३२ जीवन्मुक्ति-भङ्ग-प्रसाधनम्

अलभ्यां जीवद्भिर्निजपरपदोदञ्चनमयीम् असौ मुख्यां मुक्तिं व्यपगतशरीरेषु वितरन् । अनुग्राह्यं लोकं प्रकृतिविवश रक्षितुमनाः विमुक्त जीवन्तं कुरुत इह योऽस्त्वेष हृदि मे । असत्यात् सत्यसिद्धेः प्रागसत्यत्वमुदीरितम् । अत्रैव मुक्तेस्तज्जाया असत्यत्वमथोच्यते ॥ 1 शतभूषण्यामेव बाधितानुवृत्ति-परीक्षावसरे, " बाधितानुवृत्तिमनङ्गीकृत्य जीवन्मुक्तयनङ्गीकारेण वोपदेशानुपपत्तिः पूर्वप्रकरणापादिता अद्वैतिर्भियद्यपि परिहर्तुं शक्यते " इति जीवन्मुक्तयभावपक्षोऽप्यद्वैतिनामदर्शि । औपचारिकी जीवनमुक्तिस्तु अनद्वैतिभिरपि सुवचा । अतोऽद्वैतिसमतेयं मुक्तिः कीदृशीति विचार्यम् । एवं मुक्तत्कव्यपदेशस्य फलं किमिति च । अद्वैतसिद्धौ मुक्तस्यापि जीवत्त्वोपपादनाय अविद्यानाशेऽपि तत्कार्यसंस्कारस्य कियन्तमपि कालमनुवृत्तिरिति, अविद्यालेशस्य वाऽनुवृत्तिरिति पक्षद्वयमुपन्यस्य, कोऽसौ लेश इति पृष्टा अविद्याया अनेकशक्तिमय्याः शक्तिविशेषो लेशः, यद्वा अज्ञानस्य सूक्ष्मावस्थेति पक्षद्वयमुपक्षिप्तम् । शक्तिरिय विक्षेपशत्तयेकदेश इति विवरणमतम् । भामत्या तु विक्षेपशक्तेरस्वीकारात् अविद्याया अनुपादानत्वात् निमित्तमात्रत्वात् आवरणशक्तिमात्रमेवेति तदेकदेश एवावतिष्ठत इतीष्यते । तत्र जीवनशब्दस्य मुक्तिशब्दस्य च मुख्यार्थग्रहणे किमविरोधोऽस्ति उत विरोध एवेति विमर्श विरोध एवाद्वैतिभिरपि समन्तव्यः । " सदेहस्यात्मनो मनसा संयोगो विपच्यमानकर्माशयसहितो जीवनमिष्यते " ( 3.2.27) 87६९० इति न्यायभाष्यम् । "

1 जीवनशब्दस्य स्वकर्मापार्जितशरीरावच्छिन्नात्ममनसंयोगो मुख्योऽर्थः " इति किरणावली । प्राणापादनिमेपोन्मेषजीवनेति कणादसूत्रे जीवनपदेन वृद्धिभग्नक्षत संरोहणादि विवक्षन्ति । श्वासानुवृत्तिर्जीवनमिति च लौकिकाः । मुक्तिर्नाम बन्धान्निःसरणम् । बन्धश्चाविद्यातत्कार्यसंबन्ध इति तन्निवृत्तिर्मुक्तिः । तत्र अशरीरमिति श्रुतिस्मृत्यनुसारादशरीरत्वमेव मोक्ष इत्यद्वैतिवादमुपन्यस्य जीवन्मुक्तिस्वरूप चिन्तनं श्रीमाप्ये समन्वयाधिकरणे व्यधायि । अन्ये आहुः, अविद्यानिवृत्तिरेव मोक्ष इति । तत्रैकस्मिन् घटे सति घटो नास्तीति यथा न प्रतीतिः, तथा अविद्यायामशतो विद्यमानायामविद्या निवृत्तेति नास्तीति च व्यवहारो न स्वरसः । अतः कात्स्म्र्त्स्न्येना विद्यानिवृत्तिर्माक्षशब्दमुख्यार्थः । अन्यथा प्रतिक्षणमंशतोऽबिद्यानिवृत्तेः सुवचतया बन्ध एवं मुक्तिः स्यात् । एवञ्च जीवन्मुक्त इति विशिष्य कस्य चिन्निर्देशो नियामकरहितः स्यात् । अथोच्येत उत्सर्गतो जीवत्त्वसहचरिततयैव यल्लोकसिद्धम्, जीवन्नेव तस्मान्मुक्त इति जीवन्मुक्त इति सत्यमेतत् । किं तत् जीवत्त्वप्रतिनियतं लोकसिद्धम् । दुःखमिति चेत् — न, “यावदधिकारमवस्थितिराधिकारिकाणाम् " इति निर्गुणविद्यानिष्ठानामपि वसिष्ठापान्तरतमः प्रभृतीनामाधिकार समाप्ति नैकविधसुखदुःखभोगस्योक्तत्वात् जीवन्मुक्तत्वाभिमतेषु अर्वाक्ष्वपि पुरुषेषु क्षुत्तष्णादुःखस्य दृष्टत्वाश्च मुक्तययोगप्रसङ्गात् । अत एव रागद्वेषादिकं बाधितानुवृत्तिनिबन्धनमिति चेत्–निबन्धनं किमप्यस्तु । प्राप्तं तु रागद्वेषादीति न सामान्यतस्ततो मुक्तिः । एवञ्च का कथा सशरीरत्वप्रतिभासराहित्यमशरीरत्वं वा मुक्तत्वमित्यस्य जीवति विदुषि । अस्तु तावदमुख्यैव जीवन्मुक्तिरिति चेत् —तदिदम मुख्यत्वं किं जीवत्त्वांशे उत मुत्तयंशे । अस्मन्मतरीत्या जीवत्त्वांशेऽप्यमुख्यतया जीवन्मुक्तिः सूपपादा । पुण्यपापरूपस्वकर्मार्जितशरीरेन्द्रियादिसंबन्धात्मकस्य जीवनस्याभावेऽपि, “संकल्पादेव तच्छ्रुतेः " इत्यादिसूत्रदर्शित दिशा, ‘स यदि पितृ जीवन्मुक्तिभज-प्रसाधनम् ६९१ लोककामो भवति, संकल्पादेवास्य पितरः समुत्तिष्ठन्त’ इत्यादिश्रुतिप्रामाण्यात् मुक्ता एव प्रांकृतलोकेऽपि देहपरिग्रहेण यथाभगवदभिमति विहरन्तीति, तदिदम मुख्यं जीवनम् ; पुष्कलं तु मुक्तत्व तेषामिति जीवन्मुक्तिर मुख्येयम् । व्यञ्जितमिदं शतदूषण्यामेव. " न च मुक्तस्य लीलाप्रसङ्गमप्यनुमन्यसे जक्षदादिवाचामेव भक्षणात् " इति परमते ईदृशमुत्तयसंभवप्रदर्शनेन । अनेन, ‘जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा नोपजनं स्मरन्निदं शरीरम् " इति वाक्यस्य पितृलोक कामादिवाक्यतौल्यमप्यदर्शि । अनिस्तु सर्वस्यास्य सगुणत्रह्मप्राप्तौ संभवेऽपि निर्गुणवाक्येनानन्वयात् प्रकरणात अशनं मन्यन्त इ. भक्षणादित्युक्तम् । सगुणप्राप्तिव भामतीकारः, ‘न बन्यो न मुक्तिः’ इति उभयविलक्षणामध्यवस्यति, दुःखाभावान्न बन्धः भेदगर्भत्वाच्च न मुक्तिरिति । तदिदम् ’ ततो ह्यस्य बन्धविपर्ययौ’ इति सूत्रे द्रष्टव्यम् । इयमेका विधा । अन्या तु अमुख्या जीवन्मुक्तिः मुख्ये जीवत्त्वे सत्येव मुक्तेर मुख्यतया । तदिदम्, “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते " इत्यादिश्रुतिसिद्धं रागद्वेषादिराहि —उत्तरपूर्वाघाश्लेष संवलितै हिकपरब्रह्मानुभवनम् । “विमुक्तश्च विमुच्यत" इत्यत्र प्रथमान्तपदोपात्ता मुक्तिश्श्रेयमेव । मुख्या मुक्तिस्तु शरीरावसानानन्तरभाविनी धातूपात्ता । तदिदममृतत्वम्, “समाना चामृत्युपक्रमादमृतत्वञ्च्चानुपोप्य " इति भगवता बादरायणेनापि व्युदपादि । अर्चिरादिमार्गेण गतानाममृतत्वप्राप्तेः, “तयोर्ध्वमायन्नमृतत्वमेति’ इति कण्ठोक्ततया तत्र विवादप्रसत्तयभावात्, “तमेवं विद्वानमृत इह भवति”, “अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समइनुते” इति इहैव जन्मन्यमृतत्व श्रवणात् सशरीरस्यैव सिद्धेऽस्मिन्नमृतत्वे गतिः किमर्थेत्याशङ्कायाम् अनुपोप्य शरीरसबन्धमदग्ध्वा यत् प्राप्यममृतत्वम्, तावदेवात्र विवक्षितम्, मुख्यममृतत्वं तु गत्येकसाध्यमिति समाधिस्त्र सूत्रे विवक्षित इति निश्चीयते । सेयं जीवन्मुक्तिः श्रुतिसूत्रारूढा नाद्वैतिभिर्जीवम्मुक्तिशब्दे नेष्यते । ६९२

अद्वितीयत्रह्मज्ञाने सति अज्ञानस्य स्थातुमशक्त्या तन्निवृत्तिर्भवती त्याहुः । तदधिगमाधिकरणस्य सगुणब्रह्मविद्या विषयगौरवभावितप्राभवा अदृष्टद्वारा उत्तरपूर्वाघपुण्य श्लेषविनाशहेतुरित्येवमर्थमनुक्त्वा निर्विशेषब्रह्मतत्त्वज्ञानं दृष्टविधया मिथ्याभूताविद्यामुच्छिन्दत् मूलोच्छेदात दुरितक्षयमावहतीति वर्णयन्ति । अतो मुक्तिपदमुत्तरपूर्वाघाद्यश्लेषोपयोग्य विद्यानिवृत्तिपरं सिद्धम् । एवञ्च जीवन्मुक्तिरुपपादा । अद्वैतिमत एव जीवन्मुक्तितत्त्वम्, न मतान्तर इति प्रवादमात्रम् । शोधने तु विधीयमाने तन्मतेऽपि केचित् जीवन्मुक्ति नेच्छन्तीति यथा, तथा मतान्तर एव जीवन्मुक्तिरुपपादनार्हा, नाद्वैतमत इत्य् अपि सिद्धयति । भगवत्संकल्पायत्तकर्माश्लेषविनाशवादिनां हि यथार्ह मुक्तिस्तदा तदा सुवचा । दृष्टविधया तत्त्वज्ञानेना विद्यानिवृत्ताविष्यमाणायां तत्र निवृत्तानिवृत्तभागद्वयकल्पना न कल्पते । अद्वित्रह्मज्ञानं हि अविशेषेण ब्रह्मातिरिक्तसर्वाभावगोचरम् । तेनको भागो निवर्त्यते, नान्य इत्यत्र न किञ्चिदस्तु गमकम् । आरब्धकार्य पुण्यापुण्त्रनिवृत्तेः प्रामाणिकत्वाय तथा वाच्यमिति चेत् –यथा तत्यामाणिकत्वमुपपद्यते तथा मतं विमृश्यताम् । तत्त्वज्ञानान्मिथ्याथनिवृत्तिरिति प्रणाडी तु तदप्रामाणिकत्वमेवाऽऽपादयेत् । एतेन प्रतिबन्धकाभावसहकृतस्यैव तत्त्वज्ञानस्य कार्यहेतुत्वात् न सर्वनिवृत्तिर्युगपदिति विमर्शोऽपि व्युदस्तः । प्रतिबन्धकसहस्रस्यापि मिथ्यार्थवृन्दनिविष्टतया सर्वस्याप्येकहेलयैव निवृत्त्यवश्यम्भावात् । अतः सुप्क्तम्, “तथासति जीवनादेरपि निवृत्तिप्रसङ्गेन जीवन्मुक्तिवाचोयुक्तेरयुक्तेः" इति । ननु नास्त्येव जीवनमपि किं तु ‘जीवत्त्वेन भानमात्रमिति चेत् किं मुक्तः स्वं जीवत्त्वेन मन्यत इति कथ्यते उत परस्तम् । नाद्यः, तथा सति सर्वस्यापि मुक्तस्यैवं मतिसंभावना स्यादिति सर्वदैव जीवन्मुक्तत्वापत्त्या परममुक्तेरन्यस्या अभावप्रसङ्गात् । नान्त्यः, तत्त्वज्ञानिदृष्ट्या सर्वस्यापि मिथ्यात्वेन भवजलधिकुहरमज्जने सत्यपि जीवन्मुक्त इति व्यवहारापत्तेः । वस्तुतो जीवत्त्वे सति मुक्ततया मन्यमानत्वं जीवन्मुक्तत्वमिति चेत् वस्तुतो जीवनमेव * जीवन्मुक्ति-भङ्ग-प्रसाधनम् ६९.३ कथम् । जीवन्मुक्तम्मन्ये भ्रान्ताद्वैतिन्यतिप्रसङ्गाच्च । मुतत्वाध्यवसायोपि वस्तुतो मुक्ते दुर्वचः । अध्यवसायस्यापि मिथ्यात्वात् । अतो बद्धत्वं मुक्तत्वमित्यवस्थाद्वयव्यतिरेकेण जीवन्मुक्तत्वमद्वैतिनामसंभवि । 6 एवं स्थिते तत्त्वे ब्रह्मसिद्धीष्टसिद्ध सिद्धयाद्यनेकग्रन्थानुवादविस्तरेण किं सेत्स्यति । ’ आरब्धविपाकसंस्कारात् शरीरिणं भोक्तारमिव चायमात्मानं प्रत्येति’ इति ब्रह्मसिद्धिरनुपपन्ना । संस्कारस्यापि मिथ्यात्वेन स्थित्ययोगात् । जीवन्मुक्त स्थितप्रज्ञ गुणातीत पदार्थशोधनमद्वैत सिद्ध्यादिक्रियमाणमप्यत एव हेयम् । तद्यथा अहिनियनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः " इति वाक्यं स्वरसतः सर्पनिमुक्ता सर्पत्वगिव विद्वद्विसृष्टं शरीरं पृथगवतिष्ठत इत्यर्थं दर्शयत् मुत्तयनन्तरमपि निरात्मदेहानुवृत्तिमवगमयति, न तु मुक्तेः प्राक् जीवन्मुक्ततायामपि शरीरस्याभावम् । अत इदं मिथ्यात्वप्रतिकूलम् । (अहिनिवयनीति पाठः । न तु ‘निर्व्वनी’ इति । इदं शरीरं शेत इति पाठः; न तु अयं शरीरे शेते इति ) " अन्तः कीटदरमुपहतभाग्यङ्कुर जननशक्तिकं वीजमिवाविद्या यावच्छरीरपातमनुवर्तत " इत्युपन्यासोऽपि दृष्टान्तमात्रतृप्तान् " तर्पयेत् । वस्तुसत्यत्वे खल्वयं दृष्टान्तो घटेत । " तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ " यावदधिकारवमस्थितिः " इति सूत्रद्वये भाष्यद्वयेऽपि स्थितप्रज्ञखरूपमेव विविच्यत इत्येतदयुक्तम् अस्मन्मते भक्तियोगनिष्ठविषयत्वात् सूत्रस्य; स्थितप्रज्ञस्य च तदन्यत्वात् । अद्वैतमते अविद्यायां निवृत्तायामप्यवश्यभोक्तव्य सर्वकर्मफलानां भोगमात्रेण नाश इत्येतदप्यनुपपन्नम् । तत्त्वज्ञाने जाते कस्यापि परिशेषणायोगात् । निवर्तनसामर्थ्यसंपत्त्यभावे कतिपयाविद्यांश निवर्तनस्याप्यशक्यत्वात् । विदुषामपि शुकादीनां शरीरादिश्रवणात् तदुपपन्नत्वाय आंशिक निवृत्तिरेष्टव्येति चेत् -मिथ्यात्वपक्षे तद निर्वाहात् सत्यत्वपक्षः समाद्रियताम् । ब्रह्मातिरिक्तं सर्वं मिथ्येति ज्ञाने सति अविद्यायाः कार्त्स्न्येन निवृत्तेरावश्यकतया सिद्धान्तलेशसंहाद्युक्तस्यानुपपन्नतया अनेका ter

विद्यांशाधीनाने कजीववादेऽपि एकजीव संबन्धितत्त्वज्ञानेन सर्वमोक्षप्रसंगे परिहर्तुमशक्ये स्थिते का कथा तत्तज्जीवीया विद्यांशेऽप्यंशः शिष्यमाणोऽस्तीत्युपपादनस्य । एकजीववादे तु शुकादिपरममुक्तिवचनमेव मिथ्येति स्थितमिति जीवन्मुक्तिवचनानां कियती तथ्यता । यत्तु अद्वैत्येकदेशिमते तत्त्वज्ञानेनावरण शक्तिमात्रनाशः । विक्षेपशक्तिस्तुवर्तत एव । एतन्मते अविधानुमानेनावरणशक्तिमात्रानुमानम्, नाज्ञानस्य श्रीभाष्यदावपि प्रकृत्यादिपदवाच्यस्य तस्य सिद्धेरिति तन्न मिथ्याभूताविद्यांशस्य विक्षेपशक्ते स्तत्त्वज्ञानाः यत्यावश्यम्भावात् । तम्याः सर्वदा स्थितौ वा कारणान्तरेण तन्नाशस्य कदा चिदभ्युपगमे वा तत्त्वज्ञानतस्तन्नि वृत्त्यनङ्गीकारे तत्सत्यत्वापत्तेः । अविद्यायाः सिद्धत्वादावरणशक्तिमात्रानुमानमित्यप्ययुक्तम् ; श्रुतिप्रसिद्धप्रकृत्यादिपदवाच्यविलक्षणत्वात् भवदीयमिथ्याभूताज्ञानस्य । अन्यथा, “यवनिका माया जगन्मोहिनी”, “गुरु वरणकमेव तमः “, " त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परम् " इति परब्रह्मावारकत्वस्यापि प्रकृतौ निर्विवादतया तदर्थमप्यनुमानमनपेक्षितं स्यात् । तस्मात् तत्त्वज्ञानरूपेण प्रथमसाक्षात्कारेणाज्ञानस्यांशतः सर्वात्मना वा मिथ्यात्वप्रयुक्तो नाशो न संभवति । यत्तु भवदीयोक्तम्, ‘शास्त्रेण नश्येत् परमार्थरूपं कार्यक्षमं नश्यति पापरोक्ष्यात् । प्रारब्धनाशात् प्रतिभासनाशः एवं त्रिधा नश्यति चात्ममाया’ इति विवेचनम्, तदप्यनेनापास्तम् शास्त्रजन्यात् परोक्षतत्त्वज्ञानात् जगत्पारमार्थ्यभ्रमप्रयोजका विद्यांशनाशः, तदपरोक्षज्ञानात् सृष्टयुप योग्य विद्यांशनाशश्च भवत इत्येतदभावेऽपि अपरोक्षादेवाविद्यानिवृत्ति रितीष्टावपि परोक्षज्ञानेन जगस्पारमार्थ्यज्ञानं प्रतिरुद्धयते, जातमपि अप्रामाण्यज्ञानास्कन्दितं क्रियत इत्येव सुवचत्वात् । एवमपरोक्षज्ञानादविद्यानिवृत्तौ प्रारब्धपरिशेषो दुर्वच इति तन्नाशात् प्रतिभासनाश इत्ययुक्तम् । प्रतिभासप्रयोजका विद्यांशस्य प्रारब्धनाश जीवन्मुक्ति-भङ्ग-प्रसाधनम् ६९५. नाश्यत्वे तत्त्वज्ञाननाश्यत्वाभावे ज्ञानानिवर्ततया मिथ्यात्वासिद्धिश्च । अत एव तत्त्वज्ञानादविद्यामात्रनिवृत्तिः अविद्याकार्याणां स्वस्वकारणनिवृत्त्यधीना निबृ तिः । एवञ्च विनश्यद्वस्यगुणादेः समवायिकारणस्याभावेऽपि क्षणमवस्थानस्य तार्किकैः स्वीकारवत् संस्कारादीनामनुभवानुसारेणानेकक्षणावस्थानस्य स्वीकारे न दोष इत्य् अपि वार्तम्द्रव्यनाशस्य सिद्धान्तेऽनिष्टत्वात् । अविनश्यदवस्थस्याssधारं विना स्थितेरदृष्टत्वात् । अविद्यावत् तत्कार्य परम्पराया अपि मिध्यात्वाविशेषात् द्वितीये ह्मण्येव सर्वस्यापि कल्पितत्वाच्चाधिष्ठानज्ञाने युगपत्सर्वनिवृत्तेरेव युक्तत्वाच्च । अन्यथा तत्त्वज्ञानेतरनाश्यतया सत्यत्वापातात् । ‘तत्त्वज्ञाने जाते मोक्षफलविलम्बे कारणं नास्ति समर्थस्य क्षेपायोगात् ’ इत्युक्त्वा समनन्तरमेव, ‘तत्त्वज्ञानमात्रेण विदेह कैवल्याप्राप्तौ निदानं तु, ‘तस्य तावदेव ’ इत्यादिश्रुतिस्मृतिबलमेव’ इत्युक्तमयुक्तम् । कारणाभावे श्रुत्यादि बलेनापि मोक्ष कलवारणायोगात् । तत्त्वज्ञानातिरिक्तकारणस्वीकारे मोक्षस्य मिथ्यापदार्थनिवृत्तिरूपत्वानापत्तेः । एवम् ‘सत्यपि शरीरे प्रतिभासमात्रेण ममता भावात् वस्तुगत्या अशरीरत्वात् मुक्तिः’ इति प्रागुपन्यस्य, “अन्यदृष्टचैव तस्य शरीरादिप्रतिभासो जीवन्मुक्तिदशायाम् ’ इति लेखनमपि नूनं व्याहतमेव । बाधितानुवृत्तिवादिभिः शरीरं नास्ति, परस्य तत्प्रतिभासमात्रमिति हि न सुवचम् । ‘अत्र ब्रह्म समश्नुते’ इति श्रुतिर्न समाधिदशाभावि ब्रह्मानुभवपरा, मुक्तावस्थाप्रकरणत्वात्’ इति यदुक्तम्तन्न किमियं श्रुतिर्भवता जीवन्मुक्तिपरा वर्ण्यते उताजीवन्मुक्तिपरा । आधे मुख्यमुक्तिप्रकरणविरोधस्तुल्यः । अन्त्यस्तु न ; ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि ’ इति काममात्रविमोकस्य हृदयशरीरादिसद्भावस्य ज्ञापनात् अत्रेतिपदेन सशरीरत्वाविष्करणाश्च तद्विरोधात् । यदि, अथ मर्त्योऽमृतो भवतीत्यन्तमनुपोप्यलभ्यामृतत्वपरम्, ‘अत्र सत्र समश्रुत’ इत्यस्य जन्मान्तरं विना मोक्षं मुख्यमश्नुत इत्यर्थ इति मन्यते काममस्तु । वस्तुतः समन्वयाधिकरणकल्पतरौ अत्र ब्रह्मेति वाक्यं तदुपरि, यथाहिनियनीत्यादि च वाक्यं सर्वे जीवन्मुक्तिपरमेव भाष्यानुसारेण ६९६

व्याख्यातम् । सचक्षुरचक्षुरिवेत्यादि च अचक्षुरपि सचक्षुरिवेति विपरीतं योजितम् । अतो न मुख्यमुक्तिमात्रपरम् । अथवा, ‘यदा सर्वे प्रमुच्यन्ते कामा’ इति श्लोकः अथाकामयमान इत्येतन्मात्रविवरणमस्तु । यत्तु समाधिदशाभावि ब्रह्मानुभव एव व स्तुतो जीवन्मुक्तिरिति तन्न—व्युत्थानदशायामपि जीवन्मुक्तत्वस्य सिद्धान्तसिद्धत्वात् । ब्रह्मानुभवविरोधिवृत्तिरेव तस्यासिद्धेति यदुक्तम्-तत्रेदं वक्तव्यम् — यद्येवम्, अविच्छिन्नब्रह्मानुभवो वृत्तिरूपो जीवन्मुक्तिः, अविद्यान्तनिवृत्तिमुख्यमुक्तिरिति सुवचे समाधिदशाभाव्यनुभवो जीवन्मुक्तिरिति किमित्युच्यते । स्वरूपमात्रप्रकाशो मुक्तिरिति चायुक्तम् । तस्य प्रलयादिसाधारण्यात् । देहादिसत्यता बुद्धि निवृत्तिर्जीवन्मुक्तिरिति स्वीकारश्चायुक्तः, तथा सति वाक्यार्थश्रवणप्रभृति मुक्तत्वप्रसंगात् । एवञ्च तदाप्रभृति पुण्यपापाधिकारनिवृत्तिप्रसङ्गः, मुक्ते तन्निवृत्ते भवदुक्तत्वात् । परोक्षज्ञानमात्रेण न मुक्तत्वमित्यस्य आपस्तम्बवचनार्थवर्णने भवदभिमतत्वाच्च । बाह्यसुखक्षुभ्यमानस्य तत्त्वश्रवणे निष्पन्नेऽपि मुक्तत्ववर्णनायोगाच्च । जीवन्मुक्तानां वर्णाश्रमधर्मेषु प्रवृत्तिः पूर्ववासनया लोकसंग्रहार्थमिति यदुक्तम्तत्रोच्यते । यदि पूर्ववासनाविवशः कुर्यात्, तर्हि पूर्ववत् स्वस्मिन् वर्णाश्रमवासनामपि स वह तीति, तस्य खस्मिन् अनधिकारित्वबुद्धयभावेन, लोकसंग्रहार्थमिदं क्रियते, न तु खार्थमिति कथं बुद्धिः । यदि खात्मानमनधिकारिणं मन्वानेनापि लोकसंग्रहार्थं लोकाधिकृत कर्मानुष्ठानम्, तर्हि संन्यासिनोऽपि तदर्थं गृहस्थधर्मानुष्ठानप्रसङ्गः । तर्हि कथमीश्वरोऽनुतिष्ठति । गीतं हि तेन, “उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् " इतीति चेत् तर्हि स भगवान् अव्यवस्थया विप्रक्षत्रवैश्य वटुगृहस्थवानप्रस्थवर्णान्तरादिसर्वलोकसंग्रहाय सर्वविध कर्माचरन् सर्वत्र सर्वेषामधिकारसूचनमुखेन पुनरुत्सादनमेव कृतवान् स्यात् । अतः स्वस्मिन् एकरूपवर्णाश्रमवत्त्वमभिनीय तदनुगुणधर्माचरणेन तद्वर्णाश्रमधर्मानुष्ठापनमेव लोकसंग्रह इति वक्तव्यम् । एवञ्चेश्वरवत् जीवन्मुक्तो जीवन्मुक्ति-भङ्ग-प्रसाधनम् ६९७ fus स्वस्य किञ्चिद्वर्णाश्रमशालित्वाभिनयपुरस्सरमेव लोकं संगृह्णीयात् । तथा च तदभिमानस्य वस्तुतोऽभावान्न पूर्ववासनाधीना प्रवृत्तिः । सर्वमिथ्यात्वाध्यवसायिनः समायो लोकोऽपि नास्तीति च किमर्थमाचरणम् । A वासिष्ठं प्रमाणीकृत्य ब्रह्मविद्वियये सप्त भूमीः परिगणय्य -शुभेच्छा, विचारणा, तनुमानसी, सत्त्वापत्तिः, असंसक्तिः, पदार्थाभावनी, तुर्यगा इत्युक्कासु तासु भूमिषु, आद्यभूमिकात्र्यं जाग्रदवस्था, चतुर्थी स्वप्नावस्था, पञ्चमी सुषुप्तिः, षष्ठी गाढसुषुप्तिरिति विवेचनं विधाय, मोक्षेच्छा प्रथमा भूमिः, श्रवणमननरूपो विचारो द्वितीया, ध्यानं तृतीया एवं साधनदशेयं सर्वा जाग्रद्दशा, भेदबुद्धया जगतो दृश्यमानत्वात् । तुरीया सत्त्वापत्तिर्नाम वाक्यजन्यनिर्विकल्पकसाक्षात्कारः। इथे स्वप्नावस्था, स्वमतुल्यतया जगद्ग्राहकत्वात् । पञ्चमीप्रभृतिभूमिकात्रयं जीवन्मुक्तिः । पञ्चम्याः सुषुप्तिरिति नाम; सुषुप्तस्येव असंसक्तिनामकैतद्भूमिभाजोऽपि स्वयं व्युत्थानात् । अयं ब्रह्मविद्वरः । षष्ठभूमिस्थो वरीयान् । परप्रयत्नेन व्युत्थानं तस्य । समाधिनिष्ठः स्वतः परतोऽप्यव्युत्थितः ईश्वरनिरुह्यमाणप्राणादिपरवशदेहधारणः सर्वदा परमानन्दघनः तुर्थगाख्यसप्तमभूमिस्थः इति निरूपयता च भवता विपरीतवासनावैधुर्यावस्थ एव जीवन्मुक्तो वर्णित इति का तस्य पूर्ववासनाधीना लोकसंग्रहार्था प्रवृत्तिः । एतेन स्वाधिकारकाले लोकसंग्रहार्थकर्मानुष्ठानाभ्यासाधीनवासनावशात् अनधिकारेऽपि करोतीति निरस्तम् अपूर्व पुरुष दर्शनतत्प्रार्थनाश्रवणतत्प्रश्नानुगुणप्रतिवचनादीनां वासनाधीनत्वा संभवाच्च । तादृशामपि जीवन्मुक्तत्वाभिमन्तृसिद्धान्तविरोधप्रसंगाच्च । यत्तु सर्वथा जीवन्मुक्तिर्नाप्रामाणिकी श्रुतिस्मृत्यां दिसंमतत्वादिति तत्रेदमवधेयम् –न वयं जीवन्मुक्तिरिति शब्दप्रयोग तदर्थविशेषञ्च कञ्चिद्वारयामः । शतदूषण्यामेतद्वादारम्भश्लोक एव जीवन्मुक्तिविशेषस्य प्रदशितत्वात् । जीवन्मुक्तिशब्दप्रयोगोऽपि प्रमाणगत इत्युक्तत्वाच्च । भवद्भिरपीदृशी जीवन्मुक्तिरभिप्रेयते चेत् — तद्दूषणेऽपि न प्रवर्तामहे । असंभावितान्याह 88 ६९८

शजीवन्मुक्तिशब्दार्थवर्णनमेव व्यासेघामः । तथाहि जीवतो विदुषोऽविद्यानित्तिः संस्कारांशमात्रानुवृत्तिश्च जीवन्मुक्तिः, अविद्याया’ एवांशिकी निवृत्तिः सेत्येवमर्वाचीनैरुपपादितम् । समन्वयाधिकरणशाङ्करभाष्ये च, सशरीरत्वं बन्धः, अशरीरत्वं मुक्तिरिति, " न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाच सन्तं न प्रियाप्रिये स्पृशतः " इति श्रुतिं प्रदश्यक्त्वा जीवतोऽपि विदुषोऽशरीरत्वरूपमुक्तिरस्तीत्यभाषि । तत्र जीवत्त्वं सशरीरत्वम्, मुक्तिरशरीरत्वमित्युक्तौ कथं मिथोविरुद्धसमावेश इति शङ्का लभत एवावकाशम् । यदि जीवत्त्वं शरीरप्रतिभासवत्त्वम्, मुक्तिश्चाशरीरत्वमित्युच्यते, तदा शरीरादेर्मिथ्यात्वात् अशरीरत्वस्यात्मस्वभावत्वात् संसारिणि जीवे सर्वस्मिन् जीवत्त्वमशरीरत्वञ्चास्तीति सर्वो जीवन्मुक्तः स्यात् । अथाशरीरत्वं शरीरप्रतिभासराहित्यम् ; तत् संसारिषु नास्तीति न दोष इति चेत् — श्रुतौ ’ सशरीरस्य’, ‘अशरीर’ मित्यनयोः पदयोः प्रतिभासघटितार्थवर्णनं क्लिष्टम् । यथा हि शरीरस्य मिथ्यात्वादशरीरत्वं स्वभावः, तथा शरीरप्रतिभासस्यापि मिथ्यात्वात् तद्राहित्यमपि भाविकमिति मुक्तामुक्तसाधारण्यं तदवस्थमेव । शाङ्करभाष्ये, ‘शरीरात्माभिमानलक्षणमिथ्याज्ञाननिमित्तत्वात् सशरीरत्वस्य जीवतोऽप्यशरीरत्वमक्षतम् ’ इत्युक्तमपि न युक्तम् । यदि मिथ्याभूताज्ञाननिमित्तकत्वयुक्त्या सशरीरेप्यशरीरत्वं समर्खेत, स्यादपि । भ्रान्तिरूपाज्ञाननिमित्तकस्य सशरीरत्वस्यापलापस्तु कथम् । न हि भ्रान्तिजन्यं सर्व मिथ्या । सर्पभ्रान्त्यधीनभयपलायनादेः सत्यत्वात् । शरीरात्माभिमाननिवृत्तौ दुःखभयादिमत्त्वं न भवतीति भाषितमपि न युक्तम् ; शरीरातिरिक्तजीवात्मखरूपज्ञानवतामेवाऽऽमुष्मिकेष्वधिकारात् तेषां नानाविधदुःखभयादिमत्त्वस्य सर्वत्रानुभवसिद्धत्वात् । परंतु आत्मानात्मविवेकिनां पण्डितानामप्यजाविपालानामिव शरीरात्माभिमानानुवृत्तिर्भवतीति भाषणात् आत्मसाक्षात्कारशालिन एवाशरीरत्वरूपा मुक्तिरिष्टेति नेदमशरीरत्वं वस्तुतः शरीराभावरूपम् ; किंतु व्यावहारिकेणापि शरीरप्रतिभासेन वा शरीरेण वा जीवन्मुक्ति प्रसाधनम् " ६९९ रहितत्वमेवाशरीरत्वं वक्तव्यम् ; निवृत्तशरीरत्वमिति यावत् । न च जीवतो निवृत्तशरीरत्वं संभवति । यदि तत्त्वज्ञानस्य मिथ्यार्थनिवर्तकतया अविद्यातत्कार्थसर्वनिवर्तकत्वं युगपदिति निवृत्तशरीरत्वमपीष्यते, न तर्हि जीवनं शक्यमुपपादयितुम् । अथ वस्तुतो न जीवति विद्वान् । अविद्वांसस्तु संसारिणस्तमजीवन्तमेव जीवन्तं मन्वत इत्युच्येत, तर्हि जीवन्मुक्तिरप्यजीवन्मुक्तिरेवेति बाधितानुवृत्त्याद्युपपादनं भवतास्थाने । तस्य तावदेव चिरं यान विमोक्ष्ये अथ संपत्स्ये " इति मुक्तिविलम्बनाश्रुतिविरोधी । ‘अनारब्धकार्ययोरेवं पुण्यपापयोः क्षयः । अविद्यांशोऽपि तदनुगुण एव निवर्तते । प्रारब्धस्य तु भोगेनैव क्षय’ इति कथयन्त एव तो जीवन्मुक्तस्याशरीरत्वं शरीरनिवृत्तिमपि यदि ब्रूयुः तर्हि व्याघातश्च । एवं साक्षात् शाङ्करभाष्योक्ताशरीरत्वाद्यसंभवं मुक्तकण्ठमुपपादयद्भिः श्रीमानशतदूषण्यादिभिः जीवन्मुक्तिनिरुक्तिः भवन्मतस्थकृता सर्वापि न घटत इति निरूपितप्रायम् । “ब्रह्मव्यतिरिक्तसकलवस्तुविषयकत्वाद् बाधकज्ञानस्य कारणभूताविद्याकर्मादिदोषः सशरीरत्वप्रतिभासेन सह तेनैव बाधितः” इति समन्वयाधिकरणश्रीमाप्यं जीवन्मुक्ति बाधितानुवृत्तिसर्वासंभवं सम्यगेव दर्शयति । अविद्यामहिना सर्वं सेत्स्यतीति चेत् नन्वयं महिमाऽपि मिथ्यैव । तस्मिन् निवृत्ते कथं सर्वसिद्धिः । नूनमाक्षेपस्योत्तरमद्वैतमते वक्तुं न शक्यमिति वक्तव्यस्य पर्यायोऽयम्, अविद्यामहिमेति । एतेन बद्धः खशरीरं छायाञ्च पृथक् पश्यति । जीवन्मुक्तः खशरीरं छायामिव पश्यति । स्थूल देहादिभेदेन ममकारगोचरेण बन्धः, छायात्ममायाशरीरेणाभिमाना बिषयेणाशरीरत्वम् । श्रीभाष्यमते मुक्तानां सशरीराणामेव भौतिकशरीराभावेनाशरीरत्ववत् जीवन्मुक्तानां छायामय शरीरवत्त्वेऽप्यशरीरत्वमित्यादिकल्पनाऽपि निरस्या । तत्त्वसाक्षात्कारे जाते कतिपयांशबाध-कतिपयांशपरिशेषयोर्दुर्वचत्वात् । अस्मन्मते सर्वस्याप्यबाधात् अप्राकृतविग्रह संपादकसामग्री संपत्त्या मुक्तानां दिव्यविग्रहः संभवति । सर्वबाधकतत्त्वज्ञानसंपन्नस्य१००

जीवन्मुक्तम्य तु छायामयदेहाद्युत्पत्तिर्भवद्धि कथमपि सुवचा । जीवन्मुक्तस्य पूर्वशरीरातिरिक्तशरीरोत्पत्तौ च न किञ्चित् प्रमाणम् । योगमहिना स्थितस्यैव देहस्य कतिपयोऽतिशयः परं प्रामाणिकः स्यात् न त्वन्यत् । एवञ्च, “मायामयवपुषा तत्त्वोपदेशादिरूपे देवप्रेरितप्रवृत्तिपित्ती जीवन्मुक्तस्य न वार्येते’ इति दीपावल्युपादानेऽपि दक्षिणेषु अन्यतमममध्यस्थितिरेव । उपदेशानुपपत्तावुद्भाव्यमानायाम् अनुपपत्तिपरिहारप्रकाराला मैन, प्रतिबन्धाऽस्मन्मते तदसंभवप्रतिज्ञामात्रं विधाय, “अद्वैतमते हि भगवत्पादादयः स्वीय (?) भाष्यादिनिबन्धशतानि विरचय्य शिष्यान् उपदिशन्ति स्म” इति कथामात्रस्य न किश्चित् प्रयोजनम् । देहादिभेदावभासप्रयुक्तवर्णामधर्मप्रवृत्तिनिवृत्तिरपि जीवन्मुक्तिर्भवितुमर्हतीति विलिख्य तत्स्थापनायोदाहृतं भामतीवाक्यजातमपि विचार्यदशां नातिवर्तते । तद्धि प्रथमसूत्रनिविष्टं वाक्यजातं यदर्थ प्रवृत्तम्, तत् शमदमादिसूत्रे व्यक्तम् । भ्रान्त्या चेल्लौकिकं कर्म वैदिकञ्च तथाऽस्तु ते” इति भास्कराचार्यकृतं खण्डनमुद्धर्तुकामेन ह्येवमुक्तम् । अशक्योऽयमुद्धारः । मनुप्याद्यभिमानाभावात् सर्वत्र कर्मस्वनधिकारेऽप्राविशिष्टेऽपि दृष्टार्थानि भिक्षाटनादीनि करोति, विहितानि तु त्यजतीति कथमित्याक्षेपो व परिहियतेदृष्टार्थेष्वसक्तस्यापि खारसिकी प्रवृत्तिः । फलञ्चान्वयव्यतिरेक सिद्धत्वात् कार्यकारणभावस्य भवति । शास्त्रीये तु श्राद्धोऽधिकारी । तथा च स्मृतिः, इदमयुक्तम् । के श्रद्धा नाम । भक्तिरूपा श्रद्धयोपनिषदा " इवि वाक्यविवक्षिता; इह तु प्रमाणद्वारा विश्वासात्मिकेति कल्पतरावुक्तम् । विश्वासो नाम अप्रामाण्यज्ञानानास्कन्दितः फलजनकत्वनिश्चयः । यदि ब्रह्मसाक्षात्कार भावविप्यमाणबाधपर्यालोचनया वेदे तस्याप्रामाण्यनिश्चयः, वेदविहितकर्मतत्फलादौ च मिथ्यात्वनिश्वयः, स सर्वः प्रत्यक्षादिप्रमाणप्रमेयवर्गेऽपि समानः । एवञ्च ‘अश्रद्धया हुतं दत्तम् ’ इतीति श्रद्धा, “यदेव विद्यया करोति जीवन्मुक्ति-भङ्ग-प्रसाधनम् ७०१ लौकिककर्मणां फलजनकत्वादावपि मिथ्यात्वाध्यवसायस्याविशिष्टत्वात् कथं भिक्षाटना कर्तव्यताबुद्धि; वैदिकेप्यकर्तव्यता बुद्धिश्च । न च फलापेक्षां विना वासनावशादेव भिक्षाटनापूपभक्षणवेदान्तोपदेशपर मत खण्डन समानस्वीकारादिकं तदातदा प्रत्युपस्थापितं करोतीत्यपि वक्तुं शक्यम् । भिक्षाटनादिप्रवृत्तानामपि भगवदचन पञ्चमहायज्ञाद्यनुष्ठानशालि पुरुषोपसर्पणपूर्व तत्करण एव रुचिरित्यादिकमपि वैदिकविधिवशत्वमापादयति । अपि चायं भामतीग्रन्थो न जीवन्मुक्तान् प्रत्येव प्रवृत्तः; किंतु उत्पन्नविविदिषाणां कर्मानधिकारप्रतिपादनार्थः कैमुत्येन जीवन्मुक्तेषु योजनीयो भवेत । उत्पन्नविविदिषाणां सर्वं मिथ्येत्यध्यवसायशालिनां किमित्यद्वैताचार्योपसदनप्रबन्धपटननिर्माणादिषु प्रवृत्तिः; तेषां फलपर्यान्तानां मिथ्यात्वात् । तद्वदेव वैदिककर्मस्वपि पापक्षयार्थेषु प्रवृत्तिर्युज्यते । निषिद्धेषु प्रवृत्तिरनर्थायेति निषिद्धनिवृत्त्यावश्यकताया अतैव भामत्यां कथिततया पापारम्भकपापक्षयकामनया वैदिक कर्मकरणस्त्र प्राप्तत्वात् । यत्त्वन्वयव्यतिरेकावगतत्वात् लोके कार्यकारणभावस्य तत्र प्रवृत्तिरिति तन्न प्रवृति प्रति कार्यकारणभावग्रह एव कारणम् ; न त्वन्वयव्यतिरेकाधीनतद्ग्रहः ; लोके स्वयमन्वयव्यतिरेकादर्शने ऽपि आप्तवाक्यात् कार्यकारणभावग्रहेऽपि प्रवृत्ते बहुलं दर्शनात् भेषजार्थं भिषज उपसर्पन्तो द्वैतिनः प्रतिभेषजमन्वयव्यतिरेकाववधार्यैव स्वारोग्यौपयि केषु घटन्त इति, न ह्यस्ति । तथा च यथा लौकिकाप्तवाक्यम्, तथा वैदिक विधिरपि मुखान्तरेण कार्यकारणभावमेव प्रतिबोध्य प्रवर्तयतीति न कश्चिद् विशेषः । अश्राद्धोऽनधिकारी, “अश्रद्धया हुतं दत्तम् ’ इति स्मृतेः अश्रद्धाकृतस्यैहिकामुमिकफलसाधनत्वाभावादिति तन्न न हि अयं तत्त्वज्ञानी वेदबाह्यबौद्धार्हतादिवत् वेदविहितस्याप्रामाणिकत्वमाशेते इति भवन्तो भावयन्ते । किं तर्हि ? यदा तत्त्वज्ञानाद् बाधः संपत्स्यते, तदैव वेदतगम्यकर्मतज्जन्यफलाद्यभावः; यावद्र्यवहारं तु सर्वमस्ति । अतो यदि कर्मेदमस्ति, तत् यदर्थं चोदितम्, तदप्यस्त्येवेत्येव । एवं भावयतां कथं कर्मख

.. श्रद्धा स्यात् । निषिद्धं तु कर्म तं बध्नातीत्यपि न ; विधिगम्ये विहितस्य च फलस्य च कार्यकारणभावे इव निषेधगम्ये नरकाद्यनिष्टसाधनत्वेऽपि मिथ्यात्वाध्यवसायस्य स्थितत्वात् नेदं नरकहेतुरिति निश्चित्य अन्वयव्यतिरेकावगतकार्यकारणभावस्याविचाल्यतया भवदुक्ततया तृप्तिकलञ्जभक्षणयोर्हेतुहेतुमद्भावं परमुपगम्य निविद्धाचरणे प्रवर्तमानस्य नरकाद्योगात् । श्राद्धाश्राद्धसर्व पुरुषसाधारणं निषेधशास्त्रमिति चेत् — अविशेषात् जीवन्मुक्तामुक्तसर्वसाधारणमपि स्यात् । किमती यद्येवम् ? एतदतो भवति । यथा वस्तुतः, ‘ब्राह्मणो न सुरां पिबेत्’ इति निषेधं न त्यजति, तथा जीवन्मुक्तमपि न त्यजेत् । एवञ्च जीवन्मुक्तेनापि यदि निषेध उल्लङध्यते, तर्हि पूर्णसंसारबाधस्य तदानीमनिप्पन्नतया भवत्येव निषेधफलम् । यदि निषेधभिया स्वात्मानं जागरूको यथावदवस्थापयितुं यतते, निषेधतदर्थाद्यनेक भेदज्ञानपरीततया न यथावस्थिततत्त्वज्ञानसंपन्न इत्युभयतः स्पाशा रज्जुरिति । शेषं प्रागेवोक्तम् । अतः क्वचित् वर्णाश्रमाद्यभिमाने मिथ्यात्वाध्यवसायात् अप्रवृत्तिः, लौकिके तु मिथ्यात्वाध्यवसायेऽपि प्रवृत्तिरित्यर्धजरतीयमयुक्तम् । निषिद्धे रागो जातु जीवन्मुक्तो यतेत चेत् । विहिते किं न, सोऽजीवन्मुक्तश्चेत् प्रथमो न किम् ॥ अतो वेदशिरसि वर्तमाना विधिनिषेधोल्लङ्घिनो न वेदकिङ्करा इत्यास्थाय स्वैरितैव स्वीकार्या स्यात् । जीवन्मुक्तानां लोकसंग्रहार्थी प्रवृत्तिरिति प्रागुक्त्वा, पश्चात् आधिकारिकाणामेव तादृशी प्रवृत्ति, न तु जीवन्मुक्तानां साऽपीत्युच्यते । किंमीश्वरादपि जीवन्मुक्तेषु तत्त्वज्ञानमतिशयितमस्ति, येन तस्मिन् लोकसंग्रहार्थं घटमानेऽपि न जीवन्मुक्तो घटतेत्युक्तिर्घटेत । सुखदुःखादिनिवृत्तिर्जीवन्मुक्तिरित्यपि नक्षुत्तृष्णयोरपि दुःखविशेषरूपत्वात् तन्निवृत्त्यर्थ लोकयात्राव्यासक्तानां तेषां तदभावस्य दुर्वचत्वात् । सिद्धान्तलेशसंग्रहे तु तत्त्वज्ञानादविद्या निवृत्तिसमय एवाविशेषात् सर्वप्रपञ्चनिवृत्तेरावश्यकतया प्रारब्धशेषस्य बाधितानुवृत्त्यादेश्व दुरुपपादत्वात् बाधार्थत्व-भङ्गप्रसोधनम् कथं जीवन्मुक्तिरिति विभाव्य, तत्त्वज्ञानादज्ञानमात्रस्य साक्षान्निवृत्तिः, तत्कार्याणां तु स्वस्वकारणनिवृत्त्यनन्तरं निवृत्तिरिति कथञ्चित् प्रारब्धशेष उपपद्यत इति पक्षमुपन्यस्य शिष्यमाणमिदमविद्यांशो वा संस्कारो वा किंमपीत्यभिधायानन्तरं सर्वात्मगुरुपक्षो निरटङ्कि सविलासवासना विद्यानिवृत्तिस्तत्त्वज्ञानाधीनेति शेषायोगात जीवन्मुक्तिरेव न भवति । जीवन्मुक्तिशास्त्रं तु ध्यानप्रर्शसामात्रमर्थवादः । अतोऽन्त एव साक्षात्कारान्मुक्तिरिति । एवं स्वकीयैरेव निरस्तायाः जीवन्मुक्तेः समर्थनार्थोऽयं प्रयासो व्यर्थ इत्युपपादितम् । सायुज्ये मुख्यमुक्तौ श्रुतिसमधिगते ब्रह्मसाधर्म्यरूपे सारूप्याद्यं तथा चिद्विषयमनुभवं यदाहुर्विमुक्तिम् । तद्वत् जीवत्त्वएव क्षपितदुरितताद्यशमात्रेण भाव्या जीवन्मुक्तिस्तु भक्तेष्वधिगतपरमब्रह्मसाक्षात्कियेषु ॥ शुभमस्तु । श्रीः