अभिन्नघम्यर्थपदात्मवाक्यैरबोधि यस्यातिशयो ह्यनन्तः । जयत्यसौ बैजगुणाविशेषमशेषवस्तुस्थिरभूरनन्तः ॥ समानाधिकरणवाक्यान्यपि • व्यधिकरणवाक्यानीव ब्रह्मविषयाणि ब्रह्मणो घर्मभूमानं बोधयितुं प्रवृत्तानीति स्वरसतः प्रतीयमाने स्वाभिमतनिर्विशेवस्तुस्थापनाभिनिवेशेन बाधार्थप्रवृत्ततां समानाधिकरणवाक्येषु कचिदद्वैतिन उपन्यस्यन्ति । समानाधिकरणवाक्यं त्रिविधम्-मुख्यार्थपदसंघातः मुख्यामुख्यार्थपद संघातः अमुख्यार्थ पदसंघातश्चेति । तत्रोत्तरोत्तरं दुर्बलमित्यनुक्तिसिद्धम् । " व्याप्तेश्च समञ्जसम् " इति सूत्रशाङ्करभाष्ये सामानाधिकरण्ये अध्यासापवादैकत्वविशेषणपक्षाश्चत्वारः संभाविताः प्रादर्शिषतेति प्रागेवावोचाम । तत्त्वम ७०४
सीत्यत्र बाधार्थत्वमेवयपरत्वञ्चेति पक्षद्वयमद्वैतिसंमतम् । नैष्कर्म्यसिद्धौ बाधाथत्वपक्षो विशदमुपपादितः । सर्वं खल्विदं ब्रह्म, ज्योतींषि विष्णुरित्यादौ जडपदार्थैक्यस्य ब्रह्मण्यसंभावितत्वात् बाधार्थसामानाधिकरण्यमितीदमद्वैतिष्वविप्रतिपन्नम् । समानाधिकरणवाक्यमित्यस्य समानमेकम् अधिकरणमर्थः यत्र पदजातस्य तत् तथेत्यर्थस्य वाच्यत्वात् सर्वत्र समानाधिकरणवाक्ये प्रतिपाद्यार्थैक्यं तावत् अनुयायि स्वीकर्तव्यम् । अत एव तत्र पदयोः समानविभक्तिनिर्देशः । व्यधिकरणवाक्ये तत्तत्पदोक्तोऽर्थो विभिन्नः, भेदसंबन्धेन मिथोन्वयस्तत्तदर्थानामिति च निकृष्टमेतत् । अद्वैतमते निर्विशेषस्यैकस्यैव सत्यत्वात् सर्वस्य विशिष्टवस्तुनस्तत्र कल्पितत्वात् लोकरीत्या यस्ययस्य विशिष्टवस्तुनो मिथो भेदो व्यवहारसिद्धः, तस्यतस्य समानाधिकरणपदार्थत्वे ऐक्यायोगात् संभवदेक्यविशिष्टवस्तुपरत्वं वा निर्विशेषपरत्वं वा स्वीकृत्यैक्यानुभवः समर्थनीयः । नीलमुत्पलम्, उद्गीथमक्षरमुपासीत, सा वैश्वदेव्यामित्यादौ विशिष्टवस्तु तत्तत्पदोपस्थाप्यमेकमित्यनुभवसिद्धम् । जीवेश्वरयोर्भेदस्यैव लोक सिद्धत्वात् तयोर्विशिष्टवस्तुनोरैक्यं तत्त्वमसिवाक्यं न बोधयितुं क्षमत इति निर्विशेषलक्षणया ऐक्यप्रत्यायनमिष्यते । संवं खल्विदं ब्रह्मेत्यत्र ब्रह्मैवास्ति, अन्यन्नास्तीति बाधार्थसामानाधिकरण्यम् । अत्र ब्रह्मण्यन्यत् कल्पितमासीत्, अतस्तदेकमेवास्तीति ऐक्यप्रतिपादनात् समानाधिकरणवाक्य फलमक्षततिमिति मन्यते । एवञ्चाधिष्ठानारोप्यवाचकपदसमभिव्याहारे सत्येव बाधार्थसामानाधिकरण्यम्, यथा चोरः स्थाणुरित्यत्रेति सिद्ध्यति । तेन तत्त्वमसीत्यत्र जीवेश्वरपरयोस्तत्त्वंपदयोः सामानाधिकरण्यं बाधार्थमिति दुर्वचमित्युक्तं भवति । यदि तु जीव ईश्वरस्यांश एव, ईश्वरैक्यमेव मोक्ष इति कश्चिदद्वैतिपक्ष आद्रियते, तदाप्यैशांशिभावात् न बाधः । एवं ज्योतींषि विष्णुरित्यादावपि जडस्येश्वरस्य चैक्यायोगात् ईश्वरे जडस्याकल्पिततया अभ्यस्ताधिष्ठानवचनाभावाच्च कथं सामानाधिकरण्यमित्यपि विमृश्यम् । किं बहना । सर्वं खल्विदं ब्रह्मेत्यत्रापि बाधार्थत्वं दुर्वचम् ; ब्रह्मशब्दस्य, “बृहति बृंहुयति तस्मादुच्यते परं ब्रह्म " इति बृहत्त्वादिविशिष्टपरत्वात् विशिष्टस्य मिथ्याभूतस्याधिष्ठानत्वायोगात् निर्विशेष एव सर्वस्य 1 } बाघार्थत्व-भङ्ग-प्रसाधनम् ७०५ कल्पिततया अध्यस्ता धिष्ठानवा चिपदसमभिव्याहारस्य चोरः स्थाणुरित्यत्रेवाभावात् । लक्षणया निर्विशेषपरत्वमिति चेत् — बाघार्थसामानाधिकरण्यस्थलसंभावितलक्षणान्तरवत् इयमपि काचिल्लक्षणेति दोषाधिक्यमेव । बाधार्थ सामानाधिकरण्यस्वीकारे कथं लक्षणेति चेत् — चोरः स्थाणुरित्यत्र चोरशब्दस्थाणुशब्दयोर्मुख्यार्थत्वे हि आदित्यो यूप इतिवदनन्वय एव । अतश्चोरत्वेन गृहीतो यो धर्मी स चोरत्वाभाववान् इति तदर्थस्वीकारे पदद्वयेऽपि लक्षणा । तदभाषि श्रीभाग्ये, “अधिष्ठानलक्षणा निवृत्तिलक्षणा च” इति । विशदमिदं शतदूषण्याम् । स्थाणुत्वज्ञानमेव चोरत्वबुद्धिनिवर्तकमिति स्थाणुपदे लक्षणाभावेऽपि चोरपदस्य चोरत्वेन गृहीत इत्यर्थस्तावत् लक्षणया वक्तव्य एव । सर्व ब्रह्मेत्यत्र तु सर्वपदवत् ब्रह्मपदेऽपि लक्षणाऽवश्यम्भाविनी, तस्य सविशेषवाचित्वात् । निर्विशेषं सर्वत्र लक्ष्यमेवेति भवत्सिद्धान्ताच्च । इदमप्यधिष्ठानलक्षणा निवृत्तिलक्षणा चेति भाष्यविवक्षितम् । ब्रह्मशब्दस्याधिष्ठाने पर्यवसानं विधाय सर्वमित्यस्यापि न सर्वमिति सर्वनिवृत्तौ पर्यवसानविधानात् । एवञ्च बाधार्थसामानाधिकरण्यमतिजघन्यम् । समानाधिकरणवाक्यतात्पर्यविषयस्यैक्यस्य भङ्गे कथञ्चित् सादृश्यस्याश्रयणमनन्तरपर्व । यथा सिंहो देवदत्त इति । इह तु तदैक्यप्रतिद्वंद्वितया तद्भेद एव तात्पर्यमिष्यते । एवञ्च न चोर इत्यस्यार्थस्य चोरइत्यनेन विवक्षणाज्जघन्यतमत्वं सिद्धम् । तत् सिद्धम् ‘सर्वं खल्विदं ब्रह्म’, ‘ज्योतींषि विष्णुः ‘, ’ तत् त्वमसी’ त्यादिषु बाधासामानाधिकरण्यस्वीकारे पदद्वयमुख्यत्वान्यतरपद मुख्यत्वयोरभावेन पदद्वयामुख्यत्वस्यैवापत्त्या नायं श्रुत्यर्थ इति । शतभूषणी तु, “व्याप्तेश्च समञ्जसम् " इति सूत्रभाष्ये सामानाधिकरण्ये चतुर्विधे प्रदर्शिते सत्यपि स्वयं त्रैविध्यमेव दर्शयति । तत्र नीलमुत्पलम् इत्यत्र विशेष्यविशेषणभावः नीलत्वोत्पलत्वयोः प्रत्येक मतिप्रसक्तत्वादित्यस्तु । उद्भिदा यजेतेत्यत्रापि आपाततो दर्शने स भवितुमर्हति । उद्भिद्यागः इत्युक्तौ यागपदस्यानेकयागाभिधायकतया उद्भित्पदेन तद्वयावर्तनात् । उद्भि 89 1 परमार्थ भूषणे " त्पदेन तरुगुल्माद्यग्रहणमपि यागपदवलादेव । परं तु उद्भिदा यजेतेति वाक्ये याग सामान्यस्याविधेयत्वात् विशेषस्यैव विधेयत्वात् ’ विधिसमभिव्याहृतो यजिरपूर्वयाग समर्पकः, उद्भित्पदञ्च तदेकार्थमिति तत्रातिप्रसत्त्यप्रसत्तत्या विशेष्यविशेषणभावं विना केवलमभेद इति वक्तव्यम् । अथापि अत्र, “प्रवृत्तिनिमित्तयोरेकाश्रयत्वस्य बाधेन प्रवृत्तिनिमित्ताविवक्षया धर्मिणोरैक्यम् इत्युक्तं कथम् । न च विधेयतावच्छेदको धर्मस्तत्र मीमांसकैनैष्टः न च उद्भिच्छब्दस्य संज्ञाशब्दत्वात् स्वरूपतः प्रवृत्तिनिमित्तत्वमिति प्राचीनपक्षे वा फलोद्भेदनकारित्व विशेषरूपोद्भित्त्वं निमित्तमिति खण्डदेवपक्षे वा प्रवृत्तिनिमितपरित्यागोऽस्ति । यदि एक धर्मविशिष्टस्यापरधर्मविशिष्टस्य च विशेषण भेदाद् मेद इत्यैक्यायोगात् प्रवृत्तिनिमित्तमुपेक्ष्यमित्याशयः, एवं तर्हि नीलो घट इत्यादावपि ऐक्यबाधः स्यादिति तत्रापि धर्मयोस्त्यागेनैवैक्यं रक्षणीयमिति तृतीयविधायां परं तदुपपादनं न संगच्छते । बाधायां सामानाधिकरण्यमित्यस्यार्थत्रयं संभाव्यते वस्तुतो वस्तुनोर्भेदे सति सामानाधिकरण्यम, बाधज्ञाने सति सामानाधिकरण्यम् बाधार्थं सामानाधिकरण्यञ्चेति । इदं रजतम्, मनो ब्रह्म, चोरः स्थाणुरिति यथासंख्यमुदाहर्तव्यम् । तत्रेदरजतमित्येकं प्रथमत उदाहृत्य अन्यथाख्यतिभते धर्मिधर्म्यन्तरसंसर्गयोर्वषमसत्ताकत्वेनेत्युपपादनं न सम्यक् ; अन्यथाख्यातिवादितार्किकादिमते अनिर्वचनीयख्यातिपक्ष इव सत्तात्रैविध्याभावेन विषमसत्ताकत्ववर्णनायोगात् । प्रतीकोपासनेऽप्यनिर्वचनीयख्याति कथनम शक्यम्; बाधसत्त्वात् ; अज्ञानकार्यत्वादनिर्वचनीयस्य मनो ब्रह्मेत्युपासीतेत्यादौ ब्रह्मादिकमप्यनिर्वचनीयं किञ्चिदुत्पद्यत इत्यस्यासमञ्जसत्वाश्व । } यत्तु तत्त्वमसीत्यस्य बाधार्थसामानाधिकरण्योदाहरणत्वमद्वैतिसंमतं न भवतीत्यभिप्रेत्य किञ्चिद्वचनम् — तन्न धर्मिणोर्भिन्नत्वे बाघार्थ सामानाधिकरव्याभावेऽपि बाधायां सामानाधिकरण्यस्य भवदुक्तस्याक्षतत्वात् । बाघार्थसामानाधिकरण्योदाहरणतया तत्त्वमसीत्यस्य नैष्कर्म्यसिद्धावुक्तत्वाच्च । प्रति बाधार्यत्व-भङ्ग-प्रसाधनम् बिम्बजीववादे बाधार्थसामानाधिकरण्यस्यावश्यकत्वाच्च । तदिदं ब्रह्मशब्दवृत्त्यनुपपत्तिप्रसाधनाक्सर एव प्रपञ्चितं द्रष्टव्यम् । अस्मन्मते विशेषणभावेन सामानाधिकरण्यमपृथक्सिद्धिविषयत्वेनेत्युक्त न सार्वत्रिकम्, कुण्डली गुरुरिअपक्सिद्धिः कार्यकारणभावशरीरशरीरिभावान्यतरनिबन्धनेत्यपि न ; नित्यद्रव्य-नित्यगुणयोरपृथक्सिद्धेरतादृशत्वात् । त्यादौ तदभावात् । यत्तु प्रपञ्चस्य मिथ्यात्वमभ्युपगम्य विचारे क्रियमाणे सर्व खल्विदं ब्रह्मेयत्र वाधायां सामानाधिकरण्यं विना न गतिरिति–तन्न अभ्युपगम्य विचारोऽयमभ्युपगमस्याप्रामाणिकतया कृत्वाचिन्तारूप इति तद्विषयस्य तत्त्वभावासंभवात् । यदपि सर्वं खल्विदं ब्रह्मेत्यत्रैव सर्वात्मतया ब्रह्मोपासनविधानमिति नाद्वैतभाष्यसंमतं विवरणमिति दूषणम् सोयम् युक्तोपालभः । सर्वात्मतया ब्रह्मोपासनं प्रथमवाक्ये विधीयत इति शतदूषण्यामनुवाद, भावात् । " शान्त्यर्थं ब्रह्मात्मकसर्वानुसंधानविधानस्य भवद्भिर्व्याख्यातत्वात् " इत्येव खलूक्तम् । तस्य चायमर्थः –सर्वं खल्विदं ब्रह्मेत्यनुसंधानाधीन शान्तिविशिष्ट उपासीतेति । अत्र, स क्रतुं कुर्वीतेति वक्ष्यमाणमुपासनमनृद्य शान्तिविधिरिति । शान्त्यर्थं ब्रह्मात्मक सर्वानुसंधानविधानं नाम सर्वं खल्विदं ब्रह्मेत्यनुसंधानाधीनशमवैशि वोधनमेव । सर्वानुसंधानेतिपदं शमविधिपक्षे स्थित्वा प्रवृत्तं, ‘तन्नानात्वानुसंधान विधानस्य शान्तिहेतुत्वोपदेशात्’ इति श्रीभाष्यं स्मारयति । एवं ब्रह्मात्मक सर्वानुसन्धानेतिपदे प्रयुक्ते स्थिते तथैवानूद्य ततः सर्वात्मतया ब्रह्मोपसानविधानमिति नाद्वैतमाप्यसमतमिति दूपणं प्रामादिकमेव । ’ इति शान्त’ इत्यत्र इतिशब्देनानुसंधानप्रदर्शनमिति कृत्वा अनुसंधानपदप्रयोगः, न तु उपासीतेति पदस्यानुसंधानमर्थ इति । तस्य तु क्रतुं कुर्वीतेति वक्ष्यमा णोपसानानुवादत्वमेव यथाभामतीविवृतमस्तु । किञ्च क्रतुशब्द उपासनपर इति निर्विवादम् । एवमुपासीतेति उपासनशब्दोऽनुसंधानरूपज्ञानपरोऽभिप्रयते चेत्, तावतापि न किञ्चित् । तदा तु शान्त इत्यस्य आशंसायां क्तप्रत्ययाश्रयणेन शान्तिकाम इत्यर्थो वर्णनीयो भविष्यति । सर्वथा श्रीभाष्या 1 ७०८ B "
वक्ष्यमाणैर्गुणैरुपासीत । कथमुमासीत भिमतयोजनाया अद्वैतभाष्यस्थतां न शतदूषणी दर्शयति । अपि च श्रीभाष्ये वृत्तिकारसंमतत्वेन अथवेति दर्शिते योजनान्तरे, ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते ‘ति सर्वात्मतया ब्रह्मोपासनं विधीयते, तदपेक्षितगुणविधानं स क्रतुं कुर्तीतेत्यादिनेति यद् वर्णनम्, न तत् अद्वैतभावार्थनतम् । सूत्रभाष्ये तदनुक्तावपि छान्दोग्योपनिषद्धाप्ये वाक्यग्रन्थादिकमनुरुध्येव श्रीभाष्यरीत्यैव व्याख्यानात् । यथाअतः शान्तः -सन् यत् तत् सर्वं ब्रह्म तत् कथं वा कतुः कर्तव्यः मनोमयः प्राणशरीरः” इत्यादि तत्र स्पष्टम् । अत्र सर्व ब्रह्मोपासीतेति वचन-भङ्गी सर्वात्मतया ब्रह्मोपसनविधानमाविष्करोति । ‘सर्वस्य ब्रह्मव्यतिरेकेणाभावादेव सर्वात्मकत्वं स्वरूपसत् शोपयोगितया प्रस्तूयत’ इति वच एव रिक्तम् । ब्रह्मव्यतिरेकेणाभावे सर्वात्मकत्वं कथम् । सर्वबाधार्थं सामानाधिकरण्यमिति वदन्त एव सर्वात्मकत्वमत्रोक्तमित्यनन्वितमेव वदन्ति । स्वरूपसच्च कथं तत् शमोपयोगि । सर्वस्य मिथ्यात्वेन सर्वात्मकत्वस्यापि मिथ्यात्वात् स्वरूपतः सत्त्वाभावात् स्वरूपसत्त्वेन अज्ञायमानत्वेन शमोपयोगित्वाभावात् अनु संधानविषयतयैव शमोपयोगित्वात् । भवन्मते जगदभिन्ननिमित्तोपादानत्वं ब्रह्मण उपपद्यत इत्यप्यनुपपन्नम् जगत एवाभावे किमभिन्नकारणता ब्रह्मणि । श्रीभाष्यमते अनौपचारिकमुपादानत्वमौपचारिकमिति स्वयं कल्पयित्वा औपचारिकानौपचारिक सर्वविधकारणत्वसंभावनानास्पदे स्वमतब्रह्मणि सर्वमुपपन्नमित्युत्प्रेक्ष्यत इति विचित्रमेतत् । यत्तु नियम्यनियामकभावशरीरशरीरिभावोपादानोपादेयभावान्यतम निबन्धने सामानाधिकरण्ये सति कथमेकरूपसामानाधिकरण्यं श्रीभाष्यमतमिति तन्न -एकार्थवृत्तित्वरूपं सामानाधिकरण्यमित्येतत् सर्वत्रानुस्यूतमित्यैकरूप्याक्षतेः । अन्यतमेत्यप्ययुक्तम् । दूष्यते ; यत्रेदमैक्यं न भवति, तत्र सामानाधिकरण्यं लक्षणयैव निर्वाह्यम्तर्हि शरीरवाचकशब्दस्थलेऽपि लक्षणैवेति तु गृहीततत्त्वस्यैव प्रतिबन्दीप्रयुर्युक्षया साग्रहं व्याहरणम् । जातिशक्तिवादिनः केचित् । जातिविशिष्ट बाधार्यत्व-भङ्ग-प्रसाधनम् ७०९ व्यक्तिपर्यन्तवाचित्वमेव तत्रान्ये आतिष्ठन्ते । तमेव पक्षमाहत्य तद्रीत्यैव शरीरिपर्यन्तत्वमपि वयं श्रुतियुक्तिपुरस्कारेण व्युत्पादयामः । तत्र कचित् शरीरमाले प्रयोगस्तु अर्थप्रकरणादिना जातिमात्रे प्रयोगवन्निर्वाह्यः । एतदसह मानेन चोरः स्थाणुरिति वाक्ये चोर इत्यस्य न चोर इत्यर्थोपि लक्षणां विनैवेत्युक्ति पण्डितलो के को न्वाद्रियेत । यत्तु स्वीकृत्य लक्षणामुच्यते–" न विधौ परः शब्दार्थः ” इति न्यायात् विधावेव लक्षणा दोषाय, न त्वन्यत्र । सर्वं खल्विदं ब्रह्मेति त्वथवाद इति लक्षणा भूषणमेवेति — तदप्यापतितः । संभवति मुख्यार्थेन निर्वाहे लक्षणा न युक्तेत्येतत् सर्वत्रैव । लक्षणा तावत् दोष एव । अथापि सह्यते गत्यभावे । विध्यर्थवादयोर्मध्ये अर्थवादस्य विध्यन्वयं विना समाप्तयभावात् तद्योग्यं प्राशस्त्यं लक्ष्यतयाऽवश्यं स्वीकर्तव्यम् ; न तथा विधिवाक्येऽपि अर्थान्तरस्य स्वीकार्यत्वमस्ति । अतो न विधौ परः शब्दार्थ इत्येव मीमांसकैरुच्यते । अवश्यस्वीकार्यां लक्षणां विधावपि न विजहति । ‘यदाग्नेयोष्टाकपालो भवतीत्यस्य आग्नेयेनाष्टाकपालेन यजेतेति, अमीषोमीयं पशुमाल मेतेत्यस्य अमीषोमीयेन पशुना यजेतेति, सोमेन यजेतेत्यस्य सोमवता यागेन भावयेदित्येवं विधिष्वपि लक्षणाया इष्टत्वात् । एवं तत्प्रख्यतद्व्यपदेशनामधेयादीत्यपि भाव्यम् । सक्तन् जुहोतीत्यत्र सक्तुभिरित्यर्थ आश्रीयते । एवं व्रीहीन् प्रोक्षतीत्यत्र व्रीहिभिरिति तु न स्वीक्रियते । तत्र परम्, ‘न विधौ परः शब्दार्थ’ इत्युच्यते । अतो विध्युक्तं स्वीकृत्य प्रयोजनमन्वेषणीयम् । न तु प्रयोजनमभिमतमनुरुध्य विधेरन्यथाकरणम् । न हि प्रयोजनानुगुणा प्रमाणवृत्तिः । तथा हि सति लोष्टदर्शनं काञ्चनदर्शनं क्रियेतेति । अर्थवादस्य प्राप्तार्थानुवादत्वात् प्रसिद्धार्थे नयनं स्यादपि न त्वप्राप्तार्थपरो विधिरेव नीयते । न हि खर्गकामो गां दद्यादित्युक्तौ लोकप्रसिद्धं दानफलं स्वर्गशब्दार्थ इष्यते । यथा चार्थवादस्य स्वार्थे तात्पर्य नास्तीति प्राशस्त्यादौ पर्यवसानम्, न तथा विधेः शक्ये लक्ष्ये वा स्वार्थे पर्यवसानं विना अर्थान्तरे तात्पर्थकल्पनेत्येतदपि, ‘न विधौ परः शब्दार्थः इत्येतदाशयितम्ः । विधिरिति किम्, मन्त्रेऽपि 1 ; मुख्यार्थ एव लिङ्गाद् विनियोगः, न गौणार्थे इत्युक्तमेव । नूनमुपनिषत्सु, ‘तत्त्वमसि’, ‘अयमात्मा ब्रह्मेत्यादीनां प्रायो वाक्यानां विधित्वाभावात् यथेच्छमर्थमभिमत्याद्वैतं स्थापयितुमिष्यत इव । एवं हि सति अविधित्वात् बौद्धादयोऽपि लक्षणां यथारुचि प्रकल्प्य खामिभनेऽर्थे उपनिषदोऽपि प्रमाणयितुं प्रभवेयुः । तस्मालक्षणा जघन्यवृत्तिरेव सर्वत्र । कचित्तु सद्यत इत्येतावदेव । विध्यर्थवादयोर्मध्ये कुत्र लक्षणा ग्राह्येति विचारे, न विधौ परः शब्दार्थो युक्तः, किंतु • गुणभूतेऽर्थवादे इतीष्यते । एतदपि प्रार्थिकम्, ‘उच्चैः ऋचा क्रियत’ इत्यादिविधिष्वपि ऋगादिपदानां ऋग्वेदादिविहितकर्माङ्गमन्त्रेति लक्ष्यार्थस्वीकारेण, ‘अग्नेः ऋग्वेद’ इत्याद्यर्थवादेष्वेव उपक्रमावल्यात शक्यार्थरक्षणात् । विधावपि गुणप्रधानशब्द विवेचनेन शक्तिलक्षणाभ्युपगमस्तत्रतत्र तन्त्रे क्रियने च । अतो यत्किञ्चिदेतत् । इदं रजतमिति भ्रमाभिलापकशब्दं बाधार्थं सामानाधिकरण्योदाहरणत्वेन शतदूषण्यभिमतमित्यबद्धं कृत्वा तत्र नाधिष्ठानलक्षणा, निवृत्तिलक्षणावेति दोषोन्मोचनोद्योगो मुधा । तत्त्वमसीत्यत्र भागत्यागलक्षणा परमस्तीत्येतत्तु न प्रकृतम् ; तस्योपलक्षणसामानाधिकरण्यपक्षविषयत्वात् । नैष्कर्म्यसिद्धयादिप्रसिद्ध बाधार्थसामानाधिकरण्यप्रस्तावः किल प्रकृते । अतस्तदविवेचनेन निवृत्तिलक्षणादिकं नास्तीत्युक्तमयुक्तम् । यद्यपि निवृत्तिर्मिथ्याभूत पदार्थाभावः, यद्यपि च सा तत्त्वसाक्षात्कारानन्तराभाविनी, तथापि तद्बोधनं ततः प्राक् शब्देन नानुपपन्नम्, स्वसजातीयविजातीय स्वगत भेदराहित्यशेधनवत् ; नेहनानेत्यादिवच्च । नायं चोरः किंतु स्थाणुरयमिति वाक्ये नायं चोर इति भागोऽनुवादमात्रमित्येतदपि न प्रकृतोपयोगि; चोरः स्थाणुरितिवाक्ये चोरशब्दस्य न चोर इत्यर्थे लक्षणेति कथनावसरे तद् विहाय वाक्यान्तरविचारस्यानावश्यकत्वात् । यतु बाधायां सामानाधिकरण्ये पदेषु न लक्षणागन्धोऽपीति, तदनुपत्र मेवोपपादितमिति च –तदपि मिय्या । प्रवृत्तिनिमित्तयोरेकाश्रयत्वानुपपतेर्भ बाधार्थत्वभन-प्रसाधनम् ७११ वतैवोक्तत्वेन सामानाधिकरण्यस्यैक्यतात्पर्यकत्वस्यापीष्टत्वेन लक्षणामन्तरेणानि वहात् । इदं तु स्यात् सर्व ब्रह्मेत्यत्र सर्वशब्देन प्रपश्च एवोच्यते, तदभेदनिर्देशो ब्रह्मणि सिंहो देवदत्त इतिवदारोपनिबन्धनः । तत्र यदि लोक इव वेदेपि ब्रह्मणि सर्वाभेदारोपात्मकबोधजनकत्वमिष्यते, तदा वाक्यं वैदिकमप्रमारूपज्ञानजनकतत्वादप्रमाणमापद्यते । तदर्थं सर्वत्वारोपविषयो ब्रह्मेत्यर्थ स्वीकारे तु लक्षणा प्राप्तैव । एतेन अयं चोर इत्युदाहृत्य लक्षणाविरहवर्णनं प्रकृतासाधकम् । योऽयं चोरः स स्थाणुरिति वाक्ये चोरपदस्य चोरत्वारोपविषय इति लक्षणयैवार्थस्य बोध्यत्वात् तदभावकथनं ह्यविमर्श कृतम् । अभिन्ननिमित्तोपादानत्वान्यथानुपपत्त्या मिथ्यात्वावगतिरित्यप्ययुक्तम् । निमित्तत्वं स्रष्टृत्वम् ; तत्सह चरितमुपादानत्वं कार्यमिध्यात्वं विना न भवतीति कुत्र दृष्टम् । श्रुतिदर्शितमृदादिदृष्टान्तेषु वा भवदीयकल्पितशुक्तया दिदृष्टान्तेषु वा तादृश निमित्तत्वसहचरितोपादानत्वस्याग्रहणात् । अथामिन्ननिमित्तेति त्याज्यम् ; उपादानत्वान्यथानुपपत्तिरेव विवक्षितेति चेत् तदपि न नृत्कार्यघटशरावादेमृद्गतोपादानत्वबलान्मिथ्यात्वस्य संप्रतिपन्नत्वाभावात् । विवर्तोपादानत्वान्यथानुपपत्त्या विवक्षितमिति चेत् — गोमयादिगतवृश्चिकाद्युपादानत्ववलात वृश्चिकादेर्मिथ्यात्वमपि न लोको मन्यते । शुक्तिगतरजत निरूपितविवर्तोपादानत्वं गृह्यतामिति चेत् —— तज्जलानितिवाक्ये ईदृशमेवोपादानत्वमिति कथं भवन्तो निश्चिन्वन्ति । शुक्तिरजतस्थले उपादानोपादेयभावस्य सर्वथैव लोके संप्रतिपन्नत्वाभावात् शशशृङ्गायमाणे तत्र तद्वाक्यार्थपर्यवसानस्य प्रसक्तिरपि नास्ति । एतेन जगच्च स इति विष्णुपुराणवाक्यमुपादानोपादेयभावनिबन्धनसामानाधिकरण्यरूपत्वात् बाधायामेव भवतीत्यप्यपास्तं वेदितव्यम् । एवमसंभावितस्यास्यान्यापेक्षया मुख्यत्वकथनं त्वतिविचित्रम् । रामभूतं जगदभूदिति सामानाधिकरण्यं पुनरुपचरितमिति न तथा प्रकृत इति यदुच्यते; तत्रापि बाधार्थसामानाधिकरण्यमेव मुख्यत्वात् भवान् विवक्षितुमर्हति रामराज्यकाले जगत् सर्व बाधितम् राम एवासीदिति । ननु, “रामो रामो राम इति प्रजानामभवन् कथाः " इति प्रजाकर्तृकरामविषयककथास्थितेरुक्त ७१२
त्वात् कथं तद्विरोधेन सर्वबाधवर्णनमिति चेत् — भद्वैतवाक्येष्वपि द्वैतश्रुतिविरोधात् बाधवर्णनं कथमिति तुल्यम् । अपच्छेदनयस्तु रामभूतमिति वाक्ये ऽप्यवतरेत् । यथा च तत्र तथा प्रकृतेऽसि सर्वं खल्विति वाक्ये बाधपरत्ववर्णनमशक्यम् । सर्व मिथ्येति ज्ञानस्य रागद्वेषानुदयहेतुत्वे उपासनानुदयहेतुत्वमपि स्यात्; उपासक उपासनादिरूपाणां भेदानामपि मिथ्यात्वावधारणात् । किञ्च वाक्यमिदं शाण्डिल्यविद्योपक्रमस्थम् । सा च मनोमयत्वप्राणशरीरत्वाद्यनेकगुणविशिष्ट परमात्मविषयिणी सगुणविद्या । तदङ्गतया च शमो विधीयमानः सगुणोपासन तत्फलादि सर्व मिथ्यात्वमूलश्चेत्, शाण्डिल्ये विद्याप्रवृत्तिमपि प्रतिरुन्ध्यात् । अतस्तदुपयोगिशमसाधकं यादृशं ज्ञानम्, तद्धेतुरिदम्, ‘सर्वं खलु’ इति वाक्यं स्ववाक्यविरोधादपि न बाधार्थं भवितुमर्हतीति । ‘इदं सर्वं यदयमात्मा’ इत्यत्र सर्वशब्देन जीवात्मग्रहणाभावे अर्थसंकोचो दोषः । ग्रहणे ते जीवात्मानः किं किञ्चिदवच्छिन्नब्रह्मस्वरूपाः किं वा प्रतिबिम्बादिरूपेण ततो भिन्नाः । आद्ये जीवात्मनां परमात्मना सह स्वरूपैक्यनिबन्धनं सामानाधिकरयम्, जडप्रपञ्चस्य तु सर्वशब्दार्थनिविष्टस्य बाधायां सामानाधिकरण्यमिति वैरूप्यं दुस्त्यजम् । अन्त्ये पुरद्वयात् प्राक् तत्त्वमसीत्यत्र भागत्यागेन स्वरूपैक्यविवक्षेत्युक्तं व्याहतम् । अवच्छेदवाददूषणावसरे प्रतिबिम्बवाद प्रस्तावेनात्मगोपनोद्यमः, एतदूषणावसरे च तत्प्रस्तावेन, चिकीर्षितो न फलेग्रहिर्भवितुमर्हति । एतेन पुटद्वयात् प्राक् स्वयं प्रस्तुतविपरीतमेव अहं ब्रह्मास्मि, तत् त्वमसीत्यादौ बाधार्थसामानाधिकरण्यवर्णनमपि व्याहतं वेदितव्यम् । शरीरशरीरिभावेपि लक्षणैवेति प्रतिज्ञामत्रम् । लक्षणालेशस्याप्यभावेऽपि लक्षणामभिमन्यमानैरपि सर्वप्रपञ्चापलापपर्यवासायिलक्षणापेक्षया गुणविभूत्यादिभिर्भगवन्म हिमसंरक्षणानुकूलसर्वास्तिकलो कहृद्यलक्षणास्वीकारो ज्यायान् । अत एव द्वैतिभिर्विज्ञानभिक्ष्वादिभिश्व विवर्तोपादानत्वस्यान्यादृशस्याप्रसिद्धस्य कल्पनेनाशेषवेदान्तवाक्यान्यथा कारणात् वरं मुख्यवृत्तिविवर हेऽपि अद्वैतश्रुतेरर्थान्तरवर्णनमित्याकलय्य शरीरशरीरिभावादिविवेचनपर्यन्तमगत्वैव बाधार्थत्वसाधनम् ७१३ वेदान्तव्याख्याने व्यापारि । मृषात्ववाद्यद्वैत कल्पितश्रुत्यर्थात् द्वैत्यादिवर्णितोर्थः श्रेयानिति विमृश्यैव अक्षोभ्यमुनेरानन्दतीर्थीयस्य, अद्वैताचार्यस्य विद्यारण्यमुनेश्च वादे मध्यस्थपदमलंकृतवद्भिरस्मदाचार्यैः शतदूषणीकृद्भिरित्थं निर्णयः प्राकाशि―" असिना तत्त्वमसिना परजीवप्रभेदिना । विद्यारण्यमहारण्यमक्षोभ्यमुनिरच्छिनत् ॥” इति । अतो विशिष्टाद्वैतिव्युत्पादितशरीरशरीरिभावपर्यन्तज्ञानविरहेऽपि अद्वैतनतम वलीलयैवापास्यमित्येतावदंशज्ञापन एव द्वैतादेनैर्भर्थमिति न ततोऽस्मन्मतक्षतिः । यत्त्वत्र अनुपादानस्यापि नियामकत्वमशरीरशरीरिभावेऽप्याधारतामात्रेण संभवतीति द्वैतिप्रभृतीनामाशयवर्णनम् तेन किं सिद्धयति शरीरशरीरिभावाभावेऽपीत्यपिना शरीरशरीरिभावे सति सुतरां नियामकत्वमित्येव । आधारतामात्रेण नियामकत्वमिति तु न सत्, आधारतां विनाऽपि नियामकत्वस्य राजभृत्यादिविषये दर्शनात् । शरीरशरीरिभावनिवन्धनमेव सामानाधिकरण्यं सर्वत्रेत्यस्माभिरनुक्तेश्चायमनुक्तोपालम्भः । सूक्ष्मचिदचितोर्ब्रह्मणश्च शरीरशरीरिभावो नास्तीति कृत्वा दूषणं त्वस्मन्मताज्ञाननिबन्धनम् । न च सर्वत्र शरीरशरीरिभावप्रयुक्तमेव सामानाधिकरण्यमित्यस्मदीयैः क्वचिदुक्तमस्ति । किंतु चेतनाचेतनात्मप्रपञ्चमादाय सामानाधिकरण्ये अचेतनप्रपञ्चविषये यादृशम्, तादृशमेव चेतनविषयेऽपि युक्तम्, वैरूप्यायोगादिति । अतः सर्वत्रैकरूपमेव सामानाधिकरण्यमित्यस्य दर्शितरीत्या वैरूप्यं न युक्तमित्यत्रव तात्पर्यात्, शक्या वा सहचरणस्थानेतिन्यायसूत्रदर्शितनानाप्रकारलक्षणया वा मीमांसातत्सिद्धिपेटिकादर्शितप्रकारया गौण्या वा विवक्षितयोरैक्यबोधनं सामानाधिकरण्यकृत्यमित्येतत्तु न कुत्रापि भज्यते । वृत्तितारतम्यमेव तु विवेचनीयम् । यथा लक्षणादिदोषदुष्टतया बाधार्थसामानाधिकरण्यमुपेक्ष्यम्, तथोपपादकश्रुतिविरोधादपि ब्रह्मणस्तत्तत्पदार्थावेशनिबन्धनं तत्तत्सामानाधिकरव्यमिति तत्रतत्र वाक्यत एव सिद्धेरिति शतदूषणयुक्तो परि यदुच्यते–अध्यासाधिष्ठानभावेन बाधार्थत्वव्यञ्जकमेव तादृशं वाक्यमिति तच्चिन्त्यम् । – 90 ७१४
‘तत् सृष्ट्रा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत्’ इति ब्रह्मणश्चेतनाचेतनस्रष्टृत्वं चेतनाचेतनयोरनुप्रवेश तन्मूलक चेतनाचेतनभावापत्तिञ्च दर्शयति । अत्र वस्तुसृष्टिः, तत्र ब्रह्मणः प्रवेशः, ततस्तत्तद्वस्तुत्वाश्रयत्वञ्च तस्य स्पष्टमुच्यते । भवन्मते जीवकर्तृकभ्रमकल्पितत्वात् सर्वस्य सृष्टिरेव नास्ति । कल्पितस्यानिर्वचनीयवस्तुनः परमार्थसंबन्धायोगादनुप्रवेशः सुतरां न सिद्ध्यति । कल्पितपदार्थगतधर्माधारत्वञ्चाधिष्ठानस्य न संभवति । अधिष्ठानत्वमेव प्रवेशपदविबक्षितमिति भवद्भिरगत्या स्वसिद्धान्तनिर्धारणमूलं कल्ष्यते; न तु लोके भ्रमाधिष्ठानत्वं प्रवेशपदार्थतया प्रसिद्धम् । शुक्तिः रजतमनुप्रविशति, रज्जः सर्पमनुप्रविशतीति व्यवहाराभावात् । एवमधिष्ठानत्वमपि आधारत्वरूपं परमार्थस्यानिर्वचनीयं प्रति न भवति । अतोऽनिर्वचनीयज्ञाने विशेष्यतया भासमानत्वमेवैतदिति नैषोऽनुप्रवेशः । प्रागपि यद्यपि गृहे देवदत्तस्येव ब्रह्मणः प्रपञ्चे प्रवेशो दुर्वचः, सर्वदा सर्वव्याप्तत्वात् –अथापि पूर्वकाला संबन्धित्वविशिष्टान्तः प्रदेशावच्छिन्नसंबन्धवत्त्वरूपप्रवेशे संबन्धांशस्य न कथमपि क्षतिः । अस्तु स प्रवेशः स कथं सृष्टयुत्तरकालिकः, प्रागेव सर्वसंबन्धादिति चेत् — सर्वथा संबन्धरहिते अनुप्रवेशशब्दप्रयोगायोगात् संबन्धांशन्तावदत्याज्य एवं तत्र । सृष्टेति निमित्तकारणत्वं प्राविशदिति चोपादानत्वं लभ्यते । कार्यात्मकपरिणामावच्छिन्नस्तु संबन्धः सृष्टयुत्तरकालमिति तवाप्रत्ययोपपत्तिः । अनुशब्दश्च तत्संबन्धं सूचयन् प्रवेशशब्दस्यान्यादृशोऽर्थ इति ज्ञापयति । चस्तुतोऽनुप्रवेशो धर्मभूतज्ञानीयामवस्थामादाय सुवच इति, “अनेन जीवे नात्मनाऽनुप्रविश्य” इत्येतद्विवरणावसरे छान्दोग्योपनिषद्भाष्यपरिष्कारे उपपादितमस्माभिः । कृत्स्नप्रसत्तत्यधिकरणे ब्रह्मणोऽनवयवस्य सर्वत्रानुवृत्त्या परिसमाप्यवर्तमानत्वे जातिदृष्टान्तः प्रदर्शितः । तावता जातिव्यत्तयोरिव ब्रह्मप्रपश्वयोः शरीरशरीरिभावोऽपि नेष्ट इति कथं कल्प्यताम् । न हि यदंशे दृष्टान्तस्य निदर्शनम्, तमंशं विहायांशान्तरग्रहणेन क्षोभणमुचितम् । क्षीरं बाधार्थत्व-भङ्ग-प्रसाधनम् ७१५ बला कोपममिति वाक्यमाकर्ण्य कश्चित् कथं बालको बलाकाकारं बृहन्तं प्रसेदिति पप्रच्छ । तादृगेतत् । वृद्धिहाससूत्रे च दर्शनाच्चेति खण्डेन दृष्टान्तस्य विवक्षितांशमात्रपर्यवसानमदर्शि । अन्यथा जातिव्यत्तयोरिव ब्रह्मप्रपच्चयोः कार्यकारणभावोऽपि न स्यात् । किं बहुना । श्रीभाष्य एव कृत्स्नप्रसत्तत्यधिकरणपूर्वपक्षेऽपि ब्रह्मप्रपञ्चयोः शरीरात्मभावस्य कण्ठेोक्तत्वात् उत्प्रेक्षणमिदमुपेक्ष्यतमम् । ‘जातेय क्ताविव तत्तदुपाध्यवच्छेदेन तत्तदुपाध्यवच्छिन्नस्य चैतन्यस्यानुवर्तमानतया सामानाधिकरण्योपपत्तिरित्युल्लेखोऽप्येवमुपेक्ष्यः ; उपाध्यवच्छेदेनानुवृत्तिश्चैतन्यस्य स्यात् ; न तूपाध्यवच्छिन्न चैतन्यस्येति च भाव्यताम् । चैतन्यस्योपाध्यच्छिन्नत्वमात्रेणोपाधिवाचिपदस्य चैतन्यपर्यन्तत्वं कथं मुख्यम् ? न हि घटपदस्य घटावच्छिन्नाकाशपरत्वं शक्तया । एवं तर्हि विभूनां सर्वेषां घटावच्छिन्नत्वात् तेषां सर्वेषां घटपदार्थता स्यात् । भवदुक्तविषयेऽपि दृष्टान्ताञ्जस्यं दुर्घटं भवति । न हि व्यक्तिप्यनुवर्तमानायाः जातेक्तिवाचिना पदेन विशेष्यतया विवक्षा लक्ष्यते, घटपदस्य घटव्यत्त्यवच्छिन्न घटत्वमर्थ इति । एवं सति वैषम्ये कथमेवं दृष्टान्तोपन्यासः । “ सर्व समामोषि ततोऽसि सर्वः" इत्यत्र समित्युपसर्गेणाथद्रयं प्रदर्शते । एकं तावत्द्वित्वादिवत् ब्रह्मणो वस्तुना साकं व्यासज्यसंबन्धाभावात् अव्यासज्यसंबन्धरूपपरिसमाप्तत्वचलात् इदं ब्रह्म तत् ब्रह्मेति प्रत्येकव्यवहार उपपद्यते ; न तु इंद द्वे इत्यत्रेवात्रानुपपत्तिरिति । अन्यत्तु –आप्तौ व्याप्तौ नियमनवैशिष्टयं समिति प्रदर्शयते । तेन “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा” इत्युक्त-नृपनभोव्यावृत्त-नियन्तृत्वविशिष्टव्यापकत्वरूपात्मत्वबोधनात शरीरवाचिनां शरीरिपर्यन्तत्वरूपनियमसूचनेन ‘ततोऽसि सर्वः’ इत्यभेदनिर्देशः समर्थ्यते । बाधार्थत्वे तु अस्य वाक्यस्य, सर्वं समाप्नोषि ततो न किञ्चित्’ इत्येव वाक्येन भाव्यम् । किं शुद्धचैतन्यं प्रति इदं वचनम् किं वा मायाशबलेश्वरव्यक्ति प्रति । आद्ये तस्यासंबोध्यत्वान्न वचनप्रसक्तिः । अन्त्ये विशिष्टचैतन्यस्यातत्त्वतया तत्र जगत्कल्पनाभावात् तस्य सर्वत्रानुस्यूतत्ववचनं तज्ज्ञानेन सर्व ७१६
बाधवर्णनञ्च नैव संभवतीत्यपि भाव्यम् । अनुपदमेव भवतैव शुक्तिरजता दिए शुक्तिधर्मशुक्तित्वाद्यज्ञानस्य कारणत्वम्, तद्धर्मज्ञानस्य च बाधकत्वमित्येव सत्यपि प्रपञ्चकारणमज्ञानमखण्डब्रह्मविषयकम्, तद्विषयकज्ञानस्यैव च बाधकत्वमित्येवं कथनाच्च । एवं सति स्वयम्प्रकाशस्य ब्रह्मणः स्वरूप स्फुरणस्ट निर्विवादत्वात् अपरिच्छिन्नानन्दत्वाद्यंश एवाज्ञानमिति भवदीयोक्तत्वाच व्याहत मिदमित्यादि प्रागप्युक्तम् ; वक्ष्यते च । अपरिचिन्नानन्दत्वादिकमपि वस्तुतः स्वरूपमेव तस्यांशत्वं कल्पितमिति चेत्–तर्हि स्वरूपम्स्फुरणे तादृशानन्दत्वस्फुरणमप्यस्त्येवेति नाज्ञानम् । तस्यांशत्वं न ज्ञातमिति चेत् तर्हि अशत्वज्ञानं बाधकमिति स्यात् । तच्च तर्हि तत्त्वज्ञानम् । नन्वनंशत्वं तत्त्वम्; तदज्ञान प्रपञ्चकारणमिति चेत्–अनंशत्वमानन्दत्वख रूपम्; आनन्दत्वं ब्रह्मखरूपम् तथाचानंशत्वस्फुरणमेतत्स्वरूपस्फुरणमिति नाज्ञानप्रसक्तिः । दुर्घटत्वमविद्याया भूषणमिति चेत्, तर्हि मुक्तमप्यास्कन्देत् । शेषं तिरोधानानुपपत्त्यादौ भाव्यम् । अपृथक्सिद्धविशेषणवाचिनां विशिष्टवाचित्वव्युत्पत्तिमनुसृत्य शक्यार्थक्यमिति, सर्वत्रैकयैव रीत्या तात्त्विकसामानाधिकरण्यं सर्वं निरुह्यतेऽस्माभिः । ‘अहं मनुरभवम्’ इत्यादावपि सैव सरणिः । एवञ्चेदृशीं विहाय सरणिं बाधार्थसामानाधिकरण्यस्य कचिद्वर्णनं केवलं प्रपञ्च मिथ्यात्वस्थापनश्रद्धाविलसितमिति । मिथ्यात्वं जगतामसिद्धमपि यत् कृत्वा स्वयं सिद्धवत् सामानाधिकरण्यनिर्वहणमध्यास्थाय बाधार्थताम् । संपन्न कलयन्ति तत्र सुधिया मन्तव्यमेवं भवेत् वैरूप्यञ्च जघन्यता च निगमै रोधश्च बाधस्तथा ॥ शुभमस्तु ॥ श्रीः