३१ असत्यात्-सिद्धि-भङ्ग-प्रसाधनम्

सदेवेदमासीत् असत्तः सदेतत् कथं जायतामित्यथान्नायघुष्टम् । उपेक्ष्य त्वसत्यात् सतः सिद्धिमुक्तां स देवोऽर्थिसत्यः स्यतु श्रीनिवासः ॥ भगवद्यामुन भगवन्नाथमुनिनिबद्धन्यायतत्त्वाख्यशास्त्रप्रकरणभूते मुनिविरचिते सिद्धित्रये तदनुसारिणि श्रीभाव्ये चासत्यात् सत्यसिद्धिप्रकारो ब्रह्मसिद्धयुपक्षिप्तः सामग्रयेण सर्वोदाहरणपरिशीलनपूर्वकं प्रतिक्षिप्त एव । अतो ब्रह्मसिद्धयनुवादमात्रेण शतभूषणी नासत्यात् सत्यं साधयितुं प्रभवति । असतः कारणत्वञ्च खण्डनग्रन्थो पक्षिप्तमधस्तादेव विस्तरेण क्षिप्तम् । तदत्र संग्रहेण प्रतिब्रूमः माया चित्रं लिपिश्छाया स्वरः शङ्काविषं तथा । नैतानि कारणान्येतज्ज्ञानं हेतुर्यथायथम् ॥ स्वज्ञाने स्वस्य हेतुत्वमित्यप्यत्र न युज्यते । विषयः कारणं ज्ञान इत्येतस्याप्यभावतः ॥ भूतभाव्यर्थखाब्जादिविकल्पाः कथमन्यथा । प्रत्यक्षमात्रे विषयो हेतुरित्यपि नाध्येते ॥ संनिकर्षस्य हेतुत्वं प्रत्यक्ष क्लृप्तमस्ति हि । विषयस्य त्वसद्भावे संनिकर्षः कथं भवेत् ॥ ६७८

अतो विषयसद्भावः प्रत्यक्षेऽपेक्ष्यते ध्रुवम् । अथापि नान्यथासिद्धेर्विषयोऽध्यक्षकारणम् ॥ अतो मायादिविज्ञानात् भयादि यदि जायते सत्यादेव तु सत्यस्य तत्रोत्पत्तिः प्रसिद्ध्यति ॥ ज्ञानोत्पत्तिरित्यर्थः । अथासत्यात् सत्यसिद्धि रित्यस्यासत्यविषयकज्ञानात् सत्यविषयकअसत्यशास्त्रविषयकज्ञानात् सत्यब्रह्मविषयक ज्ञानस्योपजायमानत्वादिति चेत् — असत्यविषयकज्ञानस्य सत्यविषयक ज्ञानजनकत्वमपि न नियतम् । मिथ्या सर्पविषयकज्ञानाधीनस्य भयस्य दंशरूपागामिदुःखविषयकज्ञानरूपस्याप्यसत्यविषयकत्वात् । भयान्मरणे च भयरूपादसत्यविषयकात् असत्यविषयकज्ञानानुत्पत्तेश्च । अथासत्यविषयकज्ञानात् सत्यविषयकं ज्ञानं न भवतीति नेत्येव ब्रूमः ; न तु नियमेन सत्यविषयक ज्ञानोत्पत्तिम्; लोके सर्वस्यापि प्रमाणभूतस्य ज्ञानस्य तत्फलभूतस्य ज्ञानस्य च परमार्थतोऽसत्यविषयकत्वात् असत्यज्ञानात् सत्यज्ञानमेव भवतीति वक्तुमशक्यत्वादिति चेत् — एवं तर्ह्यसतोपि कारणत्वस्थापनप्रयासः खण्डनकारस्याकाण्डताण्डवमेव । किञ्चासत्यविषयकात् सत्यविषयकज्ञानोत्पत्तिर-. स्तीत्येतावता कार्यभृतज्ञानविषयगत सत्यतायां न कारणभृतमसत्यविषयकं ज्ञानं प्रयोजकं भवितुमर्हति । एवं सति कार्यं ज्ञानमिदं सत्यविषयकमेव, नासत्यविषयकमिति कुतोऽवसीयते । बाप्पधूमज्ञानाधीनज्ञानविषयस्यानेर्वास्तवत्वं यथा सत्यार्थविषयकप्रमाणान्तरेणा वसीयते, तथा ज्ञानाधीनज्ञानविषयस्यार्थस्यापि वास्तवत्वं केनचित् प्रमाणेनावधारणीयम् । न च तदस्ति । तत्त्वमस्याद्य सत्यशास्त्र तत्राद्मिविषयकप्रत्यक्षस्य, अग्निव्याप्यभस्मालोकादिहेतोः, आप्तोपदेशस्य चाप्रातिभासिक विषयकस्याप्रातिभासिका मिसाधकत्ववत् पारमार्थिकब्रह्मसाधकस्य प्रमाणन्तरस्याव्यावहारिक विषयकत्वस्य दुर्वचत्वात् । प्रमाणान्तरत्वेनाभिमन्यमानस्य च किं ब्रह्मविषयकत्वेनाव्यावहारिकार्थविषयकत्वम्, उतान्यविषयत्वेन । आद्ये तदेवालमिति तत्त्वमस्यादिवाक्यं व्यर्थम् । असत्यात्सिद्धि-भङ्ग-प्रसाधनम् ६७९ तस्य वास्तवार्थविषयकत्वे च प्रमाणान्तरमपेक्षित दुर्लभमिति च दोषः । अन्त्ये, ब्रह्मान्यपरमार्थेष्ट्या द्वैतापत्तिः । एतेन स्वप्रकाशत्वात् प्रमाणनिरपेक्षमित्यप्यपास्तम्तदापि तत्त्वमस्यादिवैयर्थ्यात् । अद्वितीयत्वापरिच्छिन्नानन्दत्वादिरूपेणास्व. प्रकाशत्वात् वेदरूपप्रमाणापेक्षेति चेत् —-असत्यविषयकतादृशाकार विशिष्टतद्वस्तुग्राहकप्रमाणाभावे तदवधारणं दुष्करमेवेति । यत्तु भामत्युक्तम् –‘सांव्यवहारिकप्रमाणेभ्योऽपि तत्त्वज्ञानमुत्पद्यते । ह्रस्वत्वदीर्घात्वरूपावर्णधर्मविशिष्टतया वर्णप्रतीतिरूपनगनागशब्दज्ञानतः तरुकुञ्जरज्ञानोत्पत्तिदर्शनात् ’ इति –तन्न नगनागशब्दयोः हस्वत्वदीर्घत्वे वर्णगते इत्येव हि सिद्धान्तः । यदा तु ते नादगते, तदा वैयाकरणपक्षः । तदा तादृशनगनागज्ञानस्य वैयाकरणनिष्कर्षबाध्यमानस्य ब्रह्मज्ञाननिरपेक्षबाधविषयार्थकतया प्रातिभासिक विषयकस्य व्यावहारिक विषयकत्वमेव कथमिति । एवं व्यावहारिकप्रमाणादेव तत्त्वज्ञानमित्यपि न ; तत्त्वमसिवाक्यत्वेन भ्रान्त्या गृहीतात् वाक्यान्तरादपि तत्त्वज्ञानस्योत्पत्तिसंभवात् प्रतिभासिकस्यापि हेतुत्वात् । यदि तु नगनागशब्दखत्वदीर्वत्वविषयकं प्रातिभासिक विषयकमेव व्यावहारिकरूपमित्युक्तम्, तर्हि प्रातिभासिकव्यावहारिकपदपरिभाषण भवतां त्यक्तमिति । यत्तु व्यावहारिकसतः तत्त्वमस्यादिवाक्यज्ञानस्य फलं व्यावहारिकसत् ब्रह्मात्मैक्यज्ञानम्, तद्विषयस्य पारमार्थिकत्वे काऽनुपपत्तिरिति — तत्रो च्यते तयोः समसत्ताकत्वनिरासमात्रेण प्रकृते विषयस्य पारमार्थिकत्वमेवेति कथं नियम्येत, स्थलान्तर इवासद्विषयकत्वस्य व्यावहारिकसद्विषयकत्वस्य वा ज्ञाने संभवात् । अस्य ज्ञानस्या बाधितार्थविषयकत्वं हेत्वन्तरेणानुमीयत इति चेत् — तस्यापि हेत्वन्तरस्य व्यावहारिकसत्त्वाविशेषात् वस्तुतोऽप्रमाणत्वात् । अप्रमाणजन्यज्ञाने प्रमात्वस्य प्रमाणान्तराधीन वस्तुसत्ता निश्चयाधीननिश्चयत्वात् ।६८० यत स्वमादिस्थलेऽपि

खानाद्याकाराविद्यावृत्त्यवच्छिन्नज्ञानमपि विषयवत् पल्लवाविद्याकार्यतया ज्ञाननिवर्त्यतया भ्रमः मिथ्या वेति तदधीनोत्पत्तिकत्वेऽपि असत्यादेव सत्योत्पत्तिरिति तन्नखामवत् खमज्ञानस्यापि बाधादर्शनात् । स्वप्ने रथगजादिकं नासीदितिवत् रथगजादिसाक्षात्कारो मे नासीदिति हि न कश्चित् प्रबुद्धः प्रत्येति । एवमबाध्यस्याप्यसत्यत्वे ब्रह्मणोऽप्यसत्यत्वं स्यात् । ब्रह्मज्ञानवाध्यत्वमात्रेणासत्यत्वमुच्यत इति चेत् तत् उत्पद्यमाने भयादावपि तुल्यमिति कथं सत्योत्पत्तिरिति । । यत् तावत् विषयाधीनमेव ज्ञानस्य वैलक्षण्यम् ; ज्ञानवैलक्षण्यप्रयुक्तमेव च कार्यवैलक्षण्यमिति तत्र तदधीनवैलक्षण्यं न प्रतिषिद्धयते । प्रकारान्तरेणापि वैलक्षण्यं संभाव्यते । एकविषयकत्वेऽपि ज्ञानानां प्रत्यक्षत्वानुमितित्वशाब्दबोधत्वादिरूपस्य वैलक्षण्यस्यानुभवसिद्धत्वात् सामम्यधीनस्यापि वैलक्षण्यस्य सद्भावात् । वृत्त्यवच्छिन्नचैतन्यस्य ज्ञप्तेश्व सविषयकत्व नियमोऽस्ति न वेति विकल्पस्तु न कल्पते । तादृशद्वयोत्पत्तेरसंमतत्वात् । वृत्त्यवच्छिन्न चैतन्येत्येतदपि न प्रामाणिकम् । रातु सामग्रीविशेषजन्यत्वेन व्यवस्था शीतोष्णादिसामम्याः सुखदुःखादिहेतुत्वानियमाद मुक्तेति तदापाततः । शीतस्य कचित् सुखहेतुत्वस्य अन्यदा दुःखहेतुत्वस्य च सत्त्वेऽपि तन्तुमृत्पिण्डादिसामग्र्याः पटघटादिकार्यजनननियमस्य भङ्गायायात् । न च सुखे दुखे वा शीतमात्र सामग्री । कारणकलापो हि सामग्री नाम, न तन्मात्रम् । तत्र देशकालदेहावस्थादिकारणान्तरसमाश्लिष्टं शीतं सहकारिवैचित्र्यादनुकूलवेदनरूपसुखदुःखात्मकविचित्र कार्यक्षममिति भवत्येव तत्र सामग्रीभेद इति । ज्ञानस्य तत्तद्विषयकत्वरूपं वैलक्षण्यं नास्तीति चानुक्तोपालम्भः । निर्विषयमनुभूत्यादिशब्द मुख्यार्थभूतं नास्तीति निरूपणेन भवन्मतनिरासिनामस्माकं सविषयकत्वस्यैव तादृशे ज्ञाने संमतत्वात् । एवं स्वप्नज्ञानं ज्ञप्तिमात्र रूपेण कारणमित्यप्यनुक्तोपालम्भः ; " तद्भ्रमस्यैव हेतुत्वात् तस्य च सत्यत्वात् " असत्यात्सिद्धि-भङ्ग-प्रसाधनम् ? ; ६८१ इति तद्विषयकत्वो पलक्षितस्यैव ज्ञानस्य हेतुत्ववर्णनात् । तत एव शुभाशुभफलभेदसूचनादिसर्वसिद्धया भवदुक्तदोषाणामनवकाशात् । भ्रमस्य याहशमसत्यत्वं ब्रह्मज्ञानबाध्यत्वरूपम् तादृशं कार्ये भयादावप्यस्तीति कथमसत्यात् सत्यस्त्रोत्पत्तिः ? “कार्य वा कारण वा त्रिकालाबाध्य सत्त्वं नापेक्षते” इति यद्वचनम्, तस्य कोऽर्थः : कार्य वा कारणं वा कालत्रयवयैव भवतीति नेत्यर्थो वा तत्तत् कदाचिदवर्तमानमेव भवतीति वा, कदाचिद्वाधेऽपि न दोष इति वा । आद्यमिष्टम् । कार्यस्य कालत्रयवर्तित्वं व्याहतमपि । कार्यत्वं हि पूर्वकाल सत्त्वविशिष्ट कालान्तरसत्त्वन् । कथं तेन सह कालत्रयसत्त्वसमावेशः । कारणं तु सार्वकालिकमपि स्यात्, कादाचित्कमपि । अत एव द्वितीयमपि कात्स्न्येन नेष्टम् । सार्वदिकस्य कारणस्य कदाचिदवर्तमानत्वाभावस्येष्टत्वात् । तृतीयेऽपि को ऽयं कदाचिद्वाधः । पूर्वं स्थित इदानीं नास्तीति कालविशेषावच्छिन्नतया तदभावस्य ग्रहणम्, अथवा कदापि नास्तीति ज्ञानस्य बाधरूपस्य कदाचिदुत्पत्तिरिति । आद्ये तु न भवत्सिद्धान्तसमतोऽसौ बाधः । त्रैकालिकाभावप्रतियोगित्वस्य वाधितत्वरूपतया भवद्भिरुक्तेः । अयञ्च बाधः कदाचिद्वर्तमानस्यान्यदा अभावरूपः । तादृशबाधप्रतियोगिनश्च कारणत्वं कार्यत्वमेव । अन्त्ये सर्वदैव नास्तीति ज्ञानं वाघरूपं कद्राचिज्जायमानं वस्तुनः सर्वदैवाभावमावेद नीति तादृशमसत्यं नैव कारण भवितुमर्हति । यदि तद् व्यावहारिकसत् तस्य कारणत्वमपि व्यावहारिकसदेवेति कथमसत्यात् सत्योत्पत्तिः । अत एव " असत्यस्य स्वन्यून सत्ताककार्यहेतुत्वनिरासे तु न विप्रतिपत्तिः " इत्युक्तमपि निरस्तम् । असत्यस्यैव हेतु त्वस्य सामान्यतोऽप्यभावात् । स्वन्यून सत्ताककार्याप्रसिद्धश्च । स्वाप्नानां स्वाधिकसत्ताककार्याहेतुत्वेऽपि खाधिकसत्ताकतत्त्वावबोधकत्वे न कोऽपि विरोध इत्य् अपि न युक्तम् । स्वाधिकसत्ताक कार्याहेतुत्ववचनं हि स्वानधिकसत्ताककार्यहेतुत्वे सति समञ्जसं स्यात् । सर्वविधकार्याहेतौ च तत्र विशेषनिषेधो व्यर्थः । स्वाधिकसत्ताक कार्यावबोधकत्वे च तादृशावबोधरूपकार्य 86 ६८२

तौ तत्र तादृशकार्याहेतुत्वमेव कथम् ? का चेयं स्वाधिकसत्ता । पारमार्थिकी व्यावहारिकी प्रातिभासिकीति सत्तात्रैविध्यं नास्माभिः स्वीकृतम् ; भवदीयैश्च कैश्चित् । अधिककालसत्ता स्वाधिकसत्तेति चेत् तत्र को दोषः ? न हि कारणस्य यावदायुकत्वम्, तावदायुकमेव कार्यमिति नियमः; पितुरल्पायुष्टेऽपि पुत्रचिरजीवनदृष्टेः । सर्वमिदमसत्यस्य यत्तु स्वानानामुत्पयहेतुत्वेऽपि ज्ञप्तिहेतुत्वमस्तीति -तन्न-सूचकत्वेन श्रुतानां खानानां शुभाशुभोत्पत्तिहेतुत्वप्रसक्तेरेवाभावात् । न हि त्रिजटाखामश्वेतपर्वनस्थानमहागजारोहणचन्द्रसूर्य मण्डलस्पर्शादीनां सीतारामसंश्लेषोत्पत्तिहेतुत्वम् । अतो ज्ञप्तिहेतुत्वमेवास्ति न वेति विविच्यते । ज्ञप्तिहेतुत्वस्य साक्षात्स्वीकारः उत्पत्तिहेतुत्वस्वीकारतुल्ययोगक्षेमः ॥ अतो ज्ञप्तिहेतुत्वमपि स्वानज्ञानस्यैव । स्वप्ने सूचकत्वव्यवहारस्तु सूचनरूपज्ञापनकरज्ञानविपयत्वरूपप्रयोजकत्वविवक्षयौपचारिकः । सत्यसूचकत्वस्थले का निर्वाहः । स्वाप्नविषये तु न किञ्चिदवद्यमस्माकम् ; तदा वस्तुसृष्टेरीवर कर्तृकाया इत्वात् । अत एव सूचकचेति सूत्रमपि सम्यगुपपन्नम् । “असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" इति हरिवचनमपि नासत्यात् सत्यस्त्रोत्पतिमाह । न च पचेलच मेलनं पाकशब्द निप्पादकम् । न च पचिर्वा वुल् इति वर्णसंघो वा तन्मेलनं वा स्वरूपतोऽसत् । वस्तुतो निष्पादकस्य निष्पादकत्वं कल्पितमित्येव कारिकार्थ इति कथमियमुत्पत्तिसाधिका । स्थूलारुन्धतीन्यायेनाविद्यमानप्रतिपादनमप्यादौ कामं भवति । तावता तत्र सर्वत्र ज्ञानमेव कारणम् । न त्वसत्यं किञ्चिद्वस्तु । लिप्यक्षराणामारोपितवर्णत्वेन कारणत्वमित्युक्तिः लिप्यक्षरेषु वर्णत्वारोपः कारणमित्युतयविशिष्टैव । तथा च ज्ञानमेव कारणम् । भगवदर्त्तावतारेषु भगवदभिन्नत्वारोपः फलहेतुरित्येतदपि वर्तम् । अचरूपाणां भगवद्विग्रहतायाः प्रामाणि कत्वात् । यथा सालग्रामे हरिरिति शाङ्करभाष्य तदनुयायिभामत्यादिग्रन्थाः यथावस्थित, चरूपव्युत्पत्तिविरहेण प्रवृत्ता वा तात्पर्यतः प्रामाणिक कपरा वा असत्यात्सिद्धि-भङ्ग प्रसाधनम् ६८३ भवन्तु । सर्वथा तत्राऽऽरोपस्य वा आरोपितासत्याकारस्य वा न कारणत्वम् । न च रामकृष्णा दिविग्रहाणामपि भगवद भिन्नत्वारोप इति वाच्यम्—देहात्मविवेकिनां परमात्मतद्विग्रहविवेकस्यापि सुलभतया मूर्तीमूर्तरूपेण द्वैविध्यस्य परमात्मनि प्रतिपन्नतया च परमात्मनस्तादृशविग्रहवत्त्वेन ग्रहणस्यैव कार्यकरत्वसंभवे अभेदारोपस्य कारणत्वस्यानपेक्षितत्वात् । अविवेकिनामभेदज्ञानमपि कार्यकरं कथञ्चिदप्यस्तु । कथमसत्यस्य हेतुता । ज्ञानस्य सत्यत्वात् । एवमन्यत्रापि द्रष्टव्यम् । स्फोटवादनिरास आवयोरविशिष्ट इति भवताप्युक्तत्वात् ह्रस्वत्वदीर्घत्वादीनां नादगतानां वर्णे आरोप इति नियन्त्रणे प्रमाणाभावात् ककारगकारादिभेदेनेव हस्वदीर्घादिभेदेनापि वर्णभेदस्यापि सुखीकरत्वात् तत्रतत्र यथायथं ह्रस्वो दीर्घोऽन्यो वा वर्णः कार्यकर इत्येवमेवोपपत्तेर्भामत्यां नगनागपदप्रयोगे आरोपितह्नस्वत्वादिकमादायार्थभेदावधारणवर्णनमुपेक्ष्यम् । देवताधिकरणे च भाष्ये, “उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्च” इत्युक्त्वा, “अथवा ध्वनिकृतोऽयं प्रत्ययभेदः, न वर्णकृतः " इति स्वरादिविषय एव ध्वनिगतत्वं वर्णितम् ; न तु ह्रस्वादिमात्राविषयेऽपि । अस्तु तावदिदं कथमपि । सर्वथा सर्वत्राविवेकिनां भ्रमात्मकं विवेकिनां प्रमात्मकच ज्ञानमेव कारणम्, न त्वसत्यं किञ्चिदिति स्थितम् । अथाप्यसत्यार्थोपलक्षितस्य ज्ञानस्य हेतुत्वेपि असत्यस्योपलक्षणत्वं निर्विवादमिति तस्यापि हेतुत्वसिद्धिः उपलक्षणत्वं हि नाम ज्ञाप्यवहिर्भूतत्वे सति ज्ञाप्यार्थज्ञानहेतुत्वमिति चेत् अत्रोत्तरमपि शतदूषण्युक्तमेव, उपलक्षणीभूतार्थविषयकज्ञानस्यैव मुख्यहेतुत्वम् उपलक्षणे तु हेतुभूतज्ञानविषयत्वरूपमौपचारिकं तदिति । यत्तु उपलक्षणविषयकज्ञाने उपलक्षणस्य विशेषणत्वात् हेतुत्वमिति — तत्रोच्यते । किमिदं विशेषणत्वम् ? यदि स्वज्ञाने स्वस्य विषयत्वमितीदमेव, तदा न हेतुत्वसिद्धिः । विपयत्वस्य हेतुत्वानपेक्षायाः प्रागेवोक्तेः । यदि स्वविषयकज्ञाने गृह्यमाणे तत्र ग्रहणे ज्ञानांशे ter

स्वं विशेषणीभवतीति, तत् खज्ञानज्ञानात् पूर्वं स्वज्ञानस्य जातत्वादेवेति स्वस्य ज्ञानमुखेनैव विशेषणत्वरूपव्यावर्तकता ; न स्वरूपेण । यत्तु पूर्वं विशेषणस्यैव पश्चादुपलक्षणत्वमिति -तन्न –काकवद्गृहमित्यत्र तथात्वेऽपि शाखाग्रस्य चन्द्रं प्रति अविशेषणस्यैव तदुपलक्षणत्वदर्शनात् । विषयकज्ञानस्येव विपयस्यापि हेतुत्वे आगामिघटस्यापि घटहेतुत्वापादनं कथम्, आगामिघटस्यामिथ्यात्वात् ’ इति तु न–. अनववोधात् । अर्न्यथेत्यस्य हि, अर्धो मिथ्या वा स्यादमिथ्या वा अन्यथा कुलाले ‘ति वाक्ये यद्विषयकज्ञानस्य यत्र हेतुता, तत्र विषयस्यापि हेतुतैवेति स्वीकारे इत्यर्थः । एवञ्च कदाचित् सतोऽपि यदि पूर्ववर्तित्वाभावान्न हेतुत्वम्, नतरां मिध्यार्थस्येति तदाशयः । अत आगामिनो मिथ्यार्थत्वमत्र न विवक्षितम् । यत्तु मिध्यार्थस्य सत्यज्ञापकत्वमेव, न जनकत्वमिति -तन्न-सत्यज्ञापकत्वस्य सत्यविषयकज्ञानजनकत्वरूपत्वात् ज्ञानस्य सत्यतया सत्यजनकत्वस्याक्षतेः । इदं तु निगूढं भवतः, यत् असत्यात् सत्यसिद्धिरित्यस्य असत्यं ज्ञापकम्, ज्ञाप्यं तु सत्यमित्यर्थस्तावदेषितव्यः । अत एवासत्यादपि वेदात् सत्यं ब्रह्म सिद्ध्यतीत्येतन्निर्वहति । एवञ्चासत्यात् सत्योत्पत्तिरपि तदर्थ इति मा भूत् येन मतस्याधिक दोषास्पदत्वमापद्यत इति । अथापि भवदीयैः सिद्धिशब्दस्योत्पत्तिपरत्वमप्याशय्य असत्यात् सत्योत्पत्तेरप्युक्तत्वात्तु वादेऽस्मिन् उभयमपिं निरस्यते । दर्शितञ्चादावेव भवन्मतम्, " आरोपितैरेव शुक्तिरजतरज्जुसर्पशङ्काविषभावितगरुडादिभिः सत्यस्य हर्षभयमरणगरलहरणादेर्दर्शनात् " इति । किं बहुना, भवदुदाहृते ब्रह्मसिद्धिवाक्ययराशा वेवोत्पत्तिः प्रतिपत्तिश्च यथायथं निर्दिष्टा । यथा शब्दाच्च नित्यादसत्यदीर्घादिविभागभाजोऽर्थभेदप्रतिपत्तिर्न मिथ्या । तथा मिध्याहिदेशो मरणहेतुः " इत्येवम् । अतः, ‘मिथ्यार्थस्य सत्यजनकत्व स्वीकारात्’ इति भवद्वचनमपसिद्धान्तः । एतेन, ‘कथमसतः सज्जायत’ इति श्रुतिविरोधो भवतां शतदूषणीदर्शितोऽपि सुस्थः । ‘सद्विद्या प्रपञ्चविवर्तोपादानस्य सद्रूपत्वमुपदिशति, न तु कारणस्य सत्त्वम् "” असत्यात्सिद्धिभन्न-प्रसाधनम् ६८५ तावता इति बचनमनन्वितम् । उपादानस्यापि कारणविशेषत्वात् । कारणवाक्यं कारणसत्त्वं न ब्रवीतीति को नु ब्रूयात् । ‘असत्यात् सत्यं न सिद्ध्यतीत्यस्य अर्थक्रियाकारित्वरहितात् सत्यं न जायत इत्यर्थे इष्टापत्तिः । मिथ्याभृतात् सत्यं न जायत इत्येतत्तु ने’ति यदुक्तम्, तनमिथ्यार्थस्यैव जनकत्वासंभवात् । अभावप्रतियोगित्वं हि मिथ्यात्वम् । कार्यकारणयोश्च सामानाधिकरण्यमावश्यकम् । अन्यथा देशान्तर कालान्तरसंबन्धिनोऽपि कुलालात् घटोत्पत्त्यापत्तेः । शुक्तिरजतादिश्च शुक्तचादाववर्तमानः कथं तत्र जनयेत् । शुक्तिरजतग्राहिणि पुरुषे जनयतीति चेत् तर्हि तज्ज्ञाने कारणम्, न तु तत् कारणमिति सिद्धम् । मिथ्यार्थस्य शुभाशुभसूचकत्वाभाववादः श्रीभाग्यविरुद्ध इति मुधैव मिथ्योच्यते । स्वाप्नज्ञानस्यैव साक्षात् सूचकत्वस्य संध्याधिकरणसर्वग्रन्थसंमतत्वस्य प्रागेव दर्शितत्वात् । भ्रमविषयस्त्वनिर्वचनीय इत्य् अपि न युक्तम् ; संनिकर्षस्थले इदं रजतमित्यादावपि लोहितः स्फटिक इत्यादौ संनिकर्षस्थल इव रङ्गरजतयोरुभयोः संनिकृटयोर्वैपरीत्येन इमे रङ्गरजते इतीव चानिर्वचनीयकल्पनां विनैव निर्वाहे अत्यन्तापरिदृष्टवस्तुतत्कारणादिकल्पना शतस्यात्यन्तानुचितत्वात् । वस्त्वभावे इदं रजतमिति कथं विशदलौकिकप्रत्यक्षमिति चेत् — अनिर्वचनीयरजतसत्त्वेऽपि कथं तत्र चाक्षुषलौकिकम्, तस्य चक्षुरजन्यत्वस्वीकारात् । परमार्थ प्रकाशिकायामेतद्विस्तरः । ; वस्त्वभावेऽपि वैद्य स्वप्ने प्रावाचि तार्किकैः । सर्वैश्च भावनमूले; तन्न दोषोऽत्र दोषजे ॥ । इदं रजतमिति आपणस्थरजतग्रहणे नेदं रजतमिति कस्य निषेध इति चेत् — इदं रजतमिति अनिर्वचनीयरजते गृहीते तत्र स्थिते नेदं रजतमिति कथं निषेधः ; निषेधस्य सामान्यविषयकताया एव भवदिष्टत्वात् । न हि कस्मिश्चित् रजते सति न रजतमितिसामान्यनिषेधो घटते इन्यत्र विस्तरः । अन्यथाख्यात्यैव सर्वनिर्वाहः शतदूषणीसंमत इति च न । अनिर्वचनीयं विना सर्वनिर्वाहस्यैव तदिष्टत्वात् । ६८६

अस्तु तावदसत्यात् सत्यसिद्धिः । अथापि असत्यं सत्यमेव साधयतीति वा सत्यं साधयत्येवेति वा नियमाभावान्नासत्य वेब सिद्धं ब्रह्म सत्य मिति निर्धारण शक्यमिति शंकायां यदुक्तम् अन्वयव्यतिरेकवशादपि यदि असत्यात् सत्यम्, तर्हि कम वेदेन निरपेक्षप्रमाणेन ब्रह्मणा च नित्य शुद्धेनेति 1तन्न –आशङ्का परिहारम्यतोऽसिद्धेः । न हि वेदस्य स्वयम्प्रकाशाविषयब्रह्मगोचरत्वं सभवति । न च निर्गुणब्रह्मैव बोध्यमिति निश्चितमस्ति । अतो वेदोऽसमर्थस्तत्र ब्रह्म च तत् अलीकमिति सिद्ध एवापराधः । भ्रमस्थले विषयतदाकारवृत्त्योरुभयोरपि मिथ्यात्वमित्यद्वैतिनां मर्यादाऽपि न युक्ता ; तुला विद्यापरिणामत्वेऽपि वृत्तेमिथ्यात्वायोगात् । तत्त्वज्ञानबाध्यं हि मिथ्या । विषयस्य बाध्यत्वान्मिथ्यात्वं युज्यते ; न तु वृत्तः । रजतमिति वृत्तिर्यद्यपि नेदरजतमिति ज्ञाने सति न जायते । तावता प्राग्जातवृत्तिबाधः कथम् । सा हि यावत् स्थातुमलम् तावत् स्थित्वा स्वयं नष्टा । नात्र रजतमासीदितिवत्, न मे वृत्तिरासीदिति हि न कस्यापि बाध्ज्ञानम् । " देहात्मप्रत्ययो यद्वत् ” इति कारिकाऽपि प्राक् ब्रह्मशब्दवृत्यनुपपत्तिप्रसाधनावसर एव निराकृता । व्यावहारिकं प्रामाण्यमिति चाप्रामाण्यपरिभावेति वेदप्रामाण्यपरिग्रहानुपपत्तिप्रसाधने प्रदर्शितमेव । ब्रह्म अत्र वस्तुव्यावहारिकत्वमपिं निरुच्यमानं विचार्यम् । ब्रह्मप्रमातिरिक्ता बाध्यत्वं व्यावहारिकत्वमिति तावन्न यौगिकोऽर्थः । साक्षात्कार पर्यन्तव्यवहारविषयत्वं ब्रह्मप्रमातिरिक्ताबाध्यत्वे पर्यवस्यतीति चेत् ब्रह्मप्रमा बाध्यत्वमात्रमस्तु किमधिकेन ? अथ ब्रह्मप्रमापूर्वक्षणकल्पितानां शुक्तिरजतादीनां सर्गमध्यनिविष्टशुक्तिरजतादीनामिव शुक्तिज्ञानादि विना ब्रह्ममयैव बाध्यमानत्वात् प्रातिभासिकेषु तेष्वतिव्याप्तिरिति ब्रह्मप्रमातिरिक्ता बाध्यत्व निवेशः । तेषामतिरिकाबाध्यमानत्वेऽपि अतिरिक्ताधीन बाघ योग्यताऽस्तीति नातिव्याप्तिरिति चेत्-अतीतानां भविष्यद्ब्रह्मप्रमया बाधायोगात् पूर्वमेव नास्तीति प्रतीतिविषयीभूतानानतिरिक्ताबाध्यत्वमसंभवि । असत्यात्सिद्धि-भङ्ग प्रसाधनम् ६८७ अतीतानां नष्टत्वेऽपि बाधो न जात इति चेत्—कदा बाधः । न कदापीति चेत् — सत्यवापत्तिः । ब्रह्मप्रमाकाल एव बाध इति चेत् -नष्टानि वस्तूनि ; अथापि तन्निवृत्तिः ब्रह्मप्रमाकाल एवेत्यनन्वितं वचनम् । तर्हि किं कार्यमिति चेत्–अनिर्वचनीयोपन्यास उपेक्षणीयः । किञ्च केयं ब्रह्मप्रमातिरिक्ताबाध्यत्वनिविष्टा बाध योग्यता ? मिथ्यात्वमिति चेत्—तत् प्रातिभासिकसाधारणम् । अपिचेदृशाबाध्यत्वं ब्रह्मण्यप्यस्तीत्यतिव्याप्तिः । तदर्थ चिद्भिन्नत्वं निवेश्यम् । अपि च ब्रह्मप्रमना बाध्यत्वेन गृहीते त्रैकालिकाभावप्रतियोगित्वस्यावसितत्वात् तत्र व्यावहारिकसत्तावचनं व्याहतम् । तथा सत्तावैविध्ये च न प्रमाणम् । एवं ब्रह्मप्रमातिरिक्तशून्यज्ञानबाध्यत्वादवाध्यत्वमपि दुर्मणम् । शून्यज्ञानस्य दोषमूलकत्वात् ततो बाधो न जायत इति चेत्–ब्रह्मज्ञानेऽपि दोषमूलकत्वग्रहणादितो बाधो न सिद्धयेदेव । वस्तुतो ब्रह्मप्रमायाश्चिदचिद्रूपविशेषण वैशिप्रधविषयकत्वस्यैवास्माभिरुपपादनात् प्रपञ्चस्य ततो बाधप्रसक्तिरेव नेत्यपि ध्येयम् । एवं पल्लवाज्ञानतत्कार्यान्यतरभिन्नत्वे सति सत्तादात्म्यमिति लक्षणान्तरमप्युपेक्ष्यम् – भावरूपाज्ञान -तत्पल्लावाङ्कुरतूलादावेव प्रमाणाभावात् । सत्पदेन ब्रह्मग्रहणे तद्भिन्ने प्रपञ्चे तत्तादात्म्याभावात् । प्रागेव तादात्म्यस्य विचार्य निरस्तत्वात् । सत्पदेन प्रपञ्चग्रहणे सत्त्वस्यैव पर्याप्ततया सत्तादात्म्यमित्युक्तेरयोगात् । बाध्यस्य कथं सत्त्वमित्याशङ्कायां पारमार्थिक सत्त्वाभावेऽपि व्यावहारिकमस्तीत्युक्त्या किमिदं व्यावहारिकत्वमिति प्रश्न इतराबाध्यत्वं सत्तादात्म्यमित्यादिकं हि न सत्त्वस्थापकं भवितुमर्हतीत्यल पिष्टपेषेण । संवादकान्तराभावसह कृतकारणदोषनिश्चयस्य तु न बाधाव्यभि चारित्वमितीदं प्रतिज्ञामात्रम् । दुष्टकारणजन्यत्वबोधे सति अर्थात् बाघ सिद्धेः मीमांसावर्तिकसिद्धत्वात् कारणदोषे सति बाध्यत्वमुत्सर्गः । अपवादस्तु संवादकान्तरम् । साधकान्तराभावे बाधकत्वं कारणदोषस्याव्यभिचारितमिति । स्वतः प्रमाणभूतवेदजनितब्रह्मप्रतिपत्तावपि विषयबाध ૬.

शङ्कायां मननेन तन्निरासः –ब्रह्म अबाधितम् अनारोपितत्वात् व्यतिरेकेण घटवदित्युक्तमपि न युक्तम्-बाधितत्वं शङ्कमानस्य तदारोपितत्वेपि शङ्कासत्वेन हेत्वसिद्धेः । सौगतपक्षमुपेक्ष्य वैदिकपक्षपरिग्रहे तु घटेपि अनारोपितत्वावाधितत्वसत्त्वेन व्यतिरेकव्याप्तिवनानपेक्षणात् । शून्यं तत्त्वमिति वाक्यस्याप्रमाण्यमावयोः संप्रतिपन्नमिति कथं ततो बाधशङ्केति चेत् — वेदप्रामाण्यस्य वस्तुतो भवन्मतेऽभावात् कथं ततो ब्रह्मसिद्धिः । अप्रमाणं चेत् साधकम्, शून्यवादोऽपि स्थापकः स्यादिति प्रतितर्कप्रयोगश्चास्माकं सुकर एव । अप्रामाणिकवद वभसमानत्वम्, अनुपपन्नत्वेऽप्युपपन्नवद् भासमानत्वमिति शतदूषणीनिर्वचने यथाश्रुतार्थमुपेक्ष्य पूर्वस्वनिरुक्त ब्रह्मप्रमातिरिक्ता बाध्यत्वादिनिर्वाचनपर्यवसानं तदूषणस्य दर्शितत्वादेवोपेक्ष्यम् । केवलं शुक्तिरजतादावनिर्वनीयव्यावहारिकत्वापत्तिपरिहाराय स प्रयासः । स तु तद्भिन्नत्वं विशेषणमित्यत्रैव पर्यवस्यति । तावता सता न स्थापिता भवेत् । किमनेन वादान्तरव्युहस्तेन विचारेण बहुदूरमानीतेन । असत्यात् सत्यसिद्धिरित्यस्य असत्यात् सत्योत्पतिरित्यर्थो भवत्प्राच्यवर्णितोऽपि भवता परित्यक्तः । असत्यात् सत्यज्ञप्तिभवतीत्यर्थेऽपि असत्यस्याज्ञायमानतया ज्ञाप कत्वं कुत्रापि नादर्शि । ज्ञायमानतया ज्ञापकत्वे च ज्ञानस्यैव ज्ञापकत्वमिति न विषयस्यासत्यस्य तज्ज्ञानकारणता । खण्डनकारश्च प्रागेव खण्डितः । असत्यविषयकज्ञानाधीनज्ञप्तिविषयस्य सत्यत्वमेवेति स्थापकाभावात् ब्रह्मणः सत्यत्वं न सिद्ध्यतीति च न्यरूपि । अतो नासत्यात् सत्यसिद्धिरिति । सत्यं सिद्धयत्यसत्यादिति गदितुमुदाहारि यद् बनेकैः मिथ्यासिद्धान्तनिष्ठैस्तदखिलम सदित्यप्रकम्प्यं न्यरूपि । तत्त्रा संभावनांशक्षप्रणचणतयोदाहृतेरा हताव व्यर्थस्थित्यै न हेतुर्न्यगदि तत इदं निष्फलं विस्तृतं यत् ॥ शुभमस्तु श्रीः