३७ आत्माद्वैत-भङ्ग-प्रसाधनम्

योऽसौ वर्गश एव शक्यगणनान् संख्यागान् आत्मनः संरक्षन् उचितैर्विभूतियुगले भुङ्क्ते यथार्ह रसम् । सोऽयं नः परिपातु सर्वचिदचिच्छेषित्वमुख्यैर्गुणैः साम्यं संश्रितया श्रिया परमया वक्षःस्थया लक्षितः ॥ आत्माद्वैतमातिष्ठमानैः प्रत्यक्ष प्रमाणं तत्र दुर्वचमिति स्थितमेव; आत्मन एवाप्रत्यक्षत्वात् । देहात्मवादे ह्यात्मप्रत्यक्ष निर्विचिकित्सम् । तत्राद्वैतप्रसक्तिरेव न । देहातिरिक्तस्त्वात्मा अहम्प्रत्ययगोचरत्वात् प्रत्यक्ष इति वक्तव्यम् । तत्रापि अहम्प्रत्ययस्य पूतिकूश्माण्डा यितत्वं भामत्यां वर्णितमिति नाद्वैतिन आत्मप्रत्यक्षं स्वरसतो वक्तुमर्हन्ति । अस्तु कामं मतान्तरेण आत्मा प्रत्यक्ष इति — अथाप्यात्माद्वैतं न प्रत्यक्ष्यम् ; नीलघटयोरैक्यमितिवत् अनयोरद्वैतमित्यनेकग्रहणेनाद्वैतस्योपपाद्यतया स्वस्येव परस्य स्वेनाप्रत्यक्षिततया तदद्वैतग्रहणायोगात् । अतोऽनुमानमेव, “प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् " इति कणाददर्शितेन पथा स्वीकृत्य पर आत्मा स्थाप्यः । तदा च स्वयंप्रत्यक्षविषयात् प्रत्यक्षज्ञानादिगुणात् अन्यत्वेन स्वाप्रत्यक्षः स्वाप्रत्यक्षैः परशरीरचेष्टादशनानुमितैर्ज्ञानादिभिरनुमीयमान आत्मा धर्मिग्राहकप्रमाणेन भिन्नत्वेनैवावधार्यते; एवं तत्तद्देहभेदेन व्यवस्थित विचित्र गुणमूलमनुमीयमाना आत्मानो मिथो भिन्नत्वेनावधार्यन्त इति तद्विरोधादात्मा द्वैतमनुमातुमेव न शक्यम् । कल्पनालाघवादात्मैक्यमिति वादश्च आत्ममात्रे सिद्धे मेदे चासिद्धे अनुमातव्ये सति प्रसरेत् । तथा प्रसन्नपि प्रमाणान्तरतिरुद्धश्चेत्, न प्राणिष्यति । इह पुनरात्मानोऽनुमानकाल एव विभिन्नत्वेनैवावधार्यन्त इति नाद्वैतप्रसक्तिः । लाघवमात्रस्य गमकत्वे एकात्मनोऽप्यभावः स्यात् ।७५०

एवञ्च विगीतानि शरीराणि मयैवात्मवन्ति शरीरत्वात् संप्रतिपन्नमच्छरीरवत् इत्यादीन्यनुमानानि कालात्ययापदिष्टानि । अन्यथा विगीतं धनं मदीयमित्याद्यनुमानप्रसरेण लोकक्षोभोऽपि स्यात् । एवम् — इमे पदार्थाः घटाः प्रमेयत्वात् संप्रतिपन्नघटवत् इत्याद्यप्यनुमीयेत । एवमत्रानुमाने मयैवेति किं विवक्षितमिति विचारे अहंकार रूपा हमर्थग्रहणायोगात् तावता आत्मैक्यस्थापनासिद्धयभावात् संविन्मात्रग्रहण शतभूषणी मन्यते । तच्चाप्रसिद्धमित्यादिना दूषितमेव शतदूषण्याम् । अन्यच विचार्यम् अत्र आत्मवन्तीत्यस्य कोऽर्थः ? किं चेष्टेन्द्रियार्थाश्रयः शरीरमित्याक्षपादलक्षणमभिमत्य मदधीनचेष्टानि मदीयेन्द्रियाश्रयभूतानि मत्सुखदुःखहेतुभूतानीत्यर्थ इष्टः, उत मन्नियम्यानि मत्स्वामिकानि मद्धार्याणीत्येवम्, अथवा मयि कल्पितानीति । प्रथम द्वितीययोः चेष्टायाः प्रयत्नसाध्यत्वादिचिन्तायां विशिष्टरूप एव कश्चित् मयेति विवक्षित इति विज्ञायते, न तु संविन्मात्रमिति तथा विवक्षणमनुपपन्नम् । तृतीयस्तु न; संप्रतिपन्नशरीरस्यावास्तवतायाः संविन्मात्रे कल्पिततायाः असिद्धत्वाद् बाधितत्वाच तन्निदर्शनेनान्यत्र कल्पितत्वानुमानायोगात् । विशिष्टस्य सविन्मात्रविलक्षणस्य मयेति ग्रहणे तु व्यवहारदशायां भेदस्य स्थित्या सर्वशरीरानुवृत्तैकविशिष्टास्मदर्थाभावेन बाध एव । विस्तरेण चोपक्रमे व्यावहारिको भेदः सूत्रकारादिसर्वसंमत इति भवतैवात्रोपपादितमधिकप्रसंगादिति तद्विरोधः स्यादेव । तत्र, “अंशो नानाव्यपदेशात्—” —" इति सूत्रार्थवर्णनमपि विचार्यम् । भोपात्तेषु सर्वेष्वधिकरणेषु विचार्यस्य बहोः सद्भावेऽपि प्रथमोपात्तमंशसूत्रमेवांशतो विचार्य स्थालीपुलाकनयं दर्शयामः । अंशाधिकरणे भाष्यगतिरन्या, भामतीगतिरपरा । परिमलेऽपि टीकानुसारेण भाव्यानुसारेण चार्थभेद एवादर्शि । जीवेश्वरयोरुपकार्योपकारकभावस्य प्रागुक्तत्वात् तस्य च संबन्धाधीनत्वात् संबन्धो विचार्यत इति भाष्यगतिः । भामतीगतिस्तु ’ तस्माज्जीवा एव परमार्थसन्तः न ब्रह्माद्वयम्’ इति ब्रह्मैवाक्षिप्य स्थाप्यत इति । तत्र प्रथमे आत्माद्वैतभम-प्रसाधनम् ७५१ जीवेश्वरयोः संबन्धे विचार्यमाणे जीवब्रह्मणोर्भेदाभेदवचनमूलांशां शिभाववर्णनमाम्रप्रश्ने कोविदाराख्यानम् । गुरुशिष्ययोः राजभृत्ययोश्च लोक इव जीवेश्वरयोरपि स्वामिभृत्यभाव नियन्तृनियम्यभावादेः संभवात् प्रामाणिकत्वाश्च तदनङ्गीकारेणामि विष्फुलिङ्गन्साम्यमात्रवर्णनं भाष्ये कृतमप्ययुक्तम्; अंशांशिभावस्येव तस्य सर्वस्य काल्पनिकस्य संभवात् । तस्मात् स्वामिभृत्यभावाद्यपलापो न भाष्यचिकीर्षितः; किंतु पूर्वोक्तनियन्तृनियम्यभावादिदर्शिना जीवेश्वरयोरत्यन्तमैदे शङ्किते तत्त्वमस्यादिवाक्यदर्शिना च पूर्वोक्तनियन्तृनियम्यभावाद्यसंभवे शङ्किते उभयपरिहाराय जीवेश्वरयोरुभयोरपि ब्रह्मांशत्वं भेदाभेदश्रुतिबलादत्राधिकरणे स्थाप्यत इति वक्तव्यम् । भाष्ये तु भेदश्रुतिं जीवेश्वर विषयाम् अभेदश्रुतिं जीवब्रह्मविषयाञ्चोदाहृत्य क्षोभ एवापादितः, भवन्मते ब्रह्मश्वरयोरस्मन्मत इवात्यन्ता मेदाभावात् । जीवब्रह्मणी स्वीकृत्य तत्र जीवे ब्रह्मांशत्वस्थापने सूत्रे स्पष्ट प्रतीयमाने तद्विहाय ब्रह्मसद्भावपरत्ववर्णनं भामतीकृतमुदक्षरम् । मूलपक्षे व्याख्यापक्षे च सूत्रोक्तमंशत्वं त्यक्तमेव । अंश इवांश इति गौणार्थवर्णनं तु मतदौर्बल्यमेवा वेदयति । निरवयवत्वात् ब्रह्मणः अमेर्विष्णुलिङ्गवद् वास्तवांशभावाभावादंशपदं गौणमिति भाष्यकारः । भवता तु भेदस्य काल्पनिकत्वात् अंशत्वमौपचारिक मित्युच्यते । सूत्रकृता नानात्वव्यपदेशस्य अन्यथेत्युक्तानानात्वव्यपदेशस्येव मुख्यार्थताया आवश्यकत्वे सूच्यमाने तद्विरोधेन भेदश्रुतीनामनुवादरूपतामसत्यार्थपरताञ्चाश्रित्या भेदश्रुतिमात्ररक्षणमप्ययुक्तम् । जीवेश्वरयोरौपचारिके भेदे सत्यपि सर्वज्ञेनेश्वरेण जीवाभिन्नब्रह्माभिन्ने स्वस्मिन् जीवामेदमपि विदुषा स्वगततयैव जीवदुःखानां साक्षात्करणमवर्जनीयमिति जीवादधिकदुःख एव स्यादीश्वरः । ’ प्रकाशादिवन्नैवं परः’ इति सूत्रविवक्षितस्तत्परिहारश्च न घटते । सौरप्रकाशस्य सर्वव्यापिनोऽङ्गुल्याद्युपाधिवशाद्वक्रादिभावो यथा न परमार्थः, तथेति खल्वभिहितम् । यद्ययं वक्रभावोऽङ्गलिमागतः, तत्र तथा जीवेऽपि दुःखाभाव एव । यदि सौरप्रकाश गतः, तर्हिश्वरेऽपि तथा दुःखं प्राप्तमेवेति कथं जीवेश्वरवैलक्षण्यम् । एतेन - ७५२

घटादिषु गच्छत्सु यथा नाकाशो गच्छतीति निदर्शनमपि निरस्तम् । बिम्बप्रतिबिम्बभावस्तु न सूत्रारूढः । न वा प्रतिबिम्बमिति किञ्चिदुपाधिबिम्बोभयातिरिक्तमस्ति । अथोपाधिगतमेव सुखदुःखादिकमिति चेत् तर्हि कर्तृत्वभोक्तृत्वाश्रयाणां जीवरूपोपाधीनां कारयितृत्वभोजयितृत्वाश्रयस्येश्वररूपोपाधेश्व मेदस्य . निर्विवादतया किमर्थमिदमधिकरणम् । उपाधिगतत्वव्युत्पादनमेव चेचिकीर्षितम, आत्मनि निर्विकारे कस्याप्यशस्य निरूपणासंभवात् आत्मनो बन्धमोक्षौ नोपपद्येयाताम् । भेदश्रुतीनामुपाधिमात्रविषयत्वात् अभेदश्रुतीनामात्मस्वरूपमात्रविषयत्वात् उभयस्यैकत्रा समन्वयात् जीवे अंशत्ववर्णनस्यानपेक्षितत्वाचेदमनुपपन्नमेव । यदि दुःखामिमानादिकं कथञ्चिज्जीवे आत्मन्यानीयेत बन्धोपपत्तये, तर्हि निरवयवे आत्मनि समानीतं तत् ईश्वरं वा ब्रह्म वा न स्पृशतीति न शक्यं वक्तुमिति ध्रुवमीश्वरः समस्तजीवगतवेदनानुभावी स्यात्, एवं जीवोsपि खस्मिन् सर्वं प्रतिसंदध्यादिति प्राप्नोत्येवेत्यंलप्रासङ्गिक विचारेण । 1 यत्तु सुषुप्तादेरनुज्ञापरिहराधिकारो नास्ति, किंतु जाग्रत एवेति तत्र कोऽयमधिकारः । यदि कर्तृत्वम्, तत् सुषुप्ते अप्रसक्तं नैद प्रतिषेध्यम् । यदि अनुज्ञापरिहारविषयत्वं तत् तर्हि सुषुप्तेऽप्यस्त्येव । सुषुप्तेपि जाग्रतीव तस्मिन् अन्यैरनुज्ञापरिहारयोः क्रियमाणत्वात् । यच्च मुक्तात्मनां खतोऽणुत्वेऽपि धर्मभृतज्ञानाकारेण सर्वगतत्वात् सर्वभोगादिसांकर्यापत्तिरिति तंत्र केयमापत्तिः । किं सर्वविषयक भोगापत्तिः । सा केनचित्प्रकारेणास्त्येव; भोगमात्रसाम्यलिङ्गाच्चेति सूत्रितत्वात् । यद्यन्यनिष्ठो यो भोगः, तद्व्यक्तेरपि जीवान्तरे आपत्तिरिति तन्न भवति, धर्मभूतज्ञान सर्वगतत्वेन तदापादनासंभवात्, ज्ञानव्यक्तिभेदात् । न हि नैयायिकनते व्योमदिकालात्मनां विभुत्वमिति एकगतस्यान्यत्रापत्तिर्भवति । जीवापृथक्सिद्धानां भौतिकशरीराणां परमात्मापृथक्सिद्धत्वं न संभवतीत्यपि न सत् प्रकृतिद्रव्यस्य परमात्मशरीरत्वे तत्परिणामभूतानां भूतानामिव भौतिकस्यापि तदपृथक्सिद्धिवारणायोगात् । अपृथक्सिद्धं हि न पृथक्सिद्धं भवितुमर्हति । श्रुतिश्च, ‘तस्माद्वा एतस्मादात्मन आकाशः 1 आत्माद्वैत-भङ्ग-प्रसाधनम् ७५३ संभूत’ इत्यारभ्य, ‘अन्नात् पुरुष’ इत्यन्नरसमयं शरीरमात्मजन्यं प्रदर्श्य तत एव शरीरं प्रति ब्रह्मण आत्मत्वं सिद्धं कृत्वा ; ‘तस्यैष एव शारीर आत्मा यः पूर्वस्यैति अन्नमयं प्रति आत्मत्वमनुवदति । स्वमते जीवात्मपरमात्मनोरैक्यात् जीवात्माधिष्ठितानां शरीराणां परमात्माधिष्ठितत्वोक्तिर्न विरोधिनीति लिखता तत एवैक्यात् जीवात्मनो दुःखित्वे परमात्मनोपि दुखित्वमायातीत्युच्यमानं परं कथं न मृष्यते । ईश्वरत्वावस्थया परमात्मानं गृहीत्वा दुःखित्ववर्णनमयुक्तमिति चेत्, तर्हि तयाऽवस्थया तच्छरीरत्वं जीवशरीरेषु वर्ण्यमानं भवन्मतेऽप्ययुक्तमेव स्यात् । एकं प्रति शरीरस्यापि तन्नियन्तृभूतान्यशरीरत्वे प्रमाणसिद्ध किं बाधकमिति चेत् — तुल्यम् । शरीरत्वं कल्पनामात्रमिति चेत् — वास्तवः क आकारोऽस्ति भवताम् । ऐकात्म्याभ्युपगमे च कर्मव्यतिकरः फलव्यतिकरश्च स्याताम् । एकेन जीवेन कृतमन्येन जीवेन कृतमेवेति अन्योऽपि फलभाकू भवेत् । यत्तु “असंततेश्वाव्यतिकरः” इति सूत्रेण शङ्केय परिहृतेति -सत्यं परिहता । परिहारश्चायं स्वाभाविकेऽणुत्वे समन्यमाने संगच्छते । औपाधिके त्वणुत्वे विभोर्निरवयवस्यात्मनः सर्वोपाधिसंबन्धात् सर्वोपाधिमूलकं कर्तृत्वं भोक्तृत्वश्चात्मन्यक्षतम् । तत्र यथा भौमशरीरेणात्मना कृतं दिव्यशरीरः सन् भुङ्क्ते, तथैव जीवोपाध्यवच्छिन्ननिष्पादितस्य कर्मणः फलमन्यजीवोपाध्यवच्छिन्नः स एव निर्विधातमनुभवेत् । अथ कर्तृत्वं भोक्तृत्वञ्चान्तकरणस्यैवेति-आत्मनस्तर्हि न किञ्चिदिति व्यर्थ मोक्षशास्त्रम् । कर्तृत्वाद्यभावेऽपि तथाऽभिमानोऽस्तीति चेत् स एवैकनिष्ठोऽन्येन स्वनिष्ठत्वेन गृह्यतामित्यापाद्यते, सौभर्यादिभिस्तथाऽनुसंधानात् । वस्तुतोऽहन्त्वमामनिष्ठमेव, न त्वन्तःकरणादिगतमिति प्रागेव प्रत्यपादि । तस्मादद्वैतमते बद्धानां भोगसाङ्कर्यापादनमपरिहार्यम् । " नानात्मानो व्यवस्थात" इति तार्किकसूत्रस्य, जन्मजरामरणानामिति सांख्यकारिकायाश्च स्वमतवासनामनुरुध्य अहमर्थोपहितजीव विषयतया निर्वहणं वक्तृतात्पर्यविरोधादुपेक्ष्यम् । न हि तत्तद्दर्शनमद्वैतप्रक्रियानुरोधि । अद्वैतिना 95 ७५४

तु तस्यतस्याप्रमाणत्वम्, तदर्थस्याप्रामाणिकत्वञ्चैव वक्तव्यम् ; न तु श्रुतिव निर्वाहे प्रयतनीयम् । शरीरशरीरिभावोऽद्वैतिमते "" शरीरस्यात्मन्यध्यासात्, न यत्तु त्वपृथक्सिद्धयेति तन्न –यदि यत् यत्राध्यस्तम्, तत् तस्य शरीरमितीष्टम्, तर्हि घटपटादीनामपि चैतन्यं प्रति शरीरत्वापत्तिः, शरीरवत् अन्तः करणेन्द्रियप्राणादीनामपि शरीरत्वापत्तिः; ममेदं शरीरमिति प्रयोगे मय्यध्यस्तमिदमिति बोधापत्तिश्च । मम शरीरमित्येवं बहुलमध्यासं विनापि व्यवहारात् अन्यदेव शरीरित्वं शरीरशब्दायशोधनेन ग्राह्यम् । किञ्च अपृथक्सिद्धिर्निबन्धनं चेत् का नामानुपपत्तिः । न चापृथक्सिद्धिरेव तत्र नास्ति । अप्रामाणिकस्यानानुभविकस्याभ्यासस्यैव निबन्धनत्वमयुक्तम् । न च वयं सर्वमपृथक्सिद्धि शरीरत्वनिबन्धनं निबध्नीमः, किंत्वपृथक्सिद्धिविशेषम् । जीवचैतन्यस्यापि जीवं प्रति शरीरत्वापादनं तु अस्मदभिमतशरीरलक्षणाज्ञानमूलकम् । प्रपञ्चितश्चास्माभिः शरीरलक्षण निष्कर्षप्रकारो नयधुमणिभूमिकायाम् । यत्तु सुषुप्तशरीरस्य सुपुतं प्रति न मुख्यशरीरत्वम्; अन्यथा बृहत्पाण्डरवासस्त्वादिना संबोधने तदनुत्यानं बालाक्यजात शत्रुसंवाद दर्शितमनुपपन्नं स्यादिति तदपि न तत्र हि यदि प्राणादिरेवात्मा भवेत्, प्राणादिर्जाग्रत् बृहत्पाण्डरवासस्त्वादिश्रवणेन स्वसंवोधनमिति उत्थितः स्यात् । तदभावात् प्राणाद्यतिरिक्तः संबोधनश्रवणानर्हदशापन्नः कश्विदेवात्मेति ततोऽवसीयेत । न तु आत्मानं प्रति शरीरस्य मुख्यं शरीरत्वं नास्तीत्यपि ततोऽवगम्येत । प्राणनामभिरामन्त्रणेऽपि प्राणानुत्थानात् प्राणातिरिक्तोऽयमिति ज्ञाप्यत इति जगद्बाचित्वाधिकरणकल्पतरुवाक्यादप्यवगम्यते । तदनुरोधेऽपि नात्र शरीरत्वस्य सुषुप्तं प्रति मुख्यामुख्यत्वनिर्णयोपयोगः संबोधनस्यास्ति । शरीराधीनं भोग नानुभवति सुषुप्तिकाल इत्येतत्त युक्तम् । तावता फलोपधानाभावेऽपि तार्किका दिभिरपि संमता स्वरूपयोग्यता नापैति । वास्तवशरीरलक्षणं त्वन्यत् । जामच्छरीरं सर्व मदविद्याकल्पितं शरीरत्वात् संप्रतिपन्नवत् इत्यनुमानस्यापि बाधितत्वादिर्दोषः प्रागेव दर्शितः । तत्र कल्पित्वघटनम पि भात्माद्वैत-भङ्गत्रसाधनम् ७५५ न युज्यते ; जगन्मिथ्यात्वस्यापि बाधितत्वात् । न केवलं प्रत्यक्षेण ; " याथातथ्यतोऽर्थानं व्यदधाच्छाश्वतीभ्यः समाभ्य" इत्यादिश्रुत्याऽपि । सर्वत्र स्वरसार्थत्यागेनार्थान्तरकल्पनया निर्वहणप्रयासमात्रेण न तत्त्वस्थापनं भवितुमर्हति ; मुख्यार्थस्यैवानुरोद्धव्यत्वात् । एवं सर्वोऽप्यात्मा अहमेव चेतनत्वादित्यत्रापि अहमिति स्वान्तःकरणत्वसाधने बाधः । संविन्मात्रत्वसाधने साध्यहेत्वोरैक्यम् । अहन्त्वोपलक्षितसं वित्त्वसाधनेऽपि बाध एव । अन्यथा सर्वाण्यन्तःकरणानि एतदन्तःकरणाभिन्नानि अन्तःकरणत्वात्, सर्व सुखदुःखमेतत्सुखदुःखाभिन्न सुखदुःखत्वादित्याद्यपीप्येत । व्यावहारिकदशायामेवान्तःकरणसुखदुःखादीनां सद्भावात् तेषां नैक्यम्; आत्मनस्तु परमार्थदशायामपि सत्त्वादैक्यमिति वैषम्यमिति चेत् — एवं व्यावहारिकदशायां भेद इष्टः, परमार्थदशायामेवाभेद इति वदद्भिः व्यवहारिकदशापन्ना आत्मानः परमार्थिकापेक्षया भिन्ना इप्यन्ते, उताभिन्नाः । आद्ये, आत्माद्वैतमसिद्धम् । उपलभ्यमानानामात्मनां द्वैतिभिरिव भेदस्येष्टत्वात् । प्रत्युत एतावदतिरिक्तः पारमार्थिकोप कश्चिदात्मा स्वीकृत इति अद्वैतहानिरेव । एवञ्च शरीराणां व्यावहारिकदशामात्रभावित्वात् तद्भेदेनात्मभेदे व्यावहारिके समते सति सर्वे शरीरं ममैवेत्यनुमानस्य नैव प्रसक्तिः । अन्त्ये, विरोधे सत्यपि अभेदेष्टौ सत्यमिथ्यार्थयोरप्यैक्यापत्तिरिति कुत्रापि विरोधो न स्यादिति दूषणं दुरुत्तरम् । यत् पुनरन्तः करणभेदादप्रतिसंधानमात्मैक्येऽपि घटत इति तन्न अन्तःकरणभेदेऽपि सौभर्वादिभिः प्रतिसंधानात् । सौभर्यादेः शरीरभेदेऽप्यन्तःकरणैक्ये प्रमाणाभावात् । तद्गुणसारत्वादिति सूत्रे बुद्धेरणुपरिमाणत्वस्योक्तत्वेनान्तः करणस्य सर्वशरीरख्यापित्वानुपपत्तेः । कल्पभेदेनान्तः करणभेदे सत्यपि जातिस्मराणां प्रतिसंधानसद्भावाच्च । महाप्रलयानन्तरं पुनस्सृष्टावपि तदेवान्तःकरणमिति कथं स्यात् । जातिस्मराश्च महाप्रलयात् पूर्वजन्मवृत्तमपि स्मरन्त्येव । अत आत्मैक्ये सति अप्रतिसंधानमनुपपन्नम् । न चानुभूतं सर्वं प्रतिसंधातव्यमित्यस्माभिरुच्यते, " पटुतरप्रत्ययाभ्यासाद राहितातिशयतादात्विक संस्कारव ७५६

शेन" इत्येवोक्तत्वात् । यस्य चैत्रेणानुभूतस्य तेन प्रतिसंघानं क्रियते, तस्य तेनेव मैत्रेणापि प्रतिसंघानं कियेतेत्येतावदेवापाद्यते । जातिस्मराणामन्तः करजैक्यमस्तीत्यस्य साधकत्वेन, “अमृतत्वञ्चानुपोप्य” इति सूत्रखण्डोदाहरणमपि न संगच्छते । बाह्यकरणभेदवत् अन्तः करणभेदोऽपि न प्रतिसंधानव्यवस्थापक इति विवक्षया बाह्यकरणभेदे प्रतिबन्धा प्रदश्यमाने सति तदर्थमनवधाय किमित्यन्तः करणभेदस्य व्यवस्थापकत्वं शतदूषणी अनुमन्यत इति कथनम् ; प्रलोभनमात्रं वा । तत्त्वविदः प्रह्लादादयः प्रतिसंदधत एवेति चेत् किं प्रतिसदधते । न हि प्रह्लादो हिरण्यकशिपुना कृतं सर्वं किल्बिषं स्वकृतत्वेन प्रतिसंधत्ते, न च तत्फलं नरकादिकं स्वस्य भवेदिति बिभेति । न वा वामदेवो मन्वादिकृतराज्यपरिपालनाद्यधीनयशस्सुखादिकं तद्गतं खात्मन्यनुसंधाय तृप्यति ; किंतु परमात्मात्मकत्वं सर्वस्य शास्त्रदृष्ट्या निश्चित्य परमात्मन्यनुसंधेयमंशं स्वविशिष्टपरमात्मवाच्यहं शब्दप्रतिपाद्ये प्रतिसंधत्त इति यत्किञ्चिदेतत् । दर्शितश्चेदं शतदूषण्याम्, ‘सर्वगत्वादनन्तस्ये ‘ति हेत्वंशेऽवधानविधानेन । भवन्मते ‘मत्तः सर्व’ मित्यस्यार्थो दुर्वचः; मत्त इति प्रहलादरूपजीवाकार परामर्शे सर्वोत्पादकत्वायोगात् ; शुद्धसंविदोऽपि तदयोगात् । अविद्याशबलितेश्वरांशस्य तु अहमर्थाघटिततया मत्त इति प्रहलादप्रयुक्तशब्देन सर्वथा ग्रहणासंभवात् । स्वस्वरूपस्येश्वर स्वरूपस्य चैकत्वमात्रं मनसिकृत्य ईश्वरस्येश्वरत्वाकारेण सर्वव्याप्तिमनभिप्रेत्य यदि ‘सर्वं समानेषि ततोऽसि सर्वः’ इत्युच्यते, तदा किमिती श्वर एवैवं स्तोतव्यः, वस्तुतेरेव, सर्वं समाप्नोमि ततोऽस्मि सर्व इति वक्तुं शक्यत्वात् । न चास्य चेश्वरस्य च कश्चिदत्राविशेषोस्ति । यदि चेश्वरत्वावस्थाविशिष्टस्यैव सर्वाध्या साधिष्ठानत्वम्, तदा मिथ्याभूतस्यैवाधिष्ठानत्वमुक्तं भवेत् । यत्तूच्यते, अहं मनुरभवमिति मन्वादितादात्म्यमेवोक्तम्, न त्वहं वासुदेव इति वासुदेवतादात्म्यमिति किं तेन वासुदेवत्वविशिष्टाकारेणेव मनुत्वविशिष्टाकारेणाप्यैक्या संभवस्तुल्यः । स्वरूपमात्रोपलक्षणेनैक्यवर्णन संभवश्चोभयत्राविशिष्टः । अस्मन्मते वासुदेवैक्यमेव संभावितम्, न तु मन्वैक्यमिति न मन्तव्यम् ; आत्माद्वैतभश-प्रसाधनम् ७५७ वासुदेवक्यस्यापि वामदेवजीवस्वरूपेऽनुपपत्तेः । यद्यहम्पदं विशिष्टपरं कृत्वा दूषणाभावो गृह्यते, मनुपदमपि तद्वत् विशिष्टपरमात्मपरं कृत्वा तत्रापि दूषणाप्रसक्तिरनुचिन्त्यताम् । वासुदेवपदसामानाधिकरण्याभावोऽपि न; " एकः समस्तं यदिहास्ति किञ्चित् तदच्युतः”, “ज्योतीषि विष्णुर्भुवनानि विष्णुः “, ‘अहं हरिः सर्वमिदं जनार्दनः “, ‘स वासुदेवो न यतोऽन्यदस्ति” इति वासुदेवसामानाधिकरण्यस्य निर्विवादत्वात् । तस्माद्विशिष्टस्यान्तर्यामिणः सर्वशब्दवाच्यत्वमन्तरा स्वरूपमात्र सामानाधिकरण्यं न श्रुत्याद्यभिमतम् । तथा सतीश्वरप्रशंसार्थत्वाभावेन सर्वेक्यमुखेनेश्वरस्य खाविशेषप्रतिपादनपर्यवसानेन च शास्त्रतात्पर्य-भङ्ग एव स्यात् । यदि च अहं मनुरभवमित्यादौ स्वरूपमात्रविवक्षा, तदा मनूपलक्षितस्वरूपात्मको भवामीति वर्तमानकालनिर्देश एव युक्तः । एवम् अहम्पदस्य अहमर्थरूपविशेषणं विना स्वरूपमात्रलक्षकत्वे च अभवमित्युत्तम पुरुषार्थस्याप्यनन्वयः स्यात् । एवं स्थिते तत्त्वे भूतकालप्रत्ययोत्तमपुरुषयोः खपक्ष एवाऽऽञ्जस्यमिति शतभूषणी चक्षुर्निमील्यैव ब्रवीति । अत्र वक्तव्यं सर्वम्, “योऽसावसौ पुरुषः सोऽहमस्मि” इतीशोपनिषदाचार्य भाष्ये द्रष्टव्यम् । $ किश्चेदमात्माद्वैतं नाम । किं नानाजीवेश्वरानुस्यूतात्म स्वरूपैवयम्, उत जीवैक्यम्, किं वेश्वरैक्यम्, आद्ये सर्वेण सर्वप्रतिसंधानापत्तिरिति दोष उक्त एव । द्वितीयेऽपि सर्वशरीरवत्येकजीववादे एष एव दोषः । प्रत्यक्षानुमानविशेघवत् श्रुतिशत विरोधोऽपि, सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ इत्यादिभिर्जीवानन्त्यस्यैव प्रतिपन्नत्वात् । एवं बद्धमुक्तव्यवस्थादि-भङ्गोऽपि । उपलभ्यमानानां जीवानां स्वप्नद्रष्टृकल्पितजीववत् कल्पितत्वेनैकस्यैव जीवस्य स्वीकारे सोकल्पितः कतम एषु जीवेध्वित्यत्र विनिगमकाभावश्च । प्रथमोपदेष्टरकल्पितत्वे अन्येषु कल्पितत्वाध्यवसायात् शास्त्रोपदेशादिवैयर्थ्यञ्चत्येवं सुबहु चिन्त्यम् । तृतीयं तु पक्ष स्वीकुर्मः; ७५८

कालत्रयवर्तिसर्वप्रपञ्च निरूपितैश्वर्यस्यैकस्मिन्नेव विश्रमात् । जीवानेकत्वबाधकत्वाभावात् । ईश्वरैक्यस्य यदुक्तमनेकजीववादे ईश्वरभाव एव मुक्तिरिति — तत्रोच्यते ईश्वरभावः ईश्वरसाम्यमितिवत्, 1 तस्य अत्र ब्रह्म समश्नुते ‘, ’ न प्राणा उत्क्रामन्ति ’ इत्यादिबलात् शुद्धचैतन्या भेदरूपा मुक्तिरपि भवत्संमतैव । ईश्वरभावपक्षः प्रागस्माभिरप्युपपादितश्च । परंतु तदा तत्त्वमसि वावयार्थदौर्घटयं लक्ष्यते । विशिष्टयोरैक्यमसंभावितमिति खलु स्वीकृतम् । अतो न सर्वज्ञत्व किञ्चिदज्ञत्वविशिष्टाभेदकथा । शुद्धखरूपैक्ये तु विवक्षिते अहं ब्रह्मास्मीति शुद्धखरूपानुसंधाने सति तत्क्रतुनयविरोधेन सगुणब्रह्मरूपेश्वरभावः कथं स्यात् । अथेश्वरत्वविशिष्टज्ञानं मुक्तिहेतुः, एवं तर्हि अतत्त्वज्ञानान्मुक्तिरिति स्यादित्यलम् । यदप्युक्तम्, तत्त्वविदामपि परदुःखादिप्रतिसंधानप्रसक्तिर्न भवति, तद्दृष्ट्या परस्यैवाभावात् तद्दुःखादिसद्भावाप्रसक्तेरितितन्न — एवं खलु सति तत्त्वोपदेशादिकमपि भज्येत । न च परस्य स्वस्य चैकत्वात् परेण क्रियमाणमनुसंधानमेव स्वकीयानुसंधानरूपं भाव्यतामिति वाच्यम् यदा परः सुषुप्त्यादिवशात् तन्न प्रतिसंधातुं पारयेत्, तदा अन्येन परानुभूतमनुसंधीयताम् । यदा परशरीरमुखेन व्यवहर्तुं न शक्नुयात्, तदा शरीरान्तरेण व्यवहरतादित्यापादानात् । यत्तु –स्वस्मिन् परान्यत्वस्य प्रत्यक्षं न भवितुमर्हति प्रतियोगिभूतत्य परस्याप्रत्यक्षत्वादिति तन्न –प्रत्यक्ष एव प्रतियोगियोग्यतायास्तन्त्रत्वात् । भेदप्रत्यक्षे अनुयोगियोग्यत्वापेक्षिता । अत एव स्तम्भे पिशाचभेदप्रत्यक्षमिष्टम् ।

अत्यन्ताभाव एकजीववादे अनेकजीववादे चाद्वैते दोषे उद्भाव्यमाने उभयसमर्थनार्थमेव सर्वेऽप्यद्वैतिनः प्रयस्यन्ति । तदेतत् स्वपाण्डित्य चिख्यापयिषामात्र स्यात् । न तत्त्वव्युत्पादनम् ; तत्त्वे विकल्पायोगात् । अतोऽन्यतरपक्ष एवा द्वैतिभिः परिषद्घटनेन निष्क्रष्टव्यः । अन्यथा त्वनिर्णयादपाण्डित्यमेव आत्माद्वैत-भङ्ग-प्रसाधनम् ७५९ दर्शित भवति । " वार्तिककाराभिमतैकजीववादे सर्वे जीवा आविद्यकाः बद्धा एव; न मुक्तः कोऽपीति न बद्धमुक्तव्यवस्थानुपपत्तिः" इति वाक्ये शोध्यमाने कियत्यो व्याहतय इति भवतैव समीक्ष्यम् । एकजीववादे एकमेव शरीरं वस्तुतो जीवाधिष्ठितम् ; अन्यत् सर्वमजीवं जीववत्त्वेन कल्पितमित्युक्तौ स्वातिरिक्तानां जीवानां प्रातिभासिकत्वमुक्तं भवति । एवञ्च तानि शरीराण्यपि किं प्रातिभासिकानि उत व्यावहारिकाणि, लोके शरीरस्य जैवकर्मायत्तताया एव संप्रतिपन्नत्वेन जीवाभावे कर्माभावात् तदधीनानि शरीराणि तदधीनाः शारीरव्यापाराश्च दुरुपपादा इति सर्वमेव प्रातिभासिकं स्यात् । एवञ्च खबुद्धिकल्पितत्वादीश्वरोऽपि प्रातिभासिक इति एकजीव रूपव्यावहारिकतत्त्वज्ञानेन तत्सर्वबाध आवश्यकः । एवञ्चेश्वराधीनाः खशरीरसंबन्धिनो हिताहितप्रवृतिनिवृतिव्यापारा अपि न स्युः । एवमवशेषितैकजीवांश एव ब्रह्मातिरिक्ताभावरूपाद्वैतज्ञानेन बाघनीयो भवेत् । को हि नामैव सर्वलोकवेदवेदान्तविप्लवपर्यवसायिनं पक्षमाद्रियेत । उपलभ्यमानेष्वसंख्येषु शरीरेषु इदमेव वस्तुतो जीवाधिष्ठितम्, न त्वन्यदिति निर्धारण वा कथं भवितुमर्हति । तस्मात् स्वहृदयविरोधेनैव विधीयमानोऽयं शठवाद एव । अत एवाद्वैत सिद्धावपि जागरे स्वप्नवलक्षण्यात् शरीरान्तराणां निर्जीवत्वं नाश्रितम् । स्वप्ने हि अयं सुखी अयं दुःखीत्येवान्यत्र प्रतीतिः, न तु अहं सुखीत्येवम् । जागरे तु सर्वशरीरेष्वप्येवमिति । आस्तामेतत् । अतो वस्तुतो जीवाधिष्ठितत्वं सर्वत्रैवैष्टव्यम् । / एवं सर्वेषां शरीराणामेकजीवाधिष्ठितत्वे इष्यमाणेऽपि तु भोगप्रतिसंधानादिसंकरः, आचार्यज्ञानेनैव निर्वाहादुपदेशाद्ययोग इत्यादि दूषणमपरिहार्थमेव । जीवैक्येऽप्यप्रतिसंधानमविद्यामहिना, उपदेशादिप्रवृत्तिश्च तदधीनजीवभेदभ्रमादिनेति चेत् —तत्त्वविदो भ्रान्त्यसंभवादुपदेशो ऽनुपपन्न एव । किमि त्येवमेकजीववादं हठात् कृत्वा अनुपपत्तीनां परिहाराय बहुमुखं प्रयस्यते । तेनैवाविद्यामहिम्ना जीवभेदस्यैव सुखीकरत्वात् । ब्रह्माज्ञानवादे एकजीवपक्षे उद्भाव्यमानदूषणपरिहारमयासिना, तदुक्तार्था परामर्शनायथायथं कृतोऽनुवाद-७६०

इति स्थिते कथं तत्परिहरणस्य यथार्थता, न हि " न कदाचिदपि बन्धो वा मोक्षो वाऽत्र मते जीवानामिति स्वीकारे नित्यबन्धप्रसंगो वा शास्त्रोपदेशवैय प्रसंगो वा" इत्यानुपूर्वी शतदूषग्यामस्ति । अत्र बन्धस्य मोक्षात् प्रानिबन्धः, जीवानामिति बहुवचनमित्यादि बह्ननुपपन्नम् । कस्य नित्यबन्धप्रसंगः क्रियत इति चेत् यस्य बन्धो भवदिष्टः विकृतस्याविकृतस्य वा, तस्यैव स बन्धो नित्यः स्यादित्युच्यते । आपाद्यमानं खल्वत्र नित्यत्वम् । तदपरामृश्य बन्धमोक्षशब्दार्थकथनं जीवबहुत्वोल्लेखश्च न प्रकृतोपयोगि । अद्वैत सिद्धौ तु ‘ब्रह्मैकमेव संसरति । स एव जीवः । तस्यैव प्रतिशरीरम् अहमित्यादिबुद्धिः’ इति विलिख्य, एकस्मिन् जीवे सुप्ते सर्वजगदप्रतीत्यापत्तिरित्याशङ्क्य अन्तःकरणावच्छिन्नजीवानां जीवाभासत्वात् तत्स्वापे तं प्रत्येवाप्रतीतिः । समष्ट्यभिमानिन एव मुख्यजीवत्वात् तस्मिन् सुप्त एव सर्वाप्रतीतिः यथा प्रलये इत्युक्तम् । तदपि विमृश्यम् — प्रतिशरीरमहमित्यादिबुद्धिः कस्य जीवस्य ? किं जीवाभासस्य, उत मुख्यजीवस्य । नाद्यः, जीवाभासानामन्तः करणभेदेन भिन्नत्वात् एकस्य सर्वत्राहम्प्रतीत्यसंभवात् । नान्त्यः; अस्मच्छरीर/वच्छेदेन हिरण्यगर्भस्य अहं जानामि करोमि सुख्यामी त्यनुभवोत्पत्तेः शपथैकनिर्णयत्वात् । एवञ्चास्मदादिकर्मणां स एव फलभोक्ता स्यात् । यदि च हिरण्यगर्भस्य सर्वत्र स्वप्रतिसंधानं नास्ति, तर्हि कथं स मुख्यः समष्टिजीव एकः । एवं तर्हि सर्वेषां शरीराणां वस्तुतो निर्जीवत्वमेव भग्यन्तरेणोक्तं स्यात् । जीवाभास इत्यस्य च कोर्थः । किं प्रतिविम्ब इति, उत जीवत्वभ्रान्तिविषय इति, आहो मुख्यजीवैकदेश इति । नाद्यः, यतः प्रतिबिम्बस्यान्तःकरणे उत्पत्तेः, प्राकू तदभावात् जीवानादित्व-भङ्गः अकृताभ्यागमकृतविप्रणाशादि च स्यात् । द्वितीये सर्वेषामजीवत्वात् कर्तृत्वभोक्तत्वोपदेश्यत्वासंभवः । तृतीये छिन्नावयवत्वे ब्रह्मगश्छेद्यत्वादिप्रसंगः । अनवयवत्वादच्छिनावयवत्वे हिरण्यगर्भस्य सौभरिवत सर्वावच्छेदेन कर्तृत्वमिति तत्र सर्वभोगसंकरः स्यात् । अतिरिक्ता एव जीवाः मुख्यजीव परतन्त्रत्वात् जीवाभासा आत्माद्वैत-भङ्ग-प्रसाधनम् པཝཱ་ इत्युच्यन्त इति चेत् —तर्हि गतमेकजीववादेन । समष्टिजीवस्वापे सर्वमगदभाव इत्य् अपि वार्तम् ब्रह्मणश्चतुर्युगसहस्ररूपदिनावसानेषु रात्रिषु तत्स्वापेऽपि कतिपयलोकमहर्ष्यादिसद्भावस्य प्रमाणप्रतिपन्नत्वात् । अत एव लोकेषु कृतकाकृत कादिविभागः । किञ्च समष्टिजीवस्य हिरण्यगर्भस्य मुक्तौ पुनः सृष्टिर्न स्यात्, कल्पकजीवाभावात् । प्राकृतप्रलयरूपतन्मुक्तिकालानन्तरमपि सृष्टिः प्रामाणिकी; एवं तस्य तदा मुक्तिरपि; ‘ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ’ इति ततः प्रागेव तस्य तत्त्वदर्शित्वस्य तदा प्रारब्धावसानस्य चावगमात् । तस्य सगुणब्रह्मप्राप्तिरेव तदा भवतीति चेत् -तत् सगुण ब्रह्म यदि जीवातिरिक्तमस्ति, तत् यदि जगत्कल्पकमपि भवति, तर्हि जीवेश्वरद्वयं वा जीवद्वयं वा समष्टिजीवस्यापि जीवाभासत्वं वा स्वीकर्तव्यम् । सर्वमिदमेतत्पक्षेऽनिष्टमेव । एवं समष्टिजीवकल्पितस्य जीवाभासेन ग्रहणमपि न शक्यं कर्तुम् । पृथगनेन सर्वकल्पने च नानाजीववादो नानाप्रपञ्चवादश्च भवेदित्यलम् ।

यत्तु विशिष्टजीवानां विशिष्टजीवेश्वरयोश्च न सामानाधिकरण्यं कुत्रापि दृश्यत इति तदिदं विस्पष्टापत्वमात्रम् । भवन्मतेऽभिप्रायान्तरक पनेऽपि, क्वचिद् बाधार्थम्, क्वचित् स्वरूपलक्षणयेत्येवं वैरूप्याश्रयणेऽपि, वस्तुतो विशिष्टवाचिपद सामानाधिकरण्यस्यैव सर्वत्र दर्शनात् । सामानाधिकरण्यलक्षणस्यैव विशिष्टपरत्वाभावे भङ्गप्रसङ्गात् । अहं मनुरभवम्, बालो युवा स्थविरो जायते इत्येवं जीवदाचिपदसामानाधिकरण्यस्य तत् त्वमसि, ब्रह्म दाशाः ब्रह्म दासाः इति जीवेश्वरसामानाधिकरण्यस्य च स्वरसावगतत्वात् । “बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्” इति भारतवाक्यस्य पुरुषाकारेषु देहेषु सर्वत्रैक आत्मेत्यर्थवर्णनमपि साहसम् । " बहवः पुरुषा राजन् सांख्ययोगविचारिणाम्" इति सांख्यादिमते जीवानेकत्वमुपक्षिप्य तत्संमतप्रकाराद्वैलक्षण्यस्य स्वाभिमतस्य प्रदर्शनाय समनन्तरप्रयुक्तेऽत्र श्लोके बहूनां पुरुषाणामित्यस्य पूर्ववज्जीवपरत्वस्यैव युक्तत्वात् देहमात्रग्रहणायोगात् । तर्हि पुरुषैक्या सिद्धिरिति चेत् — न हि स्वकल्पित 96 ७६२

पुरुषक्यप्रकारारोपाय समञ्जसार्थत्यागेन प्रमाणहिंसनं साम्प्रतम् । अतो जीवानां कारणभूतः पुरुषः कचिदस्तीत्येव व्यासामियायः, न तु जीवैक्यम् । सांख्यास्तावत् निरीश्वरवादिनः स्वतन्त्रानेकात्म निर्णयमेव चक्रुः । व्यासस्तु तेषां पुरुषाणां परमात्माधीनत्वमेवाविधकार, यथा, ‘तदधीनत्वादर्थवत्’ इति सूत्रे प्रकृतेस्तदात्मकत्वम् ; न जीवैक्यम् । “समासनस्तु तदूव्यासः पुरुषैकात्म्यमुक्तवान् " इति वचनमपीदमेव दर्शयति । पुरुषाणां जीवानामैकात्म्यम् परमात्मरूपैकात्माधिष्ठितत्वमुक्तवानिति तदर्थात् । इदं विशदं भवत्यनन्तरभवदुदाहृत श्लोकोऽपि । ‘ममान्तरात्मा तच ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् कचित् ॥" इत्यत्र हि देहसंस्थिता इति पदेन देहातिरिक्तान् देवस्थान पुरुषान् निर्दिश्य तदन्तरात्मत्वस्य कथनात् जीवानेकत्वमीश्वरैकत्वञ्च व्यक्तम् । ‘न ग्राह्यः केन चित्’ इति च–चेतनाः सन्ति बहवः तं तु न गृह्णन्ति इति, ‘यमात्मा न वेद, यस्यात्मा शरीरम्’ इति श्रुत्यर्थदर्शकं भवदभिनतजीव श्वाधकम् । ‘एकश्चरति भूतेषु’ इति भूतपदमपि देहिवाचि यतो वा इमानि भूतानि जायन्ते, “भूतानां प्राणिनः श्रेष्ठाः " इत्यादौ तथैव प्रसिद्धेः । एवञ्च जीवातिरिक्तस्येश्वरस्यैकत्वमेव तत्राप्युक्तम् । एषां वाक्यानां जीवामिन्नपरमात्मपरत्वं वा जीवैक्यपरत्वं वा वयमानं शब्दाविन्न स्वीकुर्यात् । अभिनिवेशे सति किमपि वक्तव्यं भवति । अत एव खल्वद्वैत सिद्धौ जीवानेकत्वपराणि श्रुतिवचनानि गृहीत्वा, ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते” इति श्रुतावेक वचनश्रवणात् वचनान्तरणामनेकत्वे तात्पर्यं नास्तीत्युक्तम् । एकवचनस्य परमेकत्वे तात्पर्यमिति कुतोऽवगम्यते । यदेति श्रवणादनुवादत्वावगमात् बहुत्वस्य प्रसिद्धतया एकत्वाविवक्षायाः प्रतिव्यक्तिविश्रान्तैकत्व संख्यापरताया वा सुवचत्वात् । अनादिमाययेति गौडपादकारिकायाः श्रुतित्वेन प्रदर्शनमपि प्रामादिकम् । अत एव चन्द्रिकायाम्, गौडपादीये अनादिमाययेत्यादिवाक्ये इत्युक्तम् । अस्याः अश्रुतित्वे श्रुतित्वे वा एकत्वसाधकत्वाभावमनुचिन्त्यैव चन्द्रिकायाम्, ’ इदमुपलक्षणम् एको देवः सर्वभूतेषु गूढ C आत्माद्वैत-भङ्ग-प्रसाधनम् ७६३ इति श्रुतौ एक इति पदस्य इत्युक्तम् । तत्रापि देवस्येश्वरस्यैव एकत्वमनेकत्वाभावोऽवगम्यते ; न तु जीवस्यैकत्वम् । सर्वभूतेषु इति भूतपदेन बहुवचनान्तेन सर्वपदघटितेन विविधविचित्रजीवसद्भावज्ञापनाच्च न सा श्रुतिर्जी वैकत्वपरा । “देही कर्मानुगोऽवशः” इत्येकवचनमपि एकैकस्याप्यनेकजन्मप्राप्तिमेव दर्शयेत्; न पुनर्जीवस्यैकत्वम् । जात्याख्यायामेकवचनस्यानुशासनिकत्वाच्च नैकवचनेन प्रमाणान्तरप्रतिपन्न हुत्वबाधः । अक्षरब्रह्मणे, एतस्य वा अक्षरस्य प्रशासने गागि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ’ इत्यादिना परमात्माधीनप्रवृत्तिकान् सूर्यचन्द्रादिदेवपितृमनुष्यादीन् निर्दिश्य, ‘जान्यदतोऽस्ति द्रष्टृ’ इति परमात्मापेक्षया द्रष्टृन्तराभावनतिपादकं वाक्य प्रथमप्रतीतसू चन्द्रादिनानाविधचेतनसद्भावाविरोधेन तत्पोपणौपयिकतया च परमात्मसदृशद्रष्टृन्तराभावम्, सर्वेषामन्येषां द्रष्टृणां परमात्मनियम्यतया ईदृशनियन्तृस्वशक्तिसंपन्न ब्रान्तरं नामीत्येवमर्थं ब्रवीतीति वाक्यव्युत्पत्तिमतां सुगमम् । ‘अमियैकः ‘, ‘एक एव हि भूतात्मा’ इत्यादीनि च परमात्मन एवैकत्वपराणि । ‘स एकधा भवति त्रिधा व भूमविद्यायां मुक्तस्यैकैकस्यानेकशरीरपरिग्रह उच्यते । न पश्य मृत्युं पनि रोगं नोत दुःखताम्’ इति पूर्वश्लेोके मुक्तप्रस्तावात् । भवन्मते तु निर्गुणब्रह्मविदि एकधाभावत्रिवाभावादीनामसंभवात् वाक्यमनन्वि भवतीति, ‘सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीति विद्यास्तुतिपकल्याय प्रशंसामात्रम् ; न तु तथैव तत्त्वमिति वाक्यमन्यथा नीयते । लोके जीव एक एवेति नावधार्यते । " सदापि भुक्तस्य विदुषो वैकत्वावगमेऽपि अनेकजीववादिनामतीमते चेमानि सर्वाणि वाक्यानि जीवैकत्वापतिपादकतयैव भवद्भिरपि वर्णनीयानीति किं तादृशान्यथा सिद्धार्थान्तरस्वरसवाक्यग्रहणेना द्वैत्येकदेश्यभिमतजीवैकत्वस्थापन सनेन । ’ तस्यात्मपरदेहेषु’ इति वचनेऽपि आत्मनो देहः कश्चित् अत्मतः परेषां देहा अन्ये इति जीवभेदमेव प्रदर्शये देहवैलक्षण्यानुरोधेन जीवखरूपेऽपि वैलक्षण्यं मन्यन्ते, सर्वेऽपि विज्ञानस्वरूपतया एकाकारा इति न मन्यन्तेते क्षयमन्तृत्वात तिनः यथावस्थितात्मखरूपज्ञानरहिता इत्येवार्थ, ૪

संभवात् न जीकव्यक्ति भेदप्रतिषेधसिद्धिः । अतो न श्रुत्यादिकं जीवैंक्ये प्रमाणम् । अनुमानं तु प्रत्यक्षानुमानश्रुत्यादिविरुद्धमैक्यसाधनाय नालमित्युपक्रम एवावेदि । अहमिति गृहीते विशेष्ये अहं तेभ्यो भिन्न इति जीवभेदे प्रत्यक्षेण गृह्यमाणे, प्रत्यक्षस्य विशेषणभेदे तात्पर्यम्, न तु विशेप्यभेदे इति केय परिभाषा कुसृष्टिः । तात्पर्यविचारश्च शब्दे । न तु ज्ञाने; नतरां प्रत्यक्षे । यत्तु चैत्रो मैत्रप्रतियोगिकधर्मिज्ञानाबाध्यभेदवान् मैत्रानुसंहितदुःखाननुसंधातृत्वादित्यनुमाने जीवभेदसाधके दूषणमुपन्यस्यते, सिद्धसाधनमिति — तन्न — अद्वैतिसंमतो हि चैत्रमैत्रमेदः कदाचिद्वाध्यः । अबाध्य एव तु भेदोऽत्र साध्यते । अतो नार्थान्तरमपि । न च ब्रह्मातिरिक्तस्याबाध्यत्वमसिद्धमिति मन्तव्यम् ; बाध्यत्वस्यैवा सिद्धत्वात् । मैत्रानुसंहितेति हेतुघटक विशेषण स्याखण्डाभावघटकतया सार्थक्येऽपि व्यभिचारादिवारणं प्रयोजनं नास्तीत्यपि न सत् चैत्रस्य स्वदुःखानुसंधातृत्वस्य निर्विवादतया अननुसंधातृत्वस्य दुःखाननुसंधातृत्वस्य चासिद्धत्वेन तद्वारणायैव दुःखे चैत्रानुसंहितत्व विशेषणात । अतो व्यभिचारादीत्यादिपदग्राह्यासिद्धिवारकत्वमस्ति । एकाम सिद्धिं परिहरतो द्वितीयापत्तिरिति शङ्कावारणार्थं तु अखण्डाभावसंपादकत्वात् हेतोरन्यत्वान्न दोष इत्युच्यते । तत्र दलकृत्यप्रश्न एव नोदेति । एकदलत्यागेऽपि हेतोरन्यत्वात् । एकहेतुप्रयोगे हेत्वन्तरं किं नोपन्यस्यत इत्येव हि तदा पृष्टं भवति । तदाचासिद्धिदोषात् तत्त्याग इत्युत्तरम् ; निरनुयोज्यानुयोग इति वा । हेतोरन्यत्वे च न व्याप्यत्वासिद्धिप्रसक्तिः । स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तरघटितत्वे हि स दोषः । अभावस्य तयक्तित्वेन हेतुत्वे तु नतरां शङ्कावकाशः । एवं तदभावे हेतोरप्रयोजकत्वादप्ययमेवाभावो हेतुर्वक्तव्यः । एवं मैत्राननुसंधेयदुःखानुसंधातृत्वादित्यपि निर्दुष्टहेतुरिह ग्राह्यः । अतः शतदूषण्यनुक्तं भवदनूदितमप्यनुमानं सुस्थम् ॥ आत्माद्वैतभज-प्रसाधनम् अध्यक्ष लिङ्ग निगम स्मृतिमुख्य सर्वमानोपरोधमवद्भिरपि प्रसह्य । बौद्धैर सच्छति रिवात्मगृहीतसत्तया G त्वद्वैतवाक्यमुपदश्यत एवमेभिः ॥ शुभमस्तु ॥ श्रीः