३४ संविदद्वैत-भङ्ग-प्रसाधनम्

द्वितीया यस्य श्रीः सवितुरिव भा भाति नियता तथा संवित् सर्वग्रहणमहिता शक्तिसहिता । अनन्तेदृग्जीवत्रजतदितरेशो जयति सोऽ द्वितीयोऽनन्तो नः कुलपतिरनन्ताद्रिवसतिः ॥ ‘सर्वं खल्विदं ब्रह्म’ इत्यादौ बाधार्थसामानाधिकरण्यनिरूपणं निरासि । तश्च विलक्षणविवर्तोपादानत्वस्वीकारेण तैन्यरूपि । किं तद् विवर्तोपादानमित्यत्र संविदिति तेषां समाधिः; संविदेव ज्ञेयज्ञातृतदवच्छिन्नज्ञप्तिरूपेण विवर्तत इति सिद्धान्तात् । तदिदं संविदद्वैतं संप्रति निरस्यते । संविन्नानात्वनिषेधकानुमान-भङ्गवादे च संविन्न नानेत्यनुमानं दूषितम् । अत्र संविदनानात्वरूपं प्रमेयं दूष्यते । एवं संविदामनेकत्वमस्तीति प्रागुक्तम् ; संविद्रूपैकवस्त्वति रिक्ताभावरूपं संविद्वैतं संप्रति क्षिष्यते । अत्रायमेतदद्वैतवादिनामाशयः नानारूपे प्रपञ्चे उपलभ्यमाने तदविरोधेनाद्वैतस्थापनं सर्वेषामेकोपादानकत्वस्वीकारेणैव कार्य स्यात् । लोके च चतुर्धा पदार्थविभागः प्रमाणं प्रमेयं प्रमाता प्रमितिरिति । तत्र प्रमाणस्य प्रमेयेऽन्तर्भावः, “प्रमेयता च तुलाप्रामाण्यवत् " " इति न्यायसूत्रसिद्धः । प्रमातुः प्रमितेश्च तदन्तर्भावोऽपि तत्रैव द्वादशविधप्रमेयनिरूपकसूत्रसिद्धः । एवमपि सर्वमिदमेकोपा दानकं भवितुमहं न वेति विमर्शे किं तदुपादानमिति जिज्ञासायां ज्ञानातिरिक्तस्योपादानत्वे तत्साधकस्य ज्ञानस्यापि कस्यचित् स्वीकार्यतापत्त्या नाद्वैतसिद्धिरिति ज्ञानरूपमेव किञ्चिदुपादानमिष्यते । न च कथं तस्य जढं प्रत्युपादानत्वमिति वाच्यम् विलक्षणत्वेऽपि विवर्तोपादानत्वसंभवात् । एवञ्च ज्ञातृज्ञेयतदवच्छिन्नज्ञानरूपसर्वप्रपञ्चोपादानं संविदिति संविदद्वैतसिद्धिरिति । एतन्निरासश्चैवम् " नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद ve

धाति कामान् " इति श्रुत्या, कर्मानादित्वमुक्तामुक्तस्वोपपत्तिरूप युक्तितश्च ज्ञातृणां बहुत्वान्नित्यत्वाच्च तेषां न किञ्चिदुपादानं भवितुमर्हति । ज्ञेयेषु केचित् सन्त्येव नित्या इति न तेषामप्युपादानं किञ्चित् सुवचम् । ज्ञानानाञ्च ज्ञातृभेदप्रयुक्तात्यन्त भेदप्रयोजक विप्रकर्षशालिनां नैकोपादानकत्व संभवः । एवं संविदुपादानकत्वमपि दुर्निश्चयम्; स्वयम्प्रकाशस्यास्वयम्प्रकाशवस्तूपादानत्वायोगात् । इश्यते तु " इति सूत्रोक्तरीत्या विलक्षणयोः कार्यकारणभावसंमावपि मृत्पिण्डात् सुवर्णघटानुत्पत्त्या अत्यन्तवैजात्यस्यासंगततया जड जडद्रव्ययोरुपादानोपादेयभावासंभवात् । यत्किञ्चिद्विशेषधर्मतोऽपि साजात्याभावात् । अन्यथा जडमेव किञ्चिदुपादानमस्तु । तत्साधकत्वेन स्वीकर्तव्या संविदपि तदुपादानिकैव सती तत्साधिका भवतु । अतो नेदृशाद्वैत सिद्धिसंभव इति । " अत्र पुनः प्रत्यवस्थानम् वस्तुसिद्धेर्ज्ञानाधीनत्वात् ज्ञानं तावदवश्याभ्युपेयम् । स्वीकृते तस्मिन् तत्कल्पितत्वेनैव सर्वनिर्वाहे किमिति ज्ञातृज्ञेयस्वीकारः । एवमपि ज्ञानानामाश्रयविषयभेदभिन्नानामनन्तानां स्वीका तया नाद्वैत सिद्धिरिति न वाच्यम् आश्रयादिभेदेन ज्ञानभेदस्यापि काल्पनिकत्वात् । एवञ्च सर्व मिथ्येति संविदद्वैतसिद्धिरिति तत्रोच्यते-लोकानुभवसिद्धानां देवदत्तादिपुरुषनिष्ठानां घटादिविषयाणां ज्ञानानां मध्ये कस्यचिज्ज्ञानस्य सकलज्ञानज्ञेयकल्पकत्वेष्टौ यतमस्य तत्कल्पकता, ततमस्मात् प्राक् प्रपञ्च एव न स्यात् । प्रपञ्चाभावे च ततमस्याप्युत्यत्त्ययोगात् ततः सर्वकल्पनानुपपत्तिश्च । प्रसिद्धज्ञानविलक्षण निर्विषयनिराश्रयसंवित्कल्पितं सर्वमिति चेत् -अविशेषात् सर्व युगपदेव कल्पितं स्यादिति क्रमोपलम्भो न स्यात् । क्रमोऽपि कल्पित एवेति चेत्–संविदः सहकारिनिरपेक्षं सर्वकल्पकत्वे सर्वं सर्वदैव कल्प्यमानं स्यादिति सर्वं सर्वदा भासमानमेव स्यात् । सहकारिसापेक्षत्वे च द्वैतापतिः । मिथ्याभूतस्यापि सहकारित्वसंभवे संविदपि मिथ्याभूतैव कल्पिका भवत्विति शून्यवाद एव । तत्त्वज्ञानादेव मिथ्याभूतानां निवृत्तिदर्शनात् तत्त्वं किञ्चिदेष्टव्यमिति चेत् तत् तत्त्वं स्वयम्प्रकाशम स्वयम्प्र संविदद्वैत-भङ्ग प्रसाधनम् ૧ काशं वा । नाद्यः । तथासति हि यथा स्वयम्प्रकाशे ज्ञाने जाते, अहं जानामि न वेति संदेहस्य वा, न जानामीति मिथ्याज्ञानस्य वा न प्रसक्तिः, तथा तस्मिन् तत्त्वे स्वयम्प्रकाशे सति मिथ्याप्रतीत्यादेरे वानवकाश इत्यसंसार एव । नान्त्यः; अपसिद्धान्तात् । स्वयम्प्रकाशेऽपि यावत् अख यम्प्रकाशोऽशविशेषोऽपूर्वतया ज्ञायमानो नेष्यते, तर्हि प्राक् संसारो मिथ्याज्ञाननिबन्धनः, पश्चाच्च मुक्तिस्तन्निवृत्त्यधीनेत्येतन्न शक्योपपादनम् । स्वयम्प्रकाशमपि यत्त्वज्ञानक्षपणाक्षमम् । तस्य वृत्तिर्जडा तत्र क्षमेत्येतत्तु साहसम् ॥ 1 अतो ज्ञानवत् ज्ञेयस्यापि तत्त्वांशस्य स्वीकारे द्वैतमेवेति । आस्तामेतत् । अथात्र संविदद्वैत-भङ्ग-परीक्षायां शतभूषणयुक्तं विमृशेम – हगेकमेव तत्त्वमिति विलिख्य ‘दृश्याः यावद्ब्रह्मज्ञानं तत्त्वम् ; तदनन्तरमतत्त्वमिति लेखनं व्याहतम् । न च तत्त्वं कालभेदेनातत्त्वं भवति । शुक्तिरजतं यावद्वाधं प्रतीयमानमपि कथं तत्त्वमिति व्यवह्नियेत । अवाध्यं हि तत्त्वम । चैतन्यं स्वरूपत एकमपि चतुर्विधमुपाधिभेदात् विषयचैतन्यम्, प्रमाणचैतन्यम्, साक्षिचैतन्यचेत्येतदप्ययुक्तम् विषयाद्युपाधीनामपरमार्थत्वात् परमार्थापरमार्थयोरसंबन्धादुपाधित्वायोगात् । वृत्तिनिर्गमादेरप्रामाणिकत्वं तन्निवन्धन परोक्षापरोक्षविभागाद्यसंभवश्च परमार्थप्रकाशिकायां न्यरूपि । अधस्ताच्च । एवमज्ञानत्रैविध्यमपि निरस्तमेव । भावरूपमज्ञानं तु पृथङ् निरसिष्यते । भामतीमते अज्ञानस्य निमित्तकारणमात्रत्वात् ब्रह्मण एवोपादानत्वात् अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकवत्त्वं विषयाणामविद्याब्रह्मोभयोपादानकत्वप्रयुक्तमिति दुर्वचम् । अस्तित्वभासमानत्वप्रियत्वानाम विद्यायाम प्रमातृचैतन्यम्, भावेऽपि न किञ्चित् प्रमाणम् । घटविषयक परोक्षज्ञाने क्षणभेदेन विषयत्वमेदकल्पनमप्ययुक्तम् । प्रत्यक्षस्य हि अयं घट इति तत्तत्क्षणावच्छिन्नघटविषयकत्वम् । तत् तत्र तत्तत्क्षण विषयता भेदात् तन्निरूपिता घटविषयताऽपि भिद्यत इति७२.

कथञ्चित् स्यात् । परोक्षे तु तथा क्षणानवगाहनान्न विषयताभेदः । यदा तु प्रत्यक्षेऽपि स्थूल एव कालो गोचर इति पक्षः, तदा क्षणभेदेन तद्भेदोपि नास्त्येव । अत एव धारावाहिकं प्रत्यक्षज्ञानमप्येकमिति परैरपीष्टम् । विदिताविदितविभागसंरक्षण प्रयासोऽपि वितथः । संविदः प्रकाशमानत्वपरप्रकाशकत्वस्वाभाव्यशालितया विषयप्रमात्राद्युपाधिभिः साकं संवित्संबन्धस्य संविद्वास्यत्वात् संविदि कल्पितादन्यस्याभावेन सर्वस्यैव सर्वदा भानस्यावश्यक त्वात् । अस्मन्मते धर्मभूतज्ञानाद्वैतं नोपपद्यत इत्यप्ययुक्तम् आत्मभेदेन धर्मभूतज्ञानभेदात् तदद्वैताभावात् । घटादिविषयं यदा सकृदुत्पद्यते, तदा सर्वदा घटस्य ज्ञातत्वात् " इति लेखनमपि व्याहतम् ; यदोत्पद्यते, ततः प्राकू तस्य ज्ञातत्वाभावात् यदा नश्यति तदूर्ध्वमपि ज्ञास्यमानत्वाभावात् सर्वदेत्यस्यायुक्तत्वात् । न च धर्मभूतज्ञानं सर्वदा सर्वविषयकमात्मनिष्ठं ब्रूमः । सामग्रीभेद निबन्धनप्रसरण भेदेन विभिन्नविषयसंपर्कात् तत्तदवस्थापन्नज्ञानानामेव सविषयकत्वम्, संविदनुभवादिशब्दाश्च साश्रयसविषयक किञ्चिद्वाचितयैव व्युत्पन्ना इति कथमपरिणामदशायां धर्मभूतज्ञाने किञ्चिद्विषयकत्वम् ः कथंतरां सर्वविषयकत्वम् । परिणामस्तु प्रतिनियतविषयक इति न तत्र सर्वगोचरत्वप्रसक्तिः । एवं तर्हि आत्मधर्मे नित्येऽनादौ तत्र ज्ञानमिति कथं व्यपदेश इति चेत् -तत्परिणामानां ज्ञानेच्छाकृतिसुखदुःखाद्यनेकविधानां मध्ये ज्ञानपरिणामभूम्ना ज्ञानपरिणामस्य परिणामान्तरहेतुतया चेति गृहाण । यथा प्राणापानव्यानाद्यनेक परिणामशालिनि वायौ प्राण इति सामान्यतो निर्देशः, यथा च वादजल्पवितण्डा रूपकथात्रयेऽपि प्राधान्यात् वादव्यपदेशः, तद्वत् । संकरूप इच्छा चैकं तत्त्वमिति बहवः । श्रुतिश्च संकल्पम्, तदैक्षतेति ज्ञानपर्यायेक्षणशब्देन व्यवहरति । एवञ्च निर्विषयज्ञानाङ्गीकारप्रसक्तिरेव नास्ति । न हि वयं घटोऽनुभूयत इत्यादिधातूपात्तज्ञाने घटादि विषयकत्वमात्माश्रयत्वञ्च मिथ्याकृत्य निविर्षयां संविदं भवन्त इव रोचयामहे । किंतु ज्ञानसंविदादिशब्दमुख्यार्थस्य सविषयकत्वं साश्रयत्वञ्च सर्वत्रावर्जनीयमित्येव । ’ संको संविदद्वैत-भङ्ग-प्रसाधनम् ७२१ चाद्विषयाभानं तु ज्ञानस्वप्रकाशताविरोधि ’ इत्य् अपि न विषयभानौपयिकप्रसरणवेलायामेव तत्प्रकाशाङ्गीकारात् । ज्ञानं स्वप्रकाशमित्यस्य च ज्ञाधात्वादिनिर्देश्यत्वं याग्रूपस्य तादृग्रूपस्य स्वप्रकाशत्वमित्यर्थ इति न दोषगन्धोऽपि । अहमर्थस्य ज्ञातुः स्थिरस्य मतद्वयसं प्रतिपन्नत्ववचनमपि विमर्शनीयम्; भवन्मते अहङ्कारस्यैवाहमर्थत्वात् तस्य च सुषुप्तावपि लयस्वीकारेण पूर्वदिनप्रत्यभिज्ञादेरपि दौर्घय्यात् । स्वप्रकाशस्य ज्ञातुर्ज्ञानस्य च ज्ञानान्तरवेद्यत्व स्वीकारे च कथं स्वप्रकाशताविघातः । न हि खप्रकाशत्वं पराप्रकाश्यत्वरूपम्ः तस्यानुभवविरुद्धत्वात् । ज्ञाता, ज्ञानञ्चेति स्वप्रकाशद्वयमनुपपन्नमित्यप्यसत् भानुभानुमद्रूपस्वप्रकाशद्वयवदुपपत्तेः । खप्रकाशसहस्रमपि प्रामाणिकमेष्टव्यमेव । सर्वमेव वस्तु ज्ञाततया अज्ञाततया वा साक्षिभास्यमिति विवरणोक्तमप्यनुपपन्नम् । घटमहं जानामीति ज्ञानावच्छेदकतयेव घटमहं न जानामीति अज्ञानावच्छेदकतयाऽपि घटादेः साक्षिमास्यत्वस्वीकारे घटे ज्ञातत्वस्यैव सिद्धया अज्ञानावच्छेदकत्वायोगात् । अज्ञातानां व्यवहितविप्रकृष्टापूर्वार्थानां सर्वेषाम् इदमिदं न जानामीति विशिष्याज्ञान विशेषणतया साक्षिणा भानप्रसंगाच्च । साक्षितादात्म्यानापन्नतादशायामधिष्ठानेनाऽऽवृतेन घटादिभानायोगस्य भवतैवोक्ततया घटादिरूपविशेषणाभाने तद्विशिष्टस्याज्ञानस्यापि साक्ष्यमास्यत्वस्यावश्यकत्वाच । ज्ञानाभावरूपाज्ञानविषयचाद्यं भावरूपाज्ञानवादेऽपि तुल्यमित्यादि चोपपादयिष्यते । यत्तु सर्वप्रमाणानाघ्राताऽपि संवित् न शशशृङ्गायते खप्रकाशत्वादिति-तन्न-यस्याः सर्वप्रमाणानाघ्रातत्वमुदितं निर्विषयायाः निराश्रयायाः, तस्याः स्वयम्प्रकाशत्वं नास्त्येव । विषयाश्रयवैशिष्टयेनैव संविदः प्रकाशमानत्वात् । उपहितचैतन्ये उपहितपर्यन्त एव शास्त्रप्रवृत्तिः ; न तु चैतन्यांशे इति न स्वप्रकाशत्वक्षतिरित्यपि न सम्यक् — चैतन्यस्य शास्त्राविषयत्वे उपहितपर्यन्ते तत्प्रवृत्तेर योगात् । उपाधिमात्रे इति हि वक्तव्यम् । न च तदपि युक्तम्; वैशिष्टयस्य मानं विना भानायोगात् । अस्तु उपाधिवै 91 ७२२

शिष्ट्यपर्यन्त इति चेत् — संबन्धिद्रयाग्राहिणः संबन्धरूपवैशिष्टयग्राहकत्वायोगात् । तर्हि उपहितं चैतन्यं शास्त्रविषय एव सत् शुद्धादन्यद् भवत्विति चेत् तर्हि ’ उपहितस्य वृत्त्या नाशो नाम उपाधिनाश एव, नोपहितनाशः ’ इति भवदुक्तमयुक्तम् । तत्र चोपहितस्य मिथ्यात्वमद्वैत सिद्धयाद्युक्तमित्यपसिद्धान्तोऽपि । तथाचोपहितानुपहितसंविद्भेदान्न संविदैवयसंभवः । स्वप्रकाशस्य सर्वप्रमाणानाम्रातत्वं भूषणमेवेत्यपि न ; सर्वप्रमाणानाघ्राते खप्रकाशत्वस्यापि दुर्महत्वात् । वस्तुन एवासिद्धौ का तस्य स्वप्रकाशता । न च खप्रकाशत्वमपि तस्य स्वप्रकाशम् । न च प्रमाणेन तदग्रहणे तदीयतया स्वप्रकाशत्वं ग्रहीतुं शक्यम् । अतः सर्वप्रमाणानाघ्रातत्वं तस्य दूषणमेव ; निरासकमेवेति भाग्यम् । शुद्धचैतन्यस्य प्रमाणाघातत्वपक्षे मिथ्यात्वापत्तिरूपे दोषे उपक्षिप्यमाणे सति उपहिते मिथ्यात्वे इष्टापत्तिरिति भवत्समाधानमनवसरम् । उपहितचैतभ्यं मिथ्या वृत्त्यधीनप्रकाशमित्यङ्गीकारे कल्पितस्योपहितचैतन्यस्य कल्पनाधिष्ठानस्य चैतन्यस्य च द्वयोर्भानमावश्यकम् । विषयावच्छिन्नचैतन्यस्यान्तः करणावच्छिन्नचैतन्यस्य चाभेदे अहमिति अन्तःकरणमात्रमानस्यानिष्टतया तदवच्छिन्नात्मभानस्यैवेष्टतया तस्मिन् अहंशब्दवाच्ये विषयावच्छिन्नात्मनि विषयसंबन्धस्यैव साक्षात्संभवेन अहं घटावच्छिन्न इत्येवानुभवः स्यात् । न तु अहं घटावछिन्नज्ञानवानिति । प्रत्यक्षपैरोक्षविभागव्यवस्थायै मवच्छिन्नचैतन्ययोर भेदादिकल्पनमित्यप्ययुक्तम् सर्वदर्शनप्रसिद्धेन्द्रियार्थसंनिकर्ष तदभावरूप नियामकबलादेव तद्विभागोपपत्तौ अप्रामाणिकवृत्तितन्निर्गमादिसांख्यकल्पनाया अनादरणीयत्वात् । तर्हि सुखादेः कथं प्रत्यक्षता, मनसोऽनिन्द्रियत्वादिति चेन्न ‘इन्द्रियाणि दशैकञ्च’ इत्यादिप्रमाणविरुद्धस्यानिन्द्रियत्वपक्षस्योपेक्ष्यत्वात् । तदनिन्द्रियत्वेऽपि सुखादि प्रत्यक्षमेव ज्ञानवत् स्वप्रकाशत्वात् । ज्ञानाकरणकं ज्ञानं प्रत्यक्षमित्युक्तरीत्या ज्ञानरूपकरणानधीनप्रकाशतया सुखादेः प्रत्यक्षत्वोपपत्तेः । असंनिकृष्टत्वादग्रहणमित्येवोपपत्तौ संविदद्वैत-भङ्गसाधनम् ७२३ अज्ञानरूपावरणकल्पनस्य तन्निवृत्त्यर्थ वृत्तिकल्पनस्य चानावश्यकत्वात् । अत्र विषये, “तदव्यवहारोपपत्तौ” इति चण्डमारुतम्यान्यथानुवादोऽपि कश्चिदिह दोष इति ध्येम् । परोक्षे प्रत्यक्षत्वव्यवहारस्तु न प्रसजति, संनिकर्षाभावात् । प्रागेवाज्ञानत्रैविध्यं दूषितमित्यलमत्राधिकेन । विषयावच्छिन्नचैतन्यमन्यत्, संवित् अन्येति वदतैव संविदो विषयोलेखित्वमस्तीति कृत्वा तदुल्लेखित्वं च संवित्सतातिरिक्तसत्ताकत्वाभावो विषयस्येति कथ्यते । विषयानवच्छिना चेत् संवित्, कथं तस्या विषयोल्लेखिता ? संविदि विषयः किं तद्भिन्नतया भासते, उतान्यथा । आद्यमेवानुभविकम् । एवञ्च कथं संविद्विषयसत्तयोरैक्यम् । ऐक्यस्वीकारे यावद्विषयसत्तं तद्भानमप्येष्टव्यम् । न च तत् प्रामाणिकम् । अत एव संविद्विषययोस्तादात्म्यमेवोल्लेख इत्यप्युल्लेखामात्रम् । । नित्यै कसाक्षिसं विदभ्युपगमे सार्वज्ञ्यापादनं क्रियमाणं परिहर्तुं यदुक्तम् — किमिदमापादनं संविन्मात्रेण प्रकाशदशायाम्, उत विषयोल्लेखदशा यम् । नाद्यः, विषयाणामाभावात् । नान्त्यः, तत्तद्विषयग्राहिण्याः संविदो विभिन्नत्वादिति । तत्र पृच्छयते । केयं संविन्मात्रेण प्रकाशदशा । न तावत् सुषुप्तिः : तदा विषयाभावकथनस्यासंगतत्वात् । न मुक्तिः; तदा संवित् स्वमात्रेण प्रकाशमानाऽस्तीत्यत्र प्रमाणाभावात् । स्वयम्प्रकाशत्वं नाम स्वाधीनप्रकाशाश्रयत्वमित्युक्तौ . प्रकाशरूपधर्मापत्तिरितिभिया पराधीनप्रकाशानाश्रयत्वमेव तदिति वदतां पक्षे कथं संविन्मात्रेण प्रकाश इति वादः । वस्तुतो विषयसद्भावदशायामेव सार्वज्ञ्यापादनम् । साक्षित्वादेकत्वाच्च । अनेकसंविदिष्टौ च संविदद्वैत-भङ्गो न परीक्षणीयः । निर्विषयसंविदेकत्वपक्षे च संविदः साक्षित्वं त्यक्तं स्यात् । एवञ्च नित्यैकसाक्षिसंवित्स्वीकारो नास्माकमित्येवोच्यताम् । आगमाश्च नित्यान् बहून् धर्मभूतज्ञानाश्रयतया साक्षिभूतान् खयम्प्रकाशतया संविदूपान् आत्मनः, तथा तदपेक्षितपुरुषार्थप्रदं नित्यैकसाक्षिसं विद्रूपं सर्वज्ञञ्च प्रतिपादयन्ति । तद्विरोधेन संविदद्वैते भवद्भिरिष्यमाणे, सा संवित् शुद्धा ૪

वा भवत्वशुद्धा वा; तस्याः सर्वविषयसंबन्धोऽवश्यमेषितव्यः । अन्यथा संविदन्तराभावेन अप्रकाशिततया विषयाभावप्रसंगादिति सर्वगोचरत्वमूलक सार्वइयापादनं युक्तमेव, यावत् नित्यैका सर्वसाक्षिणी संविदिति भवद्भिरुच्यते । यद्युच्यते साश्रयाणां सविषयाणां संविदां नानात्वमिष्टम् । शुद्धा त्वन्या संविदेकैवेति, तर्हि न तस्याः साक्षित्वम्, न वा संयोगादिवैलक्षण्यम् । यथा संयोगाः घटपटादिरूपखानुयोगिप्रतियोगिभूतद्विकभेदेन भिन्नाः नौपाधिकभेदवन्तः, किंतु स्वतो व्यक्तितोऽपि भिन्ना एव, तथोत्पत्तिविनाशयोरुपलम्भात् — तथैव तत्तद्विषयतत्तत्प्रमातृभेदेनेव खतोऽपि संविदामुत्पादविनाशशालिनीनां भेद एवानुभविक इति का तावदासावेका संवित् अन्या, केन प्रमाणेन वेद्यते । सुषुप्त्यादिदशायां तत्प्रकाश इतीदमपि तस्यास्तथा मानान्तरस्थाप्यत्वे खलु सिद्धयेत् ; न तु मानान्तरानाघ्रातत्वे । आघ्रातत्वं सुखमहमखा समित्येतदादाय निर्विशेषस्य न शक्यमुपपादयितुमिति प्रागेव प्रपञ्चितम् । समाधिस्तु भ्रमप्रमासाधारणभावनाप्रभवसाक्षात्कारात्मा न वस्तुसद्भावे नियमतः प्रमाणमित्यतोऽप्युपेक्ष्यः । एवमात्रातत्वे मिथ्यात्वमपि । वृत्तिव्याप्यत्वमेव तस्याः, न तु फलव्याप्यत्वमिति चेत् — वृत्तिफलरूपांशद्वयसद्भाव एवासिद्ध इत्युक्तमेव । मितिप्रत्यक्षानुमित्यादिशब्दानां चैतन्यपर्यन्तार्थकत्वस्य परिभाषाद्युक्ततया संविदि चैतन्यविषयत्वानिष्टौ प्रमाणाघातत्वासिद्धिरेव स्यादिति न भामतीमताद्विशेषः । सर्वत्र वृत्त्यवच्छिन्नचैतन्यभास्यत्वे तत्त्वस्य विद्यमान एवावरणनिवृत्तेः शुक्तयज्ञानादौ दर्शनात् ब्रह्मावारकस्याप्यज्ञानस्य ब्रह्मणः स्वगोचरवृत्त्यवच्छिन्न चैतन्यभास्यत्वे सत्येव निवृत्तिः स्यात् । ब्रह्मणः स्वप्रकाशत्वात् चैतन्यभास्यत्वं नापेक्षितमिति चेत् — तर्हि वृत्तिरपि तुल्यन्यायेन नापेक्ष्या ब्रह्मणः खत एव भानादिति नावरणस्य तद्भञ्जकस्य च कल्पनप्रसक्तिरिति सर्वदा संविदद्वैतमेव स्यात् ; न प्रपञ्चोपलम्भः । उपलभ्यमानत्वातु प्रपञ्चस्य संविदद्वैतं सर्वथैव न संभवति । शेषं तिरोधानानुपपत्त्या दिवादेषु ॥ अज्ञानावरणे तु तार्किकनयात् संविज्जडाऽऽपद्यते 1 वृत्त्यन्या च ततोऽपराऽऽपतति तद्भानाय संवित् ; ततः । ज्ञानाज्ञानपरम्परा प्रसजतीत्येवं स्थिते सा कथं संवित् किञ्च कथंतरां कथय तद्भेदापलापोद्यमः ॥ शुभमस्तु श्रीः