यस्मिन् भव्यगुणास्पदत्वमनिशं यस्माच्चितां भिन्नता यत्साम्यं क्वचिदंश एव परमं श्रुत्यादिभिर्धुष्यते । सोऽयं सर्वजगज्जनिस्थितिलयाद्यश्रान्तलीलोत्सुकः सेव्यः संततमस्तु मुक्तिफलदः श्रीवल्लभः श्रेयसे । ७६५ अद्वैतिभिर्व्यवहारदशायां जीवेश्वरभेदस्याभ्युपगतत्वात् जीवत्वेश्वरत्वोपलक्षितशुद्ध स्वरूपैक्यस्यैव मोक्षे स्वीकृतत्वात् जीवत्वेश्वरत्ववि शिष्टयोरैक्य-भङ्गसमर्थनं नाद्वैतिदूषणायालम् ; तथा मुक्तौ पारतन्त्र्यस्य दुःखवहत्वतदभावविमर्शोपीति शतभूषणी मन्यते । तत्र पारतन्त्र्यस्य दुःखवहत्वं भवद्भिः स्वीकृतं न वा । आद्ये तदभावनिरूपणविस्तरः शतदूषणीकृतां प्राप्तावसर एव । अन्त्ये, दुःखवहत्यंस्याद्वैत्यसंमतत्वे भवता तत्सद्भावप्रपञ्चनमपसिद्धान्तः । एवमीश्वरैक्यविषयेऽपि विवेचनीयम् । किं जीवत्वविशिष्टस्येश्वरत्वविशिष्टेनैक्यम् किं वा ईश्वरत्वो पलक्षितस्य जीवत्वविशिष्टैक्यम्, उत जीवत्वेश्वरत्वो पलक्षितव्यत्तयैक्यम्, आहो जीवत्वोपलक्षितस्येश्वरत्वविशिष्टेनैक्यम् । प्रथमेऽपि द्वैध संभाव्यते-जीवत्वप्रयोजक शरीरस्यैवेश्वरत्वप्रयोजकत्वाभिमानात्, तत्तत्प्रयोजक शरीरद्वयेऽप्यात्मैक्याद्वेति । तत्राद्यं हिरण्यकशिपुप्रभृतिगृहीतम् । अद्वैतवासनावैवश्यक्षुब्धमनसां केषाञ्चिदेषाऽपि रीतिः समापतति, यदुपश्रवणेन ७६६
पामरा अपि तथैव भ्राम्यन्ति कचित् । अन्त्यं तु जीवत्वदशायामेव शरीरान्तरेणेश्वरत्वाविष्करणात् । तदा च सौभरिणेव नानाशरीरपरिग्रह इत्युक्तं भवति एकदैव सुरनरखरादिनानादेहग्रहणं योगिष्वनुमतं सर्वेषाम् । एवञ्च तद्वदेव परस्परशरीरावच्छेदेन प्रतिसंधानपसापादनमपरिहार्यम् । अथ द्वितीयपक्षपरिग्रहे ईश्वर एवेश्वरत्वं विहाय कर्मपारवश्येन जीवत्वं लभत इति स्वीकृतं भवतीति नित्यनिरुपाधिकैश्वर्यवादत्यागः स्यात् । न हि व्यवहारदशायामादिमध्यावसानेषु स ऐश्वर्यदरिद्रो दुःखपरीतश्च कदाचित् भवतीत्यद्वै तिभिरपीष्यते । सिद्धान्तलेशसंग्रहे श्रीरघुनाथादेर्दुः खामिनयमात्रम्, न तु व्यावहारिकसत्यमपीत्यभिधानात् । सहस्रनामशाङ्करभाष्ये च संभवनामन्व्याख्याने तथा भगवद्वचनोपादानात् । अतोऽस्यापि हेयत्वात् तृतीयं पक्षमेव शतभूषण्यादरणीयम्-अद्वैतसाक्षात्कारे जीवत्वेश्वरत्वनिवृत्तौ तदेकव्यक्तिपरिशेष इति । अस्मिन्नपि पक्षे सर्वेः सर्वप्रतिसंधानं कर्तव्यं भवेत्, विशिष्य च सर्वज्ञेनेश्वरेण जैवक्लेशानां स्वकीयत्वानुसंधानमवज्यमिति आत्मैक्य-भङ्गवाद एवोपपादितम् । जीवेश्वरभेदे प्रत्यक्षानुमानागमसिद्धे, स्वारस्यात् अप्रतिसंधानादितर्क बलात् ईश्वरनित्यनिर्दुःखत्वादिवचनबलाच्च तेषां प्रमाणानां व्यक्तिभेदविषयकत्वे स्पष्टे जीवैश्वरैक्यप्रतिपादकं प्रमाणशकलं जडेश्वरैक्यप्रतिपादकवचन तुल्ययोगक्षेममिति च विस्तृतं शतदूषण्याम् । आह च भगवान् बादरायणः " अश्मादिवच्च तदनुपपत्तिः " इति । चतुर्थस्तु पक्षः शतभूषण्यामत्रानादृतोऽपि अद्वैतिसंमत एव । सिद्धान्तलेशसंग्रहे च जीवस्य पश्चादीधरैक्यमेव मोक्ष इति पक्ष एव बहुतरभाष्यादिग्रन्थसंवादप्रदर्शनेन परम आदरो मुक्तकण्ठमबोधि । सगुणब्रह्मोपासिनाम विद्यानिवृत्ति विना तत्सायुज्यमात्रम्, तदा संकल्पमात्राधीनकतिपयव्यापारशालिनोऽपि न जगद्व्यपारादिकमस्ति । यदा पुनरद्वैततत्त्वसाक्षात्कारादविद्या निवृत्तिः, तदा जीवस्य साक्षादीश्वरभाव एवेति तन्मतम् । नृनम् ’ उत्क्रमिप्यत एवम्भावादित्यौडुलोभिः ’ इति सूत्रमेवमभिप्रायम यदि जीवैश्वरैक्यभक्त-प्रसाधनम् ७६७ मपि नीयेत, नानुरुध्येत । एवं शतभूषणीकण्ठोक्तस्य च सिद्धान्तलेशसंग्रहाद्युक्तस्य चान्यादृशस्य च जीवेयरैक्यस्य दूपणीयस्य दूषणार्थं शतदूषण्यां विस्तर आहत इति नैतत् प्रकृतानुपयोगि । ईश्वरपारतन्त्र्ये दुःखमपि स्यादेवेति भवता किञ्चिदपूर्वमुक्तमिति भवादृशाशयनिरासि सूक्तिजातमपि संपन्नावसरमेव । काशकृत्स निर्देश्युपरितनसूत्राभिनिविष्टसूत्रभाष्यं तत्राप्पय्यदीक्षिताद्याहृतच तुर्थपक्ष नरसने नूनमवधातव्यम्; अन्यस्यास्मैक्य-भङ्गवादेनैन समाहितप्रायत्वात् । अयञ्च जीवस्येवरभावः किंप्रमाणकः किमुपायसाध्य इति म्रियम् । सगुणोपासनफलं श्रुतिदर्शितं सगुणब्रह्मसायुज्यमात्रम् । निर्गुणसाक्षात्कारफलञ्चैव शुद्धब्रह्मभावः शास्त्रार्थत्वेनाभिमतः । तदुभ विलक्षणेटश कलवोधिवाक्यं कीदृशप्रकरणनिविष्टमस्ति । निर्गुणविद्याप्रकरणे यदि किञ्चित् सविशेष एव संमन्तव्यं फलं श्रूयेत, तत् सर्वं केवलप्रशंसारूपं वा ग्राह्यम्; उत्कर्षो वा तादृशवाक्यानां प्रकरणादिति भवदीयैर्निष्कृष्टतयाऽपि निर्गुणवियाकलं नेश्वरभाव इति ज्ञायते । कार्याधिकरणे गत्या कार्यब्रह्मप्राप्तिः, गतिं विना परब्रह्मभाव इत्यैतावदेवोक्तम् । ईश्वरभावस्यापि चाविद्याधीनत्वात् तत्त्वज्ञानेनाविद्या निवृत्तौ नेश्वरभावपरिशेषप्रसक्तिः । न च ईश्वरस्येश्वरत्वं न स्वाविद्याकृतम् ; तस्य निरञ्जनत्वात् । किं तु जीवाविद्याकृतमेव । तत्र एवजीवाविद्यानिवृत्तावपि जीवान्तरा विद्यासत्त्वात् तदधीनैश्वर्यस्यानिवृत्तत्वान्न दोष इति युक्तम् ; जीवा विद्यानां जीवेष्वेव भ्रमादिहेतुतया ईश्वरे ब्रह्मज्ञानबाध्यपपश्च सद्भावतदधीनैश्वर्याद्यनेकभ्रम जनकत्वायोगात् । सर्वजीवाविद्याकल्पितश्चेदीश्वरभावः, ईश्वरतद्गतसार्वञ्च सर्वशत्तयादिधर्मादीनां कल्पितानां सर्वजीवज्ञातत्वमेव स्यादिति न कश्चिज्जीवोऽनीश्वरवादी वा असर्वज्ञो वा स्यात् । येषामविद्यया न कल्पित ईश्वरः, तेषां तदज्ञाने प्रशंसेव स्यात् भ्रमसंख्याहासात् । ईश्वराज्ञानादसत्कल्पत्वमत एव न युक्तम् । सर्वेषां जीवानामप्युक्तरीत्या निर्गुणब्रह्मसाक्षात्कारस्येश्वरभावरूप ૭૬
फलं प्रत्येवाविशेषात् कारणत्वमिति अविद्यानामनन्ततया अन्तिमा काचिदविद्या भवतीत्यत्रापि विवादात् कदापि ब्रह्मपरिशेषस्वरूपमीक्षस्थानापत्तिरपि । अन्तिमा विद्यायाः सूपपादत्वपक्षे चेश्वरस्येश्वरत्वं क्रमेण हसतीत्यङ्गीकर्तव्यं भवति । कथञ्च तत्त्वज्ञस्य जीवस्य स्वाविद्यानाशे परकीया विद्या कल्तेिश्वरभावस्य प्रसक्तिः । तथासति तत्कल्पितजीवभावस्य तुल्यनयादापत्त्या पुनरनिर्मोक्ष एवेति न कश्चिन्मुक्तः स्यात् । अन्तःकरणसञ्चारे तत्तद्देशभेदेन जीनभेदश्च स्यात् । एकान्तः करणस्थाने अन्यान्तःकरणप्राप्तौ तदुभयाव च्छिन्न जीवैक्यमपि स्यात् । भुवि कर्तुः दिवि भोक्तुश्चैकताऽपि न स्यात् । अविद्याविभुत्वपक्षे च सर्वाविद्यावच्छिन्नोऽपि चैतन्यप्रदेश एक एवेति सर्वजीवसमाहारात् जीवानेकत्वमेव नोपपाद्येत । अत एवैकजीववादमिव अवच्छेदवादमप्युपेक्ष्य प्रतिबिम्बवादं रोचयामह इति चेत् — चैतन्यस्य प्रतिविम्बासभवो भवदीयै रेवोपपादितः । किञ्च प्रतिबिम्बं बिम्बादीश्वरादन्यत् अनन्यद्वा । अन्यत्वे स्वस्मिन् अहं ब्रह्मास्मीत्यैक्यानुसंधानमशक्यम् । मिथ्याभूतस्य प्रतिबिम्बस्य तत्त्वज्ञानान्निवृत्तिरिति जीवनाश एव मोक्षः स्यात् । अत एव बिम्बप्रतिबिम्बभेदात्, निवृत्तस्य तस्येश्वरभाव एव दुर्वचः । अनन्यत्वे प्रागेवेश्वर इति किम विद्यानिवृत्त्या साध्यमस्ति । एवञ्चैकैकाऽप्यविद्या चैतन्यस्य जीवभावमीश्वरभावञ्चाssधाय संसारसागरान्तर्निमज्जयति सकलकल्याणगुणगणार्णवञ्च करोति युगपदिति जीवत्वविशिष्टस्य चेश्वरत्वविशिष्टस्य चैकत्वमिति प्राच्यः पक्ष एवं पुनरादृतः स्यात् । एवं तु सति निरञ्जनेश्वर भावस्यापि निवृत्त्या सुखातिशयानुभवोच्छेदो मा भूदिति प्रथमत एव पुरुषेण जागरूकेण अविद्यामिथ्यात्वमस्वीकृत्य तद्गतसंसारक्लेशौपयिकशक्तिमात्रमिध्यात्वनिर्णयरूपतत्त्वज्ञानेन तावन्मात्रबाधेन ईश्वरभावलभ्यमानन्दमविलोपयता भूयेत । नानामिध्यामध्ये यदंशे मिथ्यात्वज्ञानम्, तदंशनिवृत्तेरावश्यकत्वात् । ईश्वरो वा स्वैश्वर्यविघातापादिकाम विद्यानिवृत्तिं प्रतिबध्नन् जीवस्य तत्त्वज्ञानमेव नोत्पादयेत् । तथाच, ’ ददामि बुद्धियोगं तम् ’ इत्येतद् विहाय, प्रतिबध्नामीत्येबमेव तेन भावनीयम्, न च तेन निरञ्जनस्येश्वरस्य कापि हानिः । प्रति I जीवेश्वरैक्य-भङ्ग प्रसाधनम् པ་་ बिम्बभूताः जीवाः यावत् पृथक् सन्ति, तावत् प्रत्युत तस्यैश्वर्याभिवृद्धिरेव । कथं हि नाम करस्थमदुःखलेशमनवधिकानन्दानुभवं विच्छिद्य तिष्ठासेत् । संक्षेपशारीरके च प्रागेवायं प्रतिक्षिप्तः पक्षः, यदाह “ऐश्वर्यमज्ञानतिरोहितं सत् ध्यानादभिव्यज्यत इत्यवोचत् । शरीरिणः सूत्रकृदस्य यत्तु तदभ्युपेत्योदितमुक्तहेतोः ॥” इति । किं बहुना -बहुश्रुताप्पय्यदीक्षितपक्षोऽयं तत्र व्याख्यात्रापि निराकृत इति प्रागेवावोचाम । किश्च यावदीश्वरोऽस्ति तावत् जीवादन्यत्वेनैव सोऽवतिष्ठत इति शास्त्रदर्शिनां सुगमम् । जागरदशायां तदाराधनादिव्यापारपरतया जीवानां ततोऽन्यत्वं स्पष्टम् । एवं स्वप्नेऽपि । सुषुप्तौ, ‘प्राज्ञेनात्मना संपरिक्तष्वः’ इति जीवात् पृथङ् निरदेशि । मरणेऽपि, ‘प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन् याति इति भेद उक्तः । मुक्तौ च, ’ तथा विद्वान् नामरूपाद्विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ; ‘ब्रह्मविदाप्नोति परम्’, ‘निरञ्जनः परमं साम्यमुपैति’ इत्येवं भेदप्रतिपादकानि बहूनि वाक्यानि । सूत्रकारश्च ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’, ‘मुक्तोपसृप्यव्यपदेशाच्च ‘, ’ भोगमात्रसाम्यलिङ्गाच्च’ इत्येवं जीवेश्वरभेदं सार्वदिकमाह । स सामभिर्यत् तत् कवयो वेदयन्ते ‘, ’ तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इत्यादिश्रुतिप्रसिद्ध सदा पश्यन्नित्यसूरिनिवहस्यापीश्वराभिन्नत्वासंभवे स्थिते का कथा कथञ्चिन्निवृत्तक्लेशानां मोक्षपदमुपसन्नानाम् । न चेदृश नित्यसूरिपरिषदुपगीयमानपुण्यश्लोकात् परमपुरुषादन्यः कश्विदीश्वरो नाम । अपिचास्याद्वैतसाक्षात्कारे जाते अविद्या निवृत्त्या, अहमीश्वरः:, ममायं प्रपञ्चः, सृष्टयादि चाहं करोमीतीदृशाः भ्रमाः कथं भवेयुः । न चान्यस्याविद्या अन्यस्य भ्रमादिकं जनयेत् । एवमन्तःकरणसत्ताकाले अहमिति अन्तःकरणानुरक्तं चैतन्यं गृह्यते । ईश्वरस्य चान्तःकरणाभावात् अविद्यानुरक्तमेव ग्राह्यम् । तथाचोपाधिभेदे सति उपाध्यैक्य प्रयुक्तो जीवस्येश्वरभाव इति न शक्यं वक्तुम् । किंतु उपधेयस्वरूपैक्यम् । तत्तु सर्वेषां जीवानामपि मिथोऽस्ति । 97 प्रतिबिम्बानां भेदात् तन्न भवतीति।
चेत् — बिम्बप्रतिबिम्बयोर्भेदात् जीवेश्वरविषयेऽप्यैक्यस्य दौर्घट्यमेव । अभेदे तु सर्वजीवैक्यस्यापत्तिरेव । वस्तुतोऽनेकजीववादेऽपि अनेक विद्यासत्त्वेऽपि वस्तुतः सर्वासामविद्यानां मिथात्वस्य केनचित् ग्रहणे सर्वाविद्यानिवृत्तिरप्येकपुरुषीयतत्त्वज्ञानात् प्रसज्यत इति प्रागेवोक्तत्वादपि न मुक्तस्येश्वरभावसंभवः । बिम्बभूत ईश्वर इति पक्षे यथा विम्वभूते सूर्य समुद्रादिगतविकाराणामारोपो नानुभविकः, तथा अविद्यावृत्तीनां तत्रारोपो न भवतीति तस्य सर्वज्ञत्वादिविकारास्पदत्वाभावादनीश्वरत्वं शुद्धब्रह्मतैत्य स्यात् । प्रतिबिम्ब एव सर्वसंक्रमात् जीवा एवेश्वराः स्युः । तथाचेश्वरानन्त्यमपि स्यात् । एवमपि जीवस्य तत्त्वसाक्षात्कारफलमीश्वरभाव इतीदमसिद्धमित्यलम् । अथ शतभूषणयुक्तं संग्रहेण निरस्यते— श्रीभाष्यमते मुक्तस्यैवापृथक्सिद्धिर्ब्रह्मणा, न बद्धस्येत्येतदसत् । सर्वस्यापि द्रव्यस्य सर्वदैव परमात्मा पृथक्सिद्धत्वात् । अतः तत् त्वमसि नाहमीश्वर इति प्रत्यक्षमपि प्रमाणम् । इत्यत्र न वाक्यार्थवर्णनेऽनुपपत्तिः । तथा अहंत्रह्मास्तीति शास्त्रमपि । तत्र किञ्चिज्ज्ञत्वसर्वज्ञत्वरूपविरुद्धांशसमावेशा योगादेवाभेदबाव इति तदंशत्यागे कृते स्वरूपैक्यं घटते इति यदुक्तम्तन्न — ब्रहाशब्दस्यापि वृहत्त्वबृंहणत्वरूपविशेषणविशिष्टार्थकतया ईश्वरशब्दाविशेषे सति अहं ब्रह्मास्मीतिवत् अहमीश्वर इत्य् अपि शास्त्रसिद्धमेव वाच्यम् । तत्रेश्वरपदत्यागेन ब्रह्मपदस्यैव विशिष्य ग्रहणं युक्तम् । स्मर्यते च ’ अहं हरिः सर्व । च, मिदं जनार्दनः ’ इति । अस्तु काममिति चेत् — अस्तु । तत्र नाहमीश्वर इति प्रत्यक्षं विरुद्धधर्मसमावेशायोगात् व्यक्तिभेदमेव हि गृह्णाति । एवं गृहीते व्यक्तिमेदे विशेषणत्यागमात्रेण व्यक्तयैक्यं कथं घटताम् । न हि घटः पटः, गन्धो रसः इत्यादौ घटत्वगन्धत्वादित्यागेन वस्त्वैक्यं निराबाधमिति लोकोऽनुमन्येत । धर्मविरोधस्य व्यक्तिभेदगर्भतया भिन्नयोरभेदायोगात् । ‘अन्यद्रव्यं हि नैति तद्द्रव्यताम्’ इति च पराशरः । अतो यत्र व्यक्तिभेदः, तत्र सामानाधिकरण्यम् एकतरस्य पदस्य प्रतीततद्यक्तिमात्र विश्रान्तत्वत्यागेन जीवैश्वरैक्यम-प्रसाधनम् " ཨ་ मुख्यतात्पर्यविषयाविषय समभिव्याहृतपदार्थभूतव्यक्तिविश्रान्तार्थविवक्षणेन निर्वायमिति स्थिते अर्थप्रकरणाविना सहचरणस्थानेति न्यायसूत्रोक्तदिशा श्रुत्याद्यभिमतप्रकारान्तरेण वा कश्चिदर्थं एष्टव्यो भवति । तत्रापि गुरुलघुमुख्या मुख्यतात्पर्य विषयाविषयभावचिन्तन योपपन्नतमं ग्राह्यमिति च संप्रतिपत्तव्यमिति अहं ब्रह्मेति सामानाधिकरण्यं शरीरात्मभावे इति स्थापयामः । अधिष्ठान संविदैक्यमेवाद्वैति स्वीकृतम् ; न तु जीवस्याध्यस्तस्य अध्यस्तान्तरेणेश्वरेण सर्पभूदलनयोरिवैक्यनित्येतत् प्रायः सम्यक् । परंतु सिद्धान्तलेशसंग्रहे ईश्वरैक्यस्य भाक्तिया वर्णनात् तद्विरुद्धेयं सर्वाद्वैत्यसंमतत्वोक्तिः । स्वस्थ स्वाधिष्ठानत्वायोगात् द्विचन्द्रे चन्द्रस्य नाध्यस्ततेति प्रकारान्तरेण तत् निर्वहणीयमिति, शतदूषप्रयुक्तं शतभूषणीस्वीकृतमेवासीत् । एवं स्थिते तत्र किमिति किञ्चिल्लेखनम् । तत्र, " अचेतनवर्गोऽपि स्वावच्छिन्न चैतन्यावच्छेदकतया शुक्तिवत् अधिष्ठानमिवान्यस्यारोप्यस्य " इति वाक्यं नूनम्, हन्त्वमचेतनवर्गेऽपि किं न कल्ष्यते " इति सूक्तयर्थापरिशीलनप्राप्तमित्यवधेयम् । ‘नेह नानास्ति ’ इति श्रुतिः ब्रह्म कस्मान्न निषेधति; इहेति तस्याधिष्ठानतया स्वीकृतत्वादिति चेत्नानेत्यने कनिषेधस्यैव ब्रह्मणि कृतत्वात् एकं ब्रह्मणि स्वीक्रियताम् । एवञ्च सधर्मणो ब्रह्मण एव सिद्धिः स्यात् । तद्वाक्यार्थविस्तरश्चान्यत्र । उत्तमः पुरुष इति गीतार्थविचारश्च प्रागेवाकारि । वासनाद्वासुदेवस्येति वाक्यं शुद्ध ब्रह्मपरिशेषकं चेत् — अन्ते, ‘नमोऽस्तु ते ’ इत्युक्तमनुपपन्नं स्यात् ; उच्चनीचद्वयमन्तरा नमः प्रसत्त्यभावात् । अन्नमयप्राणमयादिपर्यायेषु पूर्वस्मात् परस्य यथा साक्षाद् भेदः, तथैव विज्ञानमयादपि जीवात् आनन्दमयस्थ परमात्मनोऽन्तरत्वे भेदे च कण्ठोते कथं तस्योपाधिकत्वेन नयनमिष्येत । यत्तु पञ्चकोशप्रक्रियानुरोधेनानन्दमयादप्यन्यत् ब्रह्मैव तत्त्वमिति शाङ्करभाष्यील्लिखितपक्षादरणेन वस्तुतस्त्विति लिखितम् तत् सर्वं भगवद्बादरायणप्रभृतिसर्वाचार्यानभिमतमिति प्राच्यैरेव प्रपञ्चितम् पराक्रान्तञ्चास्मदाचार्यैः परपक्षनिराकृताविति न किञ्चिदवशिष्टमस्ति । पञ्चकोशोपनिषदिति कस्याश्चित् པལ༣
, प्रमाणीकरणश्च न युक्तम् ; तस्याः कप्तानन्तर्भावात् । शाङ्करभाष्येऽपि स्वाभिमतार्थे तस्याः प्रमाणतयाऽनुपादानात् । व्याख्यातृभिरप्यनुदाहरणाश्च । यत्तु आनन्दमयपर्यायेऽपि, ‘तस्यैष एव शारीर आत्मा, यः पूर्वस्य ’ इति वाक्यश्रवणात् आन्दमयस्योपर्यपि किञ्चिदात्मतत्त्वमस्तीति ज्ञायत इतितन्न तस्य शाङ्करभाष्यारूढार्थस्वीकारे ईदृशशङ्काप्रसक्तेरेवाभावात्, पूर्वस्य तस्यैष एव शारीर आत्मेति तद्वाक्यार्थस्तदिष्टः । तावता च पूर्वस्य विज्ञानमयस्यैष आनन्दमय आत्मेत्येतावदेवोक्तं भवतीति कथमानन्दमयोपरि आत्मसद्भावे तत् प्रमाणम् । कश्चासावात्मा ? न तावद् ब्रह्म, तस्यानन्दमयपुच्छतया तदवयवतया तदन्तर्भूतत्वात् । अस्मद्भाष्ये तु, ’ यः पूर्वस्ये ’ त्यस्य पृथग्वाक्यत्वस्वारस्यमुपलक्ष्य अर्थान्तरं वर्णितम् । तदाऽप्यनन्यात्मकत्वप्रतिपादनार्थं तदिति तद्भावोऽपि दर्शितः । इदमपि सुवचम् तस्यैष एवेति वाक्यं ततत्पर्यायगतं प्राणमया देस्तस्यतस्यानन्यात्मकत्वारोपेण आरोपितात्मत्वहढीकरणार्थमेव, ऐकरूप्यात् । तदुपरि, तस्माद्वा एतस्मादिति वाक्यारम्भः पूर्व स्वारोपितस्य स्वदृढीकृतस्य प्राणमयाद्यात्मत्वस्य निरासार्थः । आनन्दमयोपरि तादृशवाक्याभावाच्च आनन्दमयस्यात्मत्वकथनं तहृढीकरणञ्च प्राक् कृतमनारोपितं प्रतिष्ठितं भवति । अतएवान्ते, ‘एतमानन्दमयमात्मानमुपसंक्रामति’ इत्यादावान्दमयेनैव परिसमापनमित्यलं पिष्टपेषेण । 1 सामानाधिकरण्यस्याभेदे तात्पर्य वर्णनीयम् गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति यदुक्तम् — तत् तथैव । न ह्यस्मन्मते मुख्यार्थत्याग ईषदपि । भवद्भिस्तु प्रातिपदिको क्तविशेषणत्यागात् समानविभत्तयुपात्ता भेदस्य भाने अखण्डार्थत्व-भङ्गापत्त्या तस्यापि बोचे मानानङ्गीकारात् सर्वमन्यथितम् । हन्तैवं मुख्यसामानाधिकरण्यरक्षणकामेनैव सर्वं खल्विदं ब्रह्मेत्यत्र तु बाधायां सामानाधिकरण्यमिति समनन्तरमेवोच्यते । अस्माभिस्तु जडवाचिपदचिद्वाचि पदजडाजडोभयवाचिपदरूप सर्वसमभिव्याहारे करूप्यमपि रक्ष्यते; जीवेश्वरैक्यमन-प्रसाधनम् ལཔ་ मुख्यत्वमपीति तत्त्वम् । ‘यो विज्ञाने तिष्ठन् ’ इति वाक्ये विज्ञानपदमुपहितपरमिति वा केवलाहङ्कारपरमिति वा कः श्रद्दध्यात् । ‘उभयेऽपि ही ‘तिं सूत्रविरोधात् । एवं ‘य आत्मनि तिष्ठन् ’ इत्यत्रापि । अत आत्मभेदस्य तयोः शरीरशरिरिभावस्य च कण्ठोक्कतया तत्र द्वेषो न स्थाने । परमात्मपारवश्यस्य स्वाभाविकत्वे मोक्षस्यापुरुषार्थता दुःखरूपत्वादिति, ‘न पइयो मृत्युं पश्यति न रोगं नोत दुःखताम्’ इत्यादिश्रुतिविरुद्धम् । श्रुतिविरोधे चानुमानमाभासमात्रम् । दुःखप्रसत्त यभावे सतर्काश्च सम्यगेव दर्शिताः सन्तीति किमाग्रहेण । अन्यथा, “न हवै सशरीरस्य सतः प्रियाप्रिययोर पहतिरस्ति " इति श्रुत्या सशरीरत्वे दुःखित्वस्य स्पष्टमेव कथितत्वात् ईश्वरोऽपि सशरीरो दुःख्यत्येवेति स्वीकर्तव्य भवेत् । न चेष्टापत्तिः । अवतारेष्वपि दुःखप्रसक्तिमभियुक्ताग्रगण्याः श्रीशङ्कराचार्याप्पय्यदीक्षितादयोऽपि न्यषेधन्निति साक्षादीश्वरभावे का प्रसक्तिर्दुःखस्य । भामतीकारः सगुणब्रह्मप्राप्तेरपि बन्धत्वं नेच्छति, तथासति कथमीश्वरस्य दुःखित्वम् । यदि श्रुतिविरोधमपि सोढ़ा पारतन्त्र्यं दुःखमिति भवता मन्यते, तर्हि स्वसमानपुरुषान्तरसद्भावोऽपि खदुःखायेति मुक्तावीश्वरं प्रत्यध्यक्षत्वमपि भवतीति स्वीक्रियताम् ; अन्यथा भयशङ्का निवारणानुपपत्तेः । तस्मात् जगद्व्यापारवर्ज मिति यन्मुक्तिखरूपमुक्तम्, तदुपरि अन्यस्या कीर्तनात् स एव सर्वातिशायी मोक्षः । तदक्षयत्वञ्च अनावृत्तिः शब्दादित्यावेदितमेव । [ब्राझेण रूपेणेति सूत्रपाठोऽप्यशुद्धः ।] एवमुपसंहारादेव ब्रह्मैव भवतीत्ययमपि मोक्षः स एवेति ज्ञायते । न चात्रार्थे क्लेशः । एवकारेण सादृश्यस्य कण्ठोक्तत्वात् । एवकारः सादृश्यार्थक इति निखण्डुप्रदर्शन विषये यदुक्तम् –तस्य सादृश्यमात्रार्थकत्वं वाऽनुशासनाभिप्रेतम्, अथार्थान्तरमपि । आधमसिद्धम् । अवधारणे प्रसिद्धेः । अन्त्यमयुक्तम् ; अनेकार्थकत्वस्यान्याय्यत्वात् अवधारणमात्रार्थकत्वादितितदनुपपन्नम् । अनेकार्थत्वस्यान्याय्यत्वं हि क्लृप्तकल्प्य र्थस्थले । यत्रानेकार्थत्वं कोशादिभिः क्लमम्, तत्रैतन्न प्रसरति । अनन्यलभ्यः शब्दार्थ । lov
। इति न्यायाविरोधेनानेकत्र शक्तिस्वीकारादेव हर्यादिशब्दा अनेकार्थाः प्रसिद्धाः । नानार्थवर्गेणानेकार्थानुशासनमपि प्रायोऽस्ति । तस्मादेवकारस्य सादृश्यमप्यर्थः कोशप्रयोगोभयानुरोधेन स्वीकर्तव्यः । स्यान्नाम गोशब्दस्य वृषभादाfor recrरस्यावधारणार्थत्वमतिप्रसिद्धम् । तावता ‘गामाविश्य च भूतानि ’ ‘गोदानवत ‘मित्यादाविव शक्यमर्थान्तरं गृह्यमाणं न दुष्यति । अवधारणार्थग्रहणेनं परश्शतवचनबाधः किं युक्तः; किं वाऽनुशासनानुरोधि शक्यमेवार्थान्तरं विवक्षित्वा सर्वैकरस्यं न्याय्यमिति सहृदयं विचार्यताम् । अत एव, खण्ड देवेन, (3. 2. 5) भाट्टदीपिकायाम्, “सूक्तवाक एव याज्या" इति योगलिङ्ग प्रस्तुत्य, “नास्यं मन्त्रत्वादिवत् अभियुक्तप्रसिद्धिविषयत्वाख्यं याज्याta संभवति । एवकारोपबद्धत्वेनैतल्लिङ्गस्य याज्यात्वासाधकत्वात् ’ इत्युक्तम् । अत एवकारेण तत्सादृश्यमेव मेयम् । ‘वैष्णवं चामनमाate विष्णुरेव भूत्वेमान् लोकानभिजयति’ इत्यादौ स्वल्पऋतुसाध्यं फलं न हि साक्षात् विष्णुभाव एव किंतु सायुज्यलेशः । अतः सायुज्यरूपसाधर्म्यप्रकरणेषेषा शैली श्रुतेरिति भाग्यम् । अत एव ’ वसूनामेवैको भूत्वा ‘, इत्यत्रापि सायुज्य स्वरसम् । स एवायं गौः, तदेवेदमौषधमित्यादिलोकप्रयोगोऽपि द्रष्टव्यः । स खराइ भवती ‘त्यत्र खराट्पदं स्वात्मकराजकत्वं पुरुषस्य ब्रुवत् खस्मिन् स्वं प्रति राजत्वस्यासंभवात् कमपि लाक्षणिकमर्थमाहेति स्थिते स्वेतर राजकत्वाभावं वा स्वेच्छाधीनप्रवृत्तिसामान्यकत्वं वा लक्षयतीति विमर्शे श्रुत्यन्तर विरोधाय द्वितीयमेवार्थं लक्षयेदित्युच्यते । भगवदिच्छाधीनखप्रवृत्तेरपि स्वेच्छाधीनत्वस्याक्षतत्वात् सुस्थमेतत् । एवं खराट्पदे स्वपदं स्वान्तर्यामिपरं सत् स्वान्तर्यामिराजकत्वमपि शतया प्रतिपादयेत् । तथा खस्य यः स्वरूपप्राप्तो राजा स एव खकीय इति तादृगराजकत्वं खराट्रत्वम् । औपाधिकराजाधीनत्वे चान्यराजत्वम् । तच्चान्यत् कर्मप्रभृतिकम् । एवं साधिपतित्वादेव अनधिपतिरित्यनुक्त्वा सूत्रकारः अनन्याधिपतिरिति सूत्रयामास ; जीवैश्वरैक्य-भङ्ग-प्रसाधनम् ७७५ यत्तु भोगमात्रसाम्ये कथं परमं साम्यमिति -तत्रेदमवधेयम् । परमसाम्ये श्रयमाणे तद्विरोधेनाभेद एष्टुं न शक्यते । न हि साम्ये पारम्य अत ईश्वरेण तदन्यस्य कस्यचित् साम्यविरोध्यभेदरूपं भवितुमर्हति । यावत् साम्यं संभवति, तावत् साम्यं मुक्तस्य सर्वस्यापि भवति, न तत्र कश्चिद् विशेष इति परमशब्दार्थः । तथा यदंशे साम्यमिष्यते, तदंशे तत् सर्वथैवान्यूनामिति च । एवञ्च, ‘सर्वं ह पश्यः पश्यति’, ’ श्रोत्रियस चाकामहतस्य’, ‘सर्वमाप्नोति सर्वशः’ इत्युक्तज्ञानानन्दप्राप्त्यंशेऽम्यूनत्वे श्रुतितात्पर्यमिति निर्धार्यैव भगवान् वादरायणः, जगद्व्यापारवमित्यवधारयामास । पत्न्यादीनां पत्यादिपारतन्त्र्यमिष्टसाधनत्वाभिमानादेव सुखहेतुरिति यदुक्तम्, तत् तथैव । तथापि सोऽयमभिमानः सर्वत्र भ्रमात्मक एवेति न नियन्तुं शक्यं लोकेऽपि । एवञ्चेश्वर पारतन्त्र्यमिष्टसाधनत्वप्रमयैव सुखहेतुरस्तु । का हानिः । पन्या अपि श्रावो दुःखायैवेत्युक्तमप्ययुक्तम् । एवकारार्थानन्वयात् । श्वश्रभावोऽपि किं पुरुपं प्रति स्त्रियं प्रति वेति विमृश्यम् । पतिं प्रति पत्नीभावमादाय सुखे प्रस्तूयमाने अन्यनिरूपितश्वश्रूभावेऽनुपपत्तिवर्णनं प्रकृतासंगतञ्च । गौणमुक्तानां हिरण्यगभपरितन्त्र्यमुपाधिप्रयुक्तं कथं न दुःखाय " इति यत् पृष्टम् तेन किमस्माकम् । न वयं हिरण्यगर्भपारतन्त्र्यं सुखावाहं ब्रूमः, न वा तत् अनौपाधिकम् । भगवत्पारतन्त्र्यं सुखाय न भवतीति तच्चर्चा व्यर्थेत्यप्ययुक्तम् । तस्यैव सुखातिशयावहत्व स्यास्माभिः स्थापनात् । निर्विशेषब्रह्मभावस्तु निरालम्ब एव । जीवस्येश्वरभावश्च सर्वप्रमाणबाधितः । सर्वथा जीवेश्वरैक्यं यादृशामद्वैतिमिरिष्यमाणं विशिष्टवेषेण वा उपलक्षितस्वरूपांशत एव वा, सर्वप्रकारमपि तत् असंभावितमिति स्थितम् ॥ एतेन त्रिमूर्त्यैक्यमपि निरस्तम् ; तिसृषु मूर्तिषु ब्रह्मरुद्रयोर्जीवत्वस्य बहुप्रमाणसिद्धतया विष्णोरेव सर्वेश्वरतया च तस्य तदुभयैक्यायोगात् । किश्च किमिदं त्रिमूत्यैक्यम् ? मूर्तिः शरीरम् । न हि त्रयाणां ब्रह्मविणुरुद्रशरीरा
णामैक्यं संभवति । अथ तिस्रो मूर्तयो यस्य तस्यैक्यमिति चेत् — एकमेव ब्रह्म प्रपचे सर्वा अपि मूर्तीगृहदस्तीति कस्तत्र तिसृषु मूर्तिषु विशेषः । न च मूर्ति मेदेऽपि तत्रान्तःकरणमेकमिति वाच्यम् — अन्तःकरणस्य जीवत्वप्रयोजकताया एव भवन्मते स्थितेः । तर्हि अहं बहुस्यामि त्यादीश्वरव्यवहारविषयोऽहमर्थः क इति चेत् तदपि भवद्भिरेव विमृश्म् । अविबावच्छिन्नस्येश्वरत्वादेकैका विद्याभागाधिष्ठातृतया भेदस्यावश्यकत्वमेव । अत एव ब्रह्माद्विदृष्टस्य रुद्रादिना प्रतिसंघानाकरणम् । न हि तेषां मिथः सर्वप्रतिसंधातृत्वं सौभरेः स्वशरीरेष्विव प्रमाणसिद्धम् । प्रत्युत ब्रह्मरुदयोरीश्वरसृज्यत्वनियम्यत्वतदधीनशक्तित्व तत्कृतरक्षत्वतदेकशरणकत्वादि सुबहुप्रमाणसिद्धमिति ब्रह्मरुद्रयोजवत्वमेव । ब्रह्मसृष्टत्वनाम करणार्थरो दनकर्तृत्वब्रह्मानुगृहीतत्व ब्रह्मशिरश्छेदतत्कपालधारण विष्णुकृतपापविमोचनादिकमप्यनुसंघेयम् । ब्रह्मरुद्रैक्ये च ब्रह्मशिरो हरः कथं छिन्द्यादित्यादि विमृश्यम् । अप्रतिसंधातृत्वतदधीनत्वादिकमभिनयमात्रमिति चेत् — विष्णुकार्य सर्वमभिनयमात्रमित्यावयोः संप्रतिपन्नम् । ब्रह्मरुद्रयोस्तदधीनत्वं नारायणपारम्यञ्चादिशङ्कराचार्यैरपि कण्ठेोक्तमिति तत्रैक्यं वा साम्यं वा नैव शक्यशङ्कम् । यत्तु नामसहस्रशाङ्करभाष्ये, ‘पवित्राणां पवित्रां यो मङ्गलानाञ्च मङ्गलम्’ इत्येतद्व्याख्यानावसरे ब्रह्मरुद्रादेरप्यतिशयितं परमं विष्णोः प्रभावमुपपाद्य अथ स्वसिद्धान्तस्य कथमपि तत्र प्रवेशनाय, ‘ननु कथमेको देवः जीवपरयोर्भेदात् ’ इत्याशङ्कामुपक्षिष्य, ऐकात्म्यपराणि, जीव परैक्यपराणि ब्रह्मरुद्रयोर्वासुदेवैक्यपराणि प्रपञ्चमिथ्यात्वपराणि च वचनान्युपन्यस्य समाधानम्तदिदमस्थाने; नामसहस्रेण पुण्डरीक्षार्चनस्य प्रस्तुतस्य भेदग्रहाधीनत्वेनामेदस्थापनस्यानपेक्षितत्वात् । प्रत्युत भगवदर्चनबाधकत्वात् । उक्तमपि न सम्यक् । तथाहि — प्रश्नवाक्यमेव तावदसमञ्जसम् –जीवपरयोर्भेदखीकारस्य, ‘एको देव’ इत्यस्य चाविरोधात् । देवैक्यं हि एको देव इत्यस्यार्थः । न हि एक एव जीव इति वा एक एवात्मेति वा वाक्यमुपात्तमस्ति । जीवेश्वरैक्य-भङ्ग-प्रसाधनम् प्रतिवचनार्थोपात्तवचनानि प्रायेण विशिष्टाद्वैतिनामनुकूलानीति नातीवात्र विस्तरोऽपेक्षितः । अतो दिक्प्रदर्शनमत्र क्रियते—तदेवानुप्राविशदित्यत्र विज्ञानाविज्ञानशब्दवाच्यचेतनाचेतनद्वयेऽप्यनुप्रवेशकथनाज्जीवेश्वरभेद एव । अत्र विज्ञानशब्देन जीवग्रहणमेव जीवे तद्विज्ञाने च आपादमस्तक प्रचारिणि ब्रह्मानुप्रवेशं दर्शयतीति आनखाग्रेभ्य इति वाक्यमपि सुस्थम् । प्रविष्धानां बहूनां मिथः परमात्मना चैक्यम्, ‘त्वमेकोऽसि बहूननुप्रविष्ट’ इति वाक्यं कथं बोधयेत् । बहूनित्यस्य देहमात्रार्थकत्वे च न प्रमाणम् । तथात्वेऽपि जीवस्यैकस्य बहुषु प्रवेशो नास्तीति तद्वैलक्षण्यं मेव ज्ञायेत । भूतशब्दश्च देह विशिष्ट चेतनपरः सुप्रसिद्धः । ‘एको लोकदुःखेन न लिष्यते’ इत्युक्तौ दुःखिलोकरूपजीवसद्भावः तदन्यत्वश्च परमात्मनः सिद्धयेत् । आत्मस्थमिति पर्दै स्पष्टमेव जीवात्मनिष्ठत्वमाह । अनन्तरवाक्ये नित्याने कचेतन सिद्धिरेवेत्येवं प्रतिवाक्यमनुसंधेयम् । । ‘ब्रह्मविष्णुशिवात्मिकाः संज्ञाः जनार्दनस्ये’ त्यनेन सृष्ट्याद्यर्थगृहीतमूर्तिविषये संज्ञाभेदः पाश्चात्य इत्येतावत्, जनार्दनस्यैकस्य सृष्टिस्थितिसंहारकारणत्वञ्च सिद्धयेत् । तिसृप्वपि मूर्तिषु जीवानुप्रवेशोऽस्ति न वेति मानान्तरावसेयम् । संज्ञामूर्तिकप्त्यधिकरणे च चतुर्मुखपरमात्मनोर्भेदः प्रतिपादितः । उपातेषु लोकेषु जनार्दनवामुदेवाच्युतनारायणादिशब्दैरेव परमात्मा निर्दिश्यत इति श्रियः पतिरेव परं तत्त्वं परा देवतेति स्पष्टम् । अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ’ इति ब्रह्मवाक्यं देवतान्तरतुल्यं भगवद्विभूतित्वं तन्नियम्यत्वरूपं ब्रह्मरुद्रयोर्दर्शयति । भवानहञ्चेति वाक्यं तु बलरामकृष्णोभयविषयम् । त्वया यदभयमिति वाक्यम्, रुद्रकृताभयप्रदानस्यापि संज्ञामूर्तिक्लृप्त्यधिकरणन्यायेन, ज्योतिराद्यधिकरणबलाच्च अन्तर्यामिभगवदधीनत्वात् समञ्जसमेव । विष्णोरन्यं तु’ इति वाक्यमपि सूक्ष्ममीक्ष्यम् 1 न हि रुद्रादन्यं ब्रह्मतोऽन्यं विष्णुं न पश्येदित्यस्ति । तेन विष्णुतः पृथग्भावः स्वातन्त्र्यं ब्रह्मरुद्रयोर्नास्तीत्याह । नामानि तव गोविन्द यानि, तान्येव 98 f ७७८
• न मम नामानि " इति वाक्यं रुद्रनाम्नामन्तर्यामिपर्यन्ततथा गोविन्दनामत्वमेव, न त्वेषां गोविन्दावाचकत्वमित्येवम्परम् । अत्र मम नामान्येव गोविन्द तव नामानीत्यनुक्त्वा मन्नामानि त्वन्नामान्येवेत्युक्तेः स्वारस्यमनुसंधेयम् । ते विरहितं कचित् ’ इति वाक्यं रुद्रेऽपि भगद्व्याप्तिं मुक्तकण्ठं गमयति। तथा ‘, ’ विना किञ्चित् त्वया न हि ’ इत्येतदपि । एवं ब्रह्मादेर्नारायणसउयत्वादिकमधस्तात् तद्भाष्योपात्तवचनादितोऽप्यवसेयम् । इदञ्च शाङ्करभाष्यं सर्वजीवाविशेषेण ब्रह्मरुद्रयोः परमात्मैक्यमेवाभिप्रैति । न तु विशिष्य त्रिमूर्त्यैक्यमन्यादृशमेवप्राचीनां द्वैति संमतमस्ति । जीवपरक्यं प्रस्तुत्य नित्यशेषेण बलरामेण, ब्रह्मरुद्रादिदेवैः, योगिमुखैरन्यैश्व नारायणस्यैक्यस्यात्र स्थापनात् ब्रह्मरुद्रयोरपि जीवत्वस्यैव ददिष्टत्वावित्यप्यवधायानुसंधेयम् । एवं ब्रह्मरुद्रयोरेव परैवये सर्वथैवासभाविते सर्वात्मैक्यस्य न कथमपि संभवः । शिष्टमुपबृंहण वैघटयवादे । स्वमीश्वरममंस्त यो भुवि हिरण्यकः पौण्ड्रकोs प्यहम्मतिसुराझरी सततमत्तचित्ताकृतिः । निवर्त्य च धियैश्वरं विभवकं य आहत्य वा तदैक्यमभिवाञ्छति, द्वयमुपेक्ष्यमा हुर्बुधाः ॥ शुभमस्तु श्रीः