वेदैकैकपदांशतोऽपि नियतं यद्वैभवं वेद्यते यदूधर्मान् अपहाय वस्त्विव परं वक्तुं न वाक्यं क्षमम् । बाधे यद्गुणवैभवा दिविषये मानं न किञ्चित् स्थितम् तत्त्वं तत् परमं रमासहचरं तन्वीत नः संपदम् ॥ वाक्यस्यास्वण्डार्थत्वं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति ब्रह्मप्रतिपादकवाक्ये, ’ योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ’ इति जीवस्वरूपबोधकवाक्ये च स्वीकृतमद्वैत सिद्धौ । पदवृत्तिस्मारितातिरिक्तागोचरप्रम जनकत्वमखण्डार्थत्वमिति च निरुक्तम् । इदं ’ योयं विज्ञानमय’ इति वाक्येऽव्याप्तम् तत्र व्यधिकरण विभक्तिकपदश्रवणेन प्रकृत्यर्थस्य प्रत्ययाचे तस्य च पदार्थान्तरें अन्वयधौव्येण संसर्गावगाहितया अतिरिक्तागोचरत्वाभावात् । अभेदः समानविभत्तयर्थ एव सन् संसर्गतया भासत इति मते समानाधिकरणवाक्ये परमतेऽपीदृशा खण्डात्वस्येष्टत्वेन सिद्धसाधनाच । एवं व्यधिकरणप्रयोगेऽपि प्रत्ययार्थानां कारकादीनां संसर्गतयैव मानमिति मते वाक्यसामान्य एवेदं लक्षणमस्तीति न कश्चिद् विशेषः । एवं लक्षणकथने विवक्षितासिद्धिश्च । सत्यं ज्ञानमित्यादौ किञ्चिदप्रकारकत्रह्मव्यक्तिमात्रविषयबोधो भवतीति हि विवक्षितम् । सत्यत्वज्ञानत्वा दिविशिष्टबोधनेपि सर्वस्य पदस्मारिततयेदमक्षतमिति । अथैकप्रातिपदिकार्थमात्रपरत्वमखण्डार्थत्वमस्तु । तदपि न । किं वनमिति प्रश्नोत्तरे, एकप्रदेशस्थाः वृक्षाः वनमित्यत्राव्याप्तेः । तत्र प्रातिपदिकार्थस्यानेकत्वात् । प्रातिपदिकार्थतावच्छेदकैक्थं विवक्षितमित्यपि तत्त्वमसीत्यादौ निर्विशेषपरे अवच्छेदका प्रसिद्धेरव्याप्तेः । तावता निर्विशेषपरत्वरूपप्रकृतविवक्षितांशस्यासिद्धिप्रसंगाच्च ।७८०
किश्च समानाधिकरणवाक्यं सर्वमखण्डार्थमिति न भवदभिमतम् ; नीलो घट इत्यादौ नीलतादात्म्यसंसर्गभानस्येष्टत्वात् । नापि द्रव्मात्रविषयक समानाधिकरणवाक्यत्वं प्रयोजकम्ः मृद्घट इत्यादौ मृत्तादात्म्यमानस्येष्टत्वात् । कार्यकारणभावानापन्नद्रव्यमात्रविषयक समानाधिकरणवाक्यत्वमिति सिद्धयक्तम् । एवञ्च प्रकृष्टप्रकाशश्चन्द्र इत्यप्यखण्डार्थकं न स्यात् । प्रकर्षस्य गुणस्य विषयतया द्रव्यमात्रविषयकत्वाभावात् । प्रकाशस्य चन्द्रस्य च कार्यकारणभावस्यापि संभवाच्च । किञ्च ब्रह्मवत् चन्द्रस्य निर्विशेषत्वाभावात् अत्र तादात्म्यसंसर्गभानेऽनुपपत्त्यभावात् प्रातिपदिकार्थारिकामानं किमिति स्वीकर्तव्यम् । देवताधिकरणे च भाष्ये, ‘चिकीर्षितमर्थमनुतिष्टन् तस्य बाचक शब्द पूर्व स्मृत्वा पश्चात् समर्थमनुतिष्ठती’ स्येवमादिवाक्यैश्चन्द्रादि शब्दानामाकृतिविशेषवाचित्वं व्यवस्थापितम् । परिमले च, ’ तदर्थशोधनाबसरे, ‘शिल्पी शिल्पशास्त्रेभ्य इव हिरण्यगर्भो वेदेभ्यो देवादीनां नामरूपाणि विज्ञाय देवादीन् सृजती ’ त्युक्तम् । त्युक्तम् । एवञ्चेन्द्रचन्द्रादिपदानि असाधारणाकारविशिष्टार्थोपस्थापकानि । सृष्टयुपयोगि सर्वतादृशा कारोपस्थितिस्ततो भवतीति ज्ञायते । भगवान् बादरायणो ब्रह्मोपासने ’ आनन्दादयः प्रधानस्थे’ ति बहुवचनं निर्दिशन् बहवो ब्रह्मण्यपि स्वरूपनिरूपकधर्माः सन्तीति प्रति बोधयतीति स्थिते चन्द्रादावने काकारत्वे कः संदेहः । चन्द्र इति च चन्द्रमण्डलमेव सावयवं विवक्षितमित्यवयव संनिवेशरूपेयमा कृतिरनेकांशघटितैव । अतश्चन्द्रपदस्य खरूपपरत्वेऽपि अनवयवव्यक्तिमात्रविषयत्वमिति न युक्तं वक्तुम् । यदा च चन्द्रं नक्षत्राणि च पश्यन्नेव बुभुत्समानः पृच्छति कश्चन्द्र इति, प्रकृष्टप्रकाशश्चन्द्र इति च कश्चित् प्रतिवक्ति, तदा श्रोता प्रकृष्टप्रकाशस्वमुखेन चन्द्रे दृष्टान् सर्वान् असाधारणाकारान् उपलक्ष्य तावद्विशिष्टव्यक्तिमेव गृह्णातीति न केवलधर्मिमात्रविषयकत्वं ज्ञानस्य । अत एव स्वरूपमात्र प्रश्नोत्तरत्वादिति हेतुरपि नाखण्डार्थत्वसाधकः । चन्द्रस्वरूपस्यैव सखण्डतया साध्यवैकल्यात् । स्वरूपं हि नाम स्वासाधारणधर्म विशिष्टं धर्मि । अखण्डार्थखण्डन-प्रसाधनम् ७८१ निर्विशेषब्रह्मविषये द्वैवं स्वरूपलक्षण निर्वहतीति चेत्, निर्विशेषतयाऽभिमतब्रह्मप्रकाशे सत्यपि तत्रेतरव्यावृत्तत्वसंशयानपायात् धर्मज्ञानमुखेनैव तत्संशय निवृत्तेरावश्यकतया निर्विशेषमेव तन्न भवतीत्युपपादितमेव शतदूषण्याम् । कश्चन्द्र इति प्रश्नवाक्ये चन्द्रशब्देन चन्द्रस्वरूपग्रहणं तावन्न भवति । बुभुत्सोः चन्द्रशब्दवाच्यखरूपविशेषस्यापरिज्ञातत्वात् । क इति पदमेव जिज्ञासितत्ववेषेण स्वरूपपरम् । अतश्चन्द्रशब्दवाच्यः जिज्ञासितस्वरूपं इत्येव प्रश्नार्थः । अतः समाधिरपि चन्द्रशब्द वाच्यः प्रकृष्टप्रकाशत्वरूपस्वरूपविशिष्ट इत्येवेति वाक्यार्थस्य नाखण्डत्वम् । चन्द्रशब्दवाच्यतावच्छेदक प्रकृष्टप्रकाशत्वम्, अन्यद्वेत्यन्यदेतत् । एतेन गन्धवती पृथिवीत्यादी प्रकृते च तत्तत्स्वरूपमेव पृथिव्यादिपदार्थः पृथिवीशब्दमात्वादिकं व पृि व्याविपदलक्ष्यम्, जहल्लक्षणापतेः । खरूपपरत्वे तु जहदजहल्लक्षणेति सिद्धयुक्तं निरस्तम् ; पृथिवीपद वाच्येत्यर्थेऽपि तद्धर्मिण एव ग्रहणात् जहदजहल्लक्षणा, त्वानपायात् । पृथिवीत्वरूपजात्यवच्छिन्नं प्रकारान्तरेण इदमिति गृहीत्वा तत्र पृथिवीशब्दव्युत्पत्तिः तेन प्रालब्धा न वा । लब्धा चेत्-का पृथि वीति न पृच्छेत् । न चेत् पृथिवीशब्दात् स्वरूप न गृह्णीयात् । अत एव गन्धवती पृथिवीत्यादौ लक्षणग्रहणस्य व्यवहारः प्रयोजनमिति वृद्धाः । पृथिवीत्ववती पृथिवीति प्रयोगेपि पृथिवीपदं पृथिवीशब्दव्यवहार्यार्थिकमेव । पृथिवीशब्दवाच्यतावच्छेदकं गन्धवत्त्वं वाऽन्यद्वेति प्रश्नोत्तरं तत् । तेन जातिविशेषः वाच्यतावच्छेदक इत्युक्तं भवति । गन्धसमनियतत्वोपलक्षित जातिः प्रवृत्तिनिमित्तमित्यर्थे दोषलेशाभावात् । 1 सर्वं ब्रह्म तज्जलानित्यत्र सर्वब्रह्मणोः कार्यकारणभावापन्नतया नाखण्डार्थत्वम् । तथा तत् त्वमसीत्यत्राप्यस्तु । त्वमित्युक्तस्य प्रजान्तर्गतत्वात् प्रजानाञ्च, ‘सन्मूलाः सोम्येमाः प्रजाः ’ इति ब्रह्मजन्यत्वस्योक्ततया तदुपसंहारवाक्येऽत्र तद्विवक्षाया आवश्यकत्वात् । त्वमहमादिपदोक्तं विशिष्टचैतन्यं शुद्धचैतन्यातिरिक्तं मिथ्याभूतमिति, प्रतिविम्बभूतमिति च पक्षे ૧
कल्पितत्वादुपादानोपादेयभावः सुतराम् । एवं तत्त्वमसीति महावाक्यस्यैवाखण्डार्थत्वाभावे प्रत्येकं तत्पदार्थस्य त्वंपदार्थस्य वा शोधकं यत्, ’ सत्यं ज्ञानम्’, योऽयं विज्ञानमयः’ इत्यादिवाक्यम्, तस्याखण्डार्थत्वमनपेक्षितम् । न हि तत् स्वरसतोऽखण्डार्थकत्वेनावसितम् ; सत्यत्वादिधर्मविशिष्टवस्तुप्रतीतेरेव स्वरसत्वात् । एवं तत्र ब्रह्मशब्दवाच्यत्वपरत्वे वा बृहत्त्व बृंहणत्वविशिष्टतापरत्वे वा धर्मवैशिष्टयं स्पष्टम् । वाच्यतावच्छेदकानामपि लेषां त्यागेन धर्मिमात्रे पर्यवसानविधानञ्च किं समानाधिकरणवाक्यत्वबलात् आहो ब्रह्मतत्त्वस्य तथा निश्चितत्वबलात् । नाद्यः, नीलो घटः, मृद्घटः इत्यादौ धर्मिमात्रविषयकत्वस्य भवद्भिरेवानिष्टत्वात् प्रकृष्टः प्रकाश इत्यादौ तदसंभवस्यामस्तादुपपादितत्वाच्चानैकान्त्स्यात् । एवं सोऽयं देवदत्त इत्यादावपि धर्मिमात्रभानं नास्त्येव ; देवदतस्य पिण्डविशेषतया पिण्डान्तरव्यावृत्तकरचरण मुखनासिकादिसंनिवेशग्रहणात् । न च सोयं देवदत्त इति वाक्यप्रयोगाधीनज्ञानस्य न संनिवेशविशेषविषयकत्वं वक्तुं शक्यम्, यष्टच्छाशब्दानां व्यक्तिमात्रे संकेतादिति वाच्यम् -आशैशवात् आ मरणात् देवदत्तव्यत्तयेकत्वे मानाभावात् देवताधिकरणभाष्योक्तरीत्या आकृतेरपि शब्दार्थत्वात् । शब्दजन्यापरोक्षज्ञानवादिभवन्मते सोऽयं देवदत्त इतिवाक्यात् अयम्पदानुरोधेन प्रत्यक्षस्यैव सुस्वीकरतया तत्र प्रत्यक्षे वर्णाकारादिसर्वविशेषभानस्यावश्यकत्वाच्च । अनेकेषां पुरुषाणां पृथक्संकेतेन देवदत्तशब्दवाच्यताया लोके दर्शनेन देवदत्तान्तरव्यावृत्ताकारमुखेनैव विवक्षितव्यक्ति विशेषनिर्धारणस्य कार्यत्वाच्च । यदृच्छाशब्देष्वपि सर्वत्र संभवति व्यावर्तकाकारे तद्विशिष्टस्यैव वाच्यत्वम् । तदभावे संज्ञा वा विशेषणमित्येव तान्त्रिकसंमतम् । संज्ञाभानपक्षे संज्ञाया अपि वाच्यकोटिप्रवेशोस्ति न वेत्येव तु विवादः । श्रवणगृहीतत्वात् पृथक् पदवृत्त्युपस्थाप्यत्वं नापेक्षितमिति तु वाच्यत्वं मा भूदिति संगिरन्ते । तस्मात् समानाधिकरणवाक्यत्वे धर्मिमात्रपरत्वमित्येतत् सर्वथैवा सिद्धम् । अखण्डार्थखण्डन-प्रसाधनम् ७८३ नान्त्यः ; ब्रह्मतत्त्वं निर्विशेषमिति प्रागेव निश्चितत्वे किं ब्रह्मेति जिज्ञासायाएवाभावेनु सत्यं ज्ञानमिति वाक्यस्यैवानुत्थानात् । यद्युच्येत ब्रह्मविदाप्नोतिपरमिति वाक्यश्राविणा, बृहति बृंहयति तस्मादुच्यते परं ब्रह्मेति निरुक्तिमपिविदुषा शक्यते, कथं बृंहणत्वविशिष्टतया सविकारस्य परत्वम्, निर्विकारस्य तत्त्वौचित्यादिति । तत्परिहाराय सत्यमिति वाक्यं प्रवृत्तमिति । अस्त्वेतत् । एवमपि सत्यपि बृंहणत्वे सविकारत्वं न प्रसज्यते । अत एव निरुक्तेपि बृंहयतीतिनिर्वचनेन परमिति शब्दप्रयोगोऽपीत्येव परिहारः पूर्वाविरोन कर्तव्यः ; न तु बृंहणत्वापलापेनेति न निर्विशेषसिद्धिः । अत एवोत्तराधे फलदशायामपि, सर्वान् कामान् सह ब्रह्मणा विपश्चितेति भोक्तुर्भोग्यस्य तद्विशेषस्य विपश्चित्त्वस्य सहानुभाव्यानामन्येषां कामानाश्च निर्देशेनोभयविभूतिविशिष्टपरिपूर्णब्रह्मानुभव एवोच्यत इति नात्र निर्विशेषत्व निर्वचनम् । ब्रह्मविदाप्नोति परमित्यत्र परपदं परवासुदेवे पारिभाषिकं रूढञ्चेत्यन्यत्रावो चाम । ‘योऽयं विज्ञानमय’ इति वाक्यं तु प्राणेषु हृदीति ‘व्यधिकरणानेकपदघटितं निर्विशेषपरतया नैवावसीयेत । यदि चाखण्ड थिज्ञानमीदृशादपि वाक्याद्भवेत्, यदि च तत्त्वमसीतिवाक्यार्थज्ञानस्य चास्य च न किञ्चिद् विषयवैलक्षण्यम्, तर्हि सत्यादिकिञ्चिद्वाक्यश्राविणोऽपि मुक्तिः स्यादिति, अहं ब्रह्मास्मीति ज्ञानानावश्यकतैव स्यात् । एवञ्च महत् सौकर्यमपि संपादितं भवति । जीवंत्रह्मैक्यज्ञानस्यावश्यकत्वे हि विविधविप्रतिपत्तिप्रादुर्भावादर्थनिर्णये दौष्कर्यम् । प्रतिबिम्बं जीव इति केचित् । तत्र विम्बात् प्रति-: बिम्बं भिन्नमित्येकदेशिनः । अन्तःकरणावच्छिन्नं चैतन्यमित्यन्ये । तत्रान्तःकरणसञ्चारे चैतन्यप्रदेशभेदात् जीवस्य न स्थायिता स्यादिति ब्रह्मण एव दुःखित्वादिकं पर्यवसाने स्यादिति च परे आक्षिपन्ति । एवमनच्छिन्नचैतन्यमिदं शुद्धादन्यत् कल्पितमिति स्वीकारे मिथ्यात्वात् तस्य कथं ब्रक्यमित्यपि । अतो जीवत्रह्मैक्यमितीदं किं बाधविवक्षया, उत ब्रह्मणा सहाद्वैत 1 ७८४
विषक्षयेति नाद्वैतिभिर्निर्धार्येतेति । तस्मात् जीवब्रह्मैक्यज्ञानं मोक्षसाधनमितीदमुपेक्ष्य, तत्त्वमसीति वाक्यस्य यः कश्चिदर्थोऽस्तु किं तेनेति विमृश्य सत्यादिवाक्यमेवापेक्षितमखण्डं दर्शयतीति परिशीलयन् अवरोपितमहाभारस्खेनात्मानं मत्वा त्वरेसेति । वस्तुतः सत्यादिवाक्यमपि नाद्वैतसाधकमिति तु प्रपचितमेव । यतुः शतभूषण्यामन्त्र ब्रह्मसिद्धयुदाहरणं ब्रह्मणो निर्विशेषत्वनिर्धारणाय तदसाधकम् सामान्यरूप ब्रह्मेत्यस्य साधारणधर्मो ब्रह्मत्यर्थो वा, साधारणधर्म विशिष्टं ब्रह्मेति बा, कटकमकुटादौ हिरण्यमिवानुगतमुपादानं ब्रह्मेति बा । नाद्यःः ब्रह्मणो घटत्वादेरिव धर्मत्वस्यानभिमतत्वात् । तथासति सर्ववस्तुनिष्ठत्वं तत्पारतन्त्र्यञ्च तस्येति ब्रह्म घट इत्यादिप्रयोगे ब्रह्मशब्दस्य ब्रह्मविशिष्टधर्मिपर्यन्तार्थकत्वमिति, घटत्वादेरिव तस्य न जगत्कारणत्वमिति चैवं बहुविप्लवः स्यात् । न द्वितीयः ; साधारणधर्मविशिष्टं सर्वं विशेषधर्म विशिष्टमपीत्यस्यैवानुभविकत्वात् नीलघटपीतघटा दिसर्व विलक्षणस्य घटसामान्यस्य कस्य चिदभावात् ब्रह्म सविशेषं विशेषभूतश्चेति कथं निर्विशेषम् । अत एव निर्विशेषं न सामान्यमित्युक्तम् । वस्तुतो निर्धर्मब्रह्मवादिनां भवतां साधारणधर्मविशिष्टं ब्रह्मेत्युक्तावपि तमेव धर्मं स्वभिन्नतया विशेषात्मकमादाय सविशेषत्वापत्तिरेव । केन च साधारण्यं ब्रह्मगतस्य तस्य धर्मस्येति विचारे वस्त्वन्तरखीकारे सुतरां द्वैतमेवेत्यपसिद्धान्तश्च । न तृतीयः ; हिरण्यस्य कटकम कुटाद्यने कावस्थाभाक्त्वस्येव ब्रह्मणोऽनेकावस्थाभाक्त्वस्यापत्तेः । तेषां विकाराणां मिथ्यात्वे च कानाम सामान्यता । अत एव विवर्तोपादानत्वेऽपि सामान्यरूपत्वस्यासंभव एव । औपचारिक एवासौ सामान्यशब्द इति चेत् किमिति तत्त्वनिरूपणावसरे भ्रामकशब्दप्रयोगेण व्यामोहनम् । उपादानमनुपादानं वेति किं विचारेण । घटोस्ति, पटोs स्तीत्येवं प्रयोगेष्वनुगतं सत् ब्रझेति चेत् — तचैवोत्तरं प्रागुक्तम् ; तेन सता अखण्डार्थखण्डन-प्रसाधनम् ७८५ किश्चिद्विशेषरूपेण घटपटादिनैव भाव्यमिति न सर्वविशेषाभावे सदिति किञ्चि दस्तीति । आस्तामेतत् । अखण्डार्थत्वं किमित्यत्र ब्रह्मसिद्धिरियं न किञ्चिद् वक्तीति किमनेन । इष्टसिद्धिवाक्यं तूपात्तं ब्रह्मगो वाच्यत्वाभावेऽपि लक्ष्यत्वमस्तीति ज्ञापयति । तावता कथमखण्डार्थता । न हि गङ्गायां घोष इत्यत्र लक्षणाऽ स्तीत्यखण्डार्थत्वम् । लक्षणया प्रतिपाद्यत्वस्वीकारेऽपि यतो वाचो निवर्तन्ते ’ इति वाक्ये वृत्तिसंकोचस्वीकारो दोषः । एवम् उपनिषन्मुख्यार्थत्वं यस्य नास्ति, तदेवौपनिषदमिति कथनमपि न समञ्जसम् । एवमप्रमेयमित्यस्य लक्ष्यविधया प्रमेयत्वेऽपि शक्तया प्रमेयत्वाभावमात्रेण निर्वाहेऽपि संकोच एव । तत्स्वीकारे च परिच्छिन्नतया मेयत्वाभाव एवार्थः कस्मान्नेष्यते । वस्तुतोऽप्रमेयमिति पदं मातुं परिच्छेत्तुमशक्यमित्यर्थं स्वरसतोऽपि ब्रवीति । अथ लक्ष्यत्वेऽपि समयमाणत्वमेवास्ति, स्मृतिश्च न प्रमेति अप्रमेयत्वं सुस्थमिति चेत् — अननुभूतस्य स्मरणायोगात् अप्रमेयस्य कथं स्मर्यमाणता । विशिष्टरूपेण प्रमेयभूतं पश्चात् विशकलित स्मर्यत इति चेत् -ननु विशिष्टं मिथ्या ; तत्र सत्यस्य कथं विशिष्टरूपेण प्रमेयता । विशिष्टं शुद्धश्चैकमिति चेत् तर्हि तस्य तेन रूपेण प्रमितत्वादप्रमेयत्वाभावः । केवलरूपेण प्रमितत्वाभावो ऽप्रमेयत्वमिति चेत् -तदाप्यप्रमेयपदार्थ संकोच एव । एवं स्मर्यमाणतावादे च वाक्यस्याखण्डार्थत्वं दूरापेतम् । प्रमाणं हि शब्दः । शब्दजन्यप्रमित्यविषये चाखण्डे कथं शब्दप्रमाणकत्वं प्रतिज्ञातं घटत इति । एतन्मते शब्दजन्यापरोक्षवादः सुदूरापास्तः । प्रत्यक्षस्यापि प्रमान्तर्भूतत्वात् । न्यायरत्नदीपावल्युक्तं तु सोऽयं देवदत्त इत्यत्र विशेषणांशमानस्य प्राकूसमर्थनादेव निरस्तम् । अपिचास्तु देवदत्तपदार्थो यः कश्चित् । सोऽयमित्युपात्तविशेषणत्यागे किं मानम् । तत्तेदन्तयोर्विरुद्धत्वात् त्याग इति चेत् — कथम् ? तत्त्वं तद्देशतत्कालसंबन्धः, तत्त्वं तद्देशतत्कालसंबन्धः, इदन्त्वमेतदेशैतत्काल 99 ७८६
संबन्धः; कथमुभयं घटत इति चेत् किं वस्तुन्युभयं न घटते, उत प्रतीतौ अ तत्त्वमित्वञ्च भिन्ननिष्ठमेव स्वीकार्यमिति जितं क्षणिकयादिना बौद्धेन । अथोच्येत परिच्छिन्नस्यापि वस्तुनः एकस्मिन्नेव देशे कालद्वयसबन्धे क्रमिके किं बाधकमिति तर्हि एकस्मिन्नेव काले तादृशस्य देशद्रयसंबन्धेऽनुपपन्नेऽपि विभिन्नकाले देशद्वय संबन्धेऽपि किं बाधकमित्यपि विमृश्यताम् । अतः प्रत्यभिज्ञयैक्यं स्थापपयद्भिस्तत्तेदन्तयोर्विवक्षाऽवश्यमेव कर्तव्येति प्रतीतिविषयत्वमङ्गोऽपि तयोरयुक्तः । वस्तुनि च द्वयोरवच्छेदककालभेदेन समावेशे उपपन्ने प्रतीतौ तद्भानं कुतो न भविष्यति । प्रतीतिमूलमेव हि वस्तुनि तत्स्थापनम् । अत एवं जहदजहल्लक्षणोदाहरणत्वेन तार्किकेणान्नम्भट्टेन तत्त्वमसीत्यस्योदाहरणम्, तर्कपते जीवपरयोर्भेदात् उदाहरणमिदमनुचितमिति सोयं देवदत्त इत्युदाहरणान्तरप्रदर्शनञ्चायुक्तं वेदितव्यम् । उभयस्याप्युदाहरणस्याद्वैत्युपपादनमूलवासनाधीनत्वात् । सोऽयं देवदत्त इत्यत्र धर्ममानमस्त्येवेति प्रकाशिकायामपि प्रतिपादितमित्यलम् । तत्त्वप्रदीपिका तु अद्वैतसिद्धिनिरासेनैव निरस्तप्राया । यत्तु सत्यादिवाक्यं पदार्थसंसर्गातिरिक्तेऽर्थे प्रमाणम् प्रमाणत्वात् चक्षुरादिवदिति तन्न किमत्र संसर्गाशे प्रामाण्याभाव इष्टः, उतातिरिक्तांशेऽपि प्रामाण्यम् । आद्ये चक्षुषि साध्यवैकल्यम्, घटघटत्व-घटभूतलादिसंसर्गांशेऽपि तस्य प्रमाणत्वात् । अन्त्ये संसर्गो नास्तीत्यस्यासिद्धया सिद्धसाधनमर्थान्तरश्चेति । यदि च संसर्ग न बोधयेत्, पदजन्यपदार्थोपस्थितिविषयतोऽधिकाभावात् स्मृतिरेव पदार्थषीरिति न वाक्यस्यात्र प्रमाणता । किञ्च प्रतिपदं शुद्धधर्मिमात्रोपस्थापकत्वे सिद्धे तत्सिद्धिः । तत्रैव न किश्चित् प्रमाणम् । लक्षणायां प्रमाणाभावात् । जातश्च ज्ञानमपरिच्छिन्नज्ञानत्वानन्दत्वाद्यवगाहि, न वा । आये कथं निर्विशेषबोधः, अन्त्ये कथं मुक्तिहेतुतेति च भाव्यम् । अखण्डाभखण्डन-प्रसाधनम् ses स्वीकारेऽपि तत्त्ममस्या दिवाक्यं संसर्गाविषयक ज्ञानजनकमिति नाखण्डार्थत्वसिद्धिः, नीलो घट इत्यत्र नैल्यघटत्वोभयविशिष्टव्यक्तिबोधवत् प्रातिपदिकद्वयार्थतावच्छेदकधर्मद्वयविशिष्टकवस्तुबोधस्य संभवात् । तत्त्वम्पदार्थतावच्छेदकयो विरोधादुभय विशिष्टेक विषयकबोधो न भवतीति चेत्कोऽसौ विरोधः । यदि असामानाधिकरण्यम्, तर्हि तत्तदाश्रययोर्भेद एवेष्ट इति कथं तत्र धर्मत्यागेन धर्मिमात्रग्रहणेऽप्यद्वैतसिद्धिः; सर्वज्ञत्वादिविशिष्टेश्वरस्य किञ्चिज्ज्ञत्वादिविशिष्टजीवस्य च कल्पितनया भिन्नयोः घटपटयोरिव धर्मत्यागेऽप्यैक्यायोगात् । यदि च धनैक्यसंभवः, तर्हि धर्मयोनिकालावच्छेदेन भिन्नदेशावच्छेदेन वा समावेशात् धर्मयोः शब्दार्थत्वत्यागेन तदप्रतीतिवर्णनमनपेक्षितम् । एवमीश्वरस्यैव किञ्चिज्ञत्वस्वीकारे बहुश्रुतिस्मृतिसूत्रविरोधो दुर्निरोध इति चेत् वज्यतामद्वैतम् । प्रमाणान्तरतो निर्विशेषे सिद्धे खल्वखण्डार्थत्वप्रत्याशा । सिद्धिरेव नेति च व्यक्तम् । यत्तु कटकादिविशेषत्यागेन वर्णस्येव सामान्यरूपम्य ब्रह्मणो भानमिति -तत्र निर्विशेषं न सामान्यमिति न्यायात् स्वर्ण यत्किञ्चिद्विशेषरहितं न स्थातुमर्हति यथा, तथैव ब्रह्मापि तद्विशेपग्रहणाभावेऽपि वस्तुतो निर्विशेषं न भवितुमर्हतीत्युक्तमनुसंधेयम् । ’ निर्विशेषं न सामान्यम् ’ इत्युत्सर्गमात्रम् । विशेषं कमपि विनापि सामान्यं स्यादिति तु न युक्तम् । अपवादसद्भावे मानाभावात् । विशेषम्य निर्विशेषत्ववत्’ इति ब्रह्मसिद्धिरप्यु किं तत्र विशेषपदेन तार्किकाभिमतविशेषपदार्थग्रहणम्, सर्वप्रसिद्धस्य । नाद्यः, तादृशविशेषाभावस्य घटादिष्वपि ब्रह्मणोऽपि तदभावे इष्टापत्तेः । नान्त्यः, घटत्वादिरूपाणां विशेषाणां सकलघटसमवेतत्वपटा दिव्यावृत्तत्वादिविशेषसद्भावात् । एकव्यक्तिमात्रवृत्ति पेक्ष्या । ८ उत सत्वाद् धर्मस्यापि व्यक्तिरेव विशेषः, धर्मस्य धर्मिणाऽपि व्यावृत्तिसंभवस्यान्यत्र शतदूषभ्यामेवोपपादितत्वात् । वस्तुतो ब्रह्मणि सामान्यशब्दप्रयोग औपचारिक एवेति ब्रह्मसिद्धावेव स्पष्टमिति नात्रोत्सर्गस्यापवादोऽन्वेषणीयः । अतो न निर्विशेषपरत्वमखण्डार्थत्वम् । ver
नापि विशेष्यमात्रपरत्वम् । मात्रपदेन प्रकारव्यावर्तने निष्प्रकारक ज्ञानजनकत्वमेवोक्तं भवति । ; तत् प्रकृष्टप्रकाशश्चन्द्रः, सोयं देवदत्त इत्यादौ न भवतीति प्रागेवोक्तम् । निर्विशेषपदं निर्भेदपदं वा न विशेषाभावरूपस्य विशेषस्य भेदाभावरूपस्य भेदस्य वा निवर्तकं भवति, प्रतियोग्यभावयोः सामानाधिकरण्यायोगात् अस्याभावस्य स्वप्रतियोगितया ज्ञानस्य कदापि दुर्वचत्वाच्चेति निर्विशेषत्वानुमान-भङ्गवादे निरूपितमेव । भावरूपविशेषणरहितपरत्वमखण्डार्थत्वमित्यपि न । तत् त्वमसीत्यनेन इदं भावरूपविशेषणरहितमित्यस्याबोधनात् । वस्तुतो भावविशेषणरहितं यत् तत्परत्वमिति चेत्सोयं देवदत्तः, प्रकृष्टप्रकाशश्चन्द्र इत्यादावव्याप्तिः ; देवदत्तादेर्वस्तुतो भावविशिष्टत्वात् । भावरूपविशेषणाचोधकत्वमखण्डार्थकत्वमित्युक्तावपि स एव दोषः । भावातिरिक्ताभावानङ्गीकारिपक्षे भावपद वैयर्थ्यम् । प्रतिवादिनां भावातिरिक्ताभावानङ्गीकारितया तान् प्रत्येतत्साधने दृष्टान्तासिद्धिः । सर्वस्यापि वाक्यस्य विशिष्ट परत्वस्यैव तदिष्टत्वात्, विशेषणस्य च क्वचिदभावस्यापि वस्तुतो भावरूपत्वात् । वस्तुतोऽयं भावाद्वैतवादो भवद्भिरेवोपेक्षितः । एक विशेष्यपरत्वमित्येतत् सास्नादिमन्तो गावः, शीतोष्णस्पर्शो पयःपावकौ इत्यादिलक्षणवाक्येषुव्याप्तम् । सर्वत्र व्यधिकरणवाक्येऽतिव्याप्तञ्चः मुख्यविशेष्यस्यैकत्वात् । एकप्रातिपदिकार्थमात्रपरत्वं तदिति चेत् — किमेकप्रातिपदिकमात्र प्रयोज्यविषयताकत्रोधजनकत्वं तत्ः उतैकप्रातिपदिकार्थत्वं यस्य संभावितम्, तत्परत्वम् ? नाद्यः सत्यं ज्ञानमित्यादावापि अनेकप्रातिपदिकप्रयोज्यविषयताकत्वसत्त्वादव्याप्तेः । तत् त्वमसि इत्यत्राख्यातप्रयोज्य विषयताया अपि सत्त्वेन प्रातिपदिकेतरप्रयोज्य विषयताकत्वाभावासंभवाच्च । चैत्रः पचतीत्यादेरप्यखण्डार्थत्वप्रसंगाच्च । वाक्यसामान्यस्य प्रातिपादिकत दितरोभयघटिततया एकप्रातिपदिकेतरप्रयोज्यविषयताकत्वाभावासंभवाच्च नान्त्यः । नीलो घट इत्यादेरप्यखण्डार्थत्वप्रसंगात् तस्य नीलघट इति समस्तप्रातिपदिकबोध्यत्वसंभवात् । एवं ; , अखण्डार्थ खण्ड न-प्रसाधनम् པས་ व्यधिकरणवाक्यानि सर्वाण्यप्यखण्डार्थानि स्युः । अन्वितै कविशिष्टार्थपरतया तादृशसमस्तपदप्रयोगसंभवादे कप्रातिपदिकार्थत्वस्थितेः । उक्तं हि, " इति । एकविशेष्यपरत्वमित्यत्र एकपदस्य " अर्थैकत्वादेकं वाक्यम् संख्यापरत्वमुपेक्ष्य एकं समानमित्यर्थविवक्षया अनेकं विशेषणं प्रति यत् समानं विशेष्यं तत्परत्वमित्यर्थो भवतीतीदमस्मन्मतमेवेति शतदूषण्याशयमनव " यदि कल्पोऽयं श्रीमाण्यानुयायिनाम्, तर्हि तेऽप्यद्वैतिन एव " इति लेखनं कृतमिति भाव्यम् । बुध्य, "" व्यक्तिर्गुणविशेषाश्रयो वाक्यत्वादिति हेतोरनैकान्तिकत्वमिति स्वरूपमात्र प्रश्नोत्तरत्वादिति सिद्धयुक्त हेत्वादरणमपि सिद्धेः प्राकू खण्डितत्वादेव हेयम् । स्वरूपपदं किं व्यक्तिपरम् उत तद्वृत्त्यत्साधारणधर्मपरम् । नाद्यः ; का पृथिवी, को गवय इत्यादौ एकव्यक्तिप्रश्नासंभवात् । व्यक्तेर पि, मूर्तिः ’ इत्युक्तरीत्या प्रायः सखण्डत्वाच्च । अन्त्यं तु एकव्यक्तिविषये नानाव्यक्तिकस्थले च संभावितमुपपन्नम् । तदा च सखण्डत्वमवश्यम्भावि 1 अथ तस्य तस्य धर्मस्य व्यावृत्तिरूपतया विशेध्यानतिरेकः स्वीक्रियत इति चेत् — अन्यदेतत् । निष्प्रकारकबोधजनकत्वं तु न कथमपिं । अभावस्येव भावस्य सत्यत्वज्ञानत्वादेः शब्दोपस्थाप्यस्योपेक्षायामन्यादृशत्वकल्पनायाश्च गमकमपि न किञ्चित् । “वाक्यत्वादिति हेत्वनुवादस्तु दुरनुवाद एव” इत्युक्तमपि दुरुक्तम् । समानाधिकरणवाक्यत्वादिति पूर्वप्रयुक्तहेतुघटकवाक्यत्वांशानन्वयप्रदर्शनार्थत्वादनुवादस्य । अद्वैत सिद्धौ वाक्यत्वत्यागमात्रेण, ग्रन्थान्तरोक्तानुवादः कथं दुरनुवादः स्यात् । अस्तु वा वाक्यत्वदलम्, मा वा ; स्वरूपमात्रप्रश्नोत्तरत्वेनाभिमतस्य पदसमुदायस्याऽऽकांक्षादिमत्त्वमस्ति न वा । अस्ति चेत्, कथमविशिष्टधीः ? नास्ति चेत् — कथमेकार्थपर्यवसानम् ! अन्यथा, गौरश्वः पुरुषो हस्तीत्यादावपि तत्प्रसंगात् । अतः शतदृषण्युक दोषोऽद्वैतसिद्धिमप्यास्कन्दत्येव ।૬ ઇ
यदुक्तमद्वैत सिद्धौ — अविशिष्टधियं प्रत्यप्याकांक्षादेः कारणत्वं भवितुमर्हति । न च ययोः पदयोरसाहित्ये अन्वयाननुभावकत्वापत्तिः तयोराकांक्षा, अन्वयानुयोगिप्रतियोगिवाचकपदद्वयोपस्थितिः संनिधिः, अन्वयाबाधो योग्यतेति आकांक्षा संनिधि योग्यतानिर्वचनादन्वयस्यावश्यकत्वमिति वाच्यम् — अन्वयघटनमन्तरैव निर्वचनात् । अन्यादृशान्चयौपयिकाकांक्षा दिसत्त्वे अन्वयान्तरधीवारणाय तात्पर्यस्य घटनीयतया तात्पर्यविषयान्वयानुभावकत्वमित्येतत्स्थाने तात्पर्यं विषयाननुभावकत्वमिति सामान्यतो निर्वचनमा कांक्षायाः । एवमेव तात्पर्य विषयबोधानुकूला र्थोपस्थितिरासत्तिः, तात्पर्यविषयस्याबाधो — योग्यतेति नानुपपत्तिरिति — तन्न — सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्र सत्यपदाभावे साकांक्षत्वं वाक्यस्य वक्तव्यम् । तन्न स्यात् ; तदभावेऽपि तात्पर्यविषयाखण्डार्थबोधस्य जायमानत्वात् ; यथा विज्ञानं ब्रह्मेत्यादौ । यदि सत्यत्वादेः तात्पर्यविषयत्वमिष्यते, तर्हि नाखण्डता । न च -सत्यादिवाक्यं सत्यत्वादिविशिष्टब्रह्मबोधं जनयित्वा अनृतादिव्यावृत्तिं ज्ञापयित्वा तदुपलक्षितं ब्रह्म बोधयतु इति तात्पर्यमस्ति । तत्रैकपदाभावेऽपि तात्पर्यविषयद्वारभूत बोधासिद्धया तदधीना खण्डज्ञानासिद्धिरिति मन्तव्यम् — द्वारभूतबोधमात्रे शब्दविश्रान्तिसंभवे अखण्ड ब्रह्मबोधस्य शब्दजन्यत्वे मानाभावात् । धूमोस्तीति वाक्यजन्याग्न्यनुमितिर्हि न वाक्यजन्या । वक्तस्तु वह्निवोधनेच्छाऽप्यस्त्येव । तथैवात्र भविष्यति, यद्यखण्डे तात्पर्यग्राहकं प्रमाणं स्यादिति । एवञ्चाकांक्षादिमत्त्वं वाक्यत्वञ्चावान्तरबोधप्रयुक्तमित्येवोच्यताम् । अवान्तरबोध विना गंगायां घोष इत्यत्रेव लक्षणया अखण्डबोध एव प्राथमिक इति पक्षे तु वाक्यत्वादिकं दुर्निरूपमेव । एको पस्थित्यव्यवहिततत्प्रयोज्य बोधप्रयोजकार्योपस्थितिमात्रमासत्तिरिति च न युक्तम् —— घटेनोदकमाहृत्य फलं भुक्के इत्यादौ भुजिघटपदयोरप्यासत्त्यभावात् अन्वयप्रतियोग्यनुयोगि विषयका व्यवहितोपस्थितिरूपत्वस्याऽऽसत्तावावश्यकत्वात् । अखण्डबोधस्य सत्यत्वादिविशिष्टरूप सखण्डविषय बोधानन्तर अखण्डार्थखण्डन-प्रसाधनम् ७९१ भावितया तत्रोपस्थितिरूपासत्तेः अन्यथासिद्धत्वाच्च । सत्यपदलक्षणावृत्त्यधीनाखण्डोपस्थितेरस्तु तत्र कारणत्वमिति चेत् — ज्ञानपदलक्ष्याखण्डोपस्थितेरपि तत्रैव कारणत्वमित्यत्र मानाभावात् प्रतिपदं पृथगेवाखण्ड बोधकत्वसंभवादासत्तेरनपेक्षितत्वात् । लक्षणावृत्त्यधीनाखण्डोपस्थित्यपेक्षया बोधस्याधिकविषयकत्वाभावेनोपस्थितित एव कार्यनिर्वाहे बोधान्तरजन ने मानाभावाच । अनेकपदजन्यानेको पस्थित्यधीनबोधविषयाणामखण्डानामेकत्वे मानाभावेनानेकाखण्ड विषयकत्वस्यापि बोधे आपत्तेश्च । न च सत्यत्वज्ञानत्वादिविशिष्टब्रह्मविषयक बोधजनकतया सर्वेषां पदानामेकविशेप्यपरत्वावसायात् एकमेवाखण्डमुपस्थाप्यमिति वाच्यम् तर्हि सत्यादिनानापद विशेष्यकलक्षणाज्ञानादेकस्मादेकस्या एवाखण्डोपस्थितेः संभवेन कस्याः कया साकमासत्तिर्वक्तव्येति । यदि चोपस्थितेरेकत्वेऽपि विषयभेदः स्यात्, तर्हि एकविषयावच्छिनोपस्थितेर्विषयान्तरावच्छिन्नोपस्थित्यानन्तर्थं विशिष्टवेषेणेति कथञ्चिद् वक्तव्यं भवेत् । तदप्यत्रानपेक्षितम् । एवं तात्पर्यविषयाबाधो योग्यतेत्यप्ययुक्तम् । बाधो हि तदभावः तदभावबुद्धिर्वा । न चैवं सुवचम्, स्वस्य स्वाश्रयत्वाभावेनाखण्डे अखण्डाभाववत्ताबुद्धेरेव प्राप्तत्वात् । न च तादात्म्यसंसर्गका खण्डप्रतियोगि काभावज्ञानाभाव इहाबाधः; न चायं ब्रह्मणि अखण्डे ; तत्राखण्डतादात्म्यसंसर्गादिति वाच्यम् – तथासति तादात्म्यसंसर्गकाखण्डप्रतियोग्यनुयोगिकबोधस्यैव साक्षात् संभवात् । एवन्त्र तादात्म्य संसर्गकतत्प्रकारकतद्विशेष्यकबोधस्यैव सिद्धयां कथमखण्डार्थत्वमिति । अत एवमनुपपत्तिपर्यालोचनयैव चन्द्रिकाकारेण वस्तुत आकांक्षादीनां प्राथमिक बोधहेतुत्वेऽपि अखण्डार्थबोधे कारणत्वं नास्तीत्येवोक्तम् । तस्मात् शक्यार्थविषयक विशिष्टबोधानङ्गीकारे सत्यादिपदसमुदायस्य वाक्यत्वं दुर्वचमेव । अङ्गीकारे चासण्डविषयक बोधान्तरकल्पनमप्रामाणिकम् । अखण्डस्य प्रामाणिकत्वेऽप्यस्य वाक्यस्यापि तत्परत्वे प्रमाणाभावात् । किंश्ञ्च वाक्यं सर्वमुद्देश्यविधेयभावात्रार्थबोधकम् । अखण्डबोधे च तत् कथम् । यत्तु एकस्मिन्नेवास्खण्डे उद्देश्यव विधेयत्वरूपविषयताद्वयं स्वीक्रियत परमार्थ भूषणे ७९२ इति तन्न अयोगात् । अत एव विरुद्ध त्रिकद्वयापत्तिर्मीमांसकैर्दोषत्वेनोपन्यस्यते । एकस्मिन्नेव पदे अंशभेदेन विभिन्नमुद्देश्यं विधेयञ्चोपस्थाष्यते चेत्, एकप्रसरता-भङ्गो दोषः । अत एव वषट्कर्तुः प्रथममक्ष इत्यत्र भक्षणोद्देशेन प्राथम्यविधानं न संभवतीत्युक्तम् । एवं विभिन्नस्याप्येकपद विभिन्नांशबोध्यत्व एवोद्देश्य विधेयभावास्वीकारे एकस्यैवैकपदबोध्यस्यैवोद्देश्यत्वं विधेयत्वञ्च कथं स्वीक्रियेत । एकस्यैवोभयस्वीकारे च घटो घट इत्यादेरपि बोधकत्वापत्तिः । वाक्यसामान्ये शाब्दबोधे तार्किकतान्त्रिकवैयाकरणादिमतभेदेन मुख्यविशेष्यस्य विभिन्नत्वेऽपि सर्वविष्टिका शैर्यप्रतिपादकत्वस्य सर्वसम्मतत्वात् तत्र प्राप्ताप्राप्त विवेकेन पश्चादुद्देश्य विधेयांश निर्णयः परस्सहस्रपदसंघातेनापि यदि अखण्डमेकमेव बोध्यतेः तत्र कथं प्राप्ताप्राप्तविवेकः । तदभावे च कथमुद्देश्य विधेयव्यवहारः । एवं स्थिते एकत्रैवोद्देश्यता विधेयता चेति विषयताद्वयमपीष्यते इति के वाचोयुक्तिः । विशेष्यत्वोद्देश्यत्वप्रकारत्व विशेष्यत्वाद्यनेकविषयता स्वीकारवासनया विधेय तोद्देश्यतयोरप्येकत्र स्वीकारस्यानुपपन्नत्वात् । क्रियते । तार्किकै रेकत्र आख्यातप्राधान्यञ्च वावये विद्वांस आशेरते । ’ अस्तिर्भवन्तीपरः प्रथमपुरुषे अप्रयुज्यमानोऽप्यस्ति इत्याद्यनुशासनबलात् तिङन्ताध्याहारमप्यावश्यकमाहुः । भवद्भिस्त सति तिङन्ते तदर्थभानबलादखण्डार्थत्वमपैष्यतीति तत्त्वमसीत्यादौ अस्यादिः स्थितोऽप्यपसारणीय इति विलक्षणेयं वाक्यार्थवर्णन-भङ्गी । तस्मादखण्डस्य निर्विशेषस्य वाक्यार्थत्वायोगात् सत्यंज्ञानमित्यादौ प्रतिपदमखण्डलक्षणायामपि पदसमुदायस्याखण्डे लक्षणायामिव पदजन्यपदार्थोपस्थितिसंभवेऽपि तादृशो पस्थितिजन्यानुभवरूपाखण्डगोचरज्ञाने मानाभावात् स्मृतिरूपोपस्थितिरेव पुनः पुनरावर्तत इति न वाक्यस्याखण्डे प्रामाण्यं भवितुमर्हति । एतदपेक्षया पुनरेवमभ्यूहो युक्तः अखण्डार्थकत्वं नाखण्डार्थबोध जनकत्वम् । किं तु सत्यंज्ञानमित्यादितः सत्यत्वज्ञानत्वादिविशिष्टविषयके अखण्डार्थखण्डन-प्रसाधनम् ७९३ बोधे जनिते तेषां सत्यत्वादीनामनृतादिव्यावृत्तिरूपतया व्यावृत्तेश्चाभावतया अभावस्याधिकरणरूपत्वस्वीकारे सत्यादिवाक्यबोध्यमन्ततो निर्विशेषब्रह्मतो नान्यदिति पर्यवस्यतीति तदनुरुध्य समानाधिकरणवाक्यानामखण्डार्थकत्व प्रवादः । प्रकृष्टप्रकाशश्चन्द्रः, सोयं देवदत्त इत्याद्युदाहरणप्रदर्शनादिकं प्रत्यर्थिजनहृदयावर्जनप्रयतनमात्रमिति नात्राधिकमभिनिवेष्टव्यमिति । अत्रेदमवधेयम्भावातिरिक्ताभावानङ्गीकारात् व्यावृत्तीनामपि किञ्चिद्भावरूपत्वे सिद्धे व्यावृत्तीनां धर्मतया प्रतीयमानत्वात् धर्मात्मकभावरूपत्वं स्वरखम् । तादृशनियतधर्मोपपादनक्लेशे, अधिकरणात्मकत्वस्वीकारे दोषाभावे च स्यादधिकरणस्वरूपत्वम् । शुक्लवस्तुनि कृष्णव्यावृत्तिर्वर्तमाना शौक्ल्यगुणरूपा ; शौक्ल्ये कार्यव्यावृत्तिरप्येवं शौक्ल्यरूपैवेति स्वीकारः संभाव्यते, शौक्ल्ये दृष्टे कार्य संशयविपर्ययोरभावात् । एवं ब्रह्मणः अनृतजड परिच्छिन्न विलक्षणस्य या अनृतजडपरिच्छिन्नव्यावृत्तयः, तासामधिकरणस्वरूपत्वे ब्रह्मप्रकाशे सति अनृतादिसंशय विपर्ययोस्नुत्पादेन भाव्यम् । न चैतदस्ति । ब्रह्मखरूपे विवादाभावेऽपि तत्सत्यत्वज्ञानत्वादौ वादिनां विप्रतिपत्तिदर्शनात् । नन्वपरोक्षप्रकाशस्यैव व्यावृत्तिबुद्धिकार्य करत्वमिति चेत् — अस्तु । ब्रह्मप्रकाशोऽ व्ययमपरोक्ष एव । जीवब्रह्मणोर्भवन्मते ऐक्यात्, " अपरोक्षत्वात् प्रत्यगात्मप्रसिद्धेः " इति प्रत्यगात्मा परोक्ष्यस्य स्वीकृतत्वात् । प्रकाशोऽयं वृत्तिरूपो वा स्वप्रकाशो वेति चेत् — यः कश्चिदस्तु । संशयविपर्ययनिवर्तकत्वमस्त्येव । अत एव न जातु, नाहमित्यादिप्रतीतिः न वा ज्ञाने जाते, अहं जानामि न वेति संदेहः । वस्तुस्वयम्प्रकाशत्वस्वीकारश्च निर्विचिकित्साविपरीतव्यवहारार्थः । यद्येवं प्रकाशे सत्यपि कतिपय संशय विपर्ययानिवृत्तिः, तर्हि तन्निवर्तको यत्प्रकाशः, सोशो न प्रकाशित इत्येवोरीकर्तव्यम् । अतो प्रत्यगात्मैक्यस्य ब्रह्मण्यभिमतत्वात् तत्प्रकाशे सत्यपि सत्यत्वादौं संदेहात् तन्निवर्तकं धर्मान्तरं भावरूपमेव तत्र स्वीकार्य स्यादिति नाखण्डवस्तुप्रसक्तिः । अतो वाक्यानां पर्यवसानगत्याऽपि 100 ७९४
तत्र तात्पर्यमसंभावितमेवेति । तत् सिद्धमखण्डतात्पर्यज्ञानमहिना वाक्यमखण्डार्थबोधकं भवितुमईतीत्येतदयुक्तमिति । यत् पुनरिष्टसिद्धाँ –अपर्यायाणामप्यभिन्नार्थताऽस्ति । यथा प्रकृष्टप्रकाशः सवितेत्यत्र; प्रकर्षप्रकाशयोरभिन्नत्वादिति —–— तन्न प्रकृष्टप्रकाशः सविता, प्रकृष्टप्रकाशश्चन्द्र इत्येवम्प्रयोगो हि ज्योतिरन्तर प्रकाशवैलक्षण्यस्य सवितृचन्द्रमृः प्रकाशयोर्बोधनाय । तत्र प्रकाशप्रकर्षयोरैक्ये ज्योतिरन्तरप्यपि प्रकाशवत्सु तद्व्यवहारापत्तिः । एवं प्रकर्षप्रकाशयोरैक्ये प्रकर्षप्रकाशः सवितेति प्रयोगापत्तिः । तथा प्रकाशसवित्रोरप्यैक्यस्वीकारे प्रकाशः सवितेति, प्रकर्षप्रकाशः सवितेति विना बहुव्रीहिश्च प्रयोगापत्तिः । अतो गुणगुणिनोरभेद वासना विजृम्भितमिदं सबै व्यामुग्धव्यवहारापादकं न विवेकि हृद्यमिति । गन्धवती पृथिवीत्यादौ पृथिवीस्वरूपं लक्ष्यत इति च वार्तम् का पृथिवीति प्रश्नवाक्ये पृथिवी शब्दस्य योऽर्थः स एव श्रुत्तरवाक्येऽप्यर्थः ; पृथिवीशब्दस्य पृथिवीस्वरूपे व्युत्पत्तिश्व लक्षणज्ञानानन्तरभाविनीति लक्षणज्ञानात् प्राक् स्वरूपपरतया पृथिवीशब्दं कथं प्रष्टा व्यवहरेत् । अतः स्वरूपं न लक्ष्यम् । खरूपलक्षणायामपि सर्वदृथिवीव्यक्तयनुगतरूपेणैव लक्ष्यत्वात् घटाद्येकव्यक्तिमात्रमहणायोगात् अखण्डत्वनप्यसिद्धम् । यावत् पृथिवीत्वमेव न ज्ञातम, तावत् पृथिवीतरव्यावृत्तिमुखेनोपलक्षणमप्यशक्यम् । अतः पूर्श शब्दव्यवहार्येत्येव पृथिवीशब्दार्थः । का पृथिवीति किंशब्दः जिज्ञासितत्वरूपवाची । एवं स्वरूपजिज्ञासायां स्वरूपं साक्षाद्दर्शयितुमशक्नुवन् तदुपलक्षणं गन्धं लक्षणं निर्दिशति गन्धवती पृथिवीति । गोसदृशो गवय इतिवत् । विस्तरो न्यायकुसुमाञ्जलौ । लक्षणवाक्यत्वादित्यस्येतरव्यावृत्तिधीहेतुत्वादित्यर्थवर्णनमप्ययुक्तम् । तथा सति हि सत्यादिवाक्यं स्वरूपान्याविषयकप्रमाजनकम् इतरव्यावृत्तिधी अखण्डखण्डन-प्रसाधनम् ७९५ स्वरूपान्या हेतुत्वात् यत् यन्निष्ठेतर भेदधीहेतुत्ववत् तत् तत्स्वरूपान्याविषयकप्रमाजनकम् यथा गन्धवती पृथिवी इत्युक्तं भवति । तत्रेतरव्यावृत्तिधीहेतुत्वमितरव्यावृत्तित्वावच्छिन्नविषयकधीहेतुत्वं वा, वस्तुगत्या यत् इतरव्यावृत्तिभूतम् तद्विषय कधीहेतुत्वं वा । अन्त्ये पृथिवी जलजन्येत्यादावप्यनेकान्तः । नाद्यः, गन्धवती पृथिवीत्यत्र गन्धादेरेव शब्दार्थत्वात् इतख्यावृत्तित्वेन रूपेण कस्यचिदबोधनात् साध्यवैकल्यात् । गन्धवती जलादिव्यावृत्तेति वाक्ये व्यभिचाराच्च । तत्र हेतुसत्त्वात् स्वरूपान्याविषयकप्रमाजनकत्वरूपसाध्याभावाच्च । समूहालम्बनविधया प्रकारान्तरेण वा पृथिवीस्वरूपान्यविषयकज्ञानजनकवाक्येऽपि हेतुसत्त्वादप्यनेोकान्ताच्च । इतव्यावृत्तिश्रियं प्रति स्वरूपविषयकत्वस्यैव प्रयोजकत्वेनेतराविषयकत्वस्याप्रयोजकत्वेन विषयकत्वांशसाधकत्वस्य हेतावसंभवाच्च । न हि घटस्य निर्माता कुलाल इति ज्ञाने सति घटोपादानाद्यपरोक्षज्ञानमिव तदन्याज्ञानमपि कुलालस्य साधयितुं शक्यते । अथेतरव्यावृत्तिधीहेतुत्वं नाम तद्धीजनकस्वरूपज्ञानकत्वमिति चेत् तत्र जनकत्वान्तं विशेषणं व्यथम् नियतत्वात् । एवञ्च स्वरूपज्ञानजनकत्वात् स्वरूपान्याविषयकज्ञानजनकमित्युक्तं भवति तदाऽपि स्वरूपतदितरोभयगोचरवाक्ये ऽनेकान्तोऽपरिहत एव । बाधश्च स्वरूपान्यविपयकज्ञानजनकत्वस्यानुभविकत्वात् । सत्यत्वादेर्धर्म्यतिरिक्तत्वस्योपपादितत्वात् । तथाविधज्ञानजनकत्वेऽपि पश्चात् शुद्धस्वरूपज्ञानस्यापि जनकमिति चेत् — तस्य तज्जनकत्वे न प्रमाणम् । तस्य ज्ञानस्य धयशमात्रविषयकस्य विशिष्टानुभवजन्य विशेष्यस्मृतिमात्रत्वेनैवोपपत्तौ शब्दजन्यत्वेऽ नुभवत्वे च न किश्चित् प्रमाणम् । एवं तस्य प्रमात्वमपि दुर्वचम्ः तद्वति तत्प्रकारकत्वाभावात् । तदभाववति तत्प्रकारकत्वाभावात् प्रमात्वमिति चेत् तद्वति तत्प्रकारकत्वाभावादप्रमात्वमेवास्तु । एवमेकांशविषयकत्वस्यापि स्मृतौं सत्त्वादेव स्मृतेः प्रमात्वं तार्किका नैच्छन् । एवं व्यक्तिमात्रज्ञानस्यासाधारणधर्मानवगाहिनः इतरव्यावृत्त्यनुपयोगित्वादप्येवं न साधयितुं ! ७९६
शक्यम् । नह्यश्वरूपं धर्मि दूरादश्वत्वं विना स्थूलं पश्यतो गवादिव्यावृत्ति धीरुदेतीत्यलम् । (( विगीतं वाक्यं विशिष्टपरं वाक्यत्वादित्यत्र उपक्रमावगतखरूपमात्रतात्पर्यकत्वाभाव उपाधिरित्ययुक्तम् । उपक्रमावगतेत्यस्य वैयर्थ्यात् । स्वरूपमात्रतात्पर्यासंभवस्य प्रागुपपादिततया पक्षेऽप्युपाधिसत्त्वाच्च । तत्त्वमसीत्यत्र विशेषणयोर्विरोधादन्वयानुपपत्त्या स्वरूपमात्रपरत्वमित्यपि न सिंहो माणवक इत्यादावपि तथात्वापत्तेः । तत्र स्वरूपपरिशेषेऽपि व्यत्तयोर्भेदादन्वयानुपपत्तिरिति चेत् — तुल्यम् । आत्मैकत्वशास्त्रं तु परमात्मव्यत्तयैक्यपरम् । वाक्यस्य विशिष्टपरत्वाभावे संशयाद्यनिवर्तकत्वापत्त्या अविरोध्यर्थलक्षणया विशिष्टपरत्वमावश्यकञ्च । भवतैव संक्षेपशारीरकवाक्यमुदाहृत्य भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थबोधकत्वं मुख्यं सामानाधिकरण्यम्-अखण्डार्थधीरित्यभेदे गौणसामानाधिकरण्यम् " इत्युक्तत्वात् संभवति मुख्ये गौणग्रहणायोगात् प्रवृत्तिनिमित्तमनुपेक्ष्यम् । तत् वाच्यार्थ प्रतीतिदशायां सत्यादिवाक्येऽप्यस्त्येव । लक्ष्यार्थविषये तु नास्तीति च तादृशलक्ष्यार्थबोधकत्वकल्पनावश्यकत्वाभावादेवापास्तम् । सा वैश्वदेव्यामित्यत्र सैव नीतिरिति चेत् — का नीतिः ? किमखण्डपरत्वम्, उतात्यन्ताभेदेऽपि सामानाधिकरण्यम् । उभयमपि नास्ति । तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षे’त्यत्र तच्छब्दतद्धितामिक्षापदानां समानार्थकत्वं तावदस्त्येव । तत्र सेति आनयनसंस्कृतं पय उच्यते । आमिक्षापदं घनीभूतपयोविशेषवाचि । विश्वे देवा अस्या इति वैश्वदेवीपदविग्रहे अस्या इत्येतदर्थपरतद्धितेनाप्यामिक्षैवोच्यते । एवं त्रयाणां पदानां समानार्थकत्वेऽपि, आनयन संस्कृतत्वविशिष्टपयस्त्वामिक्षात्वरूपप्रवृत्तिनिमित्तत्यागाभावात् नाखण्डात्वम् । न चात्यन्ता भेदः; तद्धितस्यामिक्षापरत्वेऽपि सर्वनाम्नो बुद्धिविषयत्वोपलक्षितपरत्वात् आमिक्षापदस्यातथात्वाच्च भेदसत्त्वात् । आमिक्षापदाभावे तद्धितस्यामिक्षारूपविशेषपरत्वावधारणायोगेन तदावश्यकत्वात् । परिपूर्ण पर्दै f । अखण्डार्थखण्डन-प्रसाधनम् ७९७ पदान्तरेणान्वेतीति न्यायेन वैश्वदेवीतिपदेन विश्वदेवदेवत्यत्वविशिष्टद्रव्यविशेषे बोधिते तस्यामिक्षान्वये विश्वदेवदेवत्यत्वामिक्षात्वरूपप्रवृतिनिमित्तभेदसत्त्वाश्व । अयञ्च देवतायुक्तत्वाकारेण प्रवृत्तिनिमित्तभेदो वार्तिकेऽप्यदर्शि, " आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात् तस्यैव विषयार्पणम्" इति । तद्धितस्य देवतात्वमप्यर्थ इति पक्षे च सुतराम श्रीभाष्यमते तत्त्वमसीत्यत्र प्रवृत्तिनिमित्तत्याग इत्यादिकं तु मताज्ञान विप्रलम्भं वा दर्शयति । यत्तु भिन्नप्रवृत्तिनिमित्तकानामित्यस्य अपर्यायशब्दानामित्यर्थ इति तेन किमुक्तं भवति । पर्यायत्वं धर्मतो धर्मितश्च समानार्थकत्वम् । अपर्यायत्वं तदन्यत्वम् । तत्र सत्यज्ञानादिपदेषु धर्मितः । समानार्थकत्वस्य भवदिष्टत्वात् धर्मतो भिन्नार्थकत्वमेव शिष्यत इति भिन्नप्रवृत्तिनिमित्तकत्वमेवोक्तं भवतीति । यत्तु विशेषण मेदेन विशिष्टता मेदात विशेष्यभेद इत्यस्य विशेषणयोः परस्परान्वयबाधेन बाधित विशेषणसंबन्धभेदात् विशेष्यभेद इत्यर्थः । देवदत्तः श्यामो युवा लोहिताक्ष इत्यत्र न विशेषणमिथोन्वयबाध इति तन्न –सत्यज्ञानवाक्ये विशेषणमिथोऽन्वयबाधः कथमवधारितः । श्यामत्वयुक्त्वा देरिवैकनिष्ठत्वस्यैव लाघवात् युक्तत्वात् ! ब्रह्मणो निर्विशेषत्वं सिद्धवत्कृत्य यदि सत्यत्वादेरे कनिष्ठत्वमसंभवीत्युच्यते, तर्हि सत्यत्वादिप्रत्येकधर्मोऽप्याश्रयाभावादसिद्धः स्यात् । ब्रह्मातिरिक्तस्या सत्यत्वात् । तथाच सत्यादिपदमर्थरहितं स्यात् । एवं सति सत्यत्वादिकं वाच्यम्, लक्ष्यं तु स्वरूपमिति भवदीयव्यवहारोऽप्यसंगतः । एवमनृतजडपरिच्छिन्नव्यावृत्तीनामेकनिष्ठत्वमस्ति न वा । तासां मिथोनियम्यनियामकभावोऽस्तीति वदतेष्टसिद्धिकारेण स्वीकृतमेवैकाधिकरण्यम् । यदि तत्र सत्यत्वानृतव्यावृत्त्योरसामानाधिकरण्यम्, तर्हि कथं सत्यपदेनानृतव्यावृत्तिरेव विवक्ष्यत इत्युक्तिः संभवति । अतो व्यावृत्तीनामिव सत्यत्वादीनामपि सामानाधिकरण्यमवर्जनीयमिति न देवदत्तो युवेति वाक्यवैलक्षण्यमत्र । ૪૮
सामानाधिकरण्यस्थले विशिष्टविषयकत्वं चेन्नियतम्, उद्भिदा यागेनेति सामानाधिकरण्यानुपपत्तिरित्यपि न ; उद्भिद्यागव्यक्तीनां देशकालपुरुष भेदेनानेकत्वात् देवताधिकरणभाष्यरीत्या आकृतिशक्तेरावश्यकत्वात् । उद्विदा यजेतेत्यत्र यागसामान्यस्याविधेयत्वात् विशेष्यस्यैव विधेयत्वाद्विध्यन्वयोषित्वा यजेयमत्वव्याप्यकिश्चिधर्मावच्छिन्नलक्षकत्वं वक्तव्यमिति तादृशधर्म एवोद्वित्त्वमिति न विशेषणाभावः । यदि खण्डदेवोक्तरीत्या फलोद्धेदन कारित्वमेवोद्वित्पदप्रवृत्तिनिमित्तम्, प्रयोगातिप्रसङ्गस्तु प्राचीन प्रयोगाभावाद्वारणीय इत्युच्यते, तदापि सामान्यरूपं विशेषणं सिद्धम् । धर्माभावेऽपि संज्ञेव प्रवृति वित्ततया भासत इति पक्षेऽप्यस्त्येव विशेषणमियं संज्ञा । उक्तञ्चाद्वैत सिद्धावेव, चैत्रोयमित्यादौ लोके, उद्भिदा यजेत पशुकाम इत्यादौ च वेदे प्रत्यक्षोपस्थितानामेव चैत्रोद्भिदादिपदानां नामत्वेनान्वयः " इति । अतो न विशिष्टविषयकत्वनियम-भङ्गः । " समानाधिकरणस्थले विशिष्टविषयकत्वे विशेषणयोः परस्परसमवायापत्तिः उद्देश्य विधेयभावस्थले उद्देश्यतावच्छेदक विधेयतावच्छेदकयोः परस्परसमवायो हि नियतः " इति लेखनमनुभवविपरीतम् परस्परासमवाय एव ह्यनुभूयते । नीलो घट इत्यादी किं नीलत्वे घटत्वं घटत्वे नीलत्वञ्चानुभूयमानमस्ति । क्वचित्तु घटः प्रमेय इत्यादौ घटत्वे प्रमेयत्वमबाधितम् । तत्रापि न परस्परसमवायः ; प्रमेयत्वे घटत्वस्य बाधात् । वस्तु प्रमेयमिति प्रयोगे तु कथञ्चित् वस्तुस्वप्रमेयत्वयोः परस्परसमवायः संभाव्यते । तत्रापि प्रमाविषयत्वं भिन्नमिनचेदिष्यते, वस्तुनिष्ठप्रमेयतायां वस्तुत्वरूपसत्ता येन संबन्धेन, न तेन सबम्पेन वस्तुनिष्ठप्रमेयतायां वस्तुत्वमित्यपि विवेचनीयम् । एवमुद्देश्यतावच्छेदकविधेयतावच्छेदकयोः यथाकथञ्चित्संभावितपरम्परासंबन्धेन चेत् समवाय इष्यते, कामं सर्वत्र । यदि च परस्परसमवायस्यानुभवदूरस्थापि स्वयमापत्तिमाशक्य तत्त्वमसीत्यत्र प्रवृत्तिनिमित्तत्यागः, तथा प्राथमिकवोधदशायां त्वम्पदार्थमुद्दिश्य तत्पदार्थाभेदप्रतिपादनमस्त्येवेति कथमुच्यते । अखण्ड थखण्डनप्रसाधनेम् ७९९ एवं वदंश्च भूतार्थवादे, पुराकल्पाद्यर्थवादेषु, काइयां त्रिभुबन तिलको भूपति रास्त इत्यादौ च वस्तुमात्रकथने तु नोद्देश्य विधेयभाव इति कथं ब्रवीति लिङाद्यर्थरूपविधिविषयत्वं नास्तीति वा, ज्ञानविषये अज्ञातज्ञाप्यस्वरूप विधेयवं नास्तीति वा । आद्यं तत्त्वमसीति वाक्येपि लिङाद्यभावादस्तीति स्पष्टम् । एवमन्त्यमपि ; ऐतदात्म्यमिदं सर्वमिति पूर्ववाक्यादेव, सदेव सौम्येदमआसीदित्युपक्रमवाक्यादेव च तत्त्वमर्थैक्यस्यापि यादृशतादृशस्य ज्ञातस्था= दज्ञातज्ञापनाभावात् केवलं स्वात्मपरमात्मैक्योपासनप्रदिदर्शयिषयोपसंहारमात्रकरणात् । यदि चाज्ञातज्ञाप्यत्वस्य वस्तुतो विरहेऽपि उद्देश्यस्वविधेयत्वारोपेण वाक्यप्रयोगः, वाक्यसामान्यस्य तदभावेऽयोगादिति + ! विभाव्यते, तर्हि भूतार्थवादादिप्वपि तुल्यम् । यत्तु सोमेन यजेतेत्यादौ विशिष्टविधावपि यत् किञ्चिद् भाव्यमुद्देश्यं सामान्यरूपेण प्रतीयत एवेतिसत्यमेतत्-तत्तु भावनाया भाव्यापेक्षश्रवखाभान्यात् भाव्यस्य चाभवणाव अस्ति किञ्चिदिति करूप्यमानं फलत्वात् भङ्गाङ्गिक्त् विधिविषयत्व विशेषभाः न भवतीति भाव्यमेव तथापि अज्ञातज्ञाप्यत्वरूपं विधेयत्वं फलस्य सर्वथा नः भवतीति न शक्यं वक्तुम् । अत एव सोमेन यजतेति विहितस्य यागस्य फ संबन्धो विधीयते, ‘ज्योतिष्टोमेन यजेत स्वर्गकाम’ इतिवाक्येनेति न्यायप्रका शादावेवोक्तमस्ति । अत एव चाधिकार विधिरिति नाम । एवञ्च सौंर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्यादौ अज्ञातज्ञाप्यत्वांशे पर्यालोच्यमाने विशिष्टं विधीयते सर्वमज्ञातं ज्ञाप्यत इत्येव वक्तव्यमित्यलम् । त्वम्पदस्य जीवशरीरक परमात्मवाचित्वे असीतिमध्यमपुरुषान्वयः कथमिति चेत्—भवन्मते तत्त्वपदयोः स्वरूपमात्रलक्षणायां स्वरूपमस्तीत्येव प्रयोक्तव्यत्वात् असीत्यस्यान्वयः कथमिति तुल्यम् । प्रत्युतास्मन्मते आभिमुख्यादेर्विशेध्ये परमात्मनि. बाधेsपि विशेषणतया प्रतीते जीवे समन्वयात् शिखी ध्वस्त इत्यत्र ध्वंसस्येव, दध्ना जुहोतीत्यादौ विधिविषयत्वस्येव च विशेषण संक्रमः सुवचः, भवन्मते. सर्वथैवानन्वयः । व्यक्तमिदमाचार्यविरचितेशोपनिषद्भाष्यादौ । वस्तुत ईश्वर · . स्यापि स्तुतिविषयस्याभिमुख्यादिकमबाधितमिति असीत्येतदन्वयायोग्य मित्यपि नास्ति । अथापि श्वेतकेतो इति पुत्रं संबोध्योपदेशः क्रियत इति प्रकरणौचित्याय विशेषणान्वयमाद्रियामहे । यच्च त्वत्पुत्रको देवदत्त इत्यादावपि असिपदप्रयोगापत्तिरिति, तत्र त्वत्स्वरूपमस्तीत्यत्रापि असिपदप्रयोगापत्तिमा लोच्य तूष्णीं भवितव्यम् । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः " इति खलु पाणिनिसूत्रम् । युष्मदो यः कश्चिदर्थोऽस्तु तत्पद सामानाधिकरण्यमस्ति न वेत्येव विमृश्यमिति नैवमापत्तिरिति समाधिश्वोभयोरविशिष्टः । यदपि भिन्नप्रवृत्तिनिमित्तकत्वे सति एकार्थपरत्वं सामानाधिकरण्यमित्यत्र विशेषणदलं घटः कलश इति प्रयोगवारणाय । तावता प्रवृत्तिनिमित्तमवश्यं विवक्षणीयमिति न निर्बन्ध इति । तन्न –प्रवृत्तिनिमित्ताविवक्षाय घटः कलश इत्यापत्तिवारणाभावात् । यदि स्वरूपमात्र लक्षणया सामानाधिकरण्यं कचित् संभाव्यते, तर्हि घटः कलश इत्यत्रापि तल्लक्षणया बोधः किं न स्यात् । यदि प्राथमिक बोधो भिन्नप्रवृत्तिनिमित्तविषयको यत्र, तत्रैव सामानाधिकरण्यमित्याशयः । सत्यंज्ञानमित्यत्र कथं प्राथमिकबोधः, विरोधादैक्यस्य मानानर्हत्वात् । यदि विशेष्यमात्रैक्यविवक्षया तद्भानसंभवः, तर्हि तदेवालमिति किं स्वरूपलक्षणयेत्यलं पिष्टपेषेण । यत्तु देवदत्तः श्यामो युवा लोहिताक्ष इत्यत्र श्यामादिविशेषणभेदात् वाक्यभेद एव । अतो विशेषणभेदे विशेष्यैक्येऽपि भिन्नार्थत्वमेवेति तेन किमुक्तं भवति ? यदि प्राप्तदेवदत्तोद्देशेन श्यामत्वयुक्त्वा देरेकेन वाक्येन विधातुमशक्यत्वात् वाक्यभेद इति मीमांसकमतवर्णना, अस्तु तावत् । सत्यंज्ञानमनन्तं ब्रह्मेत्यत्रा प्यनेकविशेषणप्रयोगादेवमेव भविष्यति । परन्तु सत्यादिपदानां द्वितीयान्तत्वात् यो वेदेति वेदनक्रियान्वयात् कृत्स्नस्य मन्त्रस्य विशेषण भेदेनाssवर्तनेन वाक्य भेदकल्पने प्रमाणाभावात् यच्छब्दनिर्देशानुरोधेन सिद्धवदनुवादचिन्तनया एकवाक्यतया मन्त्रयोजनेऽपि पाठिकब्रह्मोद्देश्यक सत्यत्वादि अखण्डार्थखण्डन-प्रसाधनम् ८०१ विधेयकबोधार्थ नानावाक्यकल्पनं भावनीयमिति कध्येत । एवमपि देवदत्तवाक्ये श्यामत्वयवत्वादेरेकत्र देवदत्ते समन्वयौचित्यं यथा परिशील्यते, तथा प्रकृतेऽपीति भाव्यम् । तत् कथमुच्यते विशेष्यैक्येपि भिन्नार्थत्वमिति । विशेष्यैक्ये सति भिन्नत्वायोगात् । विभिन्नवाक्यप्रतिपाद्यत्वरूपभिन्नार्थत्वस्य च वस्तुभेदानापादकत्वात् । वस्तुत एकविशेषणस्थलेऽप्यनौचित्यमेव भवताम् । देवदत्तः श्याम इत्येतावदुक्तावपि देवदत्तत्वश्यामत्वयोरन्योन्यसमवायप्रसंगेन विशेषणयोस्त्याज्यत्वात् । अन्यथा भिन्नार्थत्वप्रसंगात् । तत् त्वमसीलि एक विशेषणस्थले तथैवोक्तेः 1 व्यधिकरणवाक्यानामनेककारकविशिष्टै कार्थबोधकत्वं विभागे साकांक्षत्वादिष्यते नैवमनेकविशेषणोपादाने, विभागे निराकांक्षत्वात् " इति च न तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रैकवाक्यत्वत्यागापत्तेः । सवत्सा गौः क्रीता, धूमवान् पर्वतो वह्निमानित्यनेकपदसामानाधिकरण्येऽप्येकवाक्यतासद्भावाच्च । } समानाधिकरणवाक्यस्य स्वरूपमात्रलाक्षणिकत्वे एकमेव पदं पर्याप्त मित्यत्र यदुक्तम् -पदान्तरमावश्यकम् तथासत्येवान्वयानुपपत्त्या स्वरूपलक्षणा स्वीकारात् । तात्पर्यानुपपत्त्या लक्षणा स्यादिति चेन्न –तात्पर्यस्य वाक्यरूपप्रमाणसहकारित्वात् । पदस्य केवलं स्मारकत्वेनाप्रमाणत्वाच्चेतितन्न पदान्तरसमनिव्यवहारः स्वार्थान्वयानुपपत्त्याऽर्थान्तरलक्षणाप्रयोजकश्चेत्लक्षितेनार्थेनान्वितेन भाव्यम् । न च स्वरूपलक्षणायां तस्य पदान्तरार्थेनान्योऽस्ति । अभेदेनान्वय इति चेत् — तर्हि संसर्गासंगिधीहेतुत्वं त्यक्तं स्यात् । पदद्वयं मिलितं स्वरूपलक्षकमित्यनङ्गीकारे अभेदस्य च संसर्गत्वानिष्टौ अनन्वयदोषस्तदवस्थः । मिलितञ्चेत् लक्षकम्, अनेकपदसमुदायात्मकार्थवादलक्ष्यप्राशस्यस्येव स्वरूपस्य पदार्थविधयैवोपस्थितत्वादेकपदाविशेष इति भवदुक्तरीत्यैवाप्रमाणत्वम् । तात्पर्यानुपपत्त्या स्वरूपलक्षणायाञ्च को दोषः ? तात्पर्य वाक्यप्रमाणक सहकारीति तु न ; 101 ८०२
शाब्दबोध सामान्ये तात्पर्यज्ञानं कारणमिति ये न मन्यन्ते, तैर्नानार्थस्थले तात्पर्यज्ञानं कारणमिति वदद्भिः तत्रापि सैन्धवमानयेत्यादौं सैन्धवपदं लवणरूपार्थोपस्थापनेच्छया प्रयुक्तमिति तात्पर्यज्ञानमात्रेण लवणलक्षणया बोधोपपादनसंभवात् पदलक्षणामात्रेऽपि तात्पर्यस्योपक्षीणतायाः बहुलं वक्तुं शक्यत्वात् । ब्रह्म वेद ब्रह्मैव भवतीत्यादौ ब्रह्मभावसाधनतयोक्तस्य वेदनस्य विशिष्टविषयकत्वासंभवपर्यालोचनया शक्यार्थ बृहत्त्वबृंहणत्वत्यागेन खरूपलक्षणायाः स्वीकारात् तद्वत् प्रकरणादितात्पर्यग्राहकवशादेकपदेनापि लक्षणासंभवेन तदर्थ पदान्तरानपेक्षणाच / " अहो विशेषणपदप्रयोगे विशेषणाभावतात्पर्यं निश्चीयते, तदप्रयोगे तु नेति सम्यक् परीक्षकत्वम् " इति शतदूषण्युक्तं सावधानं सहृदयं भाव्यम् । अनेकपदाभावे संशय विपर्ययाद्यनुपहि ( ह ?) तस्वरूपैक्यं निर्णेतुमशक्यमिति चेन्न यावदेव स्वरूपमेकपदोपात्तम्, तावदेवानेकैरपि पदैरिति संशयविपर्ययोपघाततदभावौ अविशिष्टावेव स्यातामिति । एकपदोपादाने इतरव्यावृत्तिसंशयादिकं नापैतीति चेत् सत्यमिति पदबोध्यं सत्यत्वं किं ब्रह्मणि स्थित्वा अनृतव्यावृत्तिबुद्धिं जनयति, उतास्थित्वा । अन्त्ये सत्यो घट इति प्रयोगेऽपि ब्रह्मणि व्यावृत्तिधीः स्यात् । आद्ये कथं निर्विशेषता । सोयं देवदत्त इत्यत्रेव स्थितस्यापि विशेषणस्या विवक्षामात्रमिति चेत्-एवमपि निर्विशेषत्वस्य व्यावृत्तिधियश्चाभाव एव । सत्यशब्दप्रवृत्तिनिमित्तञ्च मुख्यं किन्निष्ठमिति च विचार्यम् । ज्ञानत्वमपि तन्निष्ठमन्यनिष्ठ वा । अन्यनिष्ठत्वे कथं सामानाधिकरण्यम्, सविशेषब्रह्मद्वयापत्तिश्च । तन्निष्ठत्वे चाविरोधात् कुतो विशेषणत्यागः । निविशेषसिद्धयर्थमिति चेत्न हि स्वाभिमतसिद्ध्यर्थं प्रमाण गतिभंजनीयेति । ‘यतो वाचो निवर्तन्त ’ इत्यस्य श्रवणसध्रीचीनान्तः करणवृत्तिमात्रव्याप्यत्वेऽपि प्रकारान्तरेण वाङमनसातीतत्वमस्तीत्यर्थप्रतिपादकत्वमित्युक्तिश्चार्थशून्या । सर्वेषामपि पदार्थानां वाग्विषयत्वं नाम श्रवणविषयत्वम्, मनोविषयत्वं नामान्तःकरणवृत्तिविषयत्वमित्यतः किमन्यदस्ति । अतो घटादावपि यतो वाचो निवर्तन्त इति } भखण्डार्थखण्डनप्रसाधन ८. ३ ; स्तुतिः स्यात् । यदि च वृत्तिव्याप्यत्वमेव, न तु फलव्याप्यत्वमिति विवक्षितम् तर्हि अज्ञेयमित्येवं वक्तव्यम् ; न तु यतो वाच इति वृत्तिविषयत्वाभावस्यैवेतोऽवगतेः । इष्टसिद्धिरीत्या सविशेषवाक्याप्रतिपाद्यत्वं यतो वाच इत्यस्यार्थः स्यादिति चेत्-पटादेरपि पटादिवाक्याविषयत्वात् तत्राप्येतादृशव्यवहारापत्तिः । सर्वस्यापि पदस्य सविशेषवाचित्वात् सर्वं सविशेषवाक्यमेवेति सविशेषवाक्याप्रतिपापत्वं नाम वाङ्मात्राप्रतिपाद्यत्वमेवेति न किञ्चिद् वाक्यं तत्र प्रमाणं स्यात् । अस्तु तथैव; स्वानुभवमात्र । सिद्धत्वादिति चेत् — खानुभव इति किं भवदनुभवः, उत सर्वानुभवः, आहो जीवावस्थानापन्नब्रह्मानुभवः, आये अन्यं प्रति तज्ज्ञापने किं प्रमाणमिति परिशील्यताम् । न किञ्चिदिति चेत् -व्यर्थम द्वैतग्रन्थरचनम् । अत एव न द्वितीयः ; कस्यापि संशयप्रसत्तत्यभावात् विवादासंभवप्रसंगाच्च । न तृतीयः, अद्वैतोपदेष्टृणां कथं तज्ज्ञानमित्यस्य विचार्यत्वात् । यस्त्वाक्रोशः बोधयनेन, श्रीभाष्यकारेण, तदनुयायिभिर्वा किमस्यामेव पृथिव्यां सविशेषा मुक्तिः, वैकुण्ठलोकादिः, किं बहुना, पुरुषोत्तमः, अन्ये च तदनुबन्धिनोऽनुभूयन्ते " इति, तत्रानुभूयन्त इत्येव तात्त्विकमुत्तरम् । अवतारपुरुषैर्योग बलसंपन्नैश्च सुखमेवानुभूयमानलात् । श्रीभाष्यकाराणां तथा तत्त्वसाक्षात्कारश्ध गद्यादिषु विशदः । अन्येषां त्वर्वाचीनानां श्रुतिमहिम्ना तत्सिद्धिप्रकारः कथं दण्डेन वार्यत इति चेत् न वयं दण्डेन वारयामः । निर्विशेषं तत् नानुभवसिद्धमिति भवतैव तर्हि स्वीकृतं भवतीत्यभिधाय, निर्विशेषवाक्यमेव न किञ्चिदुपलभ्यते, येन तत्सिद्धिः स्यादित्येव प्रतिबोधयामः । ब्रह्मणि स्थितान् विशेषान् अपलप्य वाक्यस्य स्थितं विशेषपरत्वमपि भञ्जयित्वा निर्विशेषसिद्धि रोचयमानानां तु न संप्रति श्रुतितस्तत्सिद्धिः, न च पश्चादनुभवोऽपीति तत्त्वम् । यत्तु विषं भुंक्ष्वेत्यादाविव तत्त्वमसोत्यत्रापि सर्वपदलक्षणा साम्प्रतम् ; तत्र प्रत्ययस्य लाक्षणिकत्वं नास्ति चेत् — अत्रापि विभक्तेर्न लाक्षणिकत्वम्,
1 प्रातिपदिकार्थमात्रे प्रथमेति प्रथमायाः स्वरूपार्थकत्वादिति — तत्रोच्यते । द्विषदन्नादिकमनर्थकरं मा भुति विषं भुंक्ष्वेत्यस्यार्थः । तत्र विषप्रातिपदिकस्य तादृशभक्ष्ये, प्रवर्तनावाचिनो लोटो निवर्तनायाञ्च लक्षणासत्त्वेऽपि द्वितीयायाः धातोश्व लाक्षणिकत्वं नापेक्षितम् । प्रकृते प्रातिपदिकार्थे प्रथमानु । शासनात शक्त एव प्रत्यय इति चेत् -सत्यं ज्ञानमनन्तमिति द्वितीयान्ते का गतिः । न हि द्वितीयाऽपि प्रातिपदिकार्थेऽनुशिष्टा । तथा च तत्र सर्वपदलक्षणा स्यात् । ऐक्यं विभत्तत्यर्थः शक्य इति चेत् -तत्र किमनुशासनमस्ति । लोकनिरूढिस्तु प्रवृनिमित्तापरित्यागे सर्वप्रवृत्तिनिमित्तविशिष्टवस्तुबोधनसामर्थ्यात् रक्ष्यते । उपपादितञ्च तत् अरुणाधिकरणपरिष्करणेन श्रीभाष्ये । एवं समानाधिकरणपदानामेकविशिष्टार्थव्युत्पन्नत्वात् समास इव व्यासेपि तादृशविशिष्टस्य किञ्चिदुद्देशेन विधानेऽप्यवाक्यभेदः सत्यप्यनेकपदोपात्तत्वे । अये पावकाय, अमये दात्रे इत्यादौ शास्त्रदीपिकोक्तमप्येवमेव निर्वाम् । सर्वपदलाक्षणिकत्वे चामितविधानवादो न भवति लाक्षणिक पदं नानुभावकमिति नियमात् । अयमाशयः -पदानामन्वितबोधे शक्ति वृद्धव्यवहाराद् गृहीत्वा व्युत्पन्नो वाक्यान्तरश्रवणे तत्पदानामप्यन्विते शक्तिमाकलयति । तथाच लाक्षणिकस्य पदस्यान्वितशक्तिमत्त्वाभावात् लाक्षणिकं पदं नानुभावकमित्युच्यते । अतः सर्वपदलक्षणायां बोधो न स्यात् । ; आस्तामयमेकपद सर्व पदलक्षणाविचारः । बिना लक्षणां संभवति निर्वाहे सा न युक्तेत्येतत्तु न शक्यं प्रतिषेद्धुम् । वाच्यार्थप्रधानैकदेशत्वात् विशेष्यस्वरूपस्य न तत्र लक्षणादोष इत्याक्षेपोपि शतदूषण्यां पर्यहारि, ’ तथापि खारस्यहा निरवर्जनीयैव’ इति । शुद्धात् विशिष्टमतिरिक्तं मिथ्येति पक्षे तु शुद्धे लक्षणादोषः स्फुटः । किश्च स्वरूपमात्रस्य पदैर्लक्षणायां ज्ञानस्यासंसर्गानवगाहित्वे अभिहितान्वयो वा अन्विताभिधानं वा न संभवति, उभयस्याप्यन्वयघटितत्वात् । अखण्डार्थखण्डनत्रलधान ८०५ अो बोध एव कथम् । यत्तु तात्पर्यविषयसंसर्गबोधकत्वं न शब्दप्रामाण्यम्, किं तु तात्पर्यविषयबोधकत्वम् तत् अखण्डार्थकत्वेऽप्यस्तीति । तन्त्रगङ्गा शब्दात् लक्षणया तीरग्रहे तावता गङ्गाशब्दमात्रस्य प्रमाणत्वापत्तेः I प्रथमतः अस्यायमर्थः इति शब्दव्युत्पादनकाले शब्दादर्थबोधस्य जायमानतया पदस्यापि प्रमाणत्वापत्तेः । न च तीरादिग्रहः स्मृतिरेवेति वाच्यम्–. सत्यज्ञानादिवाक्ये स्वरूपबोधस्यापि स्मृत्यविशिष्टत्वात् । विशिष्टार्थे शक्तिबलादुपस्थिते विशेषणं विहाय विशेष्यमात्रज्ञानं हि एक देशस्मृतिरेव । न च स्मृतौ स घट इत्येवं तत्तोल्लेखदर्शनात् पदार्थज्ञानस्य स्मृतित्वं न भवतीति वाच्यम् स्मृतिप्रमोषत्वखीकारात् । तदिदं तत्त्वविन्दौ वाचस्पतिमिश्रैरेवोपपादितमिति, ‘स्मृतिप्रमोषे न प्रमाण ’ मित्यद्वैतसिद्धयुक्तमपास्यम् । स्मृत्यनुभवविलक्षणज्ञानकल्पनापेक्षया स्मृतित्वस्यैव युक्तत्वात् । अनुभूतैकदेशस्मृतेराचार्योपदिष्टार्थादिषु सर्वत्र चानुभवसिद्धत्वेन तथैव तत्तांशास्मरणोपपत्तेः । व्युत्पादयित्रा यदंशेऽवधानं संपाद्यते, व्युत्पित्सोस्तदंशमात्र स्मरणं भवतीत्यनुभवसिद्धम् । एवञ्च देशकालयोरवधानाभावे तत्तांशो न स्मर्यते । अतोऽभिहितान्वयवादे तार्किकमत इव पदशक्तिस्मरणाधीन पदार्थस्मृतिरेव पूर्व भवति संस्कारसत्त्वात् स्मृत्यनधिक विषयकस्य ज्ञानस्य स्मृतिभिन्नत्वे मानाभावात्; अतो न स्मृत्यनुभवविलक्षणं ज्ञानमिति । अनुभवस्तु तदनन्तरमुपस्थितार्थगतसामर्थ्यवशादन्वय विषयक इत्येव वक्तव्यम् । यदा च समानाधिकरंगस्थलेऽन्वयांशस्त्यज्यते, तदा पदार्थस्मृतिमात्रेणावस्थान-’ मिति अनुभवोत्पतिरेव नास्ति; कुतोऽभिहितान्वयानुभवः ; कुतस्तरामभिहितान्वयवादः । सिद्धिचन्द्रिकाकारादयः स्वच्छन्दतः सत्यादिवाक्यगतपदानां स्वरसार्थपरित्यागवत् अभिहितान्वयान्विताभिधानपदयोः परिभाषितार्थपरित्यागस्यापि कल्पनया आकांक्षादिबलात् यादृशबोधशक्तिर्यत्र तत्र तादृश एव अभिहितन्वयान्विताभिधानपदविवक्षित इति कल्पयन्ति । एतदपेक्षया मीमांसककृतं नियमं न वयमादियामहे इति कथनमेव युक्तम् । मार्गेणाखण्डार्थबोधसिद्धिः । तस्मान्न केनापि ૮.૬ क्रियते ।
विप्रतिपन्नं वाक्यं विशिष्टपरं बोधकत्वादित्यत्र विशिष्टपरत्वं नाम विशिष्टतात्पर्यकत्वम् । तदस्ति न वेति विवादे तदनुमानं बोधकत्वहेतुना तत्र विप्रतिपन्नं वाक्यं निर्विशेषपरं निर्विशेषता त्पर्य कत्वादिति सत्प्रतिपक्षवर्णनमसंभवि, विशिष्टतात्पर्यकत्वसंशये सति निर्विशेषतात्पर्यकत्वरूप हेतुनिश्चयायोगात् ; प्रति पक्षहेतु तत्साध्ययो र विशिष्टत्वाच्च । अप्रसिद्धश्च निर्विशेषम् । अतोऽसिद्धः प्रतिपक्षः । असत् शशशृङ्गमित्यत्र च न व्यभिचारः; तस्य बोधकत्वानङ्गीकारात् । विकल्पाख्यवृत्तिस्वीकारे तु असत्त्वशशशृङ्गत्वयोः सामान्यविशेषभावस्यापि कल्पनया विशिष्टपरत्वस्यापि स्वीकारसंभवान व्यभिचारः । 1 सामान्यतोधर्मधर्मितद्वैशिष्टयपरमित्यर्थं खर विशिष्ट परमित्यस्य समुपेक्ष्य जीवपरमात्मशरीरशरीरिभावपरमित्यर्थो वा सामान्यतः शरीरशरीरिभावपरमित्यर्थो वेति विकल्प्य दूषणमनवसर विस्तरः । तत्त्वमस्यादिवाक्यं शरीरशरीरिभावपरं न भवति बोधकत्वात् वाक्यान्तरवत् चक्षुरादिवश्चेत्यप्यनुपपन्नम् चैत्रो ज्ञानीत्यादिवाक्यैरनेकान्तात् । वक्तृतात्पर्यानुसारेण कचिच्छरीरशरीरिभावस्यापि लौकिकवाक्ये विवक्षणीयतया तत्र व्यभिचाराच्च । अन्यथा घटवद्भूतलमिति वाक्यं घटविशिष्टभूतलविषयकबोधजनकं न भवति, पटवान् पुरुष इत्यादिवत्, वाक्यसामान्यं न शब्दबोधजनकं चक्षुरादिवत्, परामर्शो नानुमापकः प्रमाणान्तरवत्, चक्षुरादिकं न प्रत्यक्षजनकमनुमानादिवदित्याद्यपि प्रयुज्येत । तत्त्वमसिवावयस्य चिदचिदुभयशरीरकपरमात्मपरत्वं कथम् अचिद्वाचकपदाभावादिति चानुक्तोचिदचिदुभयशरीरकपरमात्मपरं वेदान्तवाक्यं नास्तीति च " सर्व खल्विदं ब्रह्म " सच्च त्यच्चाभवत् " इत्येवमनेक अधिकमन्यत्र ॥ पालम्भः । विप्रलम्भः ; वाक्यदर्शनात । 66 सत्यत्वज्ञानताद्यान्यनृतजडपरिच्छिन्नतावत् यदि स्युः ब्रह्मावर्तीनि, कस्मान्न गदति निगमोऽसत्यमज्ञानमेतत् । तत्सत्त्वे निर्गुणत्वं कथम्, अहह हठात्कृत्य सर्वापलापः वादश्चेदृक्षमीशः सहत इति महानेष भव्यो गुणोऽस्य ॥ शुभमस्तु श्रीः