स्वतः सर्वद्रष्टा निरुपधिदयोऽनन्त विभवो हयास्याद्याचार्यावधिविविधदिव्यावतरणः । परान् नित्यान् सत्यान् प्रकृतिविवशान् प्रेक्ष्य भविनः स्वमायासंतारेऽप्युपदिशति देवः स सरणिम् ॥ अद्वैतमते मुक्त्यर्थोपदेशानुपपत्तिमशेषत एवाचार्येषूपपादितवत्सु तदुद्भावितदोषपरिहारपथादर्शनात् सरभसं सुबहु किमपि विस्तरेण लिखता शतभूषणीकृताव्यर्थशब्दजालसंदर्भेणैव सर्वं साधितं मन्यते । शतदूषणीविकल्पितेषु कल्पेषु कश्चिद्राद्रियमाणस्य तत्रोद्भावितात् दोषादनिर्मोक्षो वादान्तरेष्विवात्राप्यविशिष्टः । बहुव्याहारप्रियत्वात् स्वस्य उपदेशानुपपत्तिरुद्भाव्यमाना हन्त सर्वोच्छेदाय समापयत इति क्लेशस्तावदिहाधिकमाक्रोशमस्य कारयति । इदं तावदत्र पृच्छामः योऽयं तत्त्वोपदेष्टा स किं शुद्धचिन्मात्रम्, उत तदुपाधिविशेषः, अहो उपाध्यवच्छिन्न चैतन्यम् । एवमुपदेश्योऽपि त्रिषु कतम इति । आद्ये स्वस्मै स्वयमुपदेशः क्रियत इति वक्तव्यम् । अतोऽनुपपन्नमेतत् । वृथाचेष्टितञ्च । द्वितीये, अहं ब्रह्मास्मि त्वं ब्रह्मासीति नोपदेष्टुं शक्यम् ; किंतु ब्रह्मव्यतिरिक्तं त्वमहमादि सर्वं मिथ्येति । एवमुपदेश्यस्य मिथ्यात्वे निश्चिते कथं तं प्रत्युपदेशः । तृतीये तत् अवच्छिन्नचैतन्यं पूर्वस्मादन्यत् अनन्यद्वा । आद्ये आद्य एव दोषः । अन्त्ये मिथ्येति द्वितीयो दोष इति । सर्वमिदं शतभूषणीदूषणक्रमेण विवृतं भविष्यतीति मन्तव्यम् । 1 यत्तु शतदूषण्यां खलीलारसोचिततत्तत्संव्यवहार ईश्वरस्योपपद्यत इति वचनात् ईश्वरस्य लीलारसो चितोपदेशादिव्यवहारस्यास्माकमपि संप्रतिपन्नत्वात् गीताभाष्ये, ‘न त्वेवाहम्’ इत्यत्र श्रीभाष्यकृद्दर्शिता अद्वैतमते उपदेशानुपपत्तिः शतदूषण्यैव खण्ड़िते विप्रलम्भनम्, तदिदं विना तात्पर्यचन्द्रिकां गीताभा ་་
व्यमत्र घट्टे खदृष्टमिति ज्ञापनमात्रफलम्, “स्वव्यतिरिक्तानन्त संसारिचेतनसद्वावेन" इति शतदूपणीवाक्यस्थपदानवधानमूलकञ्च । विवक्षितलीलारसार्थव्याहारः स्वव्यतिरिक्तचेतनानङ्गीकारे न भवतीति ह्यत्र भवन्मतदूषणमेव क्रियते । तस्मादद्वैत तत्त्वोपदेष्टृत्वं भूषयति तदूपणी दूषणप्रवृत्तिं विस्मृत्येत्यादिवृथा म्बरवचनानि वादेऽस्मिन्नधिकानि मुधैव शतभूषण्याद्रियत इति वेदितव्यम् मद्वैततत्त्वविज्ञश्चेत् नोपदेष्टा भवेदसौ । उपदेष्टुं प्रवृत्तश्चेत् भ्रान्त एव भवेदसौ ॥ उपदेश्यं जीवं यदि स्वात्मत्वेन गृह्णाति, तदनुभाव्यं सुखदुःखं खयमनुभवतीति कोऽयं दुःखिनो लीलारसः ! यदि न गृह्णाति, कथमसावद्वैतदर्शी । स्वयं जीवस्य स्वभिन्नत्वेन भ्रान्त्या ग्रहणेऽपि वस्तुत ऐक्यात् जीवगतदुःखादिसंवेदिनैव स्वेन भाव्यम् । स्वप्रयोजनाभावेऽपि लीलारसोऽस्तीत्यप्यनुपपन्नम् ; आत्मैक्ये सति जीवप्रयोजनस्य स्वप्रयोजनतया तदभावाभावात्, उपदेश्यकर्मकोपदेशतज्जन्यज्ञानादीनां मिथ्यात्वाध्यवसाये सति कथं लीलारसः ? कथञ्च तदर्थे प्रवृत्तिः : लीलारसोऽपि मिथ्येति मन्यमानो लीलारसं कथमुद्दिशेत् ? न च मिथ्यापुरुषत्वेन गृहीतं स्थाण्वादिकं प्रति कश्चिदुपदिशन् दृश्यते । एतेन साक्षाच्छङ्करावतारभूत श्रीशङ्कराचार्यादीनामपि लीलारसोचितमद्वैत तत्त्वोपदेष्टृत्वमित्यपि निरस्तम् कस्मै प्रयोजनायोपदिशतीति प्रश्नस्य लीलारसः प्रयोजनमिति समाधानाभिमानेऽपि ऐक्यज्ञाने सति मिथ्यात्वज्ञाने सति वा प्रति बोध्यत्वासंभवादुपदेशानुपपत्तेः । तत्त्वज्ञानसिद्धिः फलमित्यनङ्गीकारे तदर्थतयोपदेश निबन्धनाद्यनुष्ठान संप्रदायविरोधापत्तेश्च । अस्त्वीश्वरावतारेषु यथातथा वा व्यवस्था । ज्ञानिनामुपदेष्टृत्वं भगवद्गीताऽप्याम्नाती’ त्येतदप्ययुक्तम् । तमुवाच हृषीकेशः प्रहसन्निव भारत’ इति भगवतोऽप्युपदेष्ट्रत्वस्य तत्राम्नानात् । भगवनः स्वभिन्न वस्तु सत्यत्वभ्रान्तेस्तुषमात्रेणापि वर्णनासंभवे अद्वैतस्यावश्योपेक्ष्यत्वात् । एवमीश्वरे नित्यतत्त्वज्ञानशालिनि बाधितानुवृत्तेर्दुर्वचत्वादपि बाधितानुवृत्त्योपदेश निर्वाह संभवः । सोऽपि शतदूषण्यां दर्शित ! उपदेशानुपपत्ति-प्रसाधनम् ७२७ एव । एवं तत्त्वज्ञानिनोऽपि साक्षात्कृतजीवा वा श्रवणमननाधीनपरोक्षज्ञाना वाऽपि नोपदेष्टुमर्हन्ति, तैरप्युपदेश्यानां मिथ्यात्वेन गृहीतत्वादुपदेश्यत्वायोगात । ’ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ’ इति वचनमनुरुध्य तत्त्वापरोक्षज्ञानशालिनामेवोपदेष्टुत्वं ब्रह्मसिद्धिकारादयो मन्यन्ताम् । असितो देवलो व्यास इत्येवम्भूतानां वस्तुतस्तत्त्वदर्शित्वात् तत्प्रशंसापरस्य तस्य वचनस्य प्रतिष्ठितपरोक्षज्ञानपुरुषकर्तृकोपदेशप्रतिषेधकत्वं नास्तीति वा स्वीकृत्य अयोगिनोऽपि काममनुमन्यन्ताम् । सर्वथा तत्त्वापरोक्ष्ये सत्युपदेष्टृत्वस्य सर्वसंप्रतिपन्नस्वात् आपरोक्ष्ये सति सर्वस्य बाधितत्वेनोपदेश्यव्यक्तीनामेवाभावादुपदेशानुपपत्तिरेबः । परोक्षं जानद्भिरपि मिध्यात्वेन गृहीता नोपदेश्या एव । ननु मिथ्यात्वेन खयं गृहीतत्वेऽपि बाधस्यापरोक्षज्ञानानन्तरमेव भावित्वात् तावत्पर्यन्तमवस्थितान् तान् प्रति संभवत्येवोपदेश इति चेन्न -उपदेशफलाभावादुपदेशानुपपत्तेः । न चोपदेष्टुरज्ञानस्य तन्निष्ठतत्त्वज्ञानेनेव उपदेश्यगतस्य तदीयतत्त्वज्ञाननिवर्त्यतया तदुत्पादनाय तेनोपदिश्यत इति वाच्यम् — उपदेष्टुरुपदेश्यस्य चैकत्वेऽवधूते स्वगततत्त्वज्ञाना निवर्त्यस्याज्ञानान्तरस्याभावात् तदयोगात् । उपदेष्टज्ञानकल्पितानामुपदेश्यजीवत दितरजीवतगोग्यरूपपदार्थानामुपदेष्टज्ञाननिवृत्तिसमकालनिवृत्तिकतया स्वकीयतत्त्वज्ञानानि वर्त्यप्रकारान्तरनिवर्त्यपुरुषान्तराज्ञानोत्प्रेक्षणस्य स्वयं कर्तुमशक्यतयोपदेशप्रवृत्तिवैयर्थ्यात् । एतेन एकजीववाद व भामतीपरिकल्पितानेकजीववादेऽप्युदेपशानुपपत्तिरुपपादिता भवति । अविद्यांशा अविद्या वा नाना स्युर्जीवभेदिकाः । प्रपञ्चा अपि नाना स्युस्तत्तज्जीवप्रकल्पिताः ॥ तत्तत्प्रपञ्चस्तद्धेतुरज्ञानञ्च तदीयया । सहोपदेश्यैलीयेत वृत्त्या तो देशना वृथा ॥ बाधितानुवृत्तिपक्षस्तु पूर्वमेव बाधित इत्युक्तमेव शतदूषण्याम् । बाधि तानुवृतिर्नाम यद्विशेप्यकयत्प्रकारकानुभवसंतानः प्राक् स्थितः तद्विशेष्यकतत्प्र ve
कारकज्ञानस्य तदधीनक्रियायाश्चाभ्यस्तसजातीयाया अनुवृत्तिः । तत्र नारायणस्य पद्मभूविषय उपदेशो भवेत् कामं बाधितानुवृत्त्या, पूर्वपूर्वसर्गेषु अनेकचतुमुखाचार्यकस्य तस्मिन् प्रामाणिकत्वात् । वस्तुतो नारायणस्य प्रथमतो भ्रमात्मकज्ञानधारा, पश्चात् बाधज्ञानोत्पतिरित्येवं वर्णनासंभवात् नित्यमेव तस्य तत्त्वज्ञत्वात् भ्रमज्ञानोदयप्रसक्तिरेव नेति बाधितानुवृत्तिवचनं तत्राप्यशक्यम् । अस्त्वेतत् यथातथा । पद्मभुवा वसिष्ठं प्रत्युपदेशः कथं बाधितानुवृत्त्या । न ह्ययं पद्मभूरिमं वसिष्ठं प्रति प्रागप्येवमुपदिष्टवानासीत् । एवमेव शक्तिपराशरव्यासशुकगौडाचार्यगोविन्दार्यशङ्कराचार्यादिविषयेष्वप्यनुपपत्तिर्भाव्या । गुरुपरम्परानुसंधानश्लोके च भवदाहते, " नारायणं पद्मभुव वसिष्ठं शक्तिश्च तत्पुत्रपराशरश्च । व्यासं शुकं गौडपदं महान्तं गोविन्द्रयोगीन्द्रमथास्य शिष्यम् । श्रीशङ्कराचार्यम् –" इत्येवंरूपे नारायणमारभ्य शुकपर्यन्तं पितापुत्रभावस्य प्रसिद्धत्वात् विशिष्य पराशरविषये तत्पुत्रपराशरेति वचनम्, शुकस्य गौडाचार्यस्य च संबन्धलेशस्याप्यभावात् संप्रदायविच्छेदेन गौडाचार्यस्वच्छन्दकल्पनामात्रत्वमद्वैतस्येति सर्वैः कथ्यमानं परिहर्तुमवश्यवक्तव्यस्य संप्रदायानुस्यूतिक्रमस्यावचनञ्चाश्रद्धेयत्वमद्वैतोपदेशस्य व्यक्तमेव दर्शयतीत्यन्यदेतत् । अत्र परम्परायाम्, प्राप्तं त्रैष्णवाभिमानमवधूय शैवाभिमान पौष्कल्यशालिभिर्भवद्विवृथैव वैष्णवान् देवतातारतम्यवेदनेन तदुचितनिष्ठागरिष्ठान् शिवद्रोहित्वारोपेण दूषयर्द्धिनं कालक्रमेण नारायणमित्येतत्स्थाने पिनाकिनमितिप्रक्षेपोऽपि क्रियेतेति प्राचीन संप्रदायानुसरण-भङ्गं भवन्मतानुयायिषु साम्प्रतमवेक्षमाणानामूहितुमवसरोऽप्यस्तीति ध्येयम् । सर्वदा विष्णुचिधारणमन्तरेण विष्णुप्रमुखगुरुपरम्परानुसंधानमात्रं शिवचिह्नधारणपुरस्सरमेव भवद्भिराद्रियमाणं हि आस्तिकेष्वेवमाशङ्कामङ्कुर यतीत्यलम् । त्रिपुण्डधारणे श्रद्धा भवत्स्वद्य प्रदृश्यते । मृदूर्ध्वपुण्डधृत्यर्थं सकृदल्पाऽपि नेक्ष्यते ॥ शङ्करस्यावताराश्च शङ्कराचार्यसत्तमाः । उपदेशानुपपत्ति-प्रसाधनम् न मतं संतुमर्हन्ति प्रथमस्य गुरोर्हरेः ॥ वैष्णवाचाररक्षा चेत् विष्णुमुख्यगुरुश्रितैः । अद्वैतिभिः क्रियेत स्यात् विप्रेष्वैक्यं समृद्धिभाक् ॥ माध्वभाष्यप्रक्रियातः प्रायः शारीरके गतिः : । अद्वैतास्माकमायीया करस्यं समश्नुते ॥ पाञ्चरात्राधिकरणे शाङ्करेऽप्यनुमोदिते । वेषाचारप्रकारेऽस्मिन् वैमत्यं वो न साम्प्रतम् ॥ विभूतेर्धारण जातु विभूतेर्वाञ्छयाऽस्तु वः । धृत्यैव वैष्णवं चिह्नं युक्तं वेदान्तचिन्तनम् ॥ परंड यत्तु ब्रह्मसाक्षात्कारबाधित्वेऽपि शरीरादिभिर्भोजनादिव्यवहारवत् शिष्येण व्यवहारो न विरुध्यते इति तन्न –भोजनादिव्यवहारासंभवस्याप्यस्माभिरापादनात् ; मिथ्यार्थैकदेशपरिशेषायोगेन प्रारब्धभोगार्थत्ववर्णनासंभवात् । यथा भगवदवतारणां वासुदेवादीनामर्जुनादीन् प्रति व्यावहारिकत्वधियोपदेश इति दृष्टान्तवर्णनमपि वार्तम्-तदसंभवस्याप्यापादनात् । उपलभ्येते किलेति चेत् आपाद्यकोटिविपर्ययो झापादनेऽनुकूल एव । एवं सति, ‘तत् व्यवहारादिकं लीलामालञ्चेत् जीवन्मुक्तैरपि किमपराद्धम्’ इति क्षेपो न क्षोदक्षमः । किञ्चेश्वरस्य सर्वज्ञत्वात् अर्जुनदर्शनाभ्यास –शरणागतत्वाभिमतपुरुषोंदश्यको पदेशाभ्यासादीनां पृथक्पृथगवस्थितानां कदाचित् संस्कारोन्मेषवशादुन्मत्तव्यवहारेष्विव पूर्वोत्तरीभाव इति कल्पना कथञ्चित् स्यात् । जीवन्मुक्तादिषु त्वपूर्वशिष्वदर्शनाभ्यासाधीनसंस्कारानुवृत्तिवर्णनायोगात् अननुभूतपूर्वानेकसंघटनावैचित्र्यमुपदेशविलेखन लौकिकव्यवहारादिषु प्रत्यक्ष्यमाणं नोपपद्येत । जीवन्मुक्तान् राजाधिराजा निवाभिमत्य सर्वेश्वरस्येव तेषां लीलारसार्थ 1 प्रवृत्तिरियमिति समाधानमपि लीलामात्रम् । नाटकादिष्वाहार्यभावना मूलाभिनयादिकं भावुकचित्तरञ्जनरूपपरमप्रयोजनमधिकृत्य घटते । न तत्र भावुकादिषु मिथ्यात्व ज्ञानमस्ति, इह तु सर्वमिथ्यात्वाध्यवसायात् न कथञ्चिदपीदं शक्योपपादनम् । 92७३०
यत्तु प्रतिबिम्बं प्रत्युपदेशोऽपि संभवतीत्यत्र दृष्टान्तवर्णनम् — तत्रार्जु नस्य वासुदेवप्रतिबिम्बत्वे तं प्रति तेनोपदेशो न घटेतेत्याक्षेपोऽस्तीति भवद्विदितमेव । अन्यस्तु दृष्टान्तश्छाया । सूर्यस्य पत्नी खलु संज्ञानाम्नी तत्तेजो सहमाना स्वस्थाने छायां नियोज्य स्वयं तपसे ययौ । तत्र संज्ञाया अपत्यानि वैवस्वतमनुत्वेन प्रसिद्धः श्राद्धदेवनामा, यमः, यभी च । छायायास्तु सुतः सावर्णिर्भाविमनुः । तत्र प्रतिबिम्बस्य कार्यानुपयोगे वैवस्वतमनुजन्मवृसान्तकथा दत्तजलाञ्जलिरिति, तस्याश्चानेकसंतानेषु वैवस्वतमनुरपि संतानमिति कथा " इति च लेखनं बहुधैवाशुद्धम् । न च प्रतिबिम्बस्य तत्र निर्देशोऽस्ति । छायाशब्दस्तु वस्तुप्रतिघातनिबन्धनतेजः प्रसराभावमपि वस्तुसमानाकारं लक्ष्यमाणामाह । यथा ‘छायेव तां भूपतिरन्वगच्छत् ’ इति । कामधेनुं तच्छायाऽध्वगच्छत् सेव राजाऽप्यन्वगच्छदिति ह्यर्थः । तस्याः वस्तु विहाय पृथक्स्थातुमशक्यत्वादिह प्रतिबिम्बश्छायाशब्दार्थ इति चेत् — तत्रापि स दोषः समानः । तर्हि समानाकारप्रतिमादिकं छाया पदविवक्षितमस्त्विति चेत् —तथाविधच्छायायाः सूर्यविहाराद्ययोग्यत्वादविवक्ष्यत्वं तुल्यम् । का तर्हि छायेति चेत् — उक्तमेव श्रीधरीये, छायां प्रतिबिम्बतुल्यां स्वसदृशीमन्यां स्त्रियं कृत्वेति । प्रतिबिम्बत्वायोगात् चेतनभूता स्त्री काचिदेव छायाशब्देन सादृश्याल्लक्ष्यत इत्युक्तं भवति । तथा श्रीविष्णुचित्तीयेऽपि, छायावदत्यन्तसदृशीं काञ्चित् स्त्रियं कृत्वा " इति । अतः सूर्यशुश्रूषासावर्णिप्रसवाद्यर्हायां स्त्रियां छायाशब्दः संज्ञात्यन्तसादृश्यमूल इति न प्रकृते स दृष्टान्तः कार्यकरः । कुशलवौ श्रीरामपुत्रौ विम्बादिबोद्धृतौ बिम्बाविति वण्ये॑ते । श्रीरामोऽपि दशरथप्रतिबिम्बत्वेन प्रशस्यते । तावता तेषां चेतनानां न वास्तवं प्रतिबिम्बत्वम् । अत्र पुनरीश्वरप्रतिबिम्बत्वं जीवेषु मुख्यमेव चेत् विवक्ष्यतेतर्हि तत्पक्षोक्तदोषा दुष्परिहरा एव । तदधीनस्थितिकत्वतत्सादृश्याभ्याममुख्यत्वे संज्ञातोऽन्या छायेव ईश्वरादन्य एव जीवाः स्युरिति अद्वैतहानिरेव । अतो दृष्टान्तहान्या, ‘ईश्वरस्य स्वप्रतिबिम्बेन जीवेन प्रतिबिम्बानां जीवानां मिथश्च " उपदंशेोयसिसायनम् པཏྟཱ། व्यवहारो नोन्मत्तव्यवहारः ; किंतु शतदूषण्याः श्रीभाष्यस्य चैव’ इति निरस्तम् । अयञ्च रूक्षव्यहारः जीवस्य प्रतिविम्बत्वपक्षदूषणेनावच्छेदवादावलम्बिनः अद्वैतग्रन्थव्यवहारानेवोन्मत्तीकरोति । एवमद्वैतमन्थान्तरव्यवहारो वा शतभूषणीव्यवहारो वा स्यादुन्मत्तव्यवहार इति भाव्यम् । प्रतिविम्ब सौसादृश्योल्लङ्घने तत्रतत्र प्रतिबिम्बव्यवहार एव गौण इति ग्राह्यम् । ‘थदस्ति, तन्नास्तीति वदन्तो नास्तिका’ इति वाक्यमप्युपस्कार्यम् । सति घटे भूतले घटो नास्तीतिवादमात्रेण नास्तिकत्वाभावात् । विप्रलम्भकत्वापत्तिरूपं दूषणं तु स्वभिन्नतया सत्यत्वेन च खगृहीतस्य शिष्यं प्रति खात्माभिन्नत्वादिनोपदेशपक्षे उद्भावितमिति तस्यान्यदा परीक्षणमप्यस्थाने । " न हि निश्शेषितातत्त्वप्रतिभासः शिष्यो भवति" इति भवल्लेखनं भवदभिप्रायविरुद्धम् । लीलारसोद्देशेन जीवन्मुक्तेषु केषाञ्चिदाचार्यत्वस्येवान्येषां शिष्यत्वस्यापि संभवात् । बाधितानुवृत्त्या किं किं न कुर्यात् जीवन्मुक्तः । " कथञ्चासावद्वैतश्रवणमहिम निःशेषितातत्त्वप्रतिभासे मृषामूते शिष्ये सत्यतां प्रत्येष्यति” इति शतदूषणीवाक्ये वस्तुतः निःशेषितातत्त्वप्रतिभास इति प्रथमान्तपाठो भाव्यः । सप्तम्यन्तपाठे तु निःशेषितः अतत्त्वप्रतिभासः आचार्यनिष्ठः यच्छिष्यविशेष्यकः तस्मिन् शिष्ये इत्यर्थवर्णनं कार्यम् । अस्तु चान्यथापि । किं तेन पदेपदेऽनन्वितप्रयोगेण ग्रन्थपूरणं शतभूषण्यामेवेत्यत्र प्रकृतसंदर्भवाक्यमपि निदर्शनम् । यभा " शास्त्राभ्यासपाटवेन पूर्वोत्तरमीमांसान्यायकलापैः शास्त्रार्थं परीक्ष्य प्राप्तनिर्विचिकित्सापरोक्षज्ञानवन्तः श्रवणमनननिदिध्यासनादौ यतमानाः तत्त्वदशिनो ज्ञानिनः" इति । मीमांसान्यायकलापाधीनशास्त्रार्थपरीक्षणव्यतिरिक्तं किं मननमस्ति । तद्वा अन्यद्वा मननं निर्विचिकित्सापरोक्षज्ञानानन्तरं कथम् । परोक्षज्ञानेति शोधनीयम्ः मुद्रणाशुद्धिरियमिति चेत् एवं मुद्रणाशुद्धिः सर्वत्र भाव्या । एवमपि श्रवणमननयोस्तदानन्तर्य कथम् । तस्मादनन्वितवाग्जालवैखरी चिराभ्यस्ता पदेपदे एवं प्रयोजयतीति स्थितिः । / ७३२ (£
जीवन्मुक्तानामपि स्वात्मसाक्षात्कारपाटवार्थं परस्परं गुरुशिष्यभावाभिनयः छान्दोग्यवृहदारण्यकादिश्रुतिषु बहुलमुपलभ्यते" इत्युक्तिश्च नूनमनधिगतोपनिषदां प्रलोभनमात्रम् । तत्रापि परस्परं गुरुशिष्यभाव इति व्याहतम् । ईश्वरादेरभिनेतृत्वं तु वयं न प्रतिषेधामः । तावता वासुदेवार्जुनयोर्गुरुशिष्यभावाभिनयमात्रमिति श्रीभगवद्यामुनमुनिश्लोकः, “अस्थानस्नेहकारुण्यधर्माधर्मधियाऽऽकुलम् । पार्थ प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् " इत्ययं दर्शयतीत्येतत्तु प्रामादिकम् । पूर्वार्धे अस्थानस्नेहस्य धर्मधर्माज्ञानस्य तदधीनवैयाकुल्याश्चार्जुननिष्ठताकथनेन अभिनयप्रतिषेधस्यैव सिद्धेः । उद्दिश्येतिपदमपि आकुलत्वबन्धुत्वप्रपन्नत्वरूपधर्मदर्शन निबन्धनं भगवतो वात्सल्यातिशयमेव दर्शयेत् । एवं सत्यपि व्याजीकृत्येत्यर्थवर्णनं श्रीगीतार्थानुष्ठानस्य प्रबलप्रति बन्धकवशादर्जुनविषये निष्पत्त्यसंभवेऽपि तदव्याजेनोपदिश्यमानमन्येषां बहूनां हितं भविष्यतीति भगवदभिसंधिं ज्ञापयितुम् । यदि तु वासुदेवार्जुनयोर्नरनारायणावतारत्वादभिनय एवेति विमृश्य तदनुसारेण लोकाभिप्रायोऽन्य उत्प्रेक्ष्यते, अर्जुनेन स्वविषये उपदेशनैष्फल्यप्रकटनमप्यभिनयमात्रमिति च विमृश्यतेतर्हि तयोरवताररूपत्वमेव हेतूकर्तव्यम् ; न तु तद्विहायैतच्छलोकमात्रग्रहणं वाचकानामभिनयाभिप्रयं दर्शयिष्यति ; अनन्यथासिद्धपदाभावात् । भाष्यादिषु अर्जुनस्य व्याकुलत्वादेः स्पष्टं सर्वत्र वर्णनाच्च । नरांशोऽप्यर्जुनो जीव एवेति स्पष्टमेव तच्चरित्रावसाने । अभिनयोऽपि लोकोपकारायैव कार्यः, न च स्वातिरिक्तः कश्चित् वस्तुतोऽस्ति यमुद्दिश्यैतावान् अभिनय आहतः स्यात् । शतदूषण्यामेव, मायावत् समयादयः इत्युदयनाचार्य वाक्यमपि (* " गृहीत्वाऽभिनय उपपादितः । सर्वमिदनुग्राह्यस्य कस्यचिदन्यस्याभावात् न भवन्मते घटत इति स्थिते किमिति, “ शिष्यानुजिघृक्षया लीलारसिक आचार्यः " इत्याद्यसंभावितलेखनम् । जीवन्मुक्तवत् अनिवृत्ताविद्यो निर्विचिकित्सपरोक्षज्ञानोऽपि नोपदेशमन्थनिर्माणादिकं कर्तुमर्हति; स्वकल्पित चेतनाचेतनप्रपञ्चस्य स्वकीय साक्षात्कारैक उपदेशानुपपति-प्रसाधनम् ७३३ निवर्त्यत्वात् । स्वाकल्पितजीवादेः स्वयमगृहीतत्वेन तदनुजिघृक्षापूर्वकव्यापारादेरयोगाच्च । स्वकल्पितजीवानां स्वोपदेशाधीनज्ञानपरिपाकवशादेव मुक्तिरिति भ्रान्त्यातु स्वयमुपदेशग्रन्थनिमाणादि । विवेचने कृते कल्पितत्वज्ञाने सति तन्न युक्तमित्येव साम्प्रतं ब्रूमः । यतु, “अद्वैतोपदेशः अविद्यानिवृत्त्यर्थत्वेनेष्यमाणः किमुपदेष्टुः, उत श्रोतुः, उतोभयोः, अथोभयव्यतिरिक्तस्य " इति शतदूषणीविकल्पे सर्वेऽपि कल्पाः संभवन्तीत्यभिप्रेत्य लेखनम् — तत्र साक्षात्कारपाटवार्थम् । आत्म
जीवन्मुक्तेनात्मतत्त्वोपदेशः तत्त्वसाक्षात्काराभ्यासश्चाविद्या निवृत्तेर्जातायाः स्थिरीकरणार्थमपेक्ष्यते । अत उपदेष्टृविषयेऽप्युपदेशोऽपेक्ष्यत इति यत् प्रथमम् -तन्न — भावरूपाज्ञानवादिनां मते तस्याविद्याख्यस्याज्ञानस्य तत्त्वज्ञानतो निवृत्तौ सकृज्जातायां ध्वंसतुल्यायास्तस्या निवृत्तिप्रसत्तत्यभावेनाविद्यान्तरस्य तज्जीवीयस्याभावेन चाविद्यानिवृत्तिस्थिरीकरणार्थतायाः साक्षात्कारे दुर्वचतया तदर्थोपदेशायोगात् । यस्य त्वंशतः श्रवणम्, अंशतो ज्ञानविरहः, तस्योपदेशः प्रवचनात्मा वैशद्यमर्पयतीति स्यान्नाम । निर्विशेषनिःशेपसाक्षात्कारे निप्पन्ने किमस्त्युपदेशलभ्यमांशिकविज्ञानम् । अतो नोपदेशस्य तादृश्युपदेष्टरि साफल्यम् । अथ लीलारस एव फलमुपदेष्टुरस्तु इति चेत्र सर्व मिथ्यात्वज्ञाने सति लीलारसानुत्पत्तेः । आत्मानुभवतृप्तस्यान्यत् सर्वं मिथ्येत्यव्यवसितवतः कार्यान्तरजन्य र सविशेषश्रद्धाप्रसत्त्यभावात् । श्रोतुर्विज्ञानोत्पत्त्यादिफलदर्शन जनितलीलारसस्य श्रोतृतद्विज्ञा नादिषु मिथ्यात्वेनावधृतेषु निष्पत्त्यसंभवात् । एतेन श्रोतुः फलमित्यपि निरस्तम् । यत्त्वत्र श्रोता य उद्दिष्टः तदन्यस्याप्यनुद्देशेपि तत्त्वसाक्षात्कारो भवति । द्वयोः रज्जुसर्पभ्रान्तिमतोर्मध्ये एक मुद्दिश्य नायं सर्प इत्युक्तेऽपि अन्यस्यापि भ्रान्त्यादिनिवृत्तिदर्शनात् । अतस्तृतीयस्यापि फलसंभव इति-तन्न वैषम्यात् । अनुद्दिष्टस्यापि तत्त्वसाक्षात्कारेष्टौ ‘Y
गुरूपसदनस्य तत्पूर्वकश्रवणस्य चानावश्यकत्वप्रसङ्गात् संप्रदायविलोपापत्तेः । अन्येषामपि कथञ्चित् तत्त्वज्ञानतो मुक्तिप्रसंगे अपशूद्राधिकरण विरोधापत्तेश्च । वस्तुतोऽयं तृतीयोऽपि यथाकथञ्चित् तद्वाक्यज्ञानादेव तत्त्वं बुध्यत इति श्रोतृकोटिनिविष्ट एव । यो हि साक्षान्न शृणोति, किंतु परकृतं ग्रन्थमवलोकयते, सोऽपि रेखादर्शनाधीन शब्दज्ञानवत्त्वात् श्रोतैव । यथा परीक्ष्यमाणान् बालान् प्रति प्रश्नं प्रतिब्रूतेति प्रेरणे तैर्लेखने क्रियमाणे तत् वचनमेव, तथा लिखितदर्शनमपि श्रवणमेव । एवं स्थिते यः खल्वनुद्दिष्टोऽपि दृष्टोऽदृष्टो वा शृणोति क्रियमाणमुपदेशम्, तस्य श्रोतृत्वे कः संदेहः । शतदूषण्याञ्च उपदेष्टुः उत श्रोतुरिति श्रोतृपदेनैव विकल्पः कृतोऽस्ति, नोद्दिष्टानुद्दिष्टपदत इति तादृशप्रस्तावो विस्तरमा त्रम् । " न हि देवदत्ताय सर्पाभावोपदेशेन यज्ञदत्तस्य सर्पभ्रमो निवर्तत” इति सूक्तिरपि अश्रोतारमेव यज्ञदत्तं गृह्णातीति संदर्भबलात् स्पष्टम् । ‘उभयव्यतिरितस्ये ‘ति कल्पे किल दोष उच्यते । तेन श्रोतृव्यतिरिक्त एव किल यज्ञदत्तादिगृहीतो भवति । १ नित्यनिवृत्ताविंद्य ब्रह्मेति भाषणाच्चोपदेशवैयथ्यमित्येतत् परिहर्तुं प्रयस्यता यदुच्यते—-वस्तुगत्या अविद्या विरहेऽपि काल्पनिक संबन्धतत्प्रतियोग्यविद्योभयनिर्मूलनेन तत्त्वोपदेशः सफल इति कथमिदं घटते ? अविद्यातत्संबन्योः काल्पनिकत्वे बुद्धे तदभावस्य निश्चितत्वात् तन्निर्मूलनमिति किमस्ति साध्यम् ? निर्मूलनीयस्याभावे कस्य निर्मूलनार्थमुपदेशः । एतदपेक्षया भवद्भिरेवमुत्तरं युक्त वक्तम् — उपदेशोऽपि नास्माभिः क्रियते ; अविद्यादिवत् उपदेशस्यापि मिथ्यात्वादिति । एवमुपदेशं कुर्वाणैरेव कथं तथा वक्तुं शक्यमिति चेत् — वस्तुस्थितिपर्यालोचने कथं न शक्यम् । तर्हि इदं शृण्वन्तः श्रवणाश्रवणयोरविशेषात् क्लेशसाध्ये विविधवेदान्तग्रन्थश्रवणे न प्रवर्तेरन् इति चेत्, मा ते प्रवर्तिषत; का नाम हानिः । एवं विमृशद्भिश्चोपर्युपरि अद्वैतमताभिवर्धनप्रकारपरिशीलनविषयविविधप्रयासवहनं व्यर्थमिति, परमतग्रन्थाः सर्वेऽपि मिथ्येति च मन्यमानैर्भाव्यमिति जोषम्भावे जुष्यमाणे शान्तः क्षोभः । अन्यथा उपदेशानुपपत्ति-प्रसाधनम् ७३५ नोपदिशाम इति वदन्त एव यद्युपदिशेयुः, मिथ्यावाद एव प्रतिष्ठापितो भवति । एवं परोक्षनिश्चयवद्भिरपि तूष्णीकैर्भाव्यमिति स्थिते का कथा जीवन्मुक्तानाम् । यावच्च भवतामुपदेशस्यास्ति प्रयोजनमिति भ्रान्तिरस्ति तावत् न तत्त्ववित्वम् । तत्त्ववेदनं विनैवोपदेशे जिनसुगतादिसाम्यमापादितं शतदूषण्याम् । तत्र वेदविरुद्धत्वादप्रमाणमिति समाधानमयुक्तम्वेदोपदेशोऽप्यतत्त्ववित्क्रियमाणो जिनाद्युपदेशतुल्य एव । तर्हि तत्त्वविदा कर्तुमशक्यत्वात् किं कर्तव्यमिति चेत् — यादृशे तत्त्वे स्वीक्रियमाणे सर्वमनुपपद्यमानं लक्ष्यते, तादृशस्य तत्त्वत्वाभाव एव समन्तव्यः । खण्डनग्रन्थस्य खण्डनखण्डकैः खाद्यत्वात् स्वण्डनखण्डखाद्यमित्यन्वर्थ नामेति च प्रागेव प्रादर्शि । यत्तु आत्मैक्यं मुक्त्यवस्थामभिप्रेत्याद्वैतमत इति -तत् नित्यमुक्तत्वात् ब्रह्मणो मुक्तयवस्थेति काचिद् भविष्यन्ती न; सर्वस्य मिथ्यात्वादिति खसिद्धान्तविस्मरणविधायिजगत्सत्यत्ववासनादाढर्यमूलकम् । एवञ्च सति, " उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः” इत्यौडुलोमिपक्ष एव गृहीतः स्यात्, न तु सूत्रभाष्यसंमतं काशकृत्स्नमतम् । परमात्मन एव विज्ञानात्मभावेनाप्यवस्थानेन सर्वदेवात्मैक्यं हि तन्मतम् । अतो मुक्त्तयवस्थायामेवात्मैक्यमित्ययमपसिद्धान्तः, मेदस्य काल्पनिकतया आत्मैक्यस्यैव पारमार्थिकत्वात् । भास्करयादप्रकाशाचार्यमतयोः शतदूपण्यापादितमज्ञत्वसर्वज्ञत्वसांकथं खमतेऽपि सिद्धं कृत्वा तत् परिजिहीर्षति शतभूषणी । तत् त्वमसीत्यत्र सर्वशत्वविशिष्टार्थके तत्पदे अज्ञत्वविशिष्टार्थके च त्वम्पदे अज्ञत्व सर्वज्ञत्वरूपविशेषणत्यागेन स्वरूपमात्रमुपलक्ष्य भवद्भिरैक्यवर्णनात् तयोर्धर्भयोः सांकर्यमेकव्यक्तिगतत्वरूपं हि स्वीकृतं भवति । न हि रूपं रसश्चैक इत्यत्रैक्यरक्षणाय रूपत्वर सत्वरूपधर्म त्यागेनोपलक्षितक्यं ब्रूताम् । अत आत्मव्यक्तयैक्यप्रयुक्तमेव तत् । इयान् विशेषः भास्करमते औपाधिको भेदः पारमार्थिकः, भवतामपारमार्थिक इति । अत एव परिभाषायाम् रक्तो घटो न श्याम इतिवत् धर्मभेदे पर्यवसानमित्युक्तम् । वस्तुतस्तत्र शब्दमर्यादायाः प्रत्यक्षे आरोपणं तत्कृतमयुक्तमित्यन्यदे
७३६
तत् । अन्यदहमर्थात्मत्वसमर्थने सिद्धम् । ‘निर्ममो निरहङ्कार’ इति वाक्य नाहमर्थस्य अहङ्कारतत्त्वस्य वा विलयं ब्रूयात्; सशरीरत्वाधस्थायामपि संपाद्यानामेव विशेषणानामत्र प्रतिबोधनात् । अहङ्कारो ह्यहं मतिर्देहात्मभ्रमः, तदधीनगर्यो वा नित्यत्वेनात्र कीर्त्यते । बृहदारण्यकोक्तस्य कबन्धाख्यगन्धर्वस्य दृष्टा न्तीकरणं तु चण्डमारुतेनैव सुदूरं क्षिप्तमिति तदुपन्यासोऽकिञ्चित्करः । ‘अपरोक्षज्ञानिभिरेव तत्त्वोपदेशस्य कर्तव्यत्वेऽपि परोक्षज्ञान्यन्तः प्रवेशेन अपरोक्षज्ञानी परमात्मोपदिशत्विति किलोच्यते । सर्वमिथ्यात्वाध्यवसायरूप्रतिबन्धकवशान्न भवतीति परोक्षज्ञानिनैवोपदेशस्य कर्तुमशक्यत्वे स्थिते परमात्मन स्तत्त्वसाक्षात्कारिणः अविद्या निवृत्तेरपि निष्पन्नत्वावश्यकत्वेन उपदेशोद्योगो हि सर्वथैव न भवति । कबन्धेन तु अन्तर्यामिज्ञानवता काप्यभार्यायां तज्ज्ञानरहितायां प्रविष्टेन खज्ञातमाविष्क्रियते । तद्वत् जीवात्माज्ञातं यत्र किञ्चित् जीवेनोच्येत तत्र नूनं परमात्मन आवेशः कामं स्वीकर्तव्यः । आथर्वणः कबन्धो गन्धर्व आसीत् ; न तु गन्धर्वशरीसाप्त्यनन्तरमेव स कबन्धः । एवं पतञ्जलस्य काव्यस्य भार्येति श्रुतौ जाग्रत्यां पाञ्जालस्य काव्यस्य भार्येति लेखनमप्यशुद्धम् । (पज्जालेति चकारस्थाने जकार प्रयोगः पाञ्जलीति द्रमिडभाषावासनामूल इव!) आहारभेदारोपनिबन्धनः शिष्याचार्यपदेश संप्रदायो नारायणसमारम्भ आधुनिकाचार्यान्त इति च न निष्प्रयोजनत्वशङ्कां समाधातुं प्रभवति । तस्य सम्प्रदायस्य आधुनिकमतान्तर संप्रदायेन न बाधप्रसक्तिरिति तु वाङ्मात्रम् । ‘मुक्तयवस्था ज्ञानचक्षुरेकगम्या उपदेशानुपपत्त्याद्युद्भावनेन नान्यथयितुं शक्यत’ इति च न घटते । मुक्त्यवस्था हि निर्विशेषब्रह्मस्वरूपमात्रम् । तत्तु अगोचरम् । तत्र किं तत् ज्ञानम्, यत् चक्षुर्भूत्वा गमयिष्यति । को वा तेन चक्षुषा द्रक्ष्यति । सर्वमाहार्यमेव । प्रश्नोपनिषदि मौनेनाद्वैत प्रतिपादितमित्यपि विप्रलम्भनं प्रमादी वा । त्रने मौनास्पर्शात् । अस्ति तु क्वचित् मौनेन व्याख्यानम् । सदाशयस्तु यस्वातं तस्य मतमित्यादिश्रत्यर्थ प्रतिपादन एव । तदर्थश्च स्थलान्तरे स्पष्टः । अपरिच्छिन्ने ब्रह्मणि परिच्छिन्न उपदेशानुपपत्ति-प्रसाधनम् त्वज्ञानमज्ञानम् । परिच्छिन्नत्वेन यो न मन्यते स एव मन्यते इत्यादि परमार्थप्रकाशिकायां प्रकरणशोधनेन सर्व विशदीकृतमेव । अत्रापि वक्ष्यते । ‘यतो वाचो निवर्तन्त’ इति वाक्यं यदि वाग्विषयत्वाभावं दर्शयतीति, भवन्मते संकोचे प्रमाणाभावात् सर्वविधवाग्विषयत्वाभावमेव बोधयेदिति न लक्षणयाऽपि ब्रह्मणो बोध्यत्वसंभवः । एबम् ‘अप्राप्य मनसा सहेत्यपि मानससर्ववृत्तिविषयत्वाभावम् । एवं वेदोपदेश्यत्वस्यैव ब्रह्मस्यभावे तदनुवादरूपनारायणचतुर्मुखाद्युपदेशस्य कथं संभवः । तथा च भवदुत्प्रेक्षितेयमपि काचिदुपदेशानुपपत्तिरेव । उपदेशानुपपत्तिरित्यस्य वेदानुपपत्तिरित्यर्थकल्पनेन वेदस्थाद्वैत एवोपपन्नत्वादिप्रतिज्ञासन्तान इहाप्रसक्तविस्तरमात्रम् । श्रुतितात्पर्यविषये पुरुषोत्तमस्वरूपचैकुण्ठलोकनित्यसूरि-तज्ज्ञानादिके तद्विरुद्धं प्रत्यक्षमकिश्चित्करमिति लेखनमप्ययुक्तम् ; चिरुद्धप्रत्यक्षस्य काप्यभावात् । तदप्रत्यक्षं तु स्यात् ; न तु तद्विरुद्धप्रत्यक्षम् । एवं प्रत्यक्षस्य बलीयस्वे प्रत्यक्षमुपदेश इति लेखनमप्यनन्वितम् । “ सन्ति हि सहस्रशः स्थितप्रज्ञाः निवृत्ताविद्याः गुणातीताश्चाद्वितीयब्रह्मखरूपमनवरतमावर्तयन्त उपदेशकाः" इति च प्रत्यक्षबाधितम् । अथवा प्रत्यक्षापेक्षया स्वोपदेशस्य शतभूषणीकृत् प्राबल्यं मन्यत इव । अथवा सर्वानेवा द्वैतमतनिविष्टान् स्थित ज्ञान् निवृत्ताविधान् मन्यते । 1 नूनमियमज्ञानिषु स्थितप्रज्ञत्व निवृत्ताविद्यत्वाद्यविद्या न कदापि निवर्त्स्यति । तदेवं शतदूषण्युद्भावितदूपणापरिहरणेन, उपदेशोपपत्तिरस्त्येवेति प्रतिज्ञा निगम ने परं न विवक्षितसाधिके इति । मृषेत्येवं स्वस्मादितरदखिलं साधु विदुषा निवृत्ताविद्येन प्रवचनफलञ्चाप्यविदता । कथं स्वान्यो दृश्यः सरसमुदेशोऽपि च कथम् न चोन्मेषं गच्छेत् किमपि निखिले बाधविषये ॥ एकाज्ञानभवं हि शुक्तिरजतं नान्योऽलमालोकितुम् तद्वन्नो चतुरोऽत्र कोऽपि पुरुषं वाकल्पितं वीक्षितुम् । यत् खाज्ञानविकल्पित तदखिलं खज्ञानबाध्यं स्थितम् सत्येवं घटतां कथं स्वकलिताद्वैतोपदेशे जनः ॥ स्वभिन्ननानाविधजीवसंभवे त्वकृत्रिमज्ञानबला दिरच्युतः । स्वयं परैरप्युपगम्य शिष्यतामपीरयेत् पथ्यमिति प्रकल्पते ॥ शुभमस्तु 93 श्रीः