४० भावरूपाज्ञान-भङ्ग-प्रसाधनम्

यस्याभावात् संसृतिर्यस्य भावान्मुक्तिस्तादृग्ज्ञानगम्यं विशुद्धम् । वश्यानश्यत्सत्यमायोपरिस्थे धानि श्रीमद्धाम दीव्यत् प्रपद्ये ॥ अभ्युपगतं तावदशेषैरपि ज्ञानाज्ञाने मिथो विरुद्धे इति । उपसर्पन्ति च ज्ञानिनमज्ञाः, न जानामि, तन्मे ज्ञापनीयमिति । तदिदमज्ञानं किमिति विचार्यम् यद्यप्यद्वैतिभिरपि परैरिवाज्ञानमिदं ज्ञानाभाव एवेति वक्तुं युक्तम् । न चैवं सति तत्त्वज्ञानात् तस्यैव निवृत्त्या प्रपञ्च निवृत्तिर्न स्यादिति मन्तव्यम् — अद्वितीयब्रह्मरूपतत्त्वज्ञाने सति सर्वमिथ्या निवृत्त्यवश्यम्भावात् मिथ्याभूतमूलप्रकृत्याख्यमायासहितस्य प्रपञ्चस्य निवृत्तेरक्षतेः । एवं सत्यप्यद्वैतिनः श्रुतिमात्रप्रमाणपुरस्कारे परो बिजयेतेति प्रत्यक्षानुमानोपष्टब्धश्रुतिगम्यत्वं वक्तुमनसः, तदेव भावरूपं वस्तु प्रत्यक्षेण, न जानामीत्येतादृशेन वेद्यत इति, तथाऽनुमानमप्यस्तीत्यातिष्ठमानाः तद्वस्तु अज्ञानाविद्यादिशब्दवाच्यं प्रत्यक्षादिगोचरमित्युपन्यस्यन्ति । एवमज्ञानस्य भावरूपत्वमुपन्यस्यमानं न घटत इति संप्रति निरूष्यते अत्र पृच्छयते किमिति भावरूपत्वमज्ञानस्य प्रबन्धेन स्थाप्यत इति — प्रपञ्चस्य भावरूपस्य परिणाम्युपादानेनापि भावरूपेण भाव्यमित्यज्ञानं भावरूपमिति चेत् — अज्ञानस्य प्रपञ्चं प्रति निमित्तकारणत्वमात्रमिति परिणाम्युपादानानङ्गीकारिभामतीपक्षे इदमसंभवि । एवं घटाभावादेरभाव प्रपञ्चस्यापि सत्त्वादभावरूपत्वमप्येष्टव्यं स्यात् । ननु भावातिरिक्ताभावानी कारात् घटाभावादिरपि यः कश्चिद्भाव एवेति चेत्–नेदमनृतजडपरिच्छिन्नव्यावृत्तिरूपभावातिरिक्तब्रह्मधर्मस्वीकारसक्तैः सुवचम् । अनादेरभावस्य भावस्येव नोपादानापेक्षा । व्यावृत्तिश्च भेदोऽनादिरिति चेत्-तथापि ८०८ 6

1 साविद्यप्रपश्च निवृत्तिरूपस्य सादेरभावस्य किमुपादानम्, न च सा ब्रह्मैव । अद्यापि प्रपञ्चाभावप्रसङ्गात् निवृत्तिरूपत्वकथनस्यैवासंभवात् । किञ्चाभावस्यापि भावत्ष्टौ भावरूपमज्ञानमपि ज्ञानाभावरूपमपि भवितुमर्हतीति किं तन्निरसनेन । एतेन भावाभावविलक्षणमज्ञानमित्यद्वैत सिद्ध्युक्तमपि निरस्तम् ; परस्परविरोधे हि न प्रकारान्तरस्थितिः’ इति न्यायात् । किमस्य प्रतियो गिनिरपेक्षमेव भानं स्वीक्रियते, उत सापेक्षम्, आद्ये भावत्वम्, अन्त्ये नास्तीतिभाने अभावत्यश्च दुरपह्नवम् । एवमस्य ज्ञानाभावरूपत्वा स्वीकारे च अहं मां न ज्ञातवानिति प्रत्यक्षेणाज्ञानसिद्धिर्दुर्वचा । तस्य ज्ञानाभावविषयकत्वात् । न गच्छामि, न कललं भक्षयेदित्यादौ नञः अभाववाचित्वस्यैव प्रतीतेः । भावरूपाज्ञानपक्षे हि, नाहं ज्ञातवानित्यादौ न ज्ञातवा निति पदयोस्तादृशाज्ञानलक्षणा कल्पनादिगौरवमिति प्रागेव तिरोधानानुपपति प्रसाधने प्रपञ्चितम् । न च यथाश्रुतार्थस्वीकारे काचिदनुपपत्तिरस्ति । नन्वभावज्ञाने प्रतियोगिज्ञानमनुयोगिज्ञानञ्च कारणम् । प्रतियोगीचेह ज्ञानपदार्थः न विषयमगृहीत्वा सुमहः । ततो विषयभूतवस्तु तद्विषयकज्ञान –अनुयोगिभूतपदार्थत्रितयज्ञाने सति तदभावरूपज्ञानाभावस्य दुर्वचत्वात् कथं नाहं जानामीत्यभावानुभवसंभवः । अत एवमनुपपत्त्यैव भावत्वस्वीकार इति चेत् — तर्हि घटमहं जानावीति व्यवहारः किंविषयः । अद्वैतिसम्मतस्याज्ञानस्य भावरूपस्य शुद्धचैतन्यमात्रविषयकत्वेन घटादि विषयकत्वायोगात् ज्ञानाभावमादायैवास्योपपादनीयत्वात् । घटादेरपरमार्थतया तद्विषयकत्वस्याज्ञाने दुर्वचत्वात् । अन्यथा शुक्तिरूप्यादिविषयेऽप्यज्ञानकल्पनापत्तेः । जडस्य घटादेरप्रसक्तप्रकाशत्वेनाज्ञानावृतत्वानङ्गीकारेण भावरूपाज्ञानावच्छेदकत्वस्य घटादावद्वैतिभिर्दुरुपपादत्वाच्च । एवं नाहं शुक्तिरूप्यं जानामीत्यादौ कथं निर्वाह इत्य् अपि विम्रष्टव्यम् । न चापरमार्थविषयेऽप्यज्ञानं स्वीक्रियेत । तथासति मुक्तौ ब्रह्मणः प्रपञ्चविषयक ज्ञानाभावेना परमार्थगोचराज्ञानापतौ ब्रह्मपरिशेषानापतेः । न च ब्रह्मातिरिक्तं सर्व मिथ्येतिज्ञानात् तदप्यज्ञानं भावरूपाज्ञानमेज-प्रसाधनम् । ८०९ निवृत्तमिति वाच्यम्तर्हि ज्ञानाज्ञानयोः परस्परविरोधात् प्रपञ्चगोचराज्ञाननिवृत्तौ प्रपञ्चज्ञानस्य तदानीमापत्तेः । तद्विषयकमज्ञानं हि तज्ज्ञानेनैव निवर्त्यते । अज्ञानस्य ज्ञाननिवर्त्यत्वाभावे च ब्रह्माज्ञानस्यापि ब्रह्मसाक्षात्कारानन्तरमनुवृत्ति-सङ्गः । अस्तु वा तदानीं ज्ञानाज्ञानोभयविलयः । एवमपि ब्रह्म तदा न किञ्चिज्जानातीति वाक्यस्य ज्ञानाभावविषयकतयैव निर्वाहः कार्यः । एवमेव घटमहं न जानामि, अहं मामन्यच्च न जानामीत्यादीनामप्यभावविषयकतयैव निर्वाहे व्यर्थ भावरूपत्वकल्पनम् । किश्च ब्रह्म तदा न किञ्चिज्जानातीत्युको ज्ञानाभावः ब्रह्मान्यः, उत ब्रह्मैव । आद्ये द्वैतापत्तिः । अन्त्ये ब्रह्मणः प्रपञ्चकालेऽपि सत्त्वात् ज्ञानायोगः । एवं तदेत्युक्तकालादिकमादायापि द्वैतापत्तिरनुसंध्या ।

ननु घटस्य ज्ञानाभावे घटविषयकत्वविशिष्टज्ञानरूपप्रतियोगिनो ग्रहणाभावात् कथं घटमहं न जानामीत्यभावबुद्धिः । घटस्य ज्ञातत्वे च कथं न जानामीति बुद्धिरिति चेत् न अतिरिक्ता ज्ञान कल्पनेऽपि अहमिति धर्मिज्ञानसत्त्वे कथं तदज्ञानग्रहणम् एवं घटस्याज्ञानांशे विशेषणत्वात् विशेषणस्याज्ञातत्वे कथं घटाज्ञानरूपविशिष्टपदार्थज्ञानम्, विशेषणस्य ज्ञातत्वे च कथं तदज्ञानसद्भाव गमिति तुल्यत्वात् । न चाहमिति चैतन्यस्वरूपभानं नाज्ञानविरोधि, किंतु वस्तुयाथात्म्यावगाहिनी अखण्डाकारवृत्तिः । तथाच वृत्त्या आवरणनिवृत्तौ अनावृतचैतन्यस्यैवाज्ञानविरोधित्वेन अहमिति साक्षिचैतन्यमानेऽप्यज्ञानमानं युज्यत इति समालोचनोक्तं साम्प्रतम् चैतन्यापेक्षया वस्तुयाथात्म्यस्यातिरिक्तस्य ग्राह्यस्याभावेन स्वयम्प्रकाशस्य चैतन्यस्याज्ञानाविरोधिताया अनुपपन्नत्वान् । ब्रह्मनिर्विशेषत्व अज्ञानभावरूपत्वादेखि वृत्त्येकनिवर्त्यत्वरूपनिर्युक्तिकनिबन्धस्याविचारितरमणीयत्वात् । किञ्च वृत्त्या आवरणनितिः अनावृतचैत-याज्ञाननिरोध इति कुत इयं परम्परा । आवरणपदार्थासिद्धेः प्रागेव दर्शितत्वात् । अविद्यायां चैतन्यप्रतिबिम्ब आवरणमिति यत् तदुक्तम्, तस्य तावत् वृत्त्या निवृत्तिर्न भवति; ईदृशकार्यकारणभावस्य 102परमार्थ भूषणे कुनाप्यहः । कथञ्चाज्ञाने सति तत्र चैतन्यमप्रतिबिम्बितं भविष्यति । एक्मनावृत चैतन्यमित्यत्र चैतन्यमात्रमज्ञानविरोधि, उतावरणाभावोऽपि ! नाथः । इदानीमपि तत्सत्येनाज्ञानस्यानुन्मेषापत्तेः । नान्त्यः, ज्ञानातिरिक्तनिवत्त्वेनाज्ञानस्य परमार्थत्वापत्तेः । तथाच तज्जन्यं जगदपि सत्यम् ! अपिचायमावरणाभावः किमावरणस्य पारमार्थिकत्वेनाभावः उत कल्पितस्यावरणस्य निवृतिः । नाद्यः, सत्यपि तत्सत्त्वात् तस्य वृत्तिकार्यत्वाभावात् । नान्त्य, आवरणपदार्थस्य वक्तव्यत्वात् । ब्रह्मगोचरवृत्त्यभाव आवरणमिति चेत् तर्हि वृत्त्या वृत्त्यभावनिवृत्तिरिति वक्तम् । अतश्च वृतिविशिष्ट चैतन्येनाज्ञाननिरोध इति वक्तव्ये परम्परासर्वदा सत्त्वात् प्राप्ताप्राप्तविवेके वृत्तिमात निवत्वमेव पर्यवस्यति । प्रपञ्चज्ञानमावरणमिति चेत्-अज्ञ ननिवृत्तेः पश्चात् क्रमेण प्रपञ्चनिवृत्तिं वद्भिरेवं प्रपञ्चनिवृत्त्यनन्तरमज्ञाननिकृतिरुच्यत इति विचितम् । तथाच स्वयम्प्रकाशविधम् वा ज्ञानविषयतया वा तस्मिन् प्रकाशमाने उदज्ञानं दुर्वचम् । एवं घटादेरज्ञानावच्छेदकस्य ज्ञानमन्तरा घटाद्यज्ञानमपि दुर्महमिति भावरूपाज्ञानपत्रेऽप्यनुपपत्तिरस्त्येव । ननु यथा स्क्लो बहिःप्रवस्त्रक्षममवि मनः प्रकारान्तरेण पाविज्ञाने जाते आत्म समवेत तज्ज्ञानग्रहणमुखेन वा घटादिकमपि गृह्णाति तथा साक्षितकमपि स्वतः सर्ववस्तुभासनासमर्थमपि वृत्तिरूपज्ञानद्वारा अज्ञानद्वारा वा सके गृहात्येव । अत एव सर्वमेव वस्तुजातं. ज्ञाततया अज्ञाततथा वा साक्षिचैतन्यस्य विषयीभवति इत्युच्यते । तत्र च ज्ञामद्वारा साक्षिणा ग्रहणकाले बाबज्ञानस्य पृथगपेक्षायामपि अज्ञानद्वारा साक्षिभास्यतायामवच्छेदकीभूतानां विषयाणां प्रमाणाधीनं ज्ञानं नापेक्षितम् । अतो ज्ञानाभावग्रहणे ज्ञानस्यावश्यकत्वेऽपि भावरूपाज्ञानग्रहणे तदपेक्षा नास्तीति चेत्-अयं तत्त्वदीपना दिपक्षो न युक्तः । ज्ञानाभावरूपाज्ञानवादस्वीकारेणैव ज्ञानाभावावगाहनदशायां विषयाणां साक्षिमास्यतामात्रेण ज्ञानं प्रत्यवच्छेदकत्वस्य अनुभवनिर्वाहाय कल्पनसंभवादज्ञानरूपधर्म्यन्तरकल्पनं व्यर्थमिति शतदूषण्यामेवोक्तत्वात् । अन्यथा, भावरूपाज्ञानकल्पनवत् सर्वस्य साक्षिमास्यत्वकरूपनमप्यप्रामाणिकमेवः । घटादि भावरूपाज्ञान-भङ्ग-प्रसाधनम् 1 ૨૧૩ अतोऽज्ञानावच्छेदकतयाऽपि यदि जडपदार्थानां मानम्, तत् प्रमाणाधीनज्ञानसापेक्षमेव । आत्मस्वरूपचैतन्यमेव तु स्वयम्प्रकाशत्वात् प्रमाणज्ञानमिरपेक्षमज्ञानावच्छेदकं भवेत् कथमपि । व्यक्तमिदं श्रीभाष्येऽपि । तस्माद घटादिज्ञानाभावस्येव घटाद्यज्ञानस्य भावरूपस्यापि घटादिज्ञानसापेक्षत्वात् ज्ञानाज्ञानयोश्च मिथो विरोधात् ज्ञाने जाते अज्ञानस्थितिरेव कुतः, कुतस्तराच तस्व साक्षितो भानमिति । यत्तु घटज्ञानेऽपि घटाज्ञानं भावरूपं भवितुमर्हतिः भावाभावयोरेव विरोधात् अज्ञानस्य व भावरूपत्वादिति तन्न ब्रह्मज्ञाने सत्यपि मूलभूताज्ञानानिवृत्तिप्रसंगात् । शुक्तिज्ञाने सत्यपि तदज्ञानानिवृति प्रसंगाच्च । तथाच ज्ञात्वाऽपि शुक्ति न जानामीति ब्रूयादिति । एवपत्र परिमलोक्तमपि परामृशामः । तत्र हि भावरूपमज्ञानमेव स्थापितम् -अहं न जानामीत्यस्य ज्ञानाभावविषयकत्वे तत्तद्वस्तुज्ञानरूपप्रतियोगिज्ञानं पूर्वमावश्यकम् । न च सामान्याकारज्ञानसद्भावात् विशेषाकारज्ञानस्यैवाभावात् कथञ्चित् ज्ञानरूपप्रतियोगिज्ञानं भवतीति वाच्यम् सामान्याकारज्ञानसत्त्वे तदभावस्य दुर्वचतया विशेषाक रज्ञानाभाव एव वाच्यः । तत्र च विशेषाकारज्ञानमेव प्रतियोगि । तथाच तज्ज्ञानाभावे प्रतियोगिज्ञानाभावादभाषो दुर्ब्रहः । तज्ज्ञानसत्त्वे च विशेषाकारस्य गृहीतत्वादेव तदमावो दुरुपपादः । बभावज्ञाने चाभावाधिकरणवृत्त्यवृतिधर्मावच्छिन्नप्रति गिज्ञानं नियमेनापेक्षितम् / घटाभावाधिकरणमूलवृति यत् पटादि, तदवृतिघटत्वरूपधर्मावच्छिन्नघटरूपप्रतियोगिज्ञानाभावे घटाभावज्ञानानुदयात् । अत्र च भूतले पटादिद्रव्यसस्ये घटाभावमात्रेण, द्रव्यं नास्तीति प्रतीत्यभावात् धर्मे अमावाधिकरणवृत्यवृत्तित्वं विशेषणम् । द्रव्यत्वरूपप्रतियोगितावच्छेदकधर्मस्य भूतलवृत्तिपटादिवृत्तित्वात् न तादृशप्रतीत्यापतिरिति । पाज्ञानपक्षे च नायं दोषः । विषयिविषयक ज्ञाने विषयतावच्छेदकावच्छिन्नविषयकज्ञानापेक्षा नियमस्याभावात् । अतः एव धर्मजिज्ञासा ब्रह्मजिज्ञासेत्यादिविचाराणामुपपत्तिः । तत्र हि पूर्वमेव शास्त्रार्थज्ञानसत्त्वे जिज्ञासाया एवानुदयात् सामान्यतो ज्ञाते विशेषतश्चा 1 ८१२

ज्ञाते विशेषाकारविषयिणी जिज्ञासा वाच्या । तत्र यद्यपि विशेषाकारविज्ञानमेवेप्यमाणम् तथापि सामान्याकारेणैव तस्य जिज्ञासायां भानम् । अन्यथा विशेषाकारेण भाने तज्ज्ञानसत्त्वेन नैव जिज्ञासोदियात् । तथाच जिज्ञा सायामिव भावरूपाज्ञानेऽपि विषयतावच्छेदकधर्म मपुरस्कृत्यादि विषयभानं घटते; न तु ज्ञानाभावरूपाज्ञानपक्ष इति अंत्रोच्यते जिज्ञासां यां निदश्यैवमज्ञानं भावमिच्छति । तामेवात्र निदश्यैतदभावः प्रतिबोध्यते ॥ जिज्ञासायां विषयभूतं ज्ञानं किं सामान्याकारेण वस्तुविषयकम् उत विशेषाकारावच्छेदेन । आद्ये विशेषाकाराविषयकज्ञानोत्पत्त्यापि इच्छाया विषयसि या शान्तिप्रसंगः । यथा द्रव्यमहं जानीयामितीच्छायां घटादिविषयकज्ञानोत्पत्यापि तत्पूर्तिः ; न तु नियमेन पटविषयकज्ञानेनैव सातथेति । तथाच विशेषतः शास्त्रार्थनिर्णय न कर्तव्यः स्यात् । अन्त्ये तु प्रागेव विशेषाकारस्य गृहीतत्वात् जिज्ञासैव नोदेतीति दोषोऽस्त्येव । एवमेकैकत्र बहूनां विशेषाणां सद्भावात् सामान्यजिज्ञासायां यत्किञ्चिदेकविशेषकथन संभवात् तत्तद्विशेषकथन नियामको जिज्ञासाविशेषोऽपि न दर्शितो भवेत् । अत एवमत्र निर्वाह्यम् । यद्यपि शास्त्रार्थो न विशेषाकारेण ज्ञातः, तथापि ज्ञातसामान्याकारातिरिक्तशः शास्त्रार्थे समस्तीति ज्ञातएवञ्च शास्त्रार्थंशस्य ज्ञातातिरिक्तत्वेन रूपेणेदानीं ज्ञातत्वेऽपि तादृशातिरिक्तत्वाद्यनवगाहनेन स्वरूपतस्तद्विषयकं ज्ञानमिदानीं नास्ति । अतो योऽद्य गृहीतोऽतिरिक्तत्वादिः, तदनवच्छिन्नातिरिक्तांशावच्छिन्नशास्त्रार्थविषयकज्ञानं जायतामितीच्छाकारः । अस्याश्च स्वरूपतस्तदंशमाहिज्ञानमन्तरा न शान्तिः । सुगममिदं पक्षतागादाधर्यादिगतिपरिशीलने । तथाच जिज्ञासास्थल एवं निर्वाहात् न तद्दृष्टान्तेन भावरूपाज्ञानेऽपेक्षित साधनसंभवः । प्रत्युत तद्वदेवात्रापि ज्ञानाभावग्रहणेऽपि निर्वाहसंभवात् भावरूपमज्ञानमप्रामाणिक मित्येव सिद्धयति मेव । भावरूपाज्ञानभावसाधनम् ८१३ तथाहि शास्त्रार्थाज्ञानं नाम उक्तसामान्याकारातिरिक्तत्वाद्यनवच्छिन्नतदंशावच्छिन्नशास्त्रार्थविषयकज्ञानाभावः ; ततश्च सामान्यतः शास्त्रार्थ जानामि ; सामान्याकारातिरिक्तांशवत्त्वेनापि जानामि ; परंतु सोशः सामान्याकारातिरिक्तत्वादिनैव भासते i न तु दनवच्छिन्नतदतिरिक्तांशविषयिणी व्यावृत्तपतीति स्तीति सर्वेषामनुभवः । अत्र च ज्ञानाभावप्रति+ योगितावच्छेदकम् उक्तातिरिक्तत्वादिधर्मानवच्छिन्न तदंशनिष्ठावच्छेदकताकवस्तुविषयतानिरूप कज्ञानत्वम् । स चाभावाधिकरणवृत्त्यवृत्तिधर्म एव । इदानीं विद्यमानं हि ज्ञानमतिरिक्तत्व । दिधर्मपुरस्कारेण तदंशविषयकमेव । अतो ज्ञानाभावः सर्वसम्मत उपपादितो भवति । प्रतियोगिज्ञानश्च घटते । जिज्ञासा सम्भवश्च समीच्यैव गत्या सम्पादितो भवति । यदि च विशेषाज्ञाने भासमाने सामान्याकारावच्छेदेन वस्तु विशेषणम्, तर्हि सामान्याकारः ज्ञानेनापि तन्निवृत्तिप्रसंगः । कथञ्च ज्ञानादौ अभासमानो विषयनिष्ठधर्मोः विषयतावच्छेदको भवितुमर्हति । तस्मादतिरिक्ताज्ञानकल्पने तस्य विशेषविषयकत्वे सामान्यविषयकत्वे चानुपपत्तेर्जागरूकत्वात् ज्ञानाभावरूप क्लृप्ताज्ञानग्रहणेनैव व्यवहारस्य निर्वाह्यत्वादुचितत्वाच्च ज्ञानाभावस्याज्ञानत्वेऽनुपपत्तिवर्णनं तदर्थं भावरूपत्वकल्पनं तत्र अहं न जानामीति प्रत्यक्षप्रमाणप्रदर्शनञ्चानुपपन्नमिति सिद्धम् । कथं तर्हि घटमहं न जानामीत्यस्य निर्वाहः, निषेधार्थमेव घटज्ञानस्यापेक्षितत्वात् तत्सत्त्वे तदभावासम्भवादिति चेन्न –जानामीत्यनेन प्रत्यक्षादिज्ञानविशेषबिवक्षणे स्मरणरूपप्रतियोगिज्ञानस्य सत्त्वेऽपि प्रत्यक्षाद्यभावस्य सुवचत्वात् । यदा तु जानामीति ज्ञानसामान्यमेव विवक्षितम्, तदा येन रूपेण घटो ज्ञातः, तदन्यरूपेण तज्ज्ञानाभाव एवात्र विवक्षितः । भवति चानेकांशविशिष्टघटादौ कतिपयांशग्रहणेप्यन्यांशाग्रहणम् । निर्विशेषब्रह्मवादे तु ब्रह्मणि स्वयंप्रकाशेअप्रकाशमानांशाभावात् ब्रह्म न जानामीति दुर्वचमेवेत्यलम् । ८१४ परमार्थ भूषणे एतेन अनुमानादिना भावरूपाज्ञानसिद्धिरपि निरस्ता भवति ; प्रत्यक्षणाभावरूपत्वस्य सिद्धतया हेतोर्बाधितत्वात् । एतेन प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यखदेशगतवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वादित्यनुमानेऽज्ञानसाधने तात्पर्यमस्वीकृत्य साक्षिसिद्धस्याज्ञानस्य भावरूपत्वानुमाने तात्पर्यमिति वर्णयतोऽद्वैत सिद्धिग्रन्थस्य तदनुयाविसमा लोचनादिग्रन्थानाच्च निरासो भाव्यः । साक्ष्यधीनभानस्य अहं न जानामीत्यांकारकतया तस्य चाभावविषयकत्वेन तत्र भावरूपत्वविधानायोगात् । प्रत्यक्षस्य नञादिघटितशब्दरूपप्रमाणस्य चैवमभावविषयकत्व एव स्वारस्ये सति अभाववेनैवाज्ञानं ज्ञातमिति कथं तत्र भावरूपत्वसाधनसम्भवः अतोऽ पूर्वमेव भावरूपाज्ञानमनेनानुमानेन साध्यत इति स्वीकर्तव्यम् । तथाचाप्रकाशितार्थप्रकाशकत्वस्य प्रकृताज्ञानानुमानेऽपि सत्त्वात् तत्रानुमानविषयाज्ञानावार कांज्ञानान्तरस्वीकारे प्रथमाज्ञानस्याकिञ्चित्करत्वम्, स्वयमेवाssच्छादितत्वात् । उपर्युपर्यज्ञानधाराङ्गीकारात् सर्वस्याज्ञानस्यावृततया न जानामीतिप्रतीत्यनुपपत्तिश्च । अम्वीकारे चानैकान्त्यम् । साक्षिभास्यत्वञ्चाज्ञानस्य किं ज्ञानाभावत्वेन रूपेण उत रूपान्तरेण । आद्ये तद्विरोधात् भावरूपत्वसाधनम सम्भवि । अन्त्ये न जानामीति तदभिलापायोगः । प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणविशिष्टवस्तुपूर्वकमित्यनुमा अप्रकाशितार्थप्रकाशिका न वा । यद्यप्रकाशितार्थप्रकाशिका स्यात्, अज्ञानमज्ञानावृतं स्यादित्यनवस्थादिदोषः । न चेत्, प्रथमाज्ञानं न सिद्धयेत् । यदि चेयमनुमा स्वविषयावरणाज्ञानाभावेऽप्यप्रकाशितार्थप्रकाशिका भवेत्, ब्रह्मज्ञानादिरूपप्रमान्तरमपि तथैव भवेत् । ’ अप्रकाशितार्थप्रकाशकप्रमा सामान्य विषयावरणाज्ञानपूर्वकम्’, ‘अज्ञानसाधक ज्ञानमप्रकाशितार्थप्रकाशकम्, प्रमा च, विषयावरणाज्ञानपूर्वकं न भवति’ इति मिथो विरोधादपि विरुद्धता । ईदृशोऽपि विरोधः, साध्याभावसाधकत्ववत् हेतोर्विरुद्धतापादक इति व्यक्तं प्राचीनग्रत्थे न्यायभाष्यादौ । अन्यश्च विरोधः अज्ञानं साक्षिभास्यमित्युक्तवा भोवरूपसाधनम् ८.१५ तस्याज्ञानस्यानुमानैकसाध्यत्वाङ्गीकारात् । न हि साक्षिभास्ये सुखे विवादोऽ नुमानापेक्षा वाऽस्ति । किञ्चाभावस्य षष्ठप्रमाणगोचरतायाः अद्वैतिसम्मतत्वात् न साक्षिभास्वत्वम् । तथाचाज्ञानस्य साक्षिभास्यत्वनिश्चये अस्यानुमानस्य भावरूपत्वंमात्रसाध्यकत्वनिश्वयः, अनुमानस्य तन्मात्रसाधकत्वनिश्चये सत्येव हेतोरज्ञानांशासाधकत्वेन निर्दुष्टत्वनिश्चयात् भावरूपत्वसिद्धया साक्षिमास्यत्वनिश्वय इति परस्पराश्रयः । अन्यथाऽनुपलब्धि गम्यत्वेऽभावत्वस्य सिद्धतया भावरूपत्वसाघनायोगश्च । अथ ज्ञानाभावोऽपि साक्षिभास्य इति चेत् तर्हि प्रतियोगिज्ञानस्यावश्यकतया तदभावात् ज्ञानाभावभानासम्भवः । अत एव न केनापि प्रमाणेन ज्ञानाभावस्य वर्तमानस्य ग्रहणं स्यात् । अंतः प्रत्यक्षसिद्धस्य ज्ञानाभावस्य प्रत्यक्षर्विषयत्वोपपत्तिकल्पनस्यावश्यकतया च व्यर्थमेव माक्पाज्ञानकल्पनम् । अपिच वादिपर्तिवादिनोरुभयोरपि यत् प्रमाणम् तेन वस्तुसिद्धिर्वक्तव्या । साक्षिचैतन्यश्च परैर्न स्वीकृतमिति कुतस्तत्सिद्धत्वमज्ञानस्य सुवचम् । यत् पुनरात्मतत्व स्वयम्प्रकाश सर्वसम्मतम्, न नत् स्वरूपातिरिक्तमज्ञान प्रकाशयितुं प्रभवति । तैस्तद्रसंमतेः । अतः प्रमाणप्रदर्शनमन्तरेण, केवलम् अहं न जानामीति प्रतीतिरेवाज्ञानसिद्ध शरणीकरणीया । सा च सर्वसम्मतं ज्ञानाभावमतिलङ्घय नान्यद् गोचरयितुमर्हतीति वादान्तरेऽपि व्युत्पादितम् इहापीति न तस्याभावस्य भागत्वमिदमनुमान साध्येत । अपिच सिद्धत्वेऽज्ञानस्य तत्पक्षीकारेण भावत्वमात्र साधनसंभवे प्रमाणज्ञानं खविषयावरणेत्येवं प्रयासबहुलः कोऽयं वक्रः पन्थाः । अस्मिश्चानुमाने जडविषयकज्ञानमात्रेणानैकान्त्यमपि, जडस्याप्रसक्तप्रकाशतया परेस्वावरणानंभ्युपगमादिति भावप्रकाशिकादर्शितं दूषणं दुरुद्धरम् । तथाच तस्य. पक्षीकारे बाधः । अपक्षत्वे च जडप्रकाशस्य ततः प्रागजातत्त्वेनाप्रकाशितार्थ ८१६

प्रकाशकत्वरूप हेतुसत्त्वाद् व्यभिचारः । यत् समालोचनवचनम् अद्वै तिभिर्ब्रह्माविषयकस्य केवलजडज्ञानस्यानङ्गीकारात् न दोष इत्यादि, तत् सर्वं भावप्रकाशिकानामेवोद्भाव्य निरस्तांशद्भिरणम् । घटादिज्ञानस्य ब्रह्मविषयकत्वे तत् एव मोक्षः स्यात् । ‘न चक्षुषा गृह्यत’ इति श्रुतिविरोधश्च । अखण्डात्मना ब्रह्मज्ञानाभावान्न दोष इति तु ब्रह्मातिरिक्तस्याखण्डांशस्य दुर्वचतायाः प्रागेव प्रपञ्चितत्वात् परिहृतम् । अपिच घटज्ञाने ब्रह्मणोऽपि विषयत्वे कथमनेकान्नत्यपरिहारः । घटावच्छिन्न चैतन्यावार कमज्ञानं घटावच्छिन्न चैतन्यविषयकज्ञानानिवर्तत इति हि वक्तव्यम् । तदज्ञानं किं घटविषयकम् उत घटावच्छिन्नचैतन्यतिषयकम् आहो चैतन्यमात्रविषयकम् । नाद्यः, जडविषयक ज्ञानान भ्युपगमात् । न द्वितीय, घटस्य घटावच्छिन्नत्वस्य च जडतया तद्विषये अज्ञानस्यासंमतेः । अतः परिशेषात् चैतन्यविषयमेव तत् । तथाच तस्य घटावच्छिन्नचैतन्यविषयकज्ञानेन निवृत्तौ मुक्तिप्रसंगः, अनिवृत्तौ चानैकान्त्यमिति । किञ्च घटावच्छिन्न चैतन्यविषयकत्वं ज्ञानस्य व्यर्थम् । घटोऽस्ति भातीत्येवं सत्तामामादिरूपस्य ब्रह्मणः स्वयम्प्रकाशत्वादेव व्यवहारसंभवात् वृत्तिज्ञानस्य घटमात्र विषयकत्वस्यैव पर्याप्तत्वात् । एवञ्च वृत्तेर्घटैकविषयकत्वात् अज्ञानस्य च ब्रह्मविषयकत्वात् न वृत्तिज्ञानस्य तनिव कित्वसंभवः । अतः प्रमाणज्ञानमिति प्रपञ्चज्ञानपक्षीकारप्रसक्तिरेव न भवति । ननु प्रमाणज्ञानपदेन ब्रह्मसाक्षात्काररूपवृत्तिमात्र पक्षीक्रियते । अप्रकाशितार्थप्रकाशकत्वञ्च अप्रका शितपरमार्थवस्तुप्रकाशकत्वं हेतुः । अतो न व्यभिचार इति चेत् — उच्यतेब्रह्मसाक्षात्कारे ब्रह्मश्रवणमननाधिकविषयकत्वाभावात् अप्रकाशितप्रकाशकत्वस्य हेतोरसिद्धिः । परमार्थवस्तुनः स्वेन सर्वदा प्रकाशितत्वादप्रकाशितत्वासिद्धिः । अप्रकाशितपदवैयर्थ्यश्च । प्रदीपप्रकाशादेरपरमार्थघटादिमात्रप्रकाशकत्वात् साधनवैकलाख । ब्रह्मसाक्षात्कारः स्वनिवर्त्यवस्त्वनाच्छादितविषयकः वृत्तिज्ञानत्वात् घटादिज्ञानवदित्येवं सत्प्रतिपक्षश्चेत्यादिकमूहनीयम् । एवमप्रकाशितार्थप्रकाशकत्वादित्यस्य स्वविषयावरणनिरसनपूर्वक प्रकाशोपयोगि भावरूपाज्ञान-भङ्ग प्रसाधनम् ८१७ त्वादिति समालोचनकृतः परिष्कारोऽपि साध्याविशिष्टत्वान्निरसनीयः । अस्मिन् भावरूपाज्ञानानुमाने साध्यघटक दल कृत्यप्रदर्शनविषये अद्वैतिभिर्वृथैव परिभ्रम्यते । शतदूषण्यां तु हितैषितया, “स्वप्रागभावस्वोत्पादकादृष्ट-स्वोत्पत्तिप्रतिबन्धका दृष्ट-स्ववेद्यगत वित्त्यभिव्यक्तिप्रागभावाः साध्यविशेषणैर्न्यवच्छेद्याः " इति सरसं व्युत्पादितम् । एवं निष्कृष्य तत्खण्डनमपि व्यधायि । एतदनुमानविषये श्रीभाष्यदर्शितान् प्रतितर्कान् समालोचयता यल्लिखितम्, तदप्यत्र चिन्त्यते–विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम् अज्ञानत्वात् शुक्तिकाद्यज्ञानवदित्यत्र पल्लवाज्ञानत्वमुपाधिरित्याह । न चैतत् युक्तम् ; पल्लवाज्ञानं हि शुक्तिकाद्यज्ञानमेव । तथाच प्रकृताज्ञाने पक्षे यत् दृष्टान्तीकृतम्, तत्र दृष्टान्ततावच्छेदकमेवोपाधित्वेन वर्ण्यते । अतः पक्षेतरत्ववत् अप्रयोजकमेतत् । न हि प्रकृतसाध्यस्योपाधेश्च व्याप्यव्यापकभावे प्रमाणमस्ति । अनुकूलतर्काभावे व्याप्यव्यापकभावासिद्धावुपाधित्वायोगात् । एवं हि सति प्रपञ्चो ज्ञाननिवर्त्यः मिथ्यात्वात् शुक्तिरूप्यवदित्यत्र प्रातिभासिकत्वमुपाधिः स्यात् । एवं प्रकृताज्ञानं न ज्ञानमात्रत्रह्मावरणमज्ञानत्वात् शुक्तिकाद्यज्ञानवत् ; विषयावरणं हि तत्’ इत्यत्र ’ शुक्तिकाद्यवच्छिन्न चैतन्यावारकत्वात् शुक्तिकादिविषयावारकत्वानङ्गीकारादित्याह । अत्रोच्यते–विषयावारकत्वाभावे शुक्तिकाद्यज्ञानमेव न सेत्स्यति ; इदं रजतमिति भ्रमे शुक्तिधर्मिणोऽपि भानात् शुक्त्यवच्छिन्नचैतन्यमावृतमिति न वक्तुं शक्यते । यत्तु शुक्तिनिष्ठं शुक्तित्वम् तन्न वैद्यते । तत्र शुक्तित्वस्य शुक्तिधर्मतया शुक्तयवच्छिन्नचैतन्यातिरिक्तं शुक्तित्वावच्छिन्न चैतन्यं नास्ति ; धर्म्यवच्छिन्न चैतन्यातिरिक्तधर्मावच्छिन्नचैतन्याभावस्य परिभाषायामेवोक्तेः । तथाच शुक्तित्वविशिष्टशुक्तिचैतन्यरूपपदार्थघटकशुक्तित्वमात्रस्याविदितत्वात् तावन्मात्रावारकत्वमेवाज्ञानस्येति कथं तस्य विषयावारकत्वाभावः । यदि च तस्य जडत्वात् सामग्रयभावादेवाप्रकाशः, न तु अज्ञानावृतत्वादित्युच्यते, तर्हि शुक्तयज्ञान 103 ८१८

मेव न सिद्धयेदिति । किञ्च तदज्ञानं किं शुद्धचैतन्यावारकम् उत शुक्तयवच्छिन्नावारकम् । नाद्यः तस्य शुक्तिज्ञानेन निवृत्त्ययोगात् । अन्त्ये तु प्रकृतानुमाने प्रकृताज्ञानं शुद्धचैतन्यावारकत्वाभाववत् अज्ञानत्वादिति विवक्षिते शुतयज्ञानस्य न दृष्टान्तत्वासंभवः । अथ प्रकृताज्ञानं न ज्ञाननिवत्यै ज्ञानविषयानावरणत्वात् व्यतिरेकेण शुक्तयज्ञानवदित्यत्र यत् दूषणम् –शुक्त्तयज्ञानेऽपि हेतु सद्भावात् व्यभिचारः । एवं ज्ञानपदेन चैतन्यग्रहणे सिद्धसाधनम् । वृत्तिग्रहणे ब्रह्मणो वृत्तिविषयतया अज्ञानस्य तदावरणत्वेनानावरणत्वरूपहेत्व सिद्धिरिति तत्र शुतज्ञाने विषयावारकत्वस्य प्रागुपपादितत्वात् न प्रथमदोषः । साध्ये ज्ञानपदं वृत्तिपरम्; हेतौ चैतन्यपरम् । तथाच प्रकृताज्ञानं न वृतिनिवत्यै चैतन्यविपयानावरणत्वादित्युक्तौ नोतरदोषद्वयमपि । न च वृत्तिनिवर्त्यशुक्तिरूप्याद चैतन्यविषयावरणत्वाभावात् व्याप्ति-भङ्ग इति मन्तव्यम् –वृत्तिनिवर्त्याज्ञानभिन्नत्वस्य साध्यत्वात् । वृत्तिनिवर्त्याज्ञानत्वरूपस्य साध्याभावस्य शुक्तिरूप्यादावभावात् । तदिदम्, ‘ज्ञान निवर्त्यमज्ञानम्” इति भाष्येण दर्शितम् । यत्त्वत्रानुमाने प्रज्ञानं ज्ञाननिवत्यै ज्ञानविषयावरणत्वात् शुत्यज्ञानवदिति सलपिनम्त् स्वयं शुतज्ञाने विषयावरणत्वास्त्रीकारात् दृष्टान्ते साधनवैकल्यादयुक्तम् । किञ्च किमिदं ज्ञानविषयावरणत्वम् ? न तावत् चैतन्यविषयावरणत्वम्; ब्रह्मणि चैतन्यविषयत्वस्यापि दुर्वचत्वात् । प्रपञ्च तद्रमनिवर्तकत्वेन समता हि वृत्तिर्ब्रह्मयाथात्म्यविषयिणीति स्वीकर्तव्यम् । ब्रह्मस्वरूपयाथात्म्यञ्च सजातीयविजातीय स्वतज्ञविशेष राहित्यम् । एवं निर्विशेष स्वरूपं वृत्त्या स्वविषयत्वेन कथं गृह्येत । सर्वस्या अपि हि वृत्तेवृत्त्युत्पत्तिकाल एव साक्षिमास्यत्वात् इयमपि ब्रह्मसाक्षात्कारात्मिका वृत्तिः साक्षिभास्यैव वाच्या । न हि निर्विशेषं ब्रह्म वृत्तिविषयत्वरूपविशेषविशिष्टमिति साक्षी भासयेत् । न च सावधानश्रवणमनननिध्याननिष्पाद्या वृत्तिरभासमानैव भवतीति सुवचम् । बुभुत्सापूर्वमुत्पादितानां ज्ञानानां गृह्यमाणत्वस्यानुभविक । भावरूपाज्ञान-भङ्ग प्रसाधनम् ८१९ त्वात् । तथाच साक्षिभास्यत्वासमतौ सा वृत्तिरेवाप्रामाणिकीति कथं ब्रह्मणो वृत्तिविषयत्वमिति । एवं ब्रह्माज्ञानस्य ब्रह्मावरणत्वमपि न भवतिः अप्रकाशितं 1 ; ह्यावृंत भवति ; न तु स्वप्रकाशमपि । अतो हेत्वसिद्धिः । एवं वृत्तिविषयघटाद्यावरणत्वमन्धकारेऽस्ति ; तस्य वृतिनिवर्त्यत्वं नास्तीति व्यभिचारश्च । अपिच वृत्तेर्वृत्त्यवच्छिन्नचैतन्यस्य चोभयोः सविषयकत्वे प्रमाणाभावात् वृत्त्यवच्छिन्नचैतन्यविषयत्वातिरिक्तवृत्तिविषयत्वायोगस्य प्रागेवोक्तत्वात् ब्रह्मणि चैतन्याविषये ज्ञानविषयावरणत्वहेतुरज्ञाने सुतरामसिद्ध इति न तस्य प्रतिपक्षहेतुस्वमिति । एवं ब्रह्म नाज्ञानास्पदं ज्ञातृत्वविरहादित्यत्राप्रयोजकशङ्काऽपि न युक्ता । यदि ज्ञानाश्रयी ज्ञानहीनः स्यात् अनिवृत्ताज्ञानः स्यात् ज्ञाना. ज्ञानयोः सामानाधिकरण्येनैव नित्यनिवर्तकभावात् । अन्यथा डित्थाज्ञानं डपित्थज्ञानेन निवर्तेत । अतो ब्रह्मणि ज्ञानस्य साक्षादनङ्गीकारे अज्ञानमपि साक्षान्नानीका मिति । एवमंत्र, ’ अज्ञानास्पदत्वाभावो घटादीनामज्ञानप्रयुक्तत्वनिबन्धन इति न घटादिवत् ब्रह्मणोऽज्ञानाश्रयत्वानापतिः ’ इति कथितमप्यसाधु ; तथा हि सति अज्ञानप्रयुक्तत्वमुपाधिरित्युक्तं भवति । अज्ञानानास्पदत्वस्याज्ञानेऽपि वर्तमानत्वादिदमयुक्तम् । एवमुक्तविधयाऽप्रयोजकशङ्कावारणात् स्वाभाविक / सिद्ध सोपाधिकत्वकल्पनस्य न प्रसक्तिरपि । एवं ब्रह्म नाज्ञानावृतं ज्ञानाविषयत्वादित्यत्र हेतुश्चैतन्याविषयत्वरूपः । तत्र च नाप्रयोजकशङ्का । चैतन्याविषयस्याप्यज्ञानावृतत्वे तन्निवृत्त्ययोगात् । न च वृत्त्या तन्निवृत्तिः । वृत्तेर्जडतया निवर्तकत्वायोगात् । तथाच चैतन्याविषयस्याज्ञाननिवर्त एवं स्वयं चैतन्यरूपत्वादेव वाच्यम् । तदा च तत्राज्ञानावरणप्रसक्तिरेव न भवति । अत्र चानुमाने यत्त्रयत्राज्ञानावृतत्वं शुतयादौ, तत्रतत्र शुक्तिरियमित्येवं वृत्त्यवच्छिन्नचैतन्यविषयत्वमिति व्यतिरेकव्याप्तिर्बोध्याः । न च शुक्तयवच्छिन्न चैतन्यस्यैवाज्ञानावृतत्वात् तत्र चैतन्यविषयत्वाभावात् व्यतिरेक-भङ्ग इति वाच्यम् -शुक्तित्वांश एवाज्ञानावृतत्वमित्यस्य प्रागेवोपपादि-८२०

तत्वात् । एवं वृत्तेः खरूपतोऽज्ञाननिवर्तकत्वाभावात् वृत्त्यवच्छिन्न चैतन्यनिवर्त्यत्वमेव स्वीकार्यमिति तस्य ब्रह्मण्यस्वीकारे वृत्त्यवच्छिन्नचैतन्यरूपज्ञाननिवर्त्यज्ञानकत्वं तस्य दुर्वचमित्यपि न ब्रह्मण्यज्ञानसाधनसंभवः । तथाच भाष्यदर्शिताः प्रतिप्रयोगाः सुस्थाः । शतभूषण्यामत्र वादे अज्ञानस्यानिर्वचनीयत्वे भावरूपत्वे च ब्रह्मसिद्धीष्टसिद्धिवाक्यान्यनुद्य स्वयं चर्वितचर्वणस्यैव विधानेन पदेपदे, न जानामि, नाहं जानामीति पाठेनैव विस्तरः कृत इति नाधिकं प्रतिवक्तव्यमस्तीति संग्रहः क्रियते । अनिर्वचनीयत्वशोधनस्य नायमवसरः । इष्टसिद्धौ अज्ञानं न ज्ञानाभाव इत्यत्र यत् कारणमुक्तम् -अहं न जानामीति प्रतीतो न ज्ञानाभावः अभावग्राहकप्रमाणाग्राह्यत्वात् । तद्धि प्रमाणं तार्किकमते प्रत्यक्षम्, तान्त्रिकमतेऽनुपलब्धिः । तत्र प्रत्यक्षविषयविशेषणस्यैव प्रत्यक्षग्राह्यत्वात् आत्मनश्चाप्रत्यक्षत्वात् तद्विशेषणमज्ञानं न प्रत्यक्षवेद्यम् । अज्ञानस्यापरोक्षत्वानुभवाच्चानुपलब्धिगम्यता न भवति । आत्मनोऽप्रमेयत्वाच । अतः साक्षिभास्यमतिरिक्तमिति तन्न ; अनुपलब्धिगम्यत्ववादिभिः भूतलं घटाभाववदिति ज्ञानस्येव अहं न जानामीतिज्ञानस्यापि अहमंशस्य प्रत्यक्षतयोपपादनसंभवात् । अन्यथा घटाभावादावप्यपरोक्षत्वानुभवस्य तुल्यत्वात् । तार्किकमते आत्मतत्समवेत गुणतदभावादीनां मानसप्रत्यक्षवेद्यत्वस्येष्टत्वाच्च । द्वादशविधप्रमेये हि प्रथमप्रमेयमात्मैव गौकस्य । अतोऽप्रमेयत्वमसिद्धम् । क्वचिदप्रमेयत्वव्यवहारस्तु अपरिच्छिन्नत्वार्थको वा बाह्यप्रत्यक्षादिप्रमाविशेषाविषयत्वपरो वा । यद्येवमहं न जानामीत्यस्य ज्ञानाभावातिरिक्तमज्ञानमन्तरेणानिर्वाहः, अहं नेच्छामि, न करोमि, न द्वेष्मि, न दुःख्यामीत्यादावपि इष्टसिद्धयुक्तप्रकृतानुपपत्तितौल्याद् भावरूपमनिच्छादिकमप्येष्टव्यं स्यात् । एवञ्च सर्वत्राभावत्वेन रूपेण तद्भानानुभव-भङ्गश्च । तस्मात् यथायथं ज्ञानध्वंसो वा प्रागभावो वा विशेषतः सामान्यतो वा न जानामीत्यत्र विषयः । न च तमोऽपि तेजोभावादतिरिक्तं तार्किकाणाम् । अनुभवानुसारेण तमसो भावरूपाज्ञान-भङ्गप्रसधानम् ८२१ द्रव्यत्वे स्वीकृतेऽपि अज्ञानस्यापिविनापि कारणं ज्ञानाभावातिरिक्तत्वं स्वीकर्तव्यमिति कथमिति । ‘अभावरूपत्वे आवरणविक्षेपशक्तिमत्त्वं कथमिति चेत्-आवश्यकश्चेत् — अस्तु किञ्चित् तादृशं वस्तु; अहं न जानामीत्यत्र तदेव विषय इत्यत्र किं प्रमाणम् । यत्तु अभावप्रत्यक्षे प्रतियोगिप्रत्यक्षस्य कारणत्वात् ज्ञानप्रत्यक्षे ज्ञानाभावप्रत्यक्षं न भवतीति तन्न -प्रतियोगिज्ञानस्य कारणत्वस्वीकारेऽपि प्रतियोगिप्रत्यक्षं कारणमित्यस्वीकारात् स्मरणादिरूपे प्रतियोगिज्ञाने सति प्रत्यक्षादिज्ञानाभावस्य सुग्रहत्वात् । ज्ञानाभावे वक्तव्यं सर्वं भावरूपाज्ञानेऽपि तुल्यमिति, कथं निर्वाह इति च परिमलखण्डनेन प्रागेवात्र वादे व्युदपादि । " यत्तु — अज्ञानं करूपं न भवितुमर्हतीतिनैतच्छासनम् । न ज्ञानमज्ञानं ज्ञानातिरिक्तमित्यर्थे साति अब्राह्मणपदवत् विवक्षित विशेषग्रहणसंभवात् । एतेन, न वा कर्मणोऽविद्यात्वम् " इत्य् अपि निरस्तम् । अस्ति च प्रयोगः -“ विद्याञ्चाविद्याश्च यस्तद्वेदोभयं सह " इति । शाङ्करोपनिषद्भाष्ये चाविद्यापदं कर्मार्थकं व्याख्यातम् । आह च पराशरः त मृत्युम विद्यया’ इति अविद्यापदं सत्कर्मपरम् । संज्ञाऽन्या तृतीया शक्तिरिष्यते " इति । "” यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा " विस्पष्टञ्चाह –" अविद्या कर्म कर्मण आवारकत्वञ्चाह इति । " "

पराभिध्यानात्तु तिरोहितम् " इति बादरायणोऽपि भगवत्सङ्कल्पस्य तिरोधायकत्वमाह । भगवत्सङ्कल्प एव च पुण्यपापरूपं कर्म, न त्वपूर्वमदृष्टं वा किञ्चिदिति सर्व-वेदान्तिस्थापनीयमेव श्रीभाष्ये कण्ठोक्तम् । अत एव, वस्तुतस्तु कर्मरूपमज्ञानं पुण्यापुण्यापरपर्यायं परमापूर्वमदृष्टतया प्रसिद्धम् " इत्युक्तमप्युपेक्ष्यम् ; अस्या वेदान्तिमीमांसकमतत्वात् । फलाधिकरणविरोधाच्च । केचिददृष्टमान्तरालिकम्, अन्ततो देवताप्रीतिश्च विवक्षन्ति । तदपि न तत्त्वपरिशीलि परिगृहीतमित्यन्यदेतत् । तस्मादविद्यापदमिवाज्ञानपदमपि सत्यविवक्षायां कर्मबोधकं भवितुमर्हत्येव । अहं न जानामीत्यत्र तु न कर्मों ૮૧૨ च्यते, किं तु ज्ञानाभाव एव ।

अज्ञानस्य भावरूपस्य वृत्त्यवच्छिन्नचैतन्यमेव विरोधि, न वृत्तिमात्रम्, न वा चैतन्यमात्रम्’ इति, ‘अज्ञानमिति नव्या ज्ञानमात्रप्रयोग उपचारात्’ इति च न ज्ञानपदस्य वृत्त्यवच्छिन्नां चैतन्य एव मुख्यप्रयोगस्य वेदा उपरिभाषोक्तत्वात् औपचारिकत्वाभावात् । न च स्वरूप चैतन्य एव ज्ञानपदं मुख्यम्, परिभाषा तु वृत्तिमात्रे ज्ञानपदमुख्यत्ववारणायेति वाच्यम् ज्ञाधातुनिप्पन्नस्य ज्ञानपदस्य कर्मकर्तृसाकांक्षस्य स्वरूपचैतन्ये मुख्यत्वायोगात् । भवन्मते अखण्डाकारवृत्तिबाध्यत्वस्यैवाज्ञाने इष्टतया अज्ञानमित्यत्र ज्ञानपदस्य वृत्तिपरत्वसंभवाच्च । खप्रकाशस्य नाज्ञानविरोधित्वमिन सम्यक् । तथा सति, अहमस्मि न वा, नाहमस्मि, अहमेको न वेत्यादिसंशयविपर्यययोरप्यापत्त्या आत्मनः स्वयम्प्रकाशत्वस्यैवासिद्धिप्रसंगात् । स्वरूपप्रकाशस्य निवर्तकत्वे शुक्तित्वाज्ञानस्यापि ततो निवृत्त्या भ्रमकथैव न स्यादिति चासङ्गतम् । न हि शुक्तित्वं स्वप्रकाशम् । शुत्त्यवच्छिन्नत्वाभिमतचैतन्यस्वरूपस्य स्वयम्प्रकाशत्वे शुक्तित्वाज्ञाननिवृत्तिः कुतः । यदि शुत्त्यवच्छिन्नचतन्यातिरिक्तस्य शुक्तित्वावच्छिन्नचैतन्यस्याभावात् शुक्तिवृत्तौ जातायां शुक्तित्वविषयकवृत्त्यभावे च प्रमाणाभावात् शुक्तिरूपधर्मज्ञाने सति शुक्तित्वाज्ञानं दुर्वचमित्याशयः, तर्हि स परिभाषाकृतं प्रत्याविष्क्रियताम् ; किं नस्तेन । स्वप्रकाशदशायां वस्तुनो न वैशद्यम्, वृत्त्या तु वैशद्यमिति च न सम्यक् । स्वप्रकाशस्य ह्यपरोक्षतुल्यत्वं सर्वेष्टम् ; “अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेः” इति च सूत्रभाष्यम् । न चापरोक्षम्य तस्य परोक्षरूपवृत्त्या वैशद्यं भवितुमर्हति । अपरोक्षवृत्त्यैव वैशद्यमिति चेत् तर्हि श्रवणमननादिकं खप्रकाशे ब्रह्मणि नापेक्ष्यम् – सर्वैरुपदेशादिनिरपेक्षमपरोक्षवृत्तये प्रयत्नः कर्तुं युक्तः स्वप्रकाशत्वात् । स्वयम्प्रकाशेऽप्यात्मनि जगद्वैलक्षण्यं किमप्यस्तीति श्रुत्वा तदापरोक्ष्याय प्रवर्तत इति चेत् — तद् वैशद्यम तिरिक्तमित्युच्यताम् । अविद्यापदस्य कर्मार्थकतायाः शाङ्करभाष्य एव सिद्धत्वात् कर्मवत् ज्ञानप्रागभावस्याप्यद्वैतीष्टस्वात् अत एव खप्रागभावव्यतिरिक्तेति विशेषणस्यानुमाने साध्यको टौ निवेशात् भावरूपाज्ञान-भङ्ग प्रसाधनम् ८२३ न कर्मणोऽभावस्य वा अविद्यात्वमज्ञानत्वञ्चास्माभिः कल्ष्यते ; भवतामेव भावाज्ञानरूपधर्मिकल्पनाद् गौरवम् । मूलप्रकृतिरेव सर्वसंमता अज्ञानपदविवक्षितेति चेत्-अस्तु; अविद्यापदमपि तत्र प्रयुज्यतां श्वेताश्वतर इव; का हानिः । न जानामीति वाक्यं तु न मूलप्रकृतिवाचीति ध्येयम् । ईश्वरसंकल्पादिरूप कर्मणामनन्तत्वात् तादृशानन्तशक्तिकल्पनाद्वरं प्रकृतेरावारकत्वमिति च न सम्यक् । न हि कर्म वा तस्येश्वरसंकल्पत्वं वा आवारकत्वं वाऽस्माभिः कल्प्यम् । प्रमाणमनुसृत्य स्वीकारात् । केवल कृतेरावारकत्वे तु सर्वं जीवमेकरूपेणैव बध्नीयादिति वैषम्याभावप्रसङ्गः । अतः कर्मसापेक्षतयैव प्रकृतेरप्यावारकता । " कर्मानादित्वात् " इति सूत्रखण्डमपि स्मर्तव्यम् ।

यत पुनः, ‘अज्ञानमित्यस्य ज्ञानविरोधीति नार्थः किंतु ज्ञानसदृशमित्यर्थः । ज्ञानवत् अज्ञानस्यापि साक्षिभास्यत्वं सादृश्यम् । सुखादीनामपि तदस्तीति चेत्तेषामप्यज्ञानप्रयुक्तत्वादज्ञानतैवेति तन्न एवं तर्हि नञः सादृश्यमर्थः स्यात् । अत्राप्यर्थे धातुसमभिव्याहृतो नञ् अव्युत्पन्न एव । अतोऽहं न जानामीत्यस्य च अहं ज्ञानसदृशवानित्यर्थवर्णनं कार्यम् । सुखाद्यनुभवकालेऽप्येवं प्रतीतिः स्यात् । शुक्तिरूप्यस्य साक्षिभास्यत्वात् अहं शुक्तिरूप्यवानित्यर्थे अहं न जानामीति प्रयोगः स्यात् । जगति अज्ञानाप्रयुक्तं किमस्ति ? तस्मात् सर्वदा अहं न जानामीति तत्तद्विवक्षया व्यवहरेत् । विरोध्यर्थवच्च सदृशरूपार्थेऽपि ज्ञानसादृश्यप्रतियोगितया ज्ञानमानस्य तद्विषयमानस्य चावश्यकत्वमक्षत मिति विरोध्यर्थत्यागे को लाभोऽत्रभवतः । किञ्च ज्ञानपदं चैतन्यपरं वृत्तिपरं वा । नाद्यः, तस्य स्वयम्प्रकाशतया साक्षिभास्यत्वरूपसादृश्यायोगात् । प्रत्युत तद्वदज्ञानस्य स्वप्रकाशतैव तर्हि प्रसजेत् । सत्यत्वादिना सादृश्यशङ्काऽपि स्यात् । नान्त्यः, वृतितज्जनकान्तःकरणादिसर्वकारणस्य स्वकार्यैकदेशवृत्तिसादृश्यविवक्षया संपाद्यस्य कस्य चिदभावात् । जन्यत्वादिना सादृश्यभ्रमापादकत्वाच्च । सामान्यतो ज्ञानभेदस्य, विशेषविवक्षायाञ्च निवर्त्यनिवर्तकभावरूपविरोधस्यावश्यज्ञेयस्य त्यागेन सादृश्यग्रहणस्यानुचितत्वाच्च । ૨૪

उपादानतया सिद्धा प्रकृतिरेव लाघवादज्ञानमिति न्यायरत्नदीपा वल्युक्तमपि न ज्ञानाभावस्यापि स्वीकृतया लाघवानवकाशात् । प्रत्युताभावपरत्व एव न जानामीत्यत्र शब्दार्थव्युत्पत्त्यादेरन्यादृशस्या कल्पनाल्लाघवम् । ज्ञानाभावस्याग्राह्यत्वे चासिद्धिरेव स्यात् । न चेष्टापत्तिः । घटो न ज्ञानसामान्याभाववा नित्यप्यनुभवाच । जन्यज्ञानाभावो ध्वंसादिरनुभाव्य एवेति यदुच्यते, तत्रापि जन्यज्ञानस्य सविषयकस्य ज्ञानं जातश्चेत्, कथं तदभावज्ञानमिति शङ्का भवेदेव । परिहारश्च सर्वत्राविशिष्टः प्राग्दर्शित एव । किञ्च यद्यज्ञानं ज्ञानाभावातिरिक्तं मिथ्यावस्तुकारणं स्यात्, तस्य कार्यमिथ्यात्वज्ञानान्निवृत्तिरयुक्ता ; तद्वत्ताबुद्धौ तदभावादिज्ञानस्यैव बिरोधि त्वात् नेदंरजतमिति निश्चये रजतबुद्धिनिवृत्तिर्युज्यते । अज्ञानं भावरूपं ज्ञान निवर्त्यमिति तु न क्लृप्तम् । तदनिवृत्तौ च रजत निवृत्तिरपि न भविष्यति । तथा शुक्तयज्ञाननिवृत्तावपि पूर्व तत्कृतस्य रजतस्य कुतो निवृत्तिः । न हि पितृमारकः शरादिः पुत्रमपि मारयतीत्यस्ति । तर्हि पुना रजतबुद्धयापत्तिरिति चेत् — भवतु, यदि नेदंरजतमितिधीस्तद्बुद्धि प्रतिबन्धिका न भवेत् । एवंरीत्या अद्वितीयं ब्रह्मेति ज्ञानात् द्वितीयज्ञाननिवृत्तावपि भावरूपस्य ब्रह्माज्ञानस्य तत्कार्थस्य प्रपञ्चस्य च निवृत्तौ मानाभावो मन्तव्यः । सत्यपि प्रपञ्चे तज्ज्ञानं तु न भवति; पारमार्थिकतया प्रपञ्चो नास्तीति बाधज्ञानात् । अज्ञायमानस्य तस्य सद्भावः किमर्थमेषितव्य इति चेत् — निवृत्तिकारणकल्पनाभावरूपलाघवाय । तत्सद्भावस्य पुरुषार्थाप्रतिबन्धकत्वपरिशीलनेन च तन्नाशो न कल्पनीय इति । शेषं निवृत्त्यनुपपत्तिप्रसाधनेऽनुसंधेयम् । घटो नास्तीत्यत्र घटप्रागभावो न विषय इति च न; कपाले घटो नास्तीत्यत्र तद्विषयत्वस्य तार्किकेष्टत्वात् । अन्योन्याभावभिन्नानां यथायथं विषयत्वात् । अन्योन्याभावस्य नास्तीति प्रतीतिविषयत्वमुक्तं न न भवतीत्यभिलाप एव हि तदा स्वरसः । भू सत्तायामिति समानार्थकत्वावसायेपि प्रयोगस्वारस्यमनुभववेद्यम् । ‘ज्ञानं भविष्यतीत्येव प्रागभावग्रहणाकार ’ भावरूपाज्ञान-भङ्ग प्रसाधनम् ८१५ इत्यप्ययुक्तम् । तद्वत् न जानामीत्यस्यापीष्टत्वात् । तत्र वा कथं ज्ञानं प्रतियोगि । ज्ञानविषययोर्ज्ञाने एव प्रागभावस्य भविष्यतीत्यप्यभिलष्यतेति । उपक्रम इवाज्ञानस्यानिर्वचनीयत्वस्यानवसरे पुनः प्रस्तावश्च यः । अनित्यादौ नित्यादिबुद्धिरविद्येति पतञ्जलिसूत्रोक्तं स्वसम्मतब्रह्मावारकाज्ञानापेक्षया भिन्नत्वात् वृत्तिरूपत्वान्न प्रस्तोतव्यम् । मिथ्येति सूत्रे उक्तत्वात् प्रस्तुतमिति चेत् — तत् ज्ञानगतं मिथ्यात्वं नानिर्वचनीयत्वम् ; नु वा अनिर्वचनीयविषयकत्वम्ः किन्तु विशेष्यावृत्तिप्रकार विषयकत्वमिति न ततोऽज्ञानस्य वृत्तिव्यतिरिक्तस्यानिर्वचनीयत्वसिद्धिः । यथार्थ सर्वविज्ञानमिति वदन्त एवं अनात्मन्यात्मबुद्धिं यथार्थी न मन्यन्ते विशिष्टाद्वैतिन इत्युक्तमेव । सर्वत्राख्यातिवादिभिर्यादृशं यथार्थत्वं वण्यते तादृशस्य तस्य तंत्रानपायात् । शुक्तिरजतमरीचिकांम्भःप्रभृतिस्थलसम्मतं तु यथार्थत्वं विशिष्टज्ञाननिष्ठम् । अलमनवसरे तच्छोधनेन । सर्वथा शतदूषणी यथार्थी । ’ / स्वात्मनि भगवच्छरीरे आत्मत्वबुद्धिरध्यास इति शतदूषणयुक्तमित्यनुक्तोपालम्भः । सर्वज्ञानयाथार्थ्य वादिभिरपि भ्रान्त्यध्यासादिपदानामर्थ विशेषः प्रयोग न निषिद्धयत इति अध्यासशब्दमात्रेण ज्ञानयाथार्थ्य न त्यक्तं भवति । सदसद्विलक्षणत्वस्य बौद्धमता विशिष्टत्वेऽपि ज्ञानबाध्यत्वस्य मिथ्यात्वस्य चाद्वैतमते भावरूपाज्ञाने स्वीकारात् विशेषः’ इतिलेखनश्चासंगतम् । बौद्धमते ज्ञानबाध्यत्वस्यास्वीकाराभावात् । सदसद्विलक्षणत्वं मिथ्यात्वमिति भवद्भिरुपवर्ण्यते । एवं स्थिते अत्र तयोर्भेदः प्रदश्यते । एवं ज्ञानबांध्यत्वस्यापीति च विचित्रम् । अज्ञानं भावरूपत्वादिभवदभिमतसर्वा रविशिष्टतया साक्षिवेद्यमिति च परमोऽपलापः । एवं विलिख्य, " साक्षिसिद्धस्याज्ञानस्य स्वमागभावव्यतिरिक्तत्वमात्रस्य साधनात् " इति अनुम सिषाधयिषितं भावत्वमात्रमित्युक्तं व्याहतम् । भावत्वस्यापि साक्षिसिद्धले साधनीयत्वाभावात् । अत्र वाक्ये खशब्दः कथमन्वेतीति च 104 ८५६

भाव्यम् । तथाच प्रमाणं विनैव भवद्भिरिदं सर्वमिष्यत इत्यस्य पर्यायोऽयम् । भावरूपाज्ञानानुमाने दलकृत्यवर्णनादिकं विस्तरमात्रम् । विवरणादिकृतवृथा विस्तरभूतद लकृत्यवर्णनादिकमुपेक्ष्य निष्कृप्य तत्कृत्यस्य शतदूपण्यां साधु संगृहीतत्वात् । वृत्तेर्जडाया अज्ञाननिवर्तकस्त्रे तत्र चैतन्यप्रतिफलनमेव नाभ्युपेतव्यं भवेत् । वृत्तिप्रति फलित चैतन्यमिति च न वक्तव्यम् । एवञ्च चैतन्यमेव मा भूदिति देहस्य ज्ञानाश्रयत्ववादिचार्वाक सौहार्दमेवान्तःकरणस्य ज्ञातृत्ववादिभिर्भवद्भिराहतं स्यात् । वृत्तिर्हि अन्त. करणपरिणामः । अन्तःकरणं नाम परिणामविशेषापन्नमज्ञानमेव । तथाच वृत्तिरप्यज्ञानमेव । अविद्यावृत्तिरेव यत्र वृत्तित्वेनाभिमन्यते शुक्तिरूप्यादिविषये, ईश्वरस्य ज्ञातृत्वोपपादनाय च तत्र वृत्तेरज्ञानत्वंसुतराम् । एवञ्चाज्ञानमेवाज्ञाननिवर्तकमित्युक्तं भवेत् । एवमज्ञानस्य भावाभाववैलक्षण्यं ब्रह्मसिद्धयुक्तं चेत्, तर्हि भावरूपत्वमनुमातुं न शक्यते । उपादानत्व निर्वाहाय भावपदेन व्यपदेश इति चेत् — यदि वस्तुतो न भावत्वम्, किंतु व्यपदेशमात्रम्, तावता तस्य जगदुपादानत्वं कथम् । यदि भावत्वाभावेऽप्युपादानत्वं निर्वहति, तर्हि भावत्वेन व्यपदेशः कुतः । अतः सदसद्वैलक्षण्येऽभिवरूपत्वमस्तीत्याशयानैरेव भावरूपाज्ञानवादः प्रथमं सर्वमिदमद्वैतामिमानिसाक्षिमात्रवेद्यं स्यात् । प्रस्तुतः । भावरूपस्य वा भावाभावविलक्षणस्य वा अज्ञानस्य लोकानुभवसिद्धाभावरूपाज्ञानभिन्नतया अनुमानमिदमज्ञानरूपधर्म्यनुमापकमेवः न तु प्रागभावव्यतिरिक्तत्वमात्रानुमापकम्; लोकसिद्धे अभावरूपज्ञाने तत्साधना योगात् । एतेनाभावरूपाज्ञानानुमानजन्यानुमितेर्भावरूपाज्ञानरूपाप्रकाशितार्थप्रकाशकत्वादज्ञानविषयकाज्ञानान्तरापत्तिः पूर्वोक्ता प्रतिष्ठिता भवति । किञ्च खप्रागभावव्यतिरिक्तत्वमेवाप्रकाशितं प्रकाश्यते, न त्वज्ञानमित्यनुपपन्नम् स्वप्रागभावव्यतिरिक्तत्वस्यापि घटादौ ज्ञातत्वादप्रकाश्यत्वात् । अज्ञानगतत्वेन तदप्रकाशितमिति चेत् खप्रागभावव्यतिरिक्तत्वं प्रति धर्मित्वेनाज्ञान भावरूपाज्ञान-भङ्ग-प्रसाधनम् ८२७ मप्रकाशितं किं न स्यात् । धर्मधर्म्यभयविषयेऽप्यप्रकाशस्य वक्तव्यत्तया स दोषोऽस्त्येव । अंज्ञानं भावरूपमेव विवेचनविरहिणां ज्ञानप्रागभावत्वेन भासत इति चेत् तर्हि ज्ञानप्रागभावत्वेन भानस्य ज्ञानतद्विषयज्ञानमन्तरेणासम्भवेन तन्निर्वाहप्रकारे परिशीलिते वस्तुतः प्रागभाव एव भासत इति सुवचतया भावरूपाज्ञानरूपधर्मितद्भान्त्यादिकल्पनस्य गौरवादसंभवात् । न च साक्षिभास्यमज्ञानं विपरीताकारेण भातुमर्हति सुखादीनां दुःखत्वादिना साक्षिभास्यत्वाभावात् । ज्ञानप्रागभावत्वस्यानुपलब्ध्यादिगम्यत्वेनेष्टस्य साक्षिभास्यत्वाभिमताज्ञानविशेषणतया भानायोगाश्च । स्वरूपतस्त्वज्ञानमनुभवदूरम् । तस्मादनुमानेनैव तद्धर्मि साधनीयमित्यज्ञानविषयकज्ञानपरम्परापत्तिरवर्जनीया । अप्रकाशितार्थप्रकाशकत्वरूप हेतुघटकं प्रकाशकत्वं यदि प्राकट्यहेतुत्वरूपम्, तत्र प्राकट्यं ज्ञातता चेत्, दीपप्रभायां तद्धेतुत्वाभावात् साधनवैकल्यम् । ज्ञातताया वस्तुतोऽनङ्गीकारादसिद्धिरपि । प्राकट्यं नामानावृतत्वमिति चेत् तर्हि अनावरणहेतुत्वम् आवरण निवृत्तिहेतुत्वं हेतुः । आवरणस्यासिद्धतया च तदा हेत्वसिद्धिः । अत एवावरणनिवृत्तिपूर्वक प्रकाशोपयोगित्वमिति निर्वचनान्तरमपि निरन्तर । प्रकाशशब्दार्थे विचार्यमाणे तन्मध्ये तस्यैव निवेशनाद् दुरुतरता च । प्रकाशकपदव्यपदेश्यत्वं प्रकाशकत्वमित्येतत् श्रीभाष्यादावेव ण्वुलर्थशोधनमुखेनातिप्रसक्तमिन्द्रियादिष्वपीत्येवं निरस्तम् चण्डमारुतोप क्षिप्तसत्प्रतिपक्षानुमानदूषणं प्रकारान्तरेणाशक्यमित्यालोच्य यंत् आगविरोधादनुमानस्याभासत्वमुक्तम् तदपि न भावरूपाज्ञानसाधकस्यागमस्याभावात् । ’ अनृतेन हि प्रत्यूढाः’ इति अनृतपदं न तत्परम् । तत्र हि " त हमे सत्याः कामाः अनृतापिधानाः । तेषां सत्यानां सतामनृतमपिधानम् इत्यनृतपदेन यद् ग्राह्यम् । तदेव ग्रहीतुमुचितम् । सत्याः कामाः इति च परमात्मगताः कल्याणगुणाः विवक्षिताः । ८२८

ते च सत्यकामत्व सत्यसङ्कल्पत्वादयः । तेषाञ्च भवन्मते मिथ्यात्वात् भावरूपाज्ञानतिरोहितत्वं वक्तुं न शक्यते । अतो जीवात्म दुष्कर्म तिरोहितत्वमेव ; भगवद्गुणानां तत्र विवक्षित मिति, ’ अनृतेन हि प्रत्यूढाः अनृतेन हि प्रत्यूढाः’ इत्यत्राप्यनृतपदं तदेकार्थम् । न चानृतशब्दस्य भावरूपाज्ञाने रुढिरन्ति अनृतपदं लोके मिथ्यावाक्ये भूम्ना प्रसिद्धम् । मिथ्यात्वञ्च वाक्यस्य न वैकालिकात्यन्ताभावप्रतियोगित्वात् अपि तु तेन वाक्येन यद्देशकालसंबन्धितया येोऽर्थोऽवभासितः, तथा तस्याभावात् । तादृशवाक्यरूपार्थश्चात्रानन्वित इति वाक्यगतमनृतत्वं परित्यज्य वस्तुगतमनृतत्वं विवक्ष्यते । तत्र ऋतं सत्यम् । ऋ गतौ । यत् सर्वं कालं गच्छति व्याप्नोति तत् सत्यम् ऋतम् । असत्यमनृतम् । यत् खल्वौपाधिकम् । तत् सर्वकालनियतं न भवतीति तदनुतम् । तत्र व्यक्तिवचनानां सन्निहितवचनत्वमिति न्यायात् तदा तदा योग्यत्वेनोपस्थितव्यक्तिविषयकत्वमिति, ’ अविद्या कर्मसंज्ञाऽन्या’ इत्यादिस्मृत्यनुसारेणौपाधिकं कर्म अनृतपदेन विनश्यते । कचिदनृतपदमसत्य इत्यर्थपरमेव सत् अचेतनव्यक्तिवाचि यथा सत्यश्चानृतञ्चेत्यलेति नानेकार्थताऽपि । अनृतपदस्य ज्ञानविरोधीत्यर्थः परं कथं सुलभः । तथा सत्यपि कथं कर्माग्रहणम् । कर्मणां ज्ञानप्रतिबन्धकत्वमेव, न तु नाश्यत्वमिति चेत् — विरोधीत्युक्तिः नाश्यरूपमेवार्थ कथं गमयति । तथासत्यपि, ‘ज्ञानाभिः सर्वकर्माणि भस्मसात्कुरुते ’ इति ज्ञाननाश्यत्वं कर्मणां प्रसिद्धम् । हन्त ! प्रजाः खसंपाद्यज्ञानाग्निनाश्येनैव कर्मणा स्वयं प्रत्यूढ़ाः ब्रह्मलोकं न विन्दन्तीति श्रुत्यर्थस्य समजतत्वात् । एवं ज्ञानविरोधित्वं ज्ञानप्रतिबन्धकत्वरूपं विरोधिपदस्वरसलब्धं नोपेक्षितुं क्षमम् । सत्यार्थकत्वेऽपि कर्मणि रूढयमावेऽपि असत्यशब्दस्यास्थिरार्थकत्वात् कर्मणामागन्तुकत्वास्थिरत्वयोः सुप्रसिद्धत्वात् तत्त्यागेनाप्रसिद्धभावरूपाज्ञानकल्पनं म युक्तम् । अन्यथा अनृतपदेन अलीकमसत् शशशृतमेव कस्मान्न गृह्यते । अनृतापिधानाः प्रत्यूढा इत्युक्तपिधानप्रतिवहनप्रयोजकव्यक्तिविश्रमे च कर्मणां तथात्वं श्रुतिस्मृतिसंप्रतिपन्नमिति नान्यत् कल्प्यम् । । तस्मादनृतशब्दस्या भावरूपाज्ञानभज प्रसाधनम् " ८२९ ऋतं पित्रन्तावित्यत्र ऋतमवश्यम्भावि इति व्याख्यानं सर्वसंमतम् । अनृतं तदन्यत् अस्वाभाविकमौपाधिकं कर्मेत्यपि युक्तम् । तमसः प्रकृतेरावरणशक्तिरस्मदनाभिमतेत्यपि न, भगवत्स्वरूपादितिरोधानकरी मायायवनिकेति प्राच्याचार्यप्रतिबोधितत्वात् । मायाशब्दस्यार्थक्रियाकारिषु आसुर शस्त्रादिष्वपि प्रयोगात् विचित्रार्थ करत्वं प्रवृतिनिमित्तम् । कचि मिथ्याभूतेऽपि प्रयोगोऽ स्तीति चेत् —तर्हि किं प्रवृत्तिनिमित्तम् । मिथ्यात्वं चेत् -शुक्तिरजतादावपि मायाशब्दप्रयोगापत्तिः । योगमायेव निर्मिता ’ इत्यत्र इवशब्दप्रयोगात् मिथ्यात्वमवगम्यत इत्य् अपि न –देवमायेवेति वक्तव्ये योगमायेत्युक्तम् ; स्यादेतत् । इवशब्देन वस्तुतो देवमायात्वाभावः जनकस्य कुले जातायां गृह्येत ; न तु मायाशब्दस्यासत्यार्थत्वम् । । साक्षाल्लक्ष्म्या एवैवमाविर्भाव इति नेयं देवमाया विविधदेवजनशक्ति भगवत्सङ्कल्प दैवगुणमयप्रकृत्यादिरूपेति तु तावता सिद्धयेत् । मायामात्रमिति सूत्रार्थस्त्वन्य इति प्रागेव प्रपञ्चितम् । स्वामिकस्य मायात्वेऽपि मायाशब्दस्य न स्वामिकत्वं प्रवृत्तिनिमित्तम् ; भवदज्ञानादावप्यव्याप्तेः । न मिथ्यात्वम्, शुक्तिरजतादावतिव्याप्तेः । " मायावादिन इत्यद्वैतिषु अस्माभिः प्रयोगात् मायाशब्दो मिथ्यावचन’ इत्यभ्युपगन्तव्यमित्यपि न ; न हि लोके योयोऽनृतवादी स सर्वोऽपि मायावादीत्यस्माभिरुच्यते । किंतु विचित्रार्थसर्गकरं किञ्चिद्वदन्तीत्येव ते मायावादिन इत्युच्यन्ते । लोकेऽनृतवादिनामनृतं नैवं विचित्र कार्य करोति, यथा जगन्मिथ्यात्ववादिनामनृतवचनम् । ब्रह्म निर्गुणम्, जगदसत्यम्, कर्म त्याज्यम् इत्येवं महानृतं जगति विचित्रं व्याप्य सर्वमपि लोकं भ्रमयतीति अनृतस्यास्यैव मायात्वमिति अनृतग्रहणेनैवास्मदाशयः सूपपादः । यद्वा मूलप्रकृतेर्मायात्वमद्वैतिभिः स्वीकृतमद्भुतम्, यत् सर्वविद्वदुपास्यं मोक्षप्रदं मुक्तभोग्यं ब्रह्मैव मायया बम्भ्रमीतीति माययाः अनुपपन्नतैकवेषायाः ब्रह्मपर्यन्तक्षोभकत्वरूपां विचित्रां शक्तिमिमे उपन्यस्यन्ति-तदिमे मायावादिन इति । एवमन्यदपि भाव्यम् ।८३०

भावान्तरमभाव इति खलु सिद्धान्तः । तस्माद् भावरूपमज्ञानं सर्वस्वीकार्यमिति विचार्य वक्तव्यं व्युत्पादितं शतदूषण्यां । इदमप्यत्रावधेयम्ज्ञानाभाववत् घटपटाद्यभावानामपि भावान्तरत्वाय अघटपटादिरूपा अनेके भावा स्वीकार्याः स्युः । अतिरिक्त नाव पदार्थ विना निर्वाहश्चाविशिष्टः । अत्र शतभूषणी भावरूपमेवाज्ञानमूरिकर्तव्यमित्युक्त्वा, समनन्तरमेव ब्रह्मसिद्धिविरोधभिया, ‘भावविलक्षणत्वमपि स्वीक्रियते ’ इति लिखति । विषयत्वे भावरूपाज्ञान-भङ्गमसोढा प्रत्यवस्थितः । स्वयं भनक्ति तत् पश्यन् भावाभावविलक्षणम् ॥ अज्ञानं मोह इत्येवं भावरूपेण वेद्यताम् । अभावरूपं ज्ञेयं स्यात् न जानामीति वाक्यतः ॥ अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । इत्यत्र मोहाज्ञाने द्वे भिन्ने गीते हि तत् कथम् ॥ प्रमादो मोह इत्युक्तः ज्ञानाभावः स तद् भवेत् । प्रमादोऽनवधानं हि कचिन्मोहोऽन्यथामतिः ॥ भाभावस्तम इत्येवं तार्किको तेस्तु खण्डनम् । न तमरशब्द्यता हेतोः किंतु रूपक्रियादितः ॥ क्लमैरेव त्वभावाद्यैर्मोहशब्दो क्तिसंभवे अन्यादृशस्याज्ञानस्य तदर्थत्वं न साम्प्रतम् ॥ साक्षिभास्येशाज्ञानं निःसाक्षिकमेव संवृत्तम् । भावत्वम्, नास्तीतिप्रतीतिविषयत्वे अस्तीति प्रतीति चाभावत्वम् । उभय विलक्षणा तु प्रतीतिरसिद्धा । अत उभयविलक्षणमज्ञानमिति कथं साध्यते । अतो निरुपाख्यस्यालीकस्यैवाज्ञानमिति नामान्तरं स्यात् । तस्मादज्ञानं नाम ज्ञानाभावः प्रायो ज्ञानप्रागभावः । तद्विषयज्ञानप्रागभावो नाम प्राकालीनं तदविषयकं ज्ञानमेव । तज्ज्ञानव्यक्तिप्रागभावो नाम भावरूपाज्ञान-भङ्ग-प्रसाधनम् ૧ तत्प्राक्कालीन तद्भिन्नज्ञानपरिणाम इत्येवमन्यत्र विस्तरः । अज्ञानशब्दः कचिद्ज्ञानाभावे कचित् विपरीतज्ञाने कचित् कर्मणि क्वचित् ज्ञानस्वरूपात्मभिन्ने जडे च यथायथं स्यान्नाम । सर्वथा न जानामीत्यादौ जगदुपादानभावरूपाचेतन वस्तुभानं नास्तीति सिद्धम् ॥ अनुरुध्य विवरणादिकमस्मद्भायेण्ऽत्र वाक्यजातस्य । शतदूषण्याशयिता व्याख्याभंग्यस्तु विद्वदवया ॥ मिथ्याज्ञानाज्जगदिति वचस्यस्तु नाज्ञानमुक्तं मिथ्याभूतम् ; न च जगदुपादानताद्युक्तमत्र । अज्ञानेनावरणमुपयन् अप्रकाशं न नेच्छेत् पर्याप्तेऽस्मिन् किमिति किमपि स्वीक्रियेतातिरिक्तम् ॥ शुभमस्तु श्रीः