीति । एवश्वेश्वरतत्त्वजीवतत्त्वानां कल्प्यमानानामधिष्ठानभूतं किं तत् । ब्रह्मैवेति चेत् — कथं तत्प्रकाशः । स्वप्रकाशे ब्रह्मणि जीवेश्वरकल्पना भवन्तीति चेत् -तर्हि तत्र मायावच्छिन्नकिञ्चिद्रूपेशतत्त्व कल्पना प्रतिक्षणमीश्वरस्य ; तन्त्रैव तस्याविद्यावच्छिन्नकिञ्चिद्रूपजीवतत्त्व कल्पनाश्च । अविद्यावच्छिन्नचैतन्यरूपाश्च जीवाः स्वं स्वमहमिति अन्तःकरणावच्छिन्नतया जीवतया गृहन्तीति निष्कृष्टं भवति । एवमपि कल्पितं यत् विशिष्टमीश्वरतत्त्वम्, तलेश्वरतस्य प्रयोज्या कल्पना ; कल्पनाधीनसिद्धि चेश्वरतस्त्वम् । तत्र द्वितीये श्वरतत्त्वस्य प्रथमाभेदेऽन्योन्याश्रयदोषस्तदवस्थः । भेदे चानेकेश्वरतत्त्वापतिः । किञ्च ईश्वरः कल्पितः कश्चिदस्ति, तेन जीवा अपि कल्पिता इति ब्रह्मणि तत्तदुपाधिततदवच्छिन्नेश्वरजीयतत्त्वानि एवम्भूतानि जीवेनैव कल्पनीयानीति तत्कल्पनाः अविद्यावच्छिन्नचैतन्यरूपजीवासिद्धौ न भवितुमर्हन्ति । अविद्यावच्छिन्न चैतन्यत्वेन तज्ज्ञानाभावे च तादृशजीवासिद्धिरेव । तादृशज्ञानस्य चाद्वैतग्रन्थाद्यधीनत्वेनार्वाचीनतया तदधीन सिद्धेर्जीवस्य ततः प्राकू अभावे तदाश्रिताया अविद्याया अपि ततः प्रागसिद्धया तदनादित्वं कल्पनामात्रमिति । जीवकल्पित्वमीश्वरस्येति पक्षा सिद्धान्तलेशसंग्रहृदर्शित एव । सिद्धावप्युक्तमिहैव जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वम् । इवञ्चा विद्यासिद्ध्यधीनम् । अविद्या च जीवाधीना । जीवस्वरूपञ्चाविद्याघटिकमिति तदधीनमिति । यदपि ज्ञप्तावन्योन्याश्रयवारणम्
- t
- अज्ञानस्य चिद्भास्वत्वेऽपि चिंतेः खप्रकाशत्वेन तदभास्यत्वात् " इति – तदसंगतम् एकतरज्ञप्तौ अन्यतरज्ञप्तिसापेक्षत्वं नास्तीति ह्युपपादनीयम्, अज्ञानस्य चिज्ज्ञानज्ञेयत्वं वा चितोऽज्ञानज्ञानानन्तरज्ञेयत्वं वा नास्तीत्येवंप्रकारेण ।
- तदत्र न खर
- सप्रतीतम् । अविद्यावच्छिन्नचैतन्यरूपस्तु जीवः न तु चिन्मात्रम् ।
- अतश्चितः खप्रकाशत्वेऽपि अविद्यावच्छिन्न चैतन्यत्वेन तज्ज्ञानमविद्यारूपविशेषणज्ञानमन्तरा न भवति । तथा अविद्याज्ञानस्य अहं न जानामीत्याकारकतया धर्मिज्ञानाभावे च तदुत्पत्त्ययोगात् । विशिष्टज्ञाने विशेषणज्ञानस्य, किञ्चिदवच्छिन्न विशेष्यक किञ्चित्प्रकारकज्ञाने धर्मितावच्छेदकप्रकारकधर्मिंविशेष्यकज्ञानस्य च कारणत्वात् अविद्यावच्छिन्न चैतन्यरूपजीवज्ञानाभावे अविद्या प्रकारकस्य न जानामीति ज्ञानस्यासंभवात् । अथापि शुद्धा विद्यामात्रज्ञानमहमर्थाविषयकं तदभावेऽपि भवितुमर्हतीति चेत्-तादृशज्ञानमनुभवदुरम् ।
- स्थितावन्योन्याश्रयपरिहारोऽपि चिन्त्यः । अविद्यावच्छिन्नत्वांशत्यागे अविद्याया ब्रह्माश्रितत्वप्रसंगः । अत्यागे विशिष्टस्या विद्याश्रयत्वे विशेषणस्यापि तदापत्तिः । अविद्याया उपलक्षणत्वमिति चेत् — अथापि अविद्यायाः स्थिति; सत्ता आश्रयभूतोपहितचैतन्याधीना, अविद्यायाः असत्त्वे च शुद्धचैतन्यसत्त्वेऽपि अविद्यावच्छिन्नचैतन्यरूपजीवतत्त्वं न स्यादित्यस्त्येवान्योन्याश्रयः । अस्मन्मते च चिदचितोः शुद्धपरमात्माश्रितत्वात् चिदचिद्विशिष्टनिरूपिताधेयत्वाभावान्नापत्तिः ।
- किञ्चाविद्यानां विभुत्वेऽल्पपरिमाणत्वे वा एकावच्छिन्नप्रदेशस्यान्या’वच्छिन्नत्वायोगात् अविद्या कार्यप्रपञ्चं व्याप्य स्थितया एकयाऽविद्ययाऽवच्छिन्न चैतन्यप्रदेशस्यान्याविद्यावच्छिन्नत्वायोगेन ‘प्रपञ्चान्तर्गतनानाजीवासिद्धिरेव “स्यात् । सर्वाविद्यावच्छिन्नत्वस्यैकप्रदेशे स्वीकारे सुखदुः खाद्यव्यवस्थापत्ति
- रूपदोषः स्फुटमेव जागर्ति । जीवानां सञ्चारितया एका विद्यावच्छिन्नप्रदेशस्यैवान्यावच्छिन्नत्वमप्यापततीति सर्वसंकर एव स्यात् । न च चैतन्यं छिन्न भिन्नं वा जीवो भवति । ततोऽनेकजीवासिद्धिरेव स्यादिति नानाजीवाश्रिता विद्याभेदो न सिद्धयेत् ।
यत् पुनराग्रह मुषितशेमुषीकस्यावहेलनम् —’ अबद्धं वा सुबद्धं वा कुन्तीपुत्रो विनायक ’ इति न्यायेन दूषणान्युपन्यस्यन्ती शतदूषणी जीवाज्ञान-भङ्ग-प्रसाधनम् ‘अविद्यायाः आश्रयः किं ब्रह्म किंवा जीव इति पुनः पुनः पृच्छन्ती शतदूषणी शतवाररामायणप्रवचनानन्तरम्, सीता किं रामस्य पत्नी उत्त रावणस्येति प्रष्टारमनुकरोति’ इति । तत्रापि वक्तव्यमस्ति भवदीयैः, विनायकं प्रकुर्वाणो रचयामास वानरम्’ इति न्यायेन रचनायामाहतायाम् प्रश्न एवं भवत्येव । रामायणववचनमयथावत् सहस्रवारं क्रियमाणमपि न यथावत् सीतारामसंबन्धं दर्शयिष्यति । तद् विपरीतप्रवचनपरः प्रष्टव्य एव भवति, सीता कि रामस्य पत्नी, उत रावणस्य ? किमुपन्यस्यते महाप्राज्ञ’ इति । " 6 तदेवं शतभूषणीव्याजेनाद्वैत सिद्धिरपास्ता । कर्मरूपा विद्याश्रयत्वे नीवानां संमन्यमानेऽपि जीवत्वनिबन्ध जीवत्वमित्यन्योन्याश्रयोऽस्त्येवेत्युक्तवा “ अन्धपरम्परैषाऽनादित्वकल्पना " इति समन्वयाधिकरणशाङ्करभाष्यं प्रमाणीकृत्य जीवकर्मणोर्बीजाङ्कुरन्यायखण्डनमपि प्रागेव तद्भाष्यस्य परिशीलितत्वादु पेक्ष्यम् । अपिच जीवत्वं कर्मनिबन्धनमिति न वयं ब्रूमः, बद्धमुक्तनित्यभेदेन जीवानां त्रैविध्यात् । कर्म तत्फलभोगयोरेव बीजाहुरन्यायः । सञ सर्व सिद्धान्त सिद्धः, न कर्माविभागादिति चेन्नानादित्वात् " इति सूत्रकारेणापि स्वीकृतः कथं सूत्रभाष्ये निरस्येत । अन्यथा तद्भाष्यविरोधश्च । तत्र हि, अनादौ च संसारे बीजाङ्कुरवत् हेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुद्धयते " इति भाषितम् । भामती च, अनादितैवात्र भगगतीं चित्तमनाकुलयति’ इति । जीवत्वं कर्मायत्तमिति कृत्वाप्यभाषि, " अनेन जीवेनात्मनेति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन् अनादिः संसार इति दर्शयति " इति । भविष्यजीवनमादाय, ‘पुरोडाशकपालेन तुषानुपवपति ’ इत्यत्र तुषोपवापात् प्राकू पुरोडाशपणाभावेऽपि भविष्यत् श्रपणमादाय पुरोडाशकपालेनेति निर्देशवत् जीवेनेति निर्देशोऽस्त्वित्याशंक्य च ‘भविष्यद्द्महणमगतिकगतिः । अनागतादतीतः संबन्धो बलवान् अभिनिष्पन्नत्वात् । अत एव अग्निहोत्रहवण्या हवींषि निर्वपतीत्यत्र अग्निहोत्रं यया हुतम् तयेत्यर्थस्वीकारेण दर्शपूर्णमासयो 106 are
रमिहोत्रहवण्युपयोगः, न तु पवमानेष्टौ पूर्वभाविन्यामिति (१०-२-६३ ) दशमे स्थितमिति’ समाहितम् । अत्राग्निहोत्रहवणीविषये खण्डदेवाशयोऽन्य इत्यन्यदेतत् । सर्वथा कर्मानादित्वं कर्मजीवत्वयोर्बीजाङ्कुरन्यायकलनञ्च सूत्रभाष्याद्यातमेव । तर्हि समन्वयमाप्यस्य का गतिरिति चेत् — अस्त्वगतिरेव ; शरीरात्माभिमानित्वं सशरीरत्वमित्येतत्स्थापनसंरम्भोगलितत्वात् तस्य भाष्यस्य । तद् व्यक्तं भामत्यामेव । अथवा यो हि देहात्माभिमानं सर्वथैवोपेक्ष्य देहातिरिक्तात्मबुद्धिमात्रेण, ‘लव्धदेहेन धर्माद्यनुष्ठायिनैव सता पुनः फलानुभवार्थशरीरपरिग्रहवतैव भाव्यं जीवेन । न मोक्षो नाम कश्चिदस्ति । अनादित्वात् कर्मणां कात्स्म्र्त्स्न्येन क्षयायोगात्’ इति मन्यते, तादृशक्षुद्रफल तृप्तकतिपयमीमांसकनिरसनाभिप्रायं तद् भाष्यं भविष्यति । अतः सर्वसम्मतकर्मानादित्वदूषण साहसमा पातभाष्यदर्शन मूलमयुक्तम् । एकैकजीव कल्पिकाऽविद्या जीवान्तरदर्शने कारणं न वा । आद्ये अनन्तैरपि जीवैरनन्तजीव कल्पनापातात् जितमेकजीववादेन । अन्त्ये जीवानां परस्परवार्तानभिज्ञतया शिप्याचार्यादिव्यवस्थाभन इति शतदूषणीकृतमाक्षेपं परिहर्तुं प्रवृत्तेन यदलेखि तत्तदविद्या कल्पिततत्तज्जीवतत्तदर्शनगोचराणां व्यावहारिकत्वात् नैकस्य जीवान्तरदर्शनं प्रातिभासिकमिति न व्यवहारदशायामनात्मवादः, नानन्तप्रातिभासिकजीवकल्पनेति तेन परिहारयुक्तिर्न काचिदपि प्रादर्शि । एकजीवाविद्याकल्पितखात्मकजीवतदनुबन्धिनामिव तदविद्याकल्पितानामेव जीवान्तराणां तदनुवन्धिनाच आब्रह्मज्ञानोदयादबाघे व्यावहारिकत्वमेव वास्तु, शुक्तिरजतादिवत् स्वामिकजीवादिवच्च मध्ये बाधेन प्रातिभासिकत्वं वा । एकैकजीवेन तद्बुद्धिगोचराणां जीवान्तराणां तदविद्याकल्पितत्वं तावदावश्यकम् । अन्यथा तदनुभाव्यत्वाभावप्रसङ्गात् । अतः मत्कल्पिता इमे जीवा अहमिय जाग्रतः स्वपन्तः कुर्वन्तोऽकुर्वन्तश्च मे भासन्त इत्येवानेकजीववादिपक्षेऽप्येकैकनीवेनाङ्गी कर्तव्यमिति स्थिते — एवं मत्कल्पकाविद्याकल्पितानेव जीवान् ** जीवाज्ञान-भङ्ग-प्रसाधनम् ८४३ विभिन्ना विद्याकल्पितजीवतया भ्रान्त्या गृह्णामि ; लाघवात्तु अविद्या तावदेकैव । श्रुतौ, “ मायां तु प्रकृतिम् ‘, " ’ एको देव’ इति जीवाविद्ययोरैक्या वगतिलघवतर्कोपष्टब्धत्वात् साध्वी । ’ इन्द्रो मायाभिः ’ इत्यादिबहुत्वग्रहणं व्यवहार कालिकाविवेचकभ्रमसिद्धानुवादमात्रमिति एकजीववादाश्रयणं श्रेय इति । अथ जीवकल्पनाश्रयः कः । शुक्तौ रजतकरूपनास्थले कल्पनायाः कल्प्यस्य रजतस्य च समानकालिकत्वं यद्यपि स्वीक्रियते—अथापि तत्र रजतोत्पत्तये शुक्तिरधिष्ठानमिव कल्पनाया आधारोऽपि जीवः प्राग् जागतति सुवचम् इह तु जीवकल्पनातः प्राक् जीवाभावात् कल्पनां प्रति आधारः कथं कारणं भवेत । भासकं साक्षि अस्त्येवेति चेत्, तत् साक्षि किं जीवत्वोपहितरूपेण प्रागस्ति, उत स्वरूपेण । आद्ये कल्पनां विनाऽपि ततः प्रागेव जीवः सिद्धः स्यात् । अन्त्ये शुद्धब्रह्मनिष्ठत्वं कल्पनाया आयातम् । एवं विवेके स्थिते साक्षिशब्दप्रयोगमात्रेण शुद्धवैलक्षण्यं संपन्नमिति न संरब्धव्यम् । एवं यथा रजतकल्पनातः प्राक् अधिष्ठानज्ञान चाकचक्यादिज्ञानरजतविषयको बुद्ध संस्काराद्याश्रयस्य कस्यचिदपेक्षा तथा जीवकल्पनाहेतुविशिष्टस्यापि धर्मिणोऽस्त्येवा क्षेति अविद्यावच्छिन्नजीवस्य प्रागेव सिद्धौ कथं तस्य कल्पना सिद्धत्वम् । एवं प्रयारम्भक्षणे जीवकल्पनातः प्रागपि तत्सिद्धिः कथमिति विचार्यम् । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् " इति प्रलये एकमात्र सद्भाववचनमवश्याङ्गीकर्तव्यजीवतत्कर्मादिनिषेधकं न भवितुमर्हतीति प्रयोजनवत्त्वाधिकरणभामत्यामपि स्थितम् । एवञ्च तदातनानां कल्पनसमसामयिकत्वादि कथम् । अथेश्वरकल्पनासिद्धं सर्वमिति चेत् तर्हि स ईश्वर एक एव चेतनः तदविद्याकल्पिता इमे जीवाः स्वामिकपुरुषतुल्याः । स एक एव जीव इति वा ईश इति वोच्यताम् । अन्यथा जीवानामनन्तानामविद्यानाञ्च तद्भेदिकानां स्वीकारे-ईश्वर एतत्कल्पित एव, न तु वस्तुतः पृथक्, तदीयाविद्यायाः कस्याश्चिदभावादितिं निरीश्वरवाद एव स्यात् । " ૪૪
मायाख्या महाविद्या तदर्थापि काचिदस्तु इति चेत् — एवं तेन जीवत्वेन चेतनत्वेन कल्पितानां वस्तुतो जीवत्वं तेनेशत्वेन कल्पितस्य च वस्तुत ईशत्वञ्च न भवतीति अचेतनत्वाविशेषात् इच्छाप्रयत्रव्यवहारादिमत्त्वं घटादेरिव न स्यात् । तथा जीवानामस्माकमस्मदीयाविद्यानाञ्च तत्कल्पनाविषयतया तदीयेनैव तत्त्वसाक्षात्कारेण निवर्त्यतया अस्माकं साक्षात्कारे जातेऽपि मोक्षो न स्मात् । स त्वीश्वरः परमानन्दतृप्तः पापक्लेशादिविदूरः खानन्दविघातरूपेः मोक्षे न प्रवर्तिष्यत इति संसारित्वमेवास्माकं शाश्वतं भवेत् । अन्यदीय: कल्पनाविषयस्याप्यन्यदीयतत्त्वज्ञान निवर्त्यत्वमनानुभविकम् । तथासति गुरुगतं तत्त्वज्ञानमेव सर्वमोक्षायेति सर्वेषामसंसारित्वं प्रागेव प्राप्तं स्यात् । तदर्थं तत्तज्जीवस्वरूपस्य तत्तत्कल्पना सिद्धत्वस्वीकारे कल्पनाश्रयः कल्पनासामग्रीसम्पन्नश्च क इति प्राकृतः प्रश्नः परिहर्तुमशक्य एव स्थितः । एवं स्थिते, “भ्रमविषयतयैव जीवसिद्धौ श्रमोदयात् प्राक् स्वरुपासंभवेन निराश्रयश्रमानुदयप्रसङ्ग इष्टप्रसङ्ग एव, जीवस्य जीवविषयकभ्रमानङ्गीकारात् पास्तम् । जीवविषयकभ्रमाश्रयत्वस्य जीव एव स्थूलोहं कर्ताऽहमित्याद्यनुभवानुसारेणोपपादनीयत्वात् । कथञ्चिद् जीवब्रह्मणोरभेदात् कुलालादिकर्तृकमपि घटादिकं ब्रह्मकर्तृकमेवेत्युक्तौ जीवभाग्यमपि साक्षिभास्यमेव साक्षिभास्यमपि ब्रह्मभास्यमेवेत्याद्युक्तेरपि संभवाद संज्ञामूर्तिक्लृप्त्यधिकरणस्त्रोस्थितिरेव न स्यात्, जीवाज्ञानवादस्य ब्रह्माज्ञानवादखण्डनपूर्वकं स्थापनञ्च व्यर्थं स्यादिति भाव्यम् । ८ इत्युक्तम ‘नामरूपव्याकरणं न हिरण्यगर्भकर्तृकम्, किं तु ईश्वरकर्तृकमेवेति मतद्वये संप्रतिपन्नम् ’ इति पूर्वं विलिख्य पश्चात्, तथाचं भगवत्पादीयं भाष्य’ मित्यारभ्य वाक्यमुदाहृतं यत्, तत्र, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति " इत्यंशो न विवक्षितार्थानुकूलः । भामत्याम्, 66 अत्र परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रवेष्टृत्वे तवाप्रत्यथोक्तसमानएतत्समाधानार्थेन कर्तृकत्व-भङ्ग’ इत्याशङ्कापरिहारार्थमिदं वाक्यमित्युक्तम् । जीवाज्ञान-भङ्ग-प्रसाधनम् F ८४५ चानेन भाष्येण, ‘तेन तत्कृतोऽपि प्रवेशः परमेश्वरकृत एव भवति’ इत्याकारेण भाव्यम् । जीवस्य परमेश्वरस्य चानतिभेदात् परमेश्वरकर्तृकव्याकरणे जीवकर्तृक। नुप्रवेशसमानकर्तृकत्वं न व्याहन्यते ; प्रवेशकर्तृत्वस्य अनतिभेदात् परमेश्वरेऽप्यानेयत्वादिति खलु विवक्षितोऽर्थः । तथाऽनुक्त्तवा नामरूपव्याकरणस्य जीवकर्तृकत्वेऽपि न परमेश्वर कर्तृकत्वमङ्गः अनतिमेदादिति भाष्ये वर्णनमर्थान्तराभिप्रायकमेवा वसीयते । तदयमर्थः-” नामरूपश्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः " इति हिरण्यगर्भरूपजीवकर्तृकतया प्रसिद्धे नामरूपव्याकरणे कथमयं कर्ता स्यादित्यश्राह ’ न च जीवो नाम’ इति । हिरण्यगर्भस्य परमेश्वरानतिभेदात् तत्कृततया स्मृत्युक्तमेतत्कृततया श्रुतिर्दर्शयतीति । एवञ्च हिरण्यगर्भकर्तृकत्वे सम्मन्तव्ये सति, " न हिरण्यगर्भकर्तृकम् " इति प्रथमं भवदुक्तमनन्नितं भवतीति विभाव्यम् । वयं पुनर्हिरण्यगर्भकर्तृकं नामरूपव्याकरणं सर्वात्मना नेति न ब्रूमः । क्षुद्राणामस्माकमपि कतिपयनामरूपव्याकर्तृत्वे सति किमुत सर्वसंपन्नस्य तस्य । परं तु हिरण्यगर्भादिकर्तृकेऽपि नामरूपयाकरणे परस्य प्रेरकस्य कर्तृत्वमस्त्येव । हिरण्यगर्भाकर्तृकमपि हिरण्यगर्भादिविषयकं नामरूपव्याकरणमस्ति । तत्र स केवलो व्याकर्ता । अतः कार्त्स्न्येन सर्वजीवानुप्रवेशपूर्वक व्याकर्तृत्वं तस्यैव । न च बहु स्यामिति प्रकृतं नामरूपव्याकरणं हिरण्यगर्भादेः संभवति । अलमधिकरणवास्तवार्थविचारेण प्रासङ्गिकेन । तस्मात् ब्रहमज्ञानवाद्याशयाज्ञानमूल एवायं जीवाज्ञानवादोऽर्वाचीनः । मण्डनस्य तत्र रुचिमाकलय्य तद्वत् मीमांसकतया ख्यातेन वाचस्पतिमिश्रण तत्रादरं बिभ्रता तदुक्तबिम्बप्रतिबिम्बवादादौ अनाश्वासिनाऽपि अनेकजीवाथितानेकाविधावादो बद्धमुक्तादिव्यवस्था सुकरत्वधिया समन्ववर्तीति प्राचीनाद्वैति परिक्षुण्णः पन्था इति ॥ नायं जीवस्यैक्ये भोगसंकीर्णतादिः जीवानैक्ये स्यात् प्रपञ्चोऽप्यनेकः । ईशस्यान्यः स्यात् स जीवप्रक्लृप्तात् नानेशाः स्युर्जीवक्लृप्तो यदीशः ॥ शुभमस्तु श्रीः