स्वयं सर्व पूर्ण स्फुटमनुभवद् ब्रह्म परमं स्वमायासंबन्धस्थगितनिजबुद्धिप्रसरणान् । अवेक्ष्यैतान् जीवान् विविधसुकृतव्याजघटनात् स्वरूपाविर्भावप्रभृति वितरत् स्वं विवृणुते ॥ भगवता बादरायणेन, “पराभिध्यानात्तु तिरोहितं ततो बस्य बन्धविपयेयौ " इति सूत्रे तिरोधानं यन्निर्दिष्टमस्ति, तदतिरिक्तस्य तिरोधानस्य संसारप्रयोजकस्य कल्पनायां न किञ्चित् प्रमाणमस्ति । तच्च तिरोधानं पराभिध्यानात् परमपुरुषसंकल्प विशेषाद्भवतीत्युक्तया स्वभिन्नचेतनगतगुणदोषादिपरिशीलनौपयिकसार्वश्यशालिपुरुषधौरेय तत्संकल्प विशेषयो स्तिरोधनानन्तरभावित्वं दुर्वचमिति सिद्धम् । एवञ्चावरणानन्तरमेव जीवेश्वर भेदकल्पनमद्वैतिसंमतं सूत्रकृतो नेष्टमिति सिद्ध्यति । इदञ्च तिरोधानं कर्माख्याविद्यावेष्टितत्वमेवेति, “अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृपसर्वगा । संसारतापान् अखिलान् अवाप्नोत्यतिसंततान् " इति स्मृतमेव । एवं परमपुरुषाभिध्यानप्रयोज्यत्वे जीवनमोक्षयोंः सूत्रस्पष्टप्रतिपादितत्वे सत्यपि परमपुरु षादिरूपस्य ब्रह्मण एवाज्ञानरूपा विद्यया आवरण बन्धः, परमपुरुषसंकल्पातिरिक्तया तन्निरपेक्षया जैवान्तःकरणवृत्त्या कयाचिन्मोक्ष इति वर्णनं सर्वमेतत्सूत्रनिरस्तम् । एवं सति कर्मरूपाविद्याधीनतिरोधानादिकं दुर्वचमिति शतभूषणीसरम्भः कर्मानादित्वादेरपि स्वसंमतत्वात् स्वमतदूषण एव पर्यवस्यतीत्यनालोच्य क्रियमाणः यथावत्स्वरूपविवेचनविघातका भिनिवेशोद्रेकमेव ग्रन्थकर्तुः प्रकटयेत् नाप्रामाणिक साम्प्रदायिकान्यादृशतिरोधानाद्युपपत्तिम् । 簍 अस्त्वेतत् । अद्वैतसिध्युपगतं तिरोधानस्वरूपमाहत्य मुमुक्षते शतभूषणी । तदेव तु शोधनीयम् आवरणतिरोधानादिशब्दार्थस्यानेकधा तिरोधानानुपपत्तिप्रसाधनम ७३९ विकल्प्यत्वेऽपि अप्रकाशपर्यवसानमन्तत आवश्यकम् । सोऽयमप्रकाशः नित्यप्रकाशरूपे चैतन्ये वक्तुमशक्य एव । जडस्य वस्तुनः प्रकाशो नाम ज्ञानसंबन्ध इति तदभावेऽप्रकाशः स्यात् । ज्ञानान्तरनिरपेक्षप्रकाशरूपे तु वस्तुनि, अस्ति वस्तु, न तु प्रकाशत इति न हि शक्यं वक्तुम् । अत एव श्रीभाष्ये प्रकाशाभावस्तिरोधानम्, तत्र सिद्धस्याभावश्च तदुच्छेद एवेति वस्त्वभावे पर्यवसानमापादितम् । व्यवहाराभावमात्रेणाप्रकाशो न युक्तोऽध्यवसातुम् । ज्ञातस्यापि लोके व्यवह्रियमाणत्वं नास्तीत्यस्य बहुलमुपलम्भात् । अतः सत्यामिच्छादिघटितसामग्रयां व्यवहारविषयत्वार्हत्वादिरेव प्रकाश इति वक्तव्यम् । अर्हत्वञ्च जडे वस्तुनि ज्ञानविषयत्वरूपम्, अन्यत्र च तदसाधारणधर्म एव । ब्रह्मणि स्वयम्प्रकाशत्वञ्च कदाचिदेवं व्यवहारं जायमानमुपलक्ष्यैव समन्तव्यम् । तत्र जीवब्रभैक्ये सति करणनिरपेक्षमहमिति भानं दृष्टमेव ब्रह्मस्वयम्प्रकाशत्वस्थापकं भविष्यति । न जातु कश्चित् नामिति विपर्येति, न वा अहमस्मि न वेति संदेग्धीति तत्स्वयप्रकाशता सूत्रभाष्येऽप्याहतैव । एवं स्थिते अद्वैत सिद्धौ नास्ति, न प्रकाशत इति वा व्यवहारः, अस्ति, प्रकाशत इति वा व्यवहारप्रतिबन्धश्चावरणकृत्यमिति कथमुच्यताम् । अहमस्मीति प्रकाशस्यैव सत्त्वात् । ननु परिपूर्ण ब्रह्म नास्तीति व्यवहारः, तादृशं ब्रह्मास्तीति व्यवहारप्रतिबन्धश्च ह्यच्यते, न तु अहं घटित इति चेत् — ब्रह्मेति बृहत्त्वबृंहणत्वविशिष्टं विवक्ष्यते, उस व्यक्तिमात्रम् । व्यक्तिमात्रस्याभावो नानुभविकः, न च सुवचः । विशिष्टस्य जीव प्रति स्वयम्प्रकाशता तु न मतद्वयेऽपीष्टा । विशिष्टविवक्षापि दुष्करा, निर्विभागब्रह्मेति पूर्ववाक्यविरोधात् । एवं परिपूर्ण ब्रह्मेति परिपूर्णपदमपि व्यर्थम् । निर्विभागे पूर्णत्वापूर्णत्वरूपदशाद्रयाभावात् । कदा च परिपूर्णब्रह्मप्रकाशः ? मुक्ताविति चेत् — स्वयस्प्रकाशे ब्रह्मणीदानीं प्रकाशमानादन्यः क अकारस्तदा प्रकाशिष्यते, येनेदानीमपूर्णता स्यात् । सिद्धौ स्वयमेव, “निर्विभागचितः कथमेवं घटत” इति पूर्वपक्षमनूद्य, “आवरणम हिनैव” इति समाधानं समाधान दुर्वचत्वपर्याय एव । परिपूर्णाकारस्य मोक्षदशानुवृत्तत्वात् तदा द्वैताभावेन तस्य ब्रह्मव्यतयनतिरेकात् ब्रह्मव्यक्तेश्च संप्रत्यपि प्रकाशात् परिपूण कारस्य प्रकाश एवेदानीमुक्तो भवतीति कथं प्रकाशाप्रकाशौ मिथो विरुद्धौ युगपदिति प्रश्ने किमिदं समाधानम् । अप्रकाशासंभवात् अप्रकाशहेतुत्वरूपमा वरणत्वं न कस्यापीत्याक्षिपन्तं प्रति आवरणमहिम्नोपपद्यते इति कथं वक्तुं शक्यम् । चन्द्रिकाकारस्तु अध्यासभाष्यदर्शितपरिहाराभासवासनयेब महिम्नेत्यनेन, अनुभवबलेन स्वीकर्तव्यमिति विवक्षितं मन्यते । भावाभावयोर्विरुद्धयोरपि यदि स्वीकारः, किमपराद्धं जैनैस्तदनुयायिभिश्च भास्कराचार्यादिभिः । एतेन नानन्दप्रकाश इदानीमित्यपि निरस्तम् । आनन्दस्यापि प्रकाशमानत्वात् । न हि स्वस्यानानुकूल्यं स्वं प्रति कश्चित कदाचिदाकलयति । पूर्णानन्दाप्रकाश इति चेत् -पूर्णानन्दो वा पूर्णता वा चिदपेक्षया न भिद्यत इति चित्प्रकाशे कथं तदप्रकाशः । वस्तुतो भेदाभावेऽपि भेदोऽनादिः स्वीक्रियत इति चन्द्रिकाकारः । अभावे कथं स्वीकारः । आविद्यको भेदः काल्पनिक इति चेत् — आविद्यकत्वे अनादित्वम संभवि । मेदवत् अनादित्वमपि कल्पितमिति चेत् – आविधकत्वमनादित्वञ्च मिथोविरोधात् कल्पयितुमशक्यम् । माभूदाविद्यकत्वमिति चेत् — दोषं विना कथं कल्पना ? अकल्पितमेवास्त्विति चेत् भेदः कल्पितः, तस्यानादित्वं तु सत्यमित्यसंभवि । भेदस्य वा अस्य वा सत्यत्वे तु द्वैतप्रसङ्गः । एवं कल्पितस्य भेदस्य सद्भावेऽपि वस्तुतः पूर्णानन्दस्य चिन्मात्रस्य चैकतया वस्तुप्रकाशै सति आनन्दादि प्रकाश एव युक्तो ग्रहीतुम्। न च पूर्णत्वग्रहणमानुभविकम् । अतो भेदो वास्तव एव स्यात् । तथा च नाद्वैतसिद्धिः । प्रवाहानादिता पुनर्जन्यवस्तुन्येव सभाव्यते । अविद्याजीवयोस्तथात्वे च आमोक्षाज्जीवैक्यासिद्ध्याऽकृताभ्यागमादि स्यात् । किञ्च अविद्यातो जीवभावः जीवभावे चाविद्येति प्रवाहाना दिलस्वीकारे, कर्मानादितां सर्वसंमतां शतभूषणी किमिति दूषयति ? सूत्रभाष्यमपि हि तत्र प्रमाणयति, " शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसंगादन्धपरम्परैषाऽनादित्वकल्पना इति । अन्धपरम्परा चाविद्यापक्षेऽपि तुल्या । उत्तरभाष्यावतारणव्याजेन भामत्यां तिरोधानानुपपत्ति-प्रसाधनम् ७४१ भाष्यमिदं खण्डितमेव सम्यगिति किमनेन भाष्येण । नकर्मानादित्वात् ’ इति सूत्रविरुद्धञ्चेदमितिवक्ष्यते । एवं प्रतीतिमात्रशरीरकत्वान्मिथ्यावस्तुनः प्रतीत्यनुवृत्तौ निवृत्त्ययो गातू अज्ञानस्य केवलचिद्भास्यत्वस्वीकारे मोक्षे चित्सत्त्वेनाज्ञानानिवृत्तिप्रसङ्गात् कादाचित्का विद्यावृत्तिप्रतिबिम्बभूतसाक्षिभास्यत्वं सिद्धौ समर्थितम् । एवश्च प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ निवृत्तेरिव प्रतीत्यभावे सद्भावस्याप्ययोगात् कादाचित्काविद्यावृत्तेः प्राक् तत्सद्भावायोगात् कथमनादित्वं घटते । एतेन, “न कदाचिदविद्याया अप्रतीत्यापत्तिः इष्टत्वात् " इति सिद्धिवाक्यमपि निरस्तम् । एवं स्वयम्प्रकाशे वस्तुन्यावरणकृत्यस्याप्रकाशस्याभावोपपादनादेव आवरणसद्भावोऽपि निरस्तः । न प्रकाशत इति व्यवहारयोग्यता अज्ञानसंबन्धरूपा ह्यावरणमित्युच्यते । सति प्रकाशे कथमज्ञानसंबन्धः अनावरणभूताज्ञानसंबन्धस्तु स्यात् । तत्रापि तस्याज्ञानमिति कथं नामेति विचार्थम् । जीवाज्ञानहेतुप्रकृति नियन्तृत्वरूपो भगवतः अविद्यासंबन्धः काममुच्यताम् । सर्वथा प्रकाशमानस्याप्रकाशौ पथिकः किञ्चित्संबन्धः प्रकाशवेलायामेव कथ्यमानो न कथमपि कल्पते । सविशेषस्वप्रकाशे विशेषांशावृतिर्भवेत् । निर्विशेषजडत्वेऽपि स्यात् कदाचित् तदावृतिः ॥ प्रकाशस्यानित्यतायामपि जात्वावृतिर्भवेत् । निर्भेद नित्यप्राकाश्ये नैवावरणसंभवः ॥ ज्ञानान्तराग्राह्यतया स्वप्रकाशावृतिर्यदि । मुक्तावपि स्यात् सा किञ्च नान्यत् ज्ञानं प्रसिद्ध्यति ॥ स्वप्रकाशमपि स्वस्माद् भिन्नं प्रत्यावृतं भवेत् । न च वः सोऽस्ति जीवा हि कल्प्या आवरणे सति ॥ सर्वश्व जीवः स्वस्मै हि सदाऽहमिति भासते । अभास्य किं परम्; सर्व प्राहेदं शतदूषणी ॥ 1 ७४२
तथा च, " पूर्णानन्दात्मना अप्रकाशः “, “केन चन रूपेणाप्रकाशमानस्याप्यपरेण रूपेणाप्रकाशमानता”, “सच्चिदानन्दरूपाणां प्रकाशमानानामप्यपरिच्छिन्नाकारेण अभिन्नरूपेण वा अज्ञानम्” इत्यादिशतभूषणीलिखितं निरस्तम् । अभातस्य प्रकाश्यस्य रूपस्य ब्रह्मणैक्यतः । तत्प्रकाशेन नियतः प्रकाशः स्यात्, न चेत्, द्विता ॥ अत एव कपिसंयोगतद्भावयोरवच्छेदकभेदेन विरोधपरिहारवत् प्रकाशाज्ञानयोः स्वरूपपूर्णत्वाद्यशं भेदेनोपपत्तिरित्यपि निरस्तम् । अंशभेदस्यैवाभावात् । कल्पितो भेद इति चेत् — कल्पनानियामकस्यैव पृच्छ्यमानत्वात् । वस्तुतः शतभूषण्येव पक्षममिममुपेक्षत इत्यलम् । यत्तु कल्पितानन्दांशाभ्युपगमे न किञ्चिदबाधकमिति – तन्न मुक्तिश्चेत् कल्पितज्ञानात् न तत्त्वज्ञानजा भवेत् । कल्पितांश प्रकाशेष्ट्या स्यान्मुक्तावावृतिः पुनः । पूर्णतायाः कल्पितत्वे तात्त्विकी स्यादपूर्णता । पूर्णत्वं धर्मिणैकं चेत् पूर्णताराहिती ध्रुवा ॥ समालोचने अधिष्ठानयाथात्म्याप्रकाशात् सत्त्ववित्त्वानन्दत्वरूपधर्माध्यासो ब्रह्मणि भवतीत्युक्तम् । तत्रायमध्यासो न तिरोधानम् ; तस्य तिरोधानकार्यत्वात् । अतो याथात्म्याप्रकाशस्तिरोधानम् । न चाधिष्ठानापेक्षया तद्याथात्म्यमिति कश्चिद् धर्मो निर्विशेषेऽस्ति । तथाचाधिष्ठाने ब्रह्मणि स्वयम्प्रकाशमाने अप्रकाशाभावात् कुतस्तिरोधानम् ? कुतस्तराञ्च सत्त्वादिधर्माध्यासः । यत् पुनरुपरि—असत्त्वाद्यापादकत्वमेव तिरोधानं नाम । सदूपेण ज्ञाने अभानापादकत्वमनानन्दतापादकत्वञ्च सच्चिद्रूपेण भाने अनानन्दतापादकत्वमिति । तत्र किमिदमभानापादकत्वम् ? भानरूपे ब्रह्मणि अमानतोत्पादकत्वासंभवात् म तावदुत्पादकत्वम् । नाप्यमानरूपताज्ञानजनकत्वम्ः सद्रूपेण प्रकाशकाले इदं प्रकाशरूपमानन्दरूपञ्च न भवतीति ज्ञानस्यादर्शनात् तस्य तिरोधानानुपपत्ति-प्रसाधनम्
1 मोक्षदशायां सत्त्वेन तदापि तिरोधानापत्तिः । अज्ञानसंबन्ध एवावरणम् ; तत्कृत्यश्च नास्तीत्यादिव्यवहार इत्यद्वैत सिद्धि व्याकुर्वता चन्द्रिकाकारण अन्ततः असत्त्वाद्यापादकत्वमेवावरणकृत्यमित्यभिमतं लक्ष्यते । तदेवं निरस्तम् । न चासत्त्वापादकत्वमात्रं नावरणकृत्यम्; किंतु असत्त्वापादकाज्ञानावच्छिन्नत्वम् । तच्च मोक्षे नास्तीति वाच्यम् अज्ञानावच्छिन्नत्वस्याज्ञानसबन्धरूपस्यावरणपदार्थत्वेन सिद्धयुक्ततया तत्कृत्यं किमितिविचारे असत्त्वापादनं तत्कृत्यमित्येव वक्तव्यत्वात् तस्य च विकल्प्य दूषितत्वात् । न च मोक्षदशायामपि वर्तमानायामसत्त्वापत्तौ अज्ञानस्य हेतुत्वं संभवति । अपिच यदा किञ्चिद्वस्तु, अस्ति भाति प्रियमिति गृह्यते, तदा कथमसत्त्वाभानानानन्दतापादकत्वम् । ब्रह्मणः परिपूर्णाकारेणाग्रहणादिदमिति चेत् —— निर्विशेषे को नाम परिपूर्णा कारः । त्रैकालिकसत्त्वदिकं परिपूर्णाकार इति पक्षे तादृशाज्ञानस्य कालादिमिथ्यावस्तुविषयकतया तत्त्वज्ञानत्वासंभवोऽपि । परिपूर्णाकारस्य मोक्षदशायामपीष्टत्वेन शुद्धचिन्मात्ररूपत्वस्यैव सिद्धयुक्तत्वेनान्ततो धर्मिप्रकाश एवं परिपूर्णाकारप्रकाश इति स इदानीमप्यविशिष्ट एव । अतएवाद्वैत सिद्धयुक्तम्, न च निर्विभागचितः " इत्याशङ्कापूर्वकम्, “आवरणमहिम्नैव…. अस्ति प्रकाशत इतिव्यवहारप्रतिबन्धश्च । अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धा " इति परिहारमनाद्रियमाणेन चन्द्रिका कारण, इदञ्च परलालनम् । वस्तुतः प्रकाशमानेऽप्यात्मनि उक्तरीत्या अज्ञानतदभावविषययोव्यवहारयोर्भावाभावो न विरुद्धौ । अखण्डाकारचरमवृतेरेव विरोधित्वादित्यसकृदुक्तम्” इत्युक्तम् । खयम्प्रकाशस्यापि वृत्तिसापेक्षत्वे स्वयम्प्रकाशत्वमेव न सिध्यतीति एतत्खण्डनमपि प्रपञ्चितमेवेत्यलं पिष्टपेषेण । "” यदपि –यथा विशिष्टाद्वैतिमते जीवात्मस्वरूपस्य नित्यस्फुरणेऽपि देहात्मभ्रमः, तथा ब्रह्मस्फुरणेऽपि प्रपञ्चभ्रम इति -तदपि न जीवात्मगताणुत्वज्ञानानन्दत्वादिधर्मविषयकज्ञानस्यैव तद्भम निवर्तकत्वात् । ननु नित्यत्वाणुत्वादिधर्मविषयकज्ञानप्रसरशालिनामपि परमात्मसाक्षात्कारपर्यन्त देहात्म UYY
भ्रमः कथमनुवर्तत इति चेत् —— परमात्मसाक्षात्काराभावेऽपि केवलनिष्ठानां देहात्मभ्रमनिवृत्तिरस्त्येव । अन्येषां ज्ञानप्रसरस्य क्षणिकतया तदातदा विवेकसमयसमुत्पन्नस्याप्यनुवृत्त्यभावे देहात्मभ्रमोत्मेष उपपद्यत एव । न हि शास्त्राधीनं तत्त्वज्ञानमेकमेव आमोक्षमनुवर्तत इति स्वीकृतमस्ति । अतो विवेकविरहदशायां भ्रमस्य अन्यदा तदभावस्य चोपपत्तिः । भोजनशयनादिप्रवृत्तिस्तु आत्मक्षेम मुख्यसाधनभूतदेह संरक्षणद्वारा देहविलक्षण जीवाभीष्ट्पुरुषार्थप्राप्त्यर्थमेव परमास्तिकानामुपपद्यते । ननु ब्रह्मतिरोधानं नाम ब्रह्मविषयकवृत्तिज्ञानप्रतिबन्ध इति चेन्न अज्ञानस्य वृत्तिज्ञानकारणस्य तत्प्रतिबन्धकत्वायोगात् । अन्यथा यावदज्ञानसतं वृत्त्यनुत्पत्त्या तन्निवृत्तिरेव न स्यात् । न च वेदान्तवाक्यश्रवणपर्यन्तमेव तस्य तिरोधायकत्वमिति वाच्यम्-तथासति तच्छ्रवणादिरूपकारणाभावादेव वृत्त्यनुत्पादोपपत्तौ अज्ञानस्य वृत्तिप्रतिबन्धकत्वे प्रमाणाभावात् । न च शास्त्र श्रवण विरोधिविविधतृष्णाविधायिविषयत्रातोपादानत्वमेवाज्ञानगतं तिरोधायकत्वमिति वाच्यम् तदापि प्रतिबन्धकसत्त्वेन कदापि शास्त्रश्रवणे प्रवृत्त्ययोगात् । तस्मात् तिरोधायकलं कर्मविशेषाणामेव स्वीकर्तुमुचितम् ; न तु भोगवत् अपवर्गं प्रत्यपि प्रयोजकस्याज्ञानस्य तत् साक्षात् । ज्ञानसामग्रीविघटकत्वमेव च लोकदृष्टं तिरोधायकत्वम् । अनाद्यविद्या संबन्धविशिष्टस्य ब्रह्मणोऽन्तःकरणाद्युत्पत्तेः प्राक् ज्ञानसामग्रयभावादेव तन्नोपपद्यते । यदि पुनरविद्यायत् अविद्यावृत्तिरप्यनादिरिति मन्यते, तर्हि ‘जीव ईश’ इत्यादिना षटुमात्रपरिगणनं विरुद्धयते ; सप्तम्या अस्याः वृत्तेरपि गणयितव्यत्वात् । एवमपसिद्धान्तश्च । एवं कल्पकदोषान्तरापत्त्याऽप्यज्ञानासिद्धिः । स्वस्यैव स्वकल्पकत्वमसंभवि । तत्स्वीकारे घटादिरपि स्वयमेव स्वकल्पक इति तत्राविद्यारूपदोषापेक्षा न स्यात् । प्रातिभासिकपदार्थप्रतीतिरपि दोषनिरपेक्षं प्रतिभा सिकपदार्थबलादेव स्यात् । किञ्च शुक्तिरूप्यादिस्थले भ्रमविषयशुक्तिरू तिरोधानानुपपति-प्रसाधनम् ७४५ प्यहेतुर्दोष एव भ्रमहेतुत्वेन स्वीकृत इति शुक्तिरूप्यदृष्टान्तेनानिर्वप्रपञ्चभ्रमहेतुत्वं चनीय जगदातिष्ठमानैः प्रपञ्चरूपविषयहेतोर्दोषस्यैव वक्तव्यम् । तद्वदेव दोषस्य मिथ्यात्वेपि दोषरूपविषयहेतोरेव दोषभ्रमहेतुत्वं वक्तव्यम् । न च स्वात्मक विषयहेतुत्वं स्वस्यैव भवितुमर्हति ; अत्यन्ताभेदे कार्यकारणभावस्यायोगात् । अतो दोषमिथ्यात्वे दोषहेतुदोषान्तरखीकारादनादित्वं दुर्घटमिति । ननु दुर्घटत्वमविद्याया भूषणमिति चेत् — कस्य वा तन्त्र भूषणम् जगतोऽप्यविद्याकार्यंतया अविद्यावदेव दुर्घटत्वं भूषणं स्यात् । एवश्व यत्रयत्र यद्यत् अनुपपन्नमिव लक्ष्यते, तत्र तत्र दुर्घटत्वं भूषणमेवेति यथादृष्टं सर्वं सर्वत्र स्वीकार्यमिति वचिदपि पूर्वपक्षसिद्धान्तप्रवर्तनमेव न स्यात् । दुर्घटत्वं भूषणमिति वादश्च सिद्धावेव निरस्तः, न चाविद्यायामनुपपत्तिरलङ्कारः । अनुपपत्तिमात्रं नालङ्कारः ; किंतु सत्त्वादिप्रापकयुक्तावनुपपत्तिः । अन्यथा वादिवचसोऽनवकाशापत्तेः " इति । तथाच तस्यतस्य प्रदार्थस्य तदितरपदार्थत्वानुपपत्तिरलङ्कार एवेति कोऽत्र विशेषः । अतो नाभ्युपगतांशा संभवोद्भावने इष्टापत्तिमुखेन परिहारः साधुरिति । एतेन प्रपञ्चस्याविद्यामूलकत्व इवाविद्याया अविद्यान्तरमूलकत्वे प्रमाणाभावान्न दोषान्तरकल्पनमिति समालोचनोकमपि शमितम् । दोषगत मिथ्यात्वस्यैव दोषसद्भावे प्रमाणत्वादिति । चण्डमारुतो कदूषणजालोन्मोचनाय लघु प्रयस्यता च यदुक्तम्अनादिपदार्थानामज्ञानसंबन्धरूपावरणोप्रयुक्तोत्पतिकत्वाभावेऽपि साधनादिसाधारणविवर्तमात्रस्याज्ञांनाभावव्यापकाभावप्रतियोगित्वरूपमज्ञानप्रयुक्तत्वमस्ती ति — तदपि न -जीवा दृष्टेश्वरकालानां भवत्संमताज्ञानस्य च कल्पनासामान्यकारणताया आनुभविकत्वात् जीवेश्वराज्ञानादीनां कल्पितत्वे तदुपपादनायो गात् । नहि अज्ञानं यदि न स्यात् अज्ञानं न स्यात्, ईशो यदि न स्यात् ईशो न स्यात्, जीवो यदि न स्यात् जीवो न स्यादिति तस्यतस्यतत्तत्प्रयुतत्वं सुवचम् । अनादिषु विवर्तवाचोयुक्तिरप्येवमुपेक्ष्या । 94 ७४६
अज्ञान संबन्धरूपावरणान्तर्गतः संबन्धश्च न संयोगादिः : परमार्थापरमार्थयोस्तदयोगात् । विषयविषयिभावरूप एव चेष्टः । तत्र विषयत्वं ब्रह्मख रूपस्य वा तदन्यस्य वा । नाद्यः, तस्य प्रकाशमानत्वात् । प्रकाशमानस्याप्यज्ञानविषयत्वस्वीकारे साक्षिभास्य सुखाद्यप्यज्ञानविषयः स्यात्, नाहमस्मीति विपर्ययो वा अहमस्मि न वेति संशयो वा स्यात् । पूर्णापरिच्छिननन्दांश विषयकत्वमुपेक्ष्य केवलचिदानन्दविषयेऽप्यप्रकाशव्यवहारश्च स्यात् । नान्त्यः, ब्रह्मखरूपातिरिक्ते घटपटादौ जडे साक्षादज्ञानविषयत्वासंभवरूप सिद्धान्त-भङ्गापत्तेः । किञ्च लोके आवृतत्वादिदं न ज्ञायत इति अज्ञानसंबन्धं प्रति कारणतयैवावरणस्य निर्देशः । न तु द्वयोरप्यैक्यमिति अज्ञानातिरिक्तमेव किञ्चिदावारकं कल्पनीयम् । तत्र न ज्ञायत इत्यस्य ज्ञानाभावार्थकत्वे तु सर्वत्राविशेष इति किं भावरूपाज्ञानेन । किञ्च न ज्ञायते, न जानामीत्यादौ भावरूपाज्ञानभानमयुक्तम् — ज्ञानसामान्यविरोध्यर्थकत्वे सत्येव न जानामीत्येवं प्रयोगौचित्यात् । भावरूपाज्ञानञ्च न ज्ञानसामान्यविरोधि । ब्रह्मरूपे ज्ञाने सत्येव सह सत्त्वात् । ब्रह्मविषयकवृत्तिज्ञानमात्रविरोधित्वस्यैवाज्ञाने संमतत्वात् । यत्पुनरद्वैत सिद्धावुक्तम् -घटमात्रविरोधिनो घटाभावस्य भावसामान्यविरोधित्वेनाभावत्वेन प्रतीतिवत् वृत्तिज्ञानरूपविशेषविशेधिन एवाज्ञानस्य ज्ञानसामान्यविरोधित्वेनाज्ञानत्वेन प्रतीतिसंभव इति तन्न; घटाभावस्य घटमात्रविरोधिनो भावसामान्यविरोधित्वायोगात् । घटाभावस्यात्यन्ताभावरूपस्य घटमात्रेण विरोधो हि तदसामानाधिकरण्यम् । न तस्य भावसामान्यविरोधित्वं तादृशं भवितुमर्हति ; घटाभावस्य पटादिरूपभावसामानाधिकरण्यसत्त्वात् । अभावस्य च भावसामान्यविरोधित्वं भावसामान्यतादात्म्याभावः । इदञ्च तादात्म्याभावरूपविरोधित्वं घटाभावस्यापि भावसामान्येन सहास्तीति अभाव इति तस्य प्रतीतिर्युज्यते । इह तु वृतिज्ञानविरोधिनोऽज्ञानस्य यादृशं तद् विरोधित्वम् । तादृशं न ज्ञानसामान्यं प्रत्यस्ति । ज्ञानभिन्नत्वरूपमज्ञानत्वं तु ‘न जाना तिरोधानानुपपत्तिप्रसाधन ७४७ भी’ त्यादावविवक्षितम् — तस्य ज्ञानसत्ताप्रतिबन्धकत्वासंभवात् । अतो वैषम्यात् अज्ञानपदेन तत्प्रतीत्ययोग एव । घटो नास्तीत्यादौ च नञा भावभिन्नत्वरूपाभावत्वाश्रय उच्यते । तस्य घटप्रतियोगिकत्वं वा घटसत्ताश्रयत्वप्रतियोगिकत्वं वा समभिव्याहरवेद्यम् । तद्वत् घटं न जानामीत्यत्र कथं बोधः । अभावपदस्य भावभिन्नार्थकत्ववत् अज्ञानपदस्य ज्ञानमिन्नाथकत्वे अज्ञानमस्तीत्येतावता ज्ञानस्याभावो न सिद्धयेदित्युक्तम् । घटस्याज्ञानमित्युक्तौ यः कश्चिदर्थोऽस्तु; न जानामीत्यत्र कथम् ? घटमितिद्वितीयायाः क्रिययैवान्वयात् अज्ञाने तदनन्वयात् । तत्र नञः न पचतीत्यादाविवान्यन्ताभाव एव व्युत्पन्नतया न जानामीत्यनेन ज्ञानमिनेति वा ज्ञानविरोधीति वाऽर्थस्य प्रतीत्यसंभवात् । नञर्थे घटमित्यस्यानन्वयाश्च । अत एव -नञ्पदमज्ञानपरम् ; तत्र घटविषयकत्वं घटमितिपदोक्तम् । जानामीत्यनेन च ज्ञानविरोधित्वं वा भिन्नत्वं वा प्रत्याय्यते–इति न शक्यम् । नमः अज्ञानार्थकत्वस्य लक्षणामन्तरेणासिद्धेः । असिद्धत्वाच्चाज्ञानस्य लक्षणया तड्रहणमशक्यम् । ज्ञाधात्वर्थस्य अज्ञानस्य च प्रतियोग्यनुयोगिभावरूपः संबन्धोऽपि न लोकक्लृप्त इति तत्र नानुयोगिता संबन्धेन ज्ञाधात्वर्थान्वयो भवितुमअथ नआ भिन्नत्व विशिष्टाज्ञानं लक्ष्यते भेदांशे ज्ञानान्वय इत्युक्तावप्युक्तानुपपत्तिपौकल्यमेव । कचित् भावात्मकाभावविषयकत्वे तु अभावत्वमनुयोगिताविशेष इत्यन्यत् । अतो ज्ञानसामान्यप्रतियोगिकत्वाभावे अज्ञानमिति, म जानामीति च प्रयोक्तुमशक्यत्वात् ज्ञानपदस्य वृत्तिज्ञान एव रूढिरित्युक्तावपि घटो नास्तीत्यत्रेव बोधनिर्वाहायोगस्योक्तत्वात् विलक्षणमज्ञानमज्ञानपदादिना दुर्वचमेव । वृत्तिज्ञानभिन्नत्वस्य ब्रह्मघटपटादावप्यतिप्रसक्तत्वात् । एवमपि नञर्थस्याज्ञानस्य घटादिकर्मकत्वपुरुषकर्तृकत्वाद्यन्वये व्युत्पत्तेरक्लृप्तत्वात् । अज्ञानकल्पनावत् अन्यस्य सर्वस्याध्यपूर्वतया कल्पनस्य चात्यन्तजघन्यत्वात् । एवं वृत्तिज्ञानविरोधित्वमज्ञानत्वमित्युक्तावपि जडविषये अज्ञानस्यानङ्गीकारात् घटादिवृत्तिज्ञानसाधारणज्ञानसामान्यविरोध्यप्रसिद्धिः, भावरूपाज्ञानस्य ब्रह्मसाक्षात्काररूपवृत्तिमात्रनिवर्त्यतया घटादि र्हति । ; vre
वृत्ति विरोधित्वस्य घटादिसंशयविपर्ययसाधारणतया च वृत्तिज्ञानसामान्यविरोधित्वं दुर्वचम् । अज्ञाने घटकर्मकत्वाद्यसिद्धया व्युत्पत्यन्तरकल्पनादिप्रयुक्त. गौंरवबाहुल्यमपि प्रागुक्तमविशिष्टम् । अपि च वृतेरेवाज्ञान विरोधित्वे आत्मनः स्वप्रकाशत्वे प्रमाणं न भवेत् । अखण्डात्मनः अखण्डाकारवृत्त्यैव भानम जीवभानश्च अहमाकाराविद्यावृतिवशात् एवमात्मगतसुखत्वादेरपीति स्थिते वृत्तिरेव सर्ववस्तुप्रका शिकेति वृत्त्यतिरिक्तप्रकाशे प्रमाणाभावात् घटादिवत् ब्रह्मणोऽपि जडत्वमेवेति । , यत्तु विषयनिरूप्यं हि ज्ञानमित्यस्य सर्वप्रसिद्धस्य चिन्तामणिग्रन्थप्रामाण्यवादपञ्चमविप्रतिपत्तिपर्यन्तगमनेन महता प्रयासेन संवादप्रदर्शनेन अज्ञानस्यापि तत्समानयोगक्षेमत्वोपपादनम -तेन किं सेत्स्यति । सामान्यनिश्चयेन विशेषांशे अज्ञानमिति वादखण्डनमिति चेत् — तत् किं यदंशे निश्चयः, तदंशेऽप्यज्ञानं स्यादिति खण्डयितुर्भावः, उत विशेषस्यापि गृहीतत्वादज्ञानं न भवतीति । नाद्यः, तथासति अखण्डाकारवृत्त्यापि ब्रह्माज्ञानानिवृत्तिप्रसङ्गात् । नान्त्यः, विशेषप्रकाशे सति असति च कथं तद्विशिष्टाज्ञानभानमित्यस्य प्रश्नस्य भावरूपाज्ञानवादिपक्षेऽपि तुल्यत्वात् । यथा चेदं तुल्यत्वम, यथा च ज्ञानाभावरूपाज्ञानपक्ष एव घटमहं न जानामीत्यस्यात्यन्त श्लिष्टत्वम्, तत् सर्वं भावरूपाज्ञानखण्डने विस्तरेण व्युत्पादयिष्यामः । स्वयम्प्रकाशत्वतिरोहितत्व निर्भेदतात्मैक्यचतुष्टयस्य । अशक्यता संघटनस्य नूनमद्वैतिनां हन्त तिरोहितैव ॥ शुभमस्तु श्रीः