३० शास्त्रविरोध-भङ्ग-प्रसाधनम्

प्रत्यक्षयुक्तिसगुणश्रुतिसिद्धधर्म सत्त्वाविरोधिसर साखिलवाक्यमेयम् । व्युत्पादयन्त इह विश्रुतनीतिमार्गाः सन्तो सन्तु हृदि संमतसर्वमानाः ॥ “ सा प्रत्यक्षस्य ज्ञानान्तरापेक्षया वैशद्यातिशयवत्तया, उपजीव्यतया, चेयं प्रतितिः प्रत्यक्षपरा " इति न्यायभाष्योक्तदिशा परोक्षज्ञाने जातेऽपि प्रत्यक्षज्ञानप्रतिलम्भाय पुरुषप्रयत्नानौत्सर्गिकतया च प्राबल्य सद्भावेऽपि, प्रत्यक्ष सर्वे प्रबलन्, अनुमितिशाब्दबोधादि दुर्बलनिति न नियमः; ज्वालैक्यप्रत्यक्षद्विचन्द्रप्रत्यक्षादीनां दौर्बल्यदर्शनादिति संभाव्यमानान्यथासिद्धिकं दुर्बल, अनन्यथासिद्धं प्रबलमिति तावत् अद्वैतिभिरेव निष्कृष्टमस्ति । इयं प्रावल्यदौर्बल्यचिन्ता च द्वयोर्मिथो विरोधे सत्येव । अविरोधश्च मिथोऽत्यन्तभिन्नविषयकत्वस्य स्पष्टत्वाद्वा, उत्सर्गापवादादिविषये अपवादविषयव्यतिरिक्तविषयक नोत्सर्गशास्त्रस्य संकोचादिना विभिन्नविषयत्वविमर्शाद्वा भवति । तत्र द्वैतशास्त्रं प्रबलम्, भेदमाहिप्रत्यक्षादिकं दुर्बलमिति विरोधमङ्गीकृत्यैव बलाबलचिन्तने स्थिते तद्विरोत्रमविगणय्य, श्रुतिप्रत्यक्ष भिन्न विषयकत्वात न प्रत्यक्षेण श्रुतेर्बाधः विरुद्धविषयकत्वाभावात् " इत्यविरोधवचनं न संगच्छते । अत्र हि शास्त्रविरोधो भवदी नोक्तो भवता परिहियते । स्थापनीयस्तु भवता विरोधः, तत्परिहारप्रकारासामञ्जस्यश्च प्रदर्थम् । अतो विपरीतवर्णनमयुक्तम् । एवमविरोधमुक्त्वा पश्चात्, “असंभाव्यमानपुरुष दोषानाप्ताप्रणीत निश्चितप्रामाण्यकश्रुत्यपेक्षया तद्विपरीतं प्रत्यक्षादि दुर्बलमेव " इति बलाबलवर्णनं विरोधस्वीकारमूलकं व्याहतम् । 66 अविरोधवर्णनञ्च भवत्कृतम्, अस्माभिरविरोधस्यास्मन्मते प्रदर्शितस्वात् तद्वैपरीत्यादिदर्शयिषया भवन्मते तदविरोधः अस्मन्मते विरोधश्चेति कथमें 81 १४१ 1

प्रवृत्य । कथमविरोधः ? जीवत्वेश्वरत्वविशिष्टयोर्भेदः प्रत्यक्षस्य विषयः, भुतेस्तु जीवत्वेश्वरत्वो पलक्षितयोरभेद इति चेत्-पदार्थानां किञ्चिद्विशेषणविशिष्टतामात्रेण भेदो न प्रत्यक्षगम्यः । न हि कुण्डली देवदत्तः वासस्विदेवदत्ताद्वा अकुण्डलदेवदत्ताद्वाऽन्यो भवति । विशेषण भेदमात्रेण विशिष्टवस्तुनो भिन्नत्वस्वीकारे तत्तत्क्षणवृत्तित्वविशिष्टवस्तनो विभिन्नत्वापत्त्या सौगतसंमतः क्षणिकत्वपक्षः परिगृहीतः स्यात् । एकस्यैव काययूहे च स एवायमिति प्रत्यभिज्ञीमूलको व्यवहारः प्रामाणिकः । अत एव द्विजजन्मन्यपि आदिभरत इति व्यवहारः । अतो जीवेश्वरभेदबोधकं प्रमाणं प्रत्यक्षमन्यद्वा भवतु, तत् व्यक्तिभेदपर्यन्तमेवासति बाधके विषयीकरोतीति शास्त्रेग व्यक्तयैक्यप्रतिपादकत्वाभिमतेन तस्य विरोधः प्राप्त एव । शास्त्रावैयर्थ्याय विशेषणभेदमात्रे पर्यव सानं विधातुमितः प्रयतनीयम् । न तु प्राथमिकी प्रतिपत्तिरेव विशेषणमात्रभेदविषयिणी । किञ्च जीवत्वं दुःखाईत्वम् ईश्वरत्वश्च हेयानर्हत्वम् ; अवतारादिष्वपि दुःखाभिनयमा त्रमित्यस्य सर्वसंपतत्वात् । अर्हत्वानहेत्वे च न कादाचित्के इति व्यक्तौ तदभावदशैव दुर्वचा । अतो जीवत्वेश्वरत्वे व्यक्ती भिन्त एव । ईश्वरः सर्वदेवेश्वर इत्येव लोकप्रतिपत्तिः । पराऽस्य शक्तिविधव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे ‘ति स्येव त्वमनागन्तु क्रमविनाशि च प्रतिपन्नमिति ईश्वरत्वो पलक्षितत्वं व्यक्तौ कथ्यमानमपि बाधितम् । अपि च तत्त्वमसीतिवाक्यं तत्पदेन प्रक्रान्तं कारणवस्तु सर्वज्ञ सर्वशक्ति निर्दिश्य त्वम्पदेन व्युत्पाद्य तदधीनजन्मस्थितिलयं श्वेतकेतुञ्च निर्दिशति । तत्र प्रतीतधर्मसद्भावकाल एवैक्यमपि प्रतिपाद्यते ; न तु धर्माणामभावं प्रदश्य तदुपलक्षिततया व्यक्त्यैक्यं दयते । धर्माणां नियोविरुद्धतया सिंहो देवदत्त इत्यादाविव कथनेक्यं स्यादिति प्रत्यक्षादिविरोधमाकलय्य भवद्भिरुपलक्षि विषयतया वाक्यं नी ने । एवञ्च विशिष्टपरतया प्रतिपन्नस्य वाक्यस्यान्यथाकरणं विना भवद्भिर्वाक्यं न निरुह्यत इति प्रत्यक्षस्याप्यन्यधानयनं व्यक्तिभेदस्य प्रतीतस्य भङ्गविधानात्, वाक्यस्याप्यन्यथानयनम् विशिष्टप्रत्याय कस्योपलक्षित प्रत्यायकत्वाश्रयणादिति शास्त्र विरोध-भङ्ग-प्रसाधनम् ${ उभयभञ्जनमेव समापद्यते । अतो जीवानामीदृशसुखदुःखरूप संसारित्वमीश्वरस्य तादृशमीश्वरत्वमपि कदाचिदपैष्यतिः सोऽप्यस्मादृशः केवल एव भविष्यत्याद्युपदेशेन लोकक्षोभं प्रत्यक्षादिप्रतीतिक्षोभं वाक्यक्षोभञ्च क्रियमाणमपेक्ष्य वाक्यतात्पर्य मात्र परिशीलनं युक्तम् । तत्र पूर्वापरसंदर्भ एव तत्त्वमसीत्यैक्यस्य बुबोधयिषितस्य यादृशैक्यविषयकत्वं स्वयं दर्शयति तत्त्यागेनान्यादृशैक्यनिरूपणप्रयासः सर्व-भङ्गकरो न वोढव्य इति वयं निरूपयाम इत्यलम् । यत्तु जीवानां साम्यं जीवेश्वरयोः शरीरशरीरिभावश्च श्रुतिप्राबल्यत एव प्रतिपाद्यत इति–तन्त्र देहातिरिक्तस्य जीवस्यापि शास्त्रविवक्षित यत् साम्यम् तदभावस्य, तथा शरीरशरीरिभावाभावस्य च लोकतः प्रतीत्यभावादविरोधात् । नहिं जीवानां ज्ञानानन्दस्वरूपत्वं नित्यधर्मभूतज्ञानैकाकारत्वं सर्वान्तर्यामीश्वरशरीरत्वञ्च नास्तीति कश्चिदनुभवति ॥ देहात्मैक्यज्ञानं हि लोकानाम् । तत्र देहभेदस्य जीवे ज्ञापनमपि प्रत्यक्षविरुद्धमिति चेत्अत्रोक्तं शतदूषभ्याम्, देहभेदोऽपि जीवस्य प्रत्यक्षसिद्ध इति । तदपलापश्च भवता क्रियमाणोऽनुभवतः । आह च पराशरः, पिण्डः पृथक् यतः पुंसः शिरः पापादिलक्षणः । ततोऽहमिति कुनैतां संज्ञां राजन् करोम्यहम् " इत्यादि । मन शरीरमित्येव च सर्वा लोकः प्रत्येति, न तु अहं शरीरमिति । तत्र देहात्मैक्यमेव प्रतिपत्रमिति कथमुच्येत । मनुष्योऽहमिति प्रतीयत इति चेत् यतो मनुष्योऽहमिति प्रतीयते, मनुष्यशरीरमहमिति न प्रतीयते, यतश्च मनुष्यस्य शरीरमिति षष्ठी प्रयुज्यते, अतो मनुष्यशब्दस्य शरीरमात्रं नार्थ इति निरूप्यताम् । अतः प्रतीतिद्वैधा रिक्षुभितमनसामेकतर निर्धारण देहात्मभेदप्रतिपादकेन शास्त्रेण क्रियत इति वेदितव्यम् । अतो जीवभेदोऽपि प्रत्यक्षसिद्ध एव । यत्तु जीवेश्वर भेदनत्यक्षमनामान्यज्ञानास्कन्दितमतादृशश्रुत्यपेक्षया दुर्बलमिति तत्रोच्यते । देहात्मयान्तिमतां यदीदं जीवेश्वर भेदप्रत्यक्षम्,.. Ex

तर्हि देहेश्वरयोरैक्यासंभवात् अप्रामाण्यज्ञानानास्कन्दितमेव ( एवञ्चानाक न्दितमित्यशुद्धमुद्रणं रक्षितं भविष्यति । अन्यादृशस्य जीवस्येश्वरस्य च भेदस्तावत् असंभावव्यमानपुरुषदोषअनाप्ताप्रणीतत्वाभ्यां भवदुक्ताभ्यामेव निश्चितप्रामाण्यक भेदश्रुतिशत समधिगत इति तद्दौल; दुर्मणम् ।

" यत्तु वेदस्य परिणामिविधया अविद्यावत्त्वेपि अविद्यायां न प्रमाणभूतवेदसहकारित्वं दोषविधयेति न वैदिकम्य ज्ञनम्य दुष्टकारणजन्यत्वमिति तत्र ब्रूम एवं दोषनिरपेक्षभेदश्रुत्यवग मितस्य भेदस्य मिथ्यात्वं न सेत्स्यति । यदि भेदश्रुतिजन्यं ज्ञानं भ्रमः, तर्हि दोषजन्यत्वमवश्यं स्वीकर्तव्यम् । दोषस्य भ्रमकारणतायाः कॢप्तत्वात् । सा चेत् अविद्या, सात्राप्यस्तीति तस्याः कचित् दोषविधया कारणत्वम् क्वचिच्च नेति स्वेच्छया किञ्चिदुक्त्वा तत्त्वमसिजन्यज्ञानस्य निर्दोषत्व नियन्त्रणमभिमानमूलमेव ; विपरिवर्तस्यापि संभवात । दोषकारणकत्व विचारश्च वेदप्रामाण्यपरिग्रहविचारावसर एव व्यधायि । अस्तु वा दुष्टत्वम् तथापि व्यावहारिकप्रामाण्यं दुरपह्नवमिति चेत् — दोषजत्वप्रमाणत्वयोर्मिथोविरोधात् । ब्रह्मज्ञानवाध्यत्वज्ञापनार्थमेव व्यावहारिकपदप्रयोगः । प्रामाण्यमित्यस्य चाबाध्यार्थविषयकत्वमित्यर्थः । न च बाध्यत्वाबाध्यत्व गोर्द्वयोरेकत्र व्यवहारो युज्यते । यत्तु ब्रह्मणः सूक्ष्मचिदचिच्छरीरकत्वं न कुत्रापि प्रतिपाद्यत इति तन्न — “ योऽव्यक्तमन्तरे संचरन् योऽक्षरमन्तरे संचरन्, यो मृत्युमन्तरे सञ्चरन् “, " सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ’ “अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् " इति श्रुतिस्मृतिशतप्रतिपादितत्वात् । यत् पुनरुच्यते यत् पुनरुच्यते–अन्यथा अद्वैतशास्त्रप्रामाण्योच्छेदप्रसंगात् ; प्रकारान्तरेणाद्वैतवाक्यानां योजनाऽसंभवादिति । इदमेव त्ववत्र विचार्यम्अद्वैतश्रुतिप्रामाण्यरक्षणाय प्रत्यक्षानुमान भेदश्रुति निकरभञ्जनं नूनमङ्गलिसंरक्षणाय शिरश्छेदनमेव । ‘भूयसां स्यात् सभर्मत्वम्’ इतिन्यायाच्च कतिपया द्वैतवाक्याप्रामाण्यकल्पनमेव ज्यायः, यद्यर्थान्तरं सर्वथा नेति निरूपयितुं पार्थते । शास्त्र विरोधभश-प्रसाधनम् ६४५ यदा च भेदश्रुतिरक्षणे सत्येवाभेदश्रुत्याः परमार्थो गृहीतो भवतीति साधु विमृश्यते, तदा सुतरामिदमद्वैतमुपेक्ष्यम् । स च परमार्थो व्युत्पादयिष्यते । यस्था देहात्मभेद प्रत्यक्ष नास्तीति पुनः पुनर्वचनं प्रागेव परीक्षितत्वादुपेक्ष्यम् । प्रत्यक्षस्य परोक्षेण बाधो नास्तीत्यपि न ; अनन्यथासिद्धत्वे असंभाव्यमानदोषत्वे च निश्चिते अन्यादृशप्रत्यक्षस्येव परोक्षेण बाधस्यानुभविकत्वात् । चन्द्रैक्यनिश्चयवतोऽपि द्वौ चन्द्रौ इति प्रत्यक्ष तु दोषरूपकारणसद्भावायत्तम् । तथाप्यप्रामाण्यज्ञानं तत्र संपन्नमेव । ज्यालैक्यप्रत्यक्ष तु ज्वाला भेदमनुमितवतो न भवत्येव 1 अचिरनिर्वापितारोपितज्वाला भेद प्रत्यक्ष स्ति, तस्य तत्र ज्वालैक्यप्रत्यक्ष न भवत्येव । तत्रापि निर्वाणादर्शिनः सैवेयमिति दृढप्रत्यभिज्ञानमुदेत्येवेति शतदूषणयुक्तमनुसंधाय ‘सद्भावोऽपि यथावद्भावनीयः । कश्चित् दीपनिर्वाणादर्शी सेयं दीपज्वालेति प्रत्यभिजानाति । अथाप्तो निर्वाणदर्शी प्रत्याह -प्रत्यक्षदृष्टमेतन्निर्वाणं मया; मिति । अथ श्रोता तत्र भेदं निश्चिन्वानः यथाऽत्र ज्वालैक्यप्रत्यभिज्ञानं जातम्, तथैवा निर्वापितप्रदीपज्वाला विषयेऽपि युक्तमिति युज्यते सर्वत्र ज्वाला भेद इत्यध्यवस्यतीति । तथा च सर्वत्रानुमानत एव ज्यालैक्य प्रत्यक्षोपमर्दः, न प्रत्यक्षेणेति । शिष्टमुपरिष्टात् । । तस्मान्नैक्य आदित्यो यूप इति वाक्यं किमिति शास्त्रप्राबल्यवादिना प्राशस्त्यपरं नीयते । अद्वैतशास्त्रमपि तथा जीवप्रशंसार्थं प्रवृत्तमिति नेतुमुचितमर्थान्तरमाहिणाऽपि । यत्तु – सामान्यशास्य विशेषशास्त्रेण संकोचो युक्तः उभयोरपि निश्चितप्रामाण्यकत्वात् विधिरूपत्वाच्च ; न तु प्रत्यक्षागमजोरिति तन्नयूपादित्यैक्यशास्त्रेण भेदग्राहिप्रत्यक्ष-भङ्गप्रसंगात् । प्रत्यक्ष वा न कथं प्रामाण्यनिश्चयः; प्रामाण्यं स्वप्राथमिति भवतैवानुपदमुक्तत्वात् । न च प्रत्यक्षान्तरेण तद्वाधो लोके दृश्यते । अथ निश्चितमपि प्रामाण्यमद्वैतश्रुतिश्रवणेना पोचत इति चेत् — अद्वैतश्रुतिप्रामाण्यमेव प्रत्यक्षेणापोह्यताम् । अपौरुषेयी श्रुतिर्नाप्रमाण / $X$ परमार्थ भूषणे भतितुमर्हतीति चेत् सत्यम् श्रुतिस्तावत् न स्वरूपतः प्रत्यक्षप्रामाण्यप्रति क्षेपिका, शब्दस्वरूपस्याविरुद्धत्वात् । अतोऽर्थद्वारैव । तत्राद्वैतरूपार्थपरत्वे प्रत्यक्षविरोधः प्रथमत एव गृहीतः अर्थान्तरपरतया प्रामाण्यं श्रुतेराकलयति । न हि प्रत्यक्षस्येव श्रुतेः सर्वत्र विषयनियमोऽस्ति । तात्पर्याद्यनुरोधेन श्रुतेः नानार्थदर्शनात् । अन्यथा ’ यजेत स्वर्गकाम ’ इति परस्त्रीकामः प्रायश्चित्तं कुर्यादितिवत् स्वर्गकामनायामापतितायां तज्जनितप्रत्यवायनिवृत्तये यागः कर्तव्य इत्यर्थेऽपि प्रमाण स्यात् । अतो योग्यताप्रकरणाद्यनुगुणमर्थोऽवधारणीयो भवति । अन्यथा ‘पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् ’ इति विपर्ययःः स्यात् । अत एव हि मीमांसावतारः । अपरधा योयोऽर्थः प्रतीतः, स सर्वः प्रमाणिक इति पूर्वपक्षत्वेन न कोऽप्यर्थः परिहरणी न भवेत् । तत्राबाधेनोपपत्तौ बाधायोगादविरुद्धार्थपरत्वं ग्राह्यमिति सार्वभौमो न्यायः । श्रुतिलिङ्गयोः श्रुतिस्मृत्योर्वा मध्ये श्रुतेः सामान्यविषयत्वे, लिङ्गस्य स्मृतेर्वा विशेषविषयत्वे दुर्बलप्रमाणाविरोधेन लिङ्गस्मृत्यवगमितमर्थमप्यादृत्य श्रुतिरेव विशेषे संकोच्यते इत्य् अपि भीमांसकैर्निरणाथि । समानाधिकरणप्रयोगेषु चैक्यं बहुप्रकारं लोके दृष्टम् । तत्र यस्य प्रकारस्य परिग्रहे प्रमाणान्तराविरोधः स्यात् ; अविरुद्धेष्वप्यनेकेषु प्रकारेषु यतमस्य ग्रहणे मुख्यत्वातिशयो निराबाधः, ततम एवार्थो ग्राह्य इति च स्थितिरिति तत्त्वमस्यादीनामस्मत्सिद्धान्तसिद्ध एवार्थः समुचित इति स्थास्यति । तथा भवद्वर्ण्यमानस्य प्रकारस्यात्यन्तजघन्यता च । तथा च किमिति प्रत्यक्षादिबाधः । यत् खलु पदाहवनीयोदाहरणम्, तत्रापि विमृश्यम् -’ यदाहवनीये जुहोती ‘ति, ‘पदे जुहोती ‘ति च सामान्यतो हुधातुश्रवणे सर्वस्यापि पदमा वनीयश्वाधार इति अविशेषेण प्रतीतौ पदहोमव्यतिरिक्तहोमविषये आहवनीयोऽधिकरणमिति कथं निर्णीयत इति । आहवनीयवाक्यं पदवाक्यञ्च होमस्वरूपे आनर्थक्यादपूर्व साधनत्वेनैव होममुद्दिशतीत्युभयत्रादृष्टापेक्षा समाना । तत्राव्यभिचरितकतुसंबन्धित्वात् होमस्य प्रकरणादिनिरपेक्षमेवापूर्व पर्यवसान शास्त्रविरोधभज-प्रसाधनम् ૬૪. मित्येतदप्युभयत्र तुल्यम् । तत्राहवनीयवाक्यस्यानारभ्याधीतत्वात् सर्वो होमस्तत्र गृझते । पदवाक्यस्याश्वमेधप्रकरण नियन्त्रिततया होमविशेषपरत्वमिति वक्तव्यम् । एवञ्च दुर्बलमपि प्रकरणं प्रबलामपि श्रुतिं संकोचयति, स्वविषयमात्रे पवस्थापयतीति ज्ञायते । एवं विशेषविषयत्वे पदवाक्यस्य स्थिते आहवनीयवाक्यं सामान्य तद्व्यतिरिक्तविषये संकोच्यते । एवमेव, ‘नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते ’ इत्यनन्तगुणवत्त्वे अवगम्यमाने, " त्रिभिर्गुणमपैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् " इति वाक्येन गुणातीतत्वे च प्रतीयमाने, सत्त्वरजस्तमोरूपगुणातीत्वप्रतीत्यविरोधेन तद्यतिरिक्तानन्तगुणवत्त्वपरं पूर्ववाक्यमिति निर्णयो भवति । एवं गुण विशेष निषेधपरं वाक्यमनुरुध्य च निर्गुणमित्यादिवाक्यमपि गुणविशेषनिषेधपरं ग्राह्यम् । यत्तु विधिरूपत्व एव सामान्यविशेषनय इति –तन्न — निषेधेऽपि तस्य मीमांसकेष्टत्वात् । अत एव ’ वार्ताकं न भक्षयेत्’ इति सामान्यवाक्यम्, “श्वेतवार्ताक न भक्षयेत्” इति वाक्यानुरोधाद्विशेषविषयकमित्यध्वरमीमांस । कुतूहलवृत्तिः / पलाशपत्रे भोजननिषेधो वल्ली लाशय इति च धर्मशास्त्रनिबन्धनकृत इत्य प्रकृते । यदि प्रत्यक्षं संभाव्यमानःशेषत्वात् संदिग्धप्रामाण्यकम् तर्हि शास्त्रमपि ‘नानार्थपरक अर्थविशेषे संदिग्धप्रमाण्यकमेव । ‘नेह नानादीति वाक्यं न मेदसामान्यनिषेधारं भावेतुमर्हति । इहेति सप्तम्यर्थे प्रकृत्यर्थस्य भेदसंबन्धेनान्वयात्, भेदस्य नानापदार्थस्य नञर्थस्याभावस्य च प्रयोगानु गिभावेन भेदस्य, तादशभेदाभावस्याधिकरणे भेदसंबन्धस्य च ग्राहकत्वाच्च तन्निषेधायोगात् । यथा, न हिंस्यादिति वाक्ामनीषोमीयादिहिंसाव्यतिरिक्तविषयकम्, तथा मानान्तरावगत भेदव्यतिरिक्तभेदविषयकमिति शतदृषण्यामुक्तत्वाश्च । किश्च शुद्धब्रह्मजीवेश्वर तत्सा क्षिणामन्योन्यभेदस्य भवदिष्टतया भेदसामान्याभावः कथम् ? पारमार्थिक भेदस्य निषेध इत्य् अपि न ; तस्याप्रसिद्धत्वात् । प्रसक्तस्यैव प्रतिषेधः कर्तव्यः, नाप्रसिद्धस्य । तथा भेदव्यावहारिकसत्तायाः सद्भावात् ६४८

सामान्यतः सत्त्वाभावो दुर्वचः । विशेषनिषेधस्तु न भवत्संमतः, निषेधवाक्ये संकोचायोगस्य कथितत्वात् । अपि च नेहनानेत्यस्य इह भेदो नास्तीत्यर्थे अभेद एवास्तीत्युक्त भवति । तेन सर्ववस्त्वभेद एव ब्रह्मणि बोधितः स्यात्, न सर्ववस्त्वभावः सर्वस्य वस्तुनो ब्रह्मणश्च वास्तवत्यं तत्र भेदग्रहस्य परं भ्रमत्वञ्च ततः सेत्स्यतीति न प्रपञ्चापलापः । एवं तर्हि आस्करमत प्रवेश इति ब्रह्मणो जडत्वसविकारत्वाद्यपत्तिरिति चेत् श्रुतिप्रतिपन्न ग्राह्यम्, न तु परोक्तमिति हेतुना तदुपेक्ष्यम् । परं परस्तात् । 1 शास्त्रप्राप्तस्य यतु ब्रह्मणः प्रपञ्चस्य भेद इह प्रतिषिध्यमानः प्रत्यक्षसिद्धश्चेत् तर्हि शास्त्रप्राबल्य स्वीकृतमेव भवति । शास्त्र सिद्धश्चेत्–तदा शास्त्र निषेधे त्रिकल्पापत्तौ वस्तुनि विकल्पानादन्यतराप्रमाण्यमवर्जनीयमिति निषेधशास्त्र परत्वात् प्रमाणमिति । तत्रोच्यने–शब्दकसमधिगम्यस्य ब्रह्मणः प्रपञ्चस्व च भेोपि न शस्त्रनिपेक्षत्यक्षविद्धः । न च तावताऽन्यतराप्रामाण्यं युक्तम् । विकल्पस्थले हि कादात्किनामामुभरप्यापततीति तुल्यबलत्वमेव स्यात् । प्रकृते वस्तुस्तियोग इतुि सत्यम् । अत एव भेदाभेौ द्वावपि स्वीकार्यानिति भास्करादयः, तनोरोध इति चेत्–यादृशयोर्भेदाभेद गेरविरोध, तोरेव स्वीकारोऽस्तु । अबाघेोपपत्तौ बाधागात् अन्यतरशास्त्र प्रामाण्यस्य चायुक्तत्वात् अनिरुद्ध विषयतयैवोभयोरपि प्रामाण्यादिति वयम् । यत्तु प्रत्यक्षाच्छास्त्रं बलीयो न वेत्येव प्रकृते विचार्यत्वात् शास्त्रयोर्मध्ये बलाबलविचारो न प्रकृत इति-— सत्यं स विचारः पश्चादेव करिष्यते । प्रत्यक्षापेक्षया शास्त्रबलीयस्त्वसिद्धावपि न भवदभिमत सिद्धिरिति ज्ञापनार्थ तु तदप्यत्र स्मार्यत इति न दोषः । यदि च प्रत्यक्षसिद्धपदार्थनिषेधमात्रं नेहनानेत्यस्यार्थः स्यात्, तर्हि इहेति व्यर्थम् । न नानास्ति, द्वैतं नास्तीत्येतावत एव वक्तव्यत्वात् । इहेति क्वचिदधिकरणे नानानिषेधस्तु अधिकरणान्तरे वा शास्त्रविरोध-भङ्ग प्रसाधनम् ६४९ स्वातन्त्र्येण वा नानासत्वमेव दर्शयेत् । न च ब्रह्मनिष्ठत्वेन जगत् प्रत्यक्षतः प्रतीतमस्ति । अतोऽपि प्रसत्त्यभावात् तन्निषेधः कर्तुं न शक्यते ।

यत्तु सर्वे खल्विदं ब्रह्मेति तादात्म्यमुक्तम् ; नेहनानेति भेदनिषेधः । तादात्म्यस्य भेद घटितत्वात् भेदः स्वीकाः । स च कार्योपाधिकत्वादोपाधिकः परिणामपरिणामिनेोरिति वक्त श्री माप्यमते । न च तन्मते ब्रह्मजगतोः परिणामिपरिणामभावोऽस्तीति तदसिद्धिरिति तन्न -तादात्म्यं धर्मिं भेदघटितमित्यनङ्गीकारात् । प्रवृत्तिनिनित्तभेदस्य धर्म्यभेदस्य चानिरुद्धत्वात् । अस्मन्मते जगद्झोः शरीरश परिभावात् देहात्मनोवि भेदस्य मुख्यस्य सत्त्वेन औपाधिकत्वप्रसक्त्यभावेन परिणामिपरिणामभावाभावप्रयुक्तदोषस्यानवकाशात् । विशिष्टवेषेण परिणामभावश्च वक्ष्यते । न चात्रोपात्तयोः श्रत्योर्विरोधोऽस्ति । सर्वं खल्विदं ब्रह्मेति जगत्तादात्म्यं ब्रह्मण्युक्तम् । तदेव । ते नेहनानेति श्रुत्वा तयोर्भेदनिषेधेन । अद्वैतमते तु नेहनानेति प्रपश्चनिषेधकारात् तदा प्रपञ्चतादात्म्यायोगात् नेहेतिवाक्ये इहे पदं व्यर्थम्, सविता बाधितार्यकश्चेति दोनः । यथा आपणे रजतसद्भावात् स्थलविशेषेपरं रजतनिपेधाय नेह रजतम् नेदं रजतमिति प्रयोगः, न तथा नेहनानेत्यत्र नुशब्दस्य प्रवेजनं भवन्मते सुवचम् ; प्रपञ्चस्प केचिदप्यनङ्गीकारात् । सर्वं खल्विधं वाक्येन च तादात्म्यमुच्यते । तादात्म्यं भेदाभेदोभयघटितमिति भवन्मतम् । तत्र विवर्तोपादानवादे शुक्तिरजतयोरिव ब्रह्मप्रपञ्च दस्तावदास्ताम्, अभेदः कथं मिथ्यासत्योः । भेदस्ता वदौपचारिकोऽपि युज्यते, न त्वभेदः । अभेदप्रधानञ्च समानाधिकरणवाक्यमभेदमौपचारिकमभिप्रतीत्यसमञ्जसमेतत् । बाधायां सामनाधिकरण्यं सुवचमिति वादश्च माता वन्ध्येतिवत् व्याहत एव । सामानाधिकरण्यं नाम ऐक्वप्रतिपादकत्वम् । बाधायामिति च मिथो भेदादेकतरापलाप इति कथमुअयमेकत्र । चोरः स्थाणुरितिवत् सबै खल्विदं ब्रह्मेति वाक्यस्यार्थनिर्वाह इति वदता चोरशब्दार्थः कष्टः । न चोर इतीति चेत् किमिदं मुख्यं सामानाधिकरण्यम् ? 82६ ‘५० परमाथभूषणे घट इत्यस्याघट इत्यर्थः अतश्च घटः पट इति सूपपन्नमिति को नु ब्रूयात् । शास्त्रेण स स्वीकृत्य तदैवये ब्रह्मणि बोध्यमाने भवद्भिः सर्वमिदं नास्तीति सर्वं खल्वितिवाक्यार्थवर्णनम्, अयमेव मुख्योऽर्थ इति लेखनञ्च परमं धाष्टयै प्रदर्शयति । शतदूषण्यां ब्रह्मणि जगतः रजतस्येव शुक्तौ अध्यम्तत्वकथनमयुक्तमिति भवलेखनमपि प्रामादिकम् । जीवानां स्वरूपस्वभावप्रतिपादकवाक्येषु देहात्मभ्रमप्रतिक्षेपाम देहस्य तस्मिन्नध्यस्तत्वमुच्यते इत्येतावत एव शतदूषण्यामुक्तत्वात् । यथा, पुमान्न देवो न नशे न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्म योनयः " " नायं देवो न मर्त्यो वा न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा”, ज्ञानस्वरूपमत्यन्तनिर्मिलं परमार्थतः । अर्थस्वरूपं पश्यन्तो आम्यन्ते मोहसंप्लवे " इत्यादौ । मणि जगदध्यासस्तु न लौकिकः; न वा वैदिकः । कचित्तु दृष्टिविधिः स्यात् । स चाहार्यारोपेणेत्यन्यदेतत् । भवन्मते देहात्मभ्रमः प्रसिद्धोऽपि दुरुपपादः । स्थूलोऽहं जानामीच्छामि करोमीत्या देस्तादृशाहमर्थरूपाहङ्कारभ्रमो देह इत्येतावदापादकत्वात् आत्मभ्रमस्यानपेक्षितत्वादित्युक्तं पुरस्तादेव । “अत्राय पुरुषः स्वयज्ज्योतिर्भवति इति स्वयज्ज्योतिस्वरूपत्वान्नानमपि जीवब्रह्मैक्योपपादकमित्येतत् मूपिकविले मतङ्गजान्वेषणमेव । वाक्यमिदम् आदित्यचन्द्रमः प्रभृतिकृतप्रकाशाधीनव्यापारविरहिणः पुंसः स्वप्नानुभूयमानपदार्थ विषये स्वप्नावस्थावस्थितस्य बाह्योपकरणनिरपेक्षत्ववत् तदनुभवे बाह्यादिनिरपेक्षत्वमेव दर्शयति । स्वयज्ज्योतिर्भवति –स्वाधीन इतरनिरपेक्षो यः प्रकाशस्तद्वान् भवतीति तदर्थः ; न तु जीवः स्वयं परमात्मा भवतीति तदर्थ इति हि प्रकरणानुसारेण सर्वस्वीकृतम् । ’ क्षेत्रज्ञञ्चापि मां विद्धि सर्वक्षेत्रेषु भारत ’ इति वाक्यं क्षेत्रक्षेत्रज्ञाध्यायगतं भगवतः ज्ञेत्ररूपत्वं क्षेत्रज्ञरूपत्वश्च बोधयत् क्षेत्रतादात्म्यं यादृशम्, तादृशमेव क्षेत्रज्ञतादात्म्यमपि दर्शयितुमईतीति न जीवब्रह्मैक्यप्रसक्तिः । न हि जडब्रह्मणो रक्थं कथमपि संभाव्यते । शास्त्र विरोध-भङ्ग-प्रसाधनम् ६५१ ’ क्षेत्रज्ञस्तु प्रतिक्षेत्रं भिन्नः । मां तु क्षेत्रज्ञरूपं सर्वक्षेत्रेषु विद्धि, नैकैकमात्रे इति क्षेत्रज्ञस्य स्वस्य च भेदमप्यनेन वाक्येन भगवान् व्यनत्तयेव । " सर्वभूतस्थमात्मानं भजत्येकत्वमा स्थितः” इति वाक्येपि भूतपदस्य देहिपर्यायतया जीवस्थत्वं परमात्मन उक्तमिति तदनुरोधेन एकपदार्थो वर्णनीयः । सर्वमिदं प्रासङ्गिकमिति नात्र विशेषतो विचार्यते । उपरि शरीरस्य जीवनियम्यत्वं न भवतीत्याद्यनेकबाधितार्थवाक्यप्रबन्धश्च परमाभिनिवेशपरिवाहः । न हि जीवात्मनः परमात्मनियम्यत्वेऽन्य नियन्तृत्वं न भवति । न खलु राजनियम्यस्य भृत्यस्य स्वपुत्रकस्वादिनिनन्तत्वं न दृष्टम् । न च मुक्तपरमात्मनोः परमसम्यं स्वरूपैव विना न भवतीति वक्तुं शक्यम् । साम्ये हि पारम्यं न साम्यभञ्जकं स्यात् ऐक साम्प्रमञ्जकमिति कथमुभयोरैक्यम् । एवं परनसाम्यं तावत् ऐक्यमेवेति वदतैव, साम्यप्रतिपादनं गौणमुकविषयमिति कथं व्याहृतमुच्यते । अद्वैत्यभिमना मुक्तिर्गगनकुसुमायत इति वाक्यं शापमात्रमित्यपि न साधीयः । न हि सा गगनकुसुमा यता मित्युच्यते । लटा निर्देशे स कथं शापः । निर्विशेषत्रह्मपरिशेषनिषेधस्यास्माभिः क्रियमाशस्य किं शिवद्रोहे तात्पर्यमिति विकल्पनं तु स्वस्याद्वैताभिमानत्यागितां शैवतां शैवस बहुमानवलोकनसापेक्षताञ्चाविष्करोति । कथमद्वैतनिषेधः शिवद्रोहाय स्यात् ? शैवैरप्यद्भुतनिषेधात् । अत एव हि शिवार्कमणिदीपिकारम्भे दीक्षितोक्तिः, “ यद्यप्यद्वैत एव श्रुतिशिखरगिरामागमानाश्च निष्ठा " इत्यद्वैतस्य शैवभाष्या संमतत्वमावेदयति । अथ, “प्रपञ्चोपशमं शान्तं शिवमद्वैतम् " इति माण्डूक्योपनिषदि अद्वैते शिवपदप्रयोगात् ‘शिवद्रोहे’ इति प्रयुक्तमिति चेत् तत् किं भवत्संमताद्वैतद्रोहे तात्पर्य विशिष्टाद्वैतिनामस्ति न वेति विवादस्यावसरोऽस्ति । वस्तुतो माण्डूक्यं न भवदीयाद्वैतपरम् । शिवमद्वैतमिति हि द्वितीयान्तम् उपरि च, " प्रपञ्चोपशमः शिवोऽद्वैतः " इति पुलिङ्गाद्वैतपदनिर्देशात् तदेकार्थम् । तत्र परवामुदेव एव, " शाश्वतं " ६५२

शिवमच्युतम् " इति श्रुत्यन्तरवर्णितः शाश्वतशिव उच्यते इत्युपनिषद्धाप्य परिष्कारेऽस्मदीये द्रष्टव्यम् । 66 त्रय आवसथाः त्रयः स्वप्नाः इति वाक्ये जागरस्य स्वप्नत्वकथनमात्रेण मिथ्यात्वं दुर्धचविति तदूपणीसमाधानाय संध्याधिकरणप्रपञ्चनमस्थाने । प्रथमत एव संध्याधिकरणार्थस्य भवत्संमतस्य सर्वथैवानुपपन्नत्वं प्रसतिमिति किं पिष्टपेषेण । यदि भवद्भिः त्रयः स्वप्ना इति वाक्य इव, ‘संध्ये सृष्टिराह हि’ इति सूत्रे सध्यपदमपि जागरादिसर्वप्रपञ्चपरमभिप्रेत्य सर्वसिथ्यात्वसाधकतयाऽधिकरणे वर्णेत, तदा सत्यवि पौनरुत्तये किञ्चिदिव सामञ्जस्यं स्यात् । स्वप्नमात्रविषयकत्ववर्णनात्तु व्य वाधिकरणस्य; स्वाप्नमिथ्यात्वस्य लोकप्रमिद्धत्वात् । सृजत इत्येवं सृष्टयाः श्रावणात् संशय इति तद्विचार इति चेत् जागरविषयक सृष्टिप्रलयमपञ्चकवाक्यसमुदायात्मत्वादुपनिषदां तदनुरोधेन जागरे संभवन् सत्यत्वे महान् संदेहः कथं केनचिदधिकरणेन नापनुदितः । प्रत्युत द्वितीयतृतीयादिपादतः सृष्टिं विस्पष्टं वर्णयन् बादरायणो जागरस्य सत्यत्वमेव स्थापयतीति वक्तव्यम् । एवं कथनेऽपि यदि तत्र मिथ्यात्वं निर्धारयितुं कश्चित् प्रगल्भते, तस्य स्वानसृष्टिवाक्यं कियन्मात्रमिति वृथैव संध्याधिकरणम् । भवता च स्वाप्नपदार्थाः पल्लवाज्ञानकार्याः कालान्तराननुवर्तिनः जागरे बाध्यमानाः, जागरपदार्थाश्च मूलाविद्याकार्याः जागरात् जागरान्तरानुवर्तिनः अवाध्याश्चेति चैपम्यं प्रदर्शयता, त्रयः खमाः इति वाक्यं साक्षात् खमत्वबोधनाक्षमम् कथमपि संभवत् स्वमसादृश्यमेव किञ्चित् विवक्षीत्येवास्थिीयत इति स्थिते मिथ्यात्वाकारेणैव साम्यं विवक्षितमिति कथं निर्णीयते ; मिथ्यात्वस्य लोकप्रसिद्धत्वाभावात् । अतः स्वमवज्जागरस्यापि फल्गुत्वम् अनुभवितुरस्वतन्त्रत्वमित्यादिकमेव लोकदृष्टं साम्यं युक्तं ग्रहीतुम् । स्वस्येश्वरत्वे आपाद्यमानानि दूषणानि तु ग्रन्थपूरणार्थमारोपितानीति वाचवितारः स्वयमेव व्यक्तं ग्रहीष्यन्ति । भवन्मतेऽपि सूचकसूत्रं सेध्ये सृष्टेरीश्वराधीनत्वमपि स्वीकृतमेवेति प्रागेवोक्त) । शास्त्रविरोधभज-प्रसाधनम् स्वप्नस्य वास्तवत्वे, " वैधर्म्याच्च न स्वप्नादिवत् " इति स्वप्नजागरवैधम्र्म्यं कथं सूत्रकृतोच्यते इति पौनःपुन्येन पृच्छयते । कथं वा सूत्रकारः, त्रय आवसथाः त्रयः स्वप्ना इति स्वप्नसाधर्म्ये एवं जागरे श्रयमाणे, वैधर्म्य वर्णयतीत्यपि भवता चिन्त्यताम् । जागरः सत्यो मिथ्या वा भवतु । वौद्धेन स्वप्नदृष्टान्तेन युक्तया प्रपञ्चमिथ्यात्वं साधतुं न शक्यमित्येतावदेवात्र सूत्रनिगूढमिति चेत् — तुल्यमेतत् । शास्त्रतः स्वाप्नसत्यत्वं कामं सिद्धयतु । अगृहीतशास्त्रेण स्वममिथ्यात्ववादिनाऽपि न तद्दृष्टान्तेन प्रपश्चाभावोऽनुमातुं शक्य इत्यानिमायत । वस्तुतः स्वप्नादिवदिति आदिपदं प्रयुञ्जानः साध्यवैकल्यात् स्वप्नो न दृष्टान्तः, अन्यदेवान्वेष्टव्यमिति व्यनक्ति । इदमेव दर्शवितुमनन्तरसूत्रम्, “न न भावोऽनुपलब्धेः " इति । तेन हि सूत्रेण निर्विषयस्य प्रत्ययस्यानुपलम्भात् प्रत्ययं स्वीकृत्य विषयापलापो न शक्य इति वदन् स्वप्नेऽपि विषयसत्यत्वमाह । अन्यथा हि तत् सूत्रमनावश्यकमेव । निर्विषयानुभू-तिवादिभवत्पक्ष निरासोऽपि तत्र । Ap अपि च त्रयः आवसथाः त्रयः स्वप्मा इति वाक्यं जागरस्वमसुषुप्तिरूपावस्थात्रये स्वप्नत्वं विदधत् किमभिप्रतीति विचार्थम् । मिथ्यात्वमिति चेत् — कोऽयं स्वप्नः ? रथस्थयोगरथपथादिरिति चेन्न तस्य स्वानत्वेऽपि स्वप्रत्वाभावात् । तद्विषयकानुभव एव स्वप्न इति चेत् — स न मिध्या । तद्विषयस्य जागरे बाध्यत्वेऽपि अनुभवस्य बाधाभावात् । अतो न मिथ्यात्वं स्वमसादृशाम् । मिथ्याविषयक स्वप्नसादृश्यमस्त्विति चेत् — सुषुप्तौ कथमेतत् । तत्र स्वरूपप्रकाशमात्र सद्भावात् । तत्र वृत्तिविशेषसद्भावे अद्वैतिमतेऽपि विवादसत्त्वात् । स्वरूपप्रकाशे च स्वरूपात्मक विषय मिथ्यात्वस्य तार्किकादिभिर्ज्ञानाभाव एव सुषुप्तिरिति, दुत्वात् । b अचेतयन्नेव सुषुप्त इत्युच्यत’ इति लोकानुभवप्रदर्शनपूर्व निर्धारितत्वेन तत्र मिथ्याविषयकज्ञानसद्भावस्य संमत्यभावेन तादृशमाजात्यस्य वक्तुमशक्यत्वाश्च । अतोऽन्यदेव साजात्यं वक्तव्यम् । तत्र जागरकालस्य सुषुप्तिकालस्य च यथा ६५‍

दध्यम्, तथा स्वप्नकालस्य नेति अवस्थात्रयात्मनि कर्मफले स्वप्नस्य यथा भङ्गुरत्वम्, तथैव जागरमुष्वापत्रोरपि । अतः सुप्वापो दुःखरहितोऽपि न पुरुषार्थतया भावनीयः कर्मेश्वरपरतन्त्रेण निदुःखं सर्वदा स्थातुं न शक्यं प्रलयरूपमहासुभ्यामपि । तस्मात् एवं स्वप्नवदत्यन्त-भङ्गुराः इमा अवस्था विहाय मुक्तत्वं संपाद्यमिति त्रय आवसथा इति वाक्यस्यार्थ इति । भवता तु कारणात्मतया स्थितिः तिसृणामवस्थानां स्वप्नसाम्यमित्युच्यते । स्वप्ने कारणामतः नैवावस्थानं यदि लोकप्रसिद्धं स्यात् तदैतत् युज्येत । तत्तु न; प्रत्युत सुषुप्तावेव कारणात्मनाऽहमर्थादेः सत्त्वात्, त्रयः स्वमा इति नाश्रोभ्यत, किंतु त्रयः सुप्वापा इति । कारणात्मताया अपि वस्तुतो मिथ्यात्वात् कारणरूपेण स्थितिरित्यर्थवर्णनमप्यसंभवि । तस्मादुक्त एव यथावस्थितोऽर्थः । अद्वैतवाक्यपक्षपतिनाऽप्यद्वैतवाक्यमपि अयथावस्थितार्थ प्रकल्प्य तद्वाक्यमपि विनाश्य तन्मुखेन संपूर्णमेव शास्त्रं विनाशयता, सर्व वाक्यं सम्यगुज्जीवयतोऽस्मान् प्रति यदूषणम् वाक्यानां स्वार्थात्प्रच्यावनेन मृतप्रायतापादनमेव क्रियत” इत्यादि उच्चावचम्, यच्चोपसंहररणम्, ‘ब्रह्मैव सत्यम् जगत्तु मिथ्येति वेदान्तडिण्डिम एव प्रमाणमूर्धन्य इत्यादि तत् सर्व " डिण्डिमकविगण्डडिण्डिमो जयति " इति डिण्डिमकृतामाचार्यचरणारविन्दशरणागतिमाकर्थ्यासूया विलसितमिति । , किञ्च प्रत्यक्षस्य भेदग्राहिणस्तनिषेधकेन शास्त्रज्ञानेन बाधितत्वादप्रामाण्ये एकमेवाद्वितीयमिति शास्त्रज्ञानस्य शून्यमेव तत्त्वमिति बुद्धोक्तनिषेधवाक्यजनितज्ञानेन बाधादप्रामात्रं स्यात् । दोषमूलकत्वं तु सर्वत्राविशिष्टम् । यत्तित्वहोच्यते-अविद्या रूपदोषाधीनत्वं सर्वप्रपञ्चगतमिति प्रत्यक्षादिप्रमाणे वेद बौद्धवावयादौ च सर्वत्र यद्यप्यविशिष्टम् — अथापि वाक्यस्यायथावस्थितार्थप्रतीतिजनकत्वे वक्तगतो भ्रमविप्रलिप्साप्रमादादिदषो मूलम् । तत्र बुद्धवाक्यं विप्रलिप्सया प्रवर्तितमिति सर्ववैदिक संप्रतिपन्नम् । अतः शून्यं तत्त्वमिति ज्ञानमप्रमा । वेदवाक्यं पुनरपौरुषेयत्वादनाप्ता प्राणीतमिति तादशदोष शास्त्रविरोध-भङ्ग-प्रसाधनम् ६५५ वैदेशिकम् । अतो न निर्विशेषैकवस्तुज्ञानमप्रमेति वैलक्षण्यमिति—तन्न— य पौरुषेयस्य वेदस्याप्रमाजनकत्वं न भवितुमर्हति तर्हि कर्मकाण्डादिजनितमपि ज्ञानमप्रमाणं न भवितुमर्हतीति भेदबाघस्यासंभवात् । सत्यम् ; अथापि परेण भेदनिषेधकशास्त्रेण पूर्वं बाध्यत इति चेत् तर्हि शब्दगतापौरुषेयत्वादिकमबाध्यतायामप्रकमापत्तिम् । परत्वमेव तु ज्ञानस्य बाधकत्वे प्रयोजकमा कालिंत भवति । एवञ्च बुद्धवाक्यं कथं न बाधकं स्यात् ? निर्विशेषज्ञान बाध्यत्वादेव च कर्म काण्डाद्यर्थज्ञानस्य दोषमूलकत्वमावश्यकम् । दोषाजन्यज्ञानस्य श्रन्तित्वादर्शनात् । तत्र को दोष इति विमर्श -यद्यविद्यैव दोषः, स निर्विशेषशास्त्रस्याप्यविशिष्ट इति कथं तज्जन्यज्ञानमबाध्यम् । यदि च भदवासना दोषः, स किमनाप्तवाक्यानामुत्पत्तौ भ्रमविप्रलम्भादेवि वेदस्योत्पत्तौ कारणम्, उत वेदाधीनवाक्यार्थज्ञप्तौ । अपौरुषेयत्वेनाभिमते वेदे वाक्यार्थभूतभेदविषयक वासनायाः मूलत्वायोगात् । नान्त्यः, तर्हि तेन भेदोधिनाऽपि वेदेन भेदवासनारूपदोषविरहितेषु अर्थान्तरमबाध्यं प्रत्याययितव्यम् । अन्यथा पुनर्जरद्रवादिवाक्यवदप्रामाण्यापत्तिः । तथा च तस्यैव प्रत्याययितव्यस्य परमार्थत्वादापातप्रतीतार्थानामुपेक्ष्यत्वात् नित्यनैमित्तिककाम्यरूपकर्म-तदनुष्ठातृवर्णाश्रमतत्फलखर्ग वैकुण्ठादिपरत्वं विधिशास्त्राणां नरकाद्या वहनिषेधविषयत्वञ्च निषेधशास्त्राणामुपेक्ष्यमिति पुनर्वेदबाह्या विशेष एव । यदि तु — अपौरुषेयस्याप्यप्रामाण्यं भवतु । यथा शब्दप्रामाण्यनियामकस्य वक्तृयथार्थज्ञानादिरूपाप्तत्वस्याभावेऽप्यपौरुषेये प्रामाण्यम्; तथा भ्रमविषलम्भादेरप्रामाण्यप्रयोजकस्यानाप्तत्वस्याभावेऽप्यप्रामाण्यमपि किं न स्यात् इति तार्किकवाद उत्थाष्यते, तर्हि स निर्विशेषवाक्येऽपि तुल्यः । स्वतः प्रामाण्यसिद्धिरपि सर्वज्ञानसाधारणी । तथा च परेण बौद्धवाक्येन पूर्वमद्वैतवाक्यं बाध्यमिति । अपिच अविद्यारूपदोषमूलकत्वं वेदस्येति पक्षेऽपि कथमपौरुषेयत्वसिद्धिरिति विचार्थम् दोषमूलकत्वं हि दोषकल्पितत्वम् । कल्पना च ६५६

कल्पकपुरुषसापेक्षा । तेन च शब्द उच्चार्यमाणः कथं तदकर्तृको भवति । न स्वल पुरुषोऽपि यन्त्रवत् अविवेकेन शब्दान् व्याहरति । अनेन क्रमेणेमे शब्दा ईदृशार्थप्रतिपादनाय प्रयोक्तव्या इत्यभिसंधिपूर्वकमेवचार्यमाणत्वात् । अनभिसंधिकमुच्चारिताश्चेत्, शब्दाः ध्वनिवत् घुणाक्षरवच्च न प्रमाणं स्युः । अधुनातनानां वेदवाक्ोच्चारणं तु पूर्वपूर्वाध्यापनसापेक्षत्वादर्थप्रतिपादनदृष्टिकृतं न भवेत् । नैवं प्रथमं कल्पकपुरुषकल्पितवेदव्यक्तेः । ननु • सर्गारम्भकालिक वेदकल्पनाऽपि पूर्वानुभूतवेदवाक्यवासनामूला । एवं सर्गप्रलययोग्नादितया सर्वदा एवमेव वेदकल्पना भवतीति चेत् — भवतु । तथापि स पुरुपोऽध्यापकबत् परोक्तगृहीतानुवादी उत खोक्तचरानुवादी । नाद्यः, आदिप्रवर्तकस्येश्वरस्याध्यापकाभावात् । नान्त्यः, पूर्वं तत्प्रोक्तत्वे तां पूर्वकालिकोक्तिमेवादाय कर्तृत्वौचित्यात् । पूर्वमपि पूर्वतरप्रोक्तानुवाद्येव स ईश्वरोऽपीति चेत् — अथापि अयं शब्दः एवमर्थबोधको भवत्वितीच्छापूर्वं सर्वदा समानजातीयं शब्दरासिज्यमाविष्कत्येतावदेोक्तं नावता कथं तस्य कर्तृत्वावः; लोके कर्तुः पुरुषत्यपेक्षिते वाकारेषु कस्याप्यत्रा-भङ्गात् । लौकिकः पुरुष ईश्वरनेरियो ; ईश्वरस्तु कारपेक्षमेववक्तीति प्रत्युत वक्तृत्वं पुष्कलमेव । अत एव शस्त्रयो नत्वाधिकरणे वेदस्य सर्वार्थावबोधिनः ईश्वरप्रोक्तत्वात्, रोके ग्रन्थकर्तुर्ग्रन्थप्रतिपाद्यार्थाधिकार्थज्ञानशा लित्वस्यानुभविकत्वात् वेदप्रणेतुरीश्वरस्यापि वेदाधिकविज्ञानशा लित्वानुमानं प्रथमवर्णके भाषितं व्याकरणादिप्रणेतृपाणिन्याद्युदाहरणेन । अत एव " श्रुतिस्मृती ममैवाज्ञा " इतीश्वरशासनरूपत्वं वेदस्य । अत एव च आप्ताभिप्रायो विध्यर्थ इति पक्षे ईश्वराभिप्रायस्य लिङाद्यर्थता । प्रणेतृपुरुषाभिप्रायस्य लिङाद्यर्थता लोकसिद्धेति । एवमपि यद्यस्यापौरुषेयत्वम् । प्रपञ्चोऽपि तर्हि भवत्व पुरुषसृष्ट इतिः " धाता यथापूर्वमकल्पयत् " इति सर्वस्यापि पूर्वजातीयत्वात् । अपूर्वोत्पादनमात्र एवं स्रष्टृत्वव्यपदेशस्येष्टत्वात् । न चैता वता वेदनित्यत्वहानिः ; पूर्वपूर्वकालस्थितक्रमस्मरणपूर्वकं तथैवोच्चारणात् प्रवाहनित्यताया अ-भङ्गात् । वर्णनित्यत्वादेर्वेदान्तिभिरस्वीकृतत्वादिति । शास्त्रविरोधभप्रसाधनंम् १५७ यद्यप्येवम् — अथापि घटं पूर्वकृतमनुसंधाय पुनर्घट निर्माण, घटं निर्मातीतिवत् पूर्वं ग्रन्थं कृत्वा पुनस्तस्य तेनैवानुवचने क्रियमाणे अयमिमं ग्रन्थं निर्मातीति लट्नयोगाभावात् यत्र पूर्वानुपूर्वीत्वस्मरणपूर्वक शब्दप्रयोगः तदा तदातनशब्दमादाय प्रणेतृत्वव्यवहारायोगात् सर्वदा पूर्वानुपूर्वीत्वस्मरणपूर्वकमेव सर्गादावपीधरेण वेदोपदेशात् वेदप्रणेतृत्वेनेश्वरो न निर्दिश्यते, नापि वेदः पौरुषेय इतीत्येतावत्तु निष्कर्षणीयम् । न तावता तस्य बुद्धिपूर्वत्वादेः सर्वथा भङ्गः । तस्मात् पुरुषाप्रणीतत्वेऽपि ईश्वरबुद्धयधीनात्मलाभत्वस्याक्षततया ईश्वर ग्रनविप्रलम्भाद्यभावादेव वेदवाक्यं नाप्रमाणमिति वक्तव्यम् । इदञ्च तदा स्यात् यदीश्वरो न भ्रान्त इति स्यात् । भवन्मते चाद्वैतस्यैव परमार्थत्वात् प्रपञ्चतदीश्वरत्वादिविषत्र कमीश्वरज्ञानं सर्वं भ्रम एवेत्यस्मदपेक्षयाऽतिशयितानन्त भेदभ्रान्तिजलविर्जडधीरेव स स्थाष्यते बत भवद्भिरिति भ्रान्तिमूलकत्वमेव वेदस्य स्यात् । तस्मात् भ्रान्तिमत्पुरुषाप्रणीतत्वेन तत्त्वमस्यादिवाक्यस्य प्रामाण्यात् तदर्थस्यावाध्यत्वमातिष्ठमानैः तत्त्वमस्यर्थस्तादृशो वक्तव्यः, यादृशो वेदप्रवर्तक महापुरुषत्त्वं नापादयेत् । अतः प्रपञ्च मिथ्यात्वपर्यवसायिवाक्यार्थवर्णनं वा त्याज्यम् ; भ्रान्तपुरुषाप्रणीतत्वाद्वेदवाक्यं प्रमाणमित्युपपादनं वा परित्याज्यम् । सर्वथा नाद्वैतसिद्धिः । अतो ज्ञानानां स्वतः प्रामाण्यस्वीकारिणां मते परेण शून्यवादेन पूर्वस्याद्वैतक्यस्यापि बाधः स्यादिति । अन्यदपि विचार्यम् बौद्धवाक्यं विप्रलिप्सामूलकमिति कुतोऽवधार्यते । अद्यतना हि बौद्धाः वैदिका इव परया श्रद्धयैव खमतं प्रचारयन्ति । आदिमस्तत्र विप्रलिप्सुरासीत् ; तेन विप्रलब्धा इमे वास्तवत्वभ्रान्त्या विप्रलिप्सां विनैव प्रवर्तन्त इति चेत् —-स बुद्ध एव विप्रलिप्सुरिति कुतोऽवगम्यते । वेदविरुद्धार्थप्रचारणादिति चेत् — विरुद्धार्थप्रचारणमविप्रलिप्सुभिरपि खगृहीते विपरीतार्थे वास्तवत्वभ्रान्त्याऽपि भवितुमर्हति । अन्यथा वैदिकानामेव मिथो 83 Y-M -६५८

विरुद्धानामनेकेषां मतानामुत्थानस्यैवासंभवप्रसङ्गात् । अत एवं वक्तव्यम् बुद्धस्य भगवदवतारत्वात् भगवयात्रान्तत्वात् बौद्धप्रचारस्य प्रथमं भ्रान्तिमूलकत्वायोगात् वेदविरुद्धतया प्रामाणिकत्वस्याप्यभावे विप्रलिप्सामूलकत्वं कल्ष्यते । विष्णुपुराणेऽपि बौद्धर्हितमतयोः विप्रलिप्सया भगवत्प्रेरितपुरुषोपज्ञत्वमुपवर्णितमस्तीति । एवं तर्हि भगवतोऽपि विप्रलिप्सा भवतीति सिद्धम् । एवञ्च किं विप्रलिप्सामूलकम्, किं न तथेति विचार्य निर्णेयम् । तत्र " अनादौ चैवम्भूते प्रतायमाने प्रकारान्तरमाश्रित्यापि बहुवित्तव्ययायासोपदेशमात्रेणापि प्रतारणा स्यात् " इति न्यायकुसुमाञ्जल्युक्तानुसारात्, प्रतारणाजन्यसुखस्य तदर्थकायक्लेशादितो गरीयस्त्वाभावाच्च ईश्वरस्य कारुणिकत्व-भङ्गप्रसङ्गाच्च आदावविप्रलिप्सयैव तेन सर्वोपदेशः कृत इति पर्यालोचने वेदोपदेशे कुत्रापि विप्रलिप्सा मूलकमप्रामाण्यमनुत्प्रेक्ष्यम् । भेदाभेदश्रुतीनां परस्परविरोधाचैकतरस्य राशेरप्रामाण्यं यदि स्वीकर्तव्यम्, तर्हि भ्रान्तिमूलकत्वमेव तत्र कल्प्यं भवति । सा च भ्रान्तिः पूर्वोक्तरीत्या ईश्वरस्य कर्तृप्रायत्वे वा उपदेष्टृत्वे वा स्वीकृतेऽपि सर्वदैवाभ्युपगन्तव्या । यद्येवमीश्वरस्य भ्रान्तत्वं न युक्तमिति विभाव्यते, तदा तत्र कस्य चिद्वेदवाक्यराशेरन्यतरराज्य विरुद्धार्थवर्णने यतितव्यम्, यथा द्वैतिविशिष्टाद्वैतिभिः । अन्यथा पुनरद्वैवित् ईश्वरस्यापि भ्रान्तत्वमेपितव्यम् । तत्रापि द्वैतशब्दराशेर्भ्रान्तिगृहीतार्थपरत्वम् उताद्वैतशब्दराशेरिति विमर्शे प्रत्यक्षानुमानद्वैत शब्दसर्वाप्रामाण्यकल्पनामपेक्ष्य, द्वैतशब्दराशेरेव भूयस्तया च भूयसांन्यायानुरोधेनाद्वैतश्रुतीनामल्पीयसीनां भ्रान्तिमूलकत्वकल्पनमेव ज्यायः । नन्वीश्वरस्य भ्रान्तिकल्पनापेक्षया विप्रलिप्साकल्पनं साधीयः । बुद्धाद्यवतारे क्लृप्ता च विप्रलिप्सा । विप्रलिप्सा हीश्वरस्याकारुणिकत्वं दर्शयति । तावता कारुणिकेनापीश्वरेण करुणाप्रसरणप्रतिबन्धकप्रकृष्टोत्कटपापनिबिडत्वं प्राणिनामवगम्यत इति विप्रलिप्सा जीवदोषपर्यवसायिनी स्यात् । न त्ववश्यमीश्वरदोषावहा । भ्रान्तिस्तु तमेव दूषयतीति वैषम्यमिति चेत् — यद्येवम्, नूनमद्वैतश्रुतीनां शास्त्र विरोध-भङ्ग-प्रसाधनम् ६५९ कर्मासान् प्रति विप्रलिप्सया प्रवृत्तिरिति विवक्षसि । काममस्तु । सर्वथा प्रत्यक्षाद्यनुरूपा संख्या कद्वैतश्रुत्यप्रामाण्यकल्पनमयुक्तम् । ननु द्वैताद्वैतश्रुत्योर्मध्ये परत्वादद्वैतश्रुतेर्बाधकत्वमेव ; न तु बाध्यत्वमिति चेत्अत्रापच्छेदन्याय. दर्शनं सगुणनिर्गुणश्रुतिनिरूपणे निपुणं निराकरिष्यामः । परत्वाद् बाधकल्पने च शून्यवाक्यमेव बाधकमिति प्रागेवावोचाम । ननु भावज्ञानबाधकमभावज्ञानमिति सत्यम् । तत्र न किञ्चिदित्यभावं प्रति एकमस्तीति तस्य भावस्याप्यभावाभावरूपतया बाधकत्वमस्तीति चेत्तर्हि द्वैताभाचं प्रति भेदश्रुतिप्रमितं द्वैतमप्यभावाभावरूपतया बाधकमिति अद्वैतश्रुतीनां पराभिः द्वैतश्रुतिमिर्वाध्यता स्यादिति श्रतप्रकाशिकायामुक्तमनुसंधेयम् । अनन्यथासिद्धं बाघकन्, अन्यथासिद्धि संभावनास्पदं बाध्यमिति मन्यमानैर्भेदश्रुतीनां कथमन्यथासिद्धिः संभाव्यते ? दोषमूलकत्वसंभवादिति चेत् — कोऽसौ दोषः । अविद्यारूप दोष उभयश्रुतिसाधारणः । भदवासनैव दोष इति चेत् अपौरुषेयश्रुतीनामनादीनां भेदवासनामूलकत्वं कथम् ? मेदवासनाया दोषत्वञ्च कथम् ? अभेदवासनाया एवं कथं न दोषत्वम् । द्विचन्द्रवासनाया दोषत्वं दृष्टमिति चेत् — ज्वालैक्यवासनायाः देहात्मैक्यवासनायाश्चापि दोषत्वं दृष्टमेव । ऐक्यवासनाया दोषत्वनिश्चयो भेदज्ञानप्रामाण्यनिश्चयानन्तरभावीति चेत्भदवासनाया दोषत्वनिश्चयोऽपि अद्वैतज्ञानप्रामाण्यनिश्चयायत्त एव । तथाच द्वयोर्मध्ये कतरस्य प्रामाण्यमिति मिकाले दोषत्वस्य क्वचिदनिश्चितत्वात् नान्यथा सिद्धि संभावनाऽस्ति । तर्हि विरुद्धज्ञानद्वयस्य कथं सामानाधिकरण्यमिति चेत्-यूपा दित्यभेदज्ञानत्य, आदित्यो ग्रूप इत्यैक्यज्ञानस्य च कथं सामानाधिकरण्यम् । तत्र भेदज्ञानेन प्राग्भाविना, अग्निना सिञ्चतीत्यत्रेव निरुद्धत्वादैक्यज्ञानमेव नोदेतीति चेत् — तुल्यमिहापि । तद्वैतः का गतिरिति चेत या यूपा दित्यैक्यश्रुतेः ।६६०

श्रुतिःः सा प्राशस्त्यपरा अर्थवादत्वादिति यदि, अर्थवादोऽप्यविरुद्धमर्थं प्रत्याय्यैव किल प्राशस्त्यं गमयिष्यति । तत् सिद्धं तत्सिद्धिपेटिकायां प्रथमलक्षणे । तस्मात द्वैतश्रुतिप्रामाण्यस्य प्रागेव प्रमितत्वात् स्वयञ्च प्रमाणत्वादद्वैतश्रुतिद्वैत निषेधं कर्तुमयारयन्ती, अमिना सिञ्चतीत्याप्त नतिप्तेन वारिणा सिञ्चतीत्यर्थमिव, आदित्यो ग्रूप इति श्रुतिरादित्यवदुज्वलो यृप इत्यर्थमिव संभावितमर्थान्तरमेव प्रथममपि प्रतिपादयतीति । सर्वमिदं तत्त्वमस्यादेर्भवदभिमतार्थस्वरसत्वेऽप्यतत्परत्वं दर्शयितुमुक्तम् । यदा तु भवदभिमतस्यार्थस्यातिक्लेशम्या, तदा नाराजद्वैतसिद्धिः । भवद्भिर्हि तत्त्वम्पदयोः स्वरूपे क्षणामीकृत्य सामानाधिकव्यं वर्णते ; श्रवणेऽपि निषेधपर्यन्ततात्पर्य कल्पना बाधार्थ सामानाधियं वेष्यते 1 सर्वमिदं प्रतीतार्थानन्वयपर्यालोचनपूर्वकमेव । प्रीतिश्च प्रागर्थस्य भेदश्रुत्यादित इति तदविरोधाय यथाश्रुतार्थत्यागेनार्थान्तरपरत्यनैः कथं भेदश्रुतिबाघपर्यवसाय्यर्थकल्पनं क्रियते । तत्रापि चोरः स्थाणुरित्यत्र स्थाणौ चोरभ्रान्तिमतः पुंसस्तत्र चोरत्वनिधे तात्पर्यम् । तत्र तत्त्वमसीत्यत्र किं स्वमर्थे तत्त्वनिषेधः । किं वा तत्पदार्थे त्वमर्थत्वनिषेधः । उभयमपि न संभवति । पूर्व स्थाणों अ चोर इति भ्रमवत् इह जीवे ईश्वरत्वबुद्धेर्वा ईश्वरे जीवत्वबुद्धेर्वा प्रसक्तौ किल तन्निषेधः कर्तव्यः । न च तत्प्रसक्तिः, जीवपर भेदस्यैव सर्वतः प्रतिपन्नत्वात् । प्रतिपन्नस्य जीवेश्वरभेदस्यानुवाद एवात्रेति चेत् — एवं तहिं तत्त्वमसिवाक्यात् जीवेधरैक्यसिद्धिरिति कथम् द्वैतपक्षस्यैव साधनात् । खतन्त्रात्मभ्रान्त्याः स्वातिरिक्तेश्वरानङ्गीकारिपुरुष ? निष्ठाया वारणाय सर्वासां प्रजानां सच्छब्दवाच्य स्वतन्त्रपुरुषाधीनत्वं प्रागुपपाय, तत् त्वमसि त्वं तादृशस्वतन्त्र वस्तु न भवसीति बोध्यत इति चेत्तच्छब्दस्य स्वतन्त्रपरत्वमिह क्लिष्टम् । अस्तु तावत् । एवञ्चेयमपि द्वैतश्रुतिरेव ; न त्वद्वैतश्रुतिः । एवमेव, ‘नेह नानाऽस्ति किञ्चने ‘त्यादावपि भेदश्रत्यगतार्थ शास्त्रविरोधभज-प्रसाधनम् ६६१ विरुद्धार्थवर्णनायोगात् विरुद्धार्थवर्णनेन पूर्वश्रुतीनामप्रामाण्यस्य, तच्छ्रुतिप्रवर्तकस्य परस्य पुंसः सर्वविषयभ्रान्तिमत्त्वस्य, प्रत्यक्षविरुद्धजगन्मिथ्यात्वादेश्व कल्पनामपेक्ष्या विरोधिस्वर सार्थवर्णनमेव युक्तम् । विस्तरोऽवसरे । भेद वासनाया दोषत्वसिद्धौ शास्त्रानिशेषाद्वैतसिद्धिः, तत्सिद्धौ भदवासनादोषत्वसिद्धिरितीतरेतराश्रयो दोष उक्तः परिजिहीयते शास्त्रस्य स्वतः प्रामाण्यात् न भेदवासनादोषत्व सिद्ध्यधीनं शास्त्रप्राबल्यम्; किंतु स्वतः प्रमाणेन शास्त्रेणार्थे बोधिते जातस्याभेदज्ञानत्वात् एतद्वाध्यस्य च प्रत्यक्षादेदविषयकत्वात् बाध्यज्ञानस्य दोषाधीनत्वस्य । वश्यकत्वात् दोषः क इत्याकांक्षायां भेदवासनैव दोष इति कल्ष्यते इति, एवं ज्वालैक्या दिज्ञाने बाधकस्य ज्वाला भेदानुमानस्य भेदविषयतया अभेदवासनाऽपि दोषायते इति च । नैतत् युक्तम् स्वतः प्रामाण्यवादिनां हि प्रत्यक्षमपि स्वतः प्रमाणम् ; शास्त्रमपि । भेदवासनाऽपि भेदज्ञानरूपखतः प्रमाणभूतकिञ्चिज्जन्यतया स्वतः प्रमाणमेव । शास्त्रमपि तथैव प्रमाणम् । परंतु शास्त्रं किमीदृशप्रमाभूतज्ञानजनकम्, उतान्यादृशप्रमाजनकमिति विवादे, सर्वप्रतिपन्नभेदप्रमाणविरोधशङ्कया प्रसवते तर्कसाचिव्यमन्तरा शास्त्रस्यार्थनिश्चायकत्वाभावात् तर्कान्वेषणे शास्त्रस्याद्वैतविषयकज्ञानजनकतया प्रामाण्यसिद्धेर्भदवासनादोषत्वनिश्चयमन्तरेणायोगात् तद्दोषता निश्चयस्य चाद्वैतज्ञानमपात्वसिद्धयधीनत्वात् अद्वैत ज्ञानस्य चोत्पत्तिकाल एवं पूर्वप्रमाणबलेनाप्रामाण्यास्कन्दनात् उत्पत्तुमेवानर्हत्वाच्च शास्त्रप्रामाण्यमर्थान्तरप्रमितिजनननिर्वाह्यमिति तते । न खलु वेदान्तशास्त्रमेवान्यनिरपेक्षप्रमाणम्, न तु पूर्वभागात्मकं शास्त्रमिति शासितुं शक्यम् । वाक्यमहिम्नैवाकाङ्क्षादिसहकारेणार्थबोधनस्य तत्राप्यविशिष्टत्वात् । कर्मभागमेव हि मुख्यतया जैमिनिराह, यद् भवतैवेहोदा हियत, तत् प्रमाणं बादरायणस्यानपेक्षत्वात् " इति । अतस्तदनुरोधेन वेदान्तार्थवर्णनात् शास्त्रप्रामाण्यस्य सर्वथा हान्यभावात् भेदनिषेधपरत्वे नायमन्योन्याश्रयो वारयितुं शक्यते । अत एव ६६२

प्रत्यक्षस्य भ्रान्तत्वसिद्धौ निर्विशेषप्रतिपत्तिः, तत्प्रतिपत्तौ भदवासनादोषत्वनिश्वयः, तन्निश्चये सति प्रत्यक्षभ्रान्तित्वसिद्धिरिति चक्रकमपि चरत्येव । अतो निर्विशेषप्रतिपत्तेरेवासिद्धौ कथं भदवासनाया दोषत्वसिद्धिः । अत्रैव, भदवासनादोषत्वविषये, ’ आषाढवाने चलति द्विपेन्द्रे चक्रीवतो वारिधिरेव काष्ठेति भवदुक्तमनुसंधेयम् । रीत्या यत् पुनः अभेद वासनाया अद्वैतशास्त्रजन्यज्ञाने मूलत्वं न भवतीति -तदिदम् अभेद वासनाया दृष्टरूपेणादृष्टरूपेण वा तत्त्वमस्यादिवाक्यार्थज्ञानोपकारकत्वा संभवप्रदर्शिशतदूषणयुक्तांशो द्विरणमात्रम् । एवं भदवासनाऽपि भेदश्रुतिजन्यज्ञानोपकारिका न भवतीत्येतत्त प्रकृते भवद्भिरवधातव्यम् । यत् पुनरभेदस्याखण्डत्वान्नाभेदज्ञानं भेदज्ञानसापेक्षमिति –तन्न –तथासति हि अद्वैतस्या भेदस्य भेदसापेक्षत्वाभावात् द्वैतश्रुत्यपेक्षया परत्वमद्वैतश्रुतेः कथ्यमानं न घटेत । अत्र, “नाभेदोपादाना भेदकल्पना " इति भामत्या मुक्तमित्येतदप्य संगतम् । उपात्तमपि वाक्यम्, अभेदग्रहोपादानैव भेदकल्पना " इति तदनन्यत्वाधिकरणभामतीवाक्यव्याहतम् । अभेदस्याखण्डत्वेपि अनयोरभेद इति द्वन्द्वमुखेन, अस्यानेनाभेद इति षष्ठी तृतीयान्तमुखेन च भेदस्य ज्ञेयतयया भेदज्ञानापेक्षा न निवारयितुं पार्यते । अत्र, " स्वयमेव प्रतियोगि " इत्यादिशतदूषणीवाक्यत्र्यार्थः सम्यगनुसंधातव्यः । भेद प्रत्यक्षस्य भेद वासनादोषजन्यत्वोक्तिरप्ययुक्ता ; वाक्यादभेदज्ञाने यथा नामेदवासनोपकरोति, तथा चक्षुषा भेददर्शने भदवासनाऽपि नोपकरोत्येव । वस्तुप्रत्यक्षे वस्तुसंनिकर्षस्यैव कारणत्वात् । अपूर्ववस्तुदर्शनस्यापि तत्र तत्र भावेन यद्भेदप्रत्यक्ष भवति तद्भदवासना पूर्वमपेक्षितेति दुर्वचत्वाच्च । नूनमयं पूर्वपूर्ववासनाधीन उत्तरोत्तरप्रत्यय इति सौगतमत वासनाविलसितं न वैदिकसंमन्यमानमिति । वृत्तिः । शास्त्रविरोध-भङ्गप्रसाधनम ६६३ किश्च भेद वासनारूपाया अभदवासनारूपायाश्च विपरीतवासनाया दोषत्वं तत्रैव हि क्लृप्तम्, यत्र बाधकज्ञाने सत्यपि भेदस्याभेदस्य वा ज्ञानानुतथा भदवासनाया दोषत्वावधारणं वासनाहेतुभूतभेदानुभवस्याप्रमात्वनिश्चयायत्तम् । तथा च दोषान्तराधीनाप्रमात्वाक्रान्तानुभवाधीना वासनाऽपि दोषविघयोत्तरानुभवहेतुर्दृष्टेत्येतावता सर्वत्र भेदज्ञाने वासनाया मूलदोषान्तरं विना दोषत्वकथनं न युज्यते । अपि च वासनानां स्वसमानविषयकज्ञानोत्पत्तिमात्रप्रयोजकत्वम्, न पुनभ्रमत्वांशेऽपि हेतुत्वम्; सत्यंभूतपदार्थवासनायां तदभावात् । तथा दोषाभावात् भेदज्ञानस्य मिथ्याविषयकत्वं दुरुपपादमिति भदवासना दोष इति समाधिर्न युज्यते ; तद्दोषतायाः तद्विषयभूतभेद मिध्यात्वसिद्धिमन्तरेण दुनिश्चयत्वात् । एतदुक्तं भवति —यथा स्मृतिगतयाथार्थ्यायाथार्थ्य योरनुभवगतयाथार्थ्यायाथार्थ्यानुविधायित्वान्न खातन्त्र्येण स्मृते मत्वप्रभावे, तथा भदवासनाया अपि भेदविषयक संस्काररूपायाः न स्वातन्त्र्येण याथार्थ्यायाथार्थ्य इति वासना मूलभूतज्ञानस्य प्रमात्वे वासना न दोषः, तस्य भ्रमत्वे च सा दोष इति वक्तव्यम् । द्विचन्द्रज्ञानञ्च । ङ्गुल्यवष्टम्भरूप-दोषमूलकमिति तदधीनसंस्कारस्मरणादेः सर्वस्य परम्परया अङ्गुल्यवष्टम्भप्रयोज्यत्वादयथार्थत्वम् । एवञ्च तत्र वासनायां दोषत्कयवहारोप्यौपचारिको मूलभूताङ्गुल्यवष्टम्भकृत दोषत्वारोपेणेति यलेदृशदोषान्तरलाभः तत्रैव वासनाया दोषत्ववाचोयुक्तिः कल्पते । प्रकृते तु प्रत्यक्षादिज्ञाने साम्प्रतिके प्राक्तने च भदवासनामूलभूते तद्वत् दोषः कश्चिद्दुर्वच इति न भेदवासनायां दोषत्वारोपे प्रमाणमस्ति । अतो निर्दोषं प्रत्यक्षादिज्ञानम् । Am संस्कारश्च अन्यच्च -भेद वासना नाम भेदविषयकः संस्कारः । स्मृतिप्रत्यभिज्ञयोरेव कारणत्वेन क्लृप्तः । अतः सर्वप्रत्यक्षानुमितिशाब्दबोधानां संस्कारजन्यत्वाभावात् भदवासनामूलकत्वं दुर्वचम् । अन्यथा सर्वेषा मपि ज्ञानानां गृहीतग्राहित्वमेवेति अगृहीतग्राहित्वमेव न सिद्धयेत् । न हि यादृच्छिकेषु घटपटगिरिवनपशुपक्षिमनुष्यराक्षसादिविचित्र वस्तुदर्शनेषु, E૬૪

कविप्रतिभा कल्पितासु अद्भुतव्यवहारसरणिषु, अत्यन्ताप्राप्तार्थपर शास्त्र स्तोमभावितेषु बोधेषु च कथमपि भेद वासनायाः प्रसक्तिगन्धोऽपि । अतो भेद वासनायाः कारणत्वस्यैवाभावात् दोषविधया कारणत्वं मुदूरनिरस्तम् । अपरञ्च भेदप्रत्यक्षस्य सर्वस्य भ्रमत्ववादिना सर्वज्ञेश्वरप्रत्यक्षमपि भ्रम इति स्वीकर्तव्यम् । न च तत् भेदवासनामूलकम् । त्रिकालविषयिणि अनादिप्रत्यक्षे तत्र तन्मूलकत्वायोगात् । तथाचाद्वैतज्ञानेन तद्बाधनायोगात् तद्विषय सत्यत्वसिद्धौ कथं सर्वजगद्वाधः । नन्वीश्वरः सर्वज्ञः सर्वशक्तिः कश्चिदस्तीत्यप्यस्मत्कल्पनामात्रम् ; न पुनर्वस्तुतः सोऽस्ति । तथा चास्मदीयमीश्वरादिसद्भावज्ञानमद्वै ज्ञानेन बाध्यत इति नानुपपतिरिति चेत्-हन्त्वमीश्वरोऽपि नास्ति, वेदोऽपि नास्तीति केन प्रतिपाद्यते ; ईश्वरेणैव युगेयुगे समाविर्भूतेन, अथ चापौरुषेयेण वेदेनैवेति चेत् शोभनमेतत्, यत् स एव स्वस्य सार्वकालिकं नास्तित्वं निरूपयतीति । एवं भेदवासनापदेन भेदज्ञानोपयोगिकर्मवासना पुण्यपापात्मिका गृह्यते ; तन्मूलकं प्रत्यक्षादिज्ञानमिति वितर्कस्यापि नावकाशः । अद्वैतवाक्यार्थ श्राविणा हि स्वात्मसमवेत प्रत्यक्षादिकमिवेश्वरप्रत्यक्षमपि व्यावहारिकसत्यत्वेन स्वीकृतमस्ति । तत्रास्य तत्त्ववित्तया तत्प्रयक्षमपि भ्रमात्मकमेव समन्तव्यम् । भ्रमसामान्यञ्च दोषमूलकमिति तत्र कश्चित् दोषोऽस्तीत्यप्यनेनोपपाद्यम् । न चेश्वरे पुण्यपापरूपं दोषं साधयितुं कश्चित् पारयेदिति । एवं ब्रह्मज्ञानेन प्रपञ्चनिवृत्तेः कर्तुमशक्यत्वादपि न प्रपञ्चाभावविषयक ज्ञानं प्रमा । अनिर्वचनीयपदार्थासिद्धेर्विस्तरेण वक्ष्यमाणतया भ्रमविषयपदार्थस्य यत्र कचित् प्रसिद्धेः सत्यतायाश्चावश्यकत्वेन सार्वकालिकसर्व निवृत्त्यसंभवात् । अतः सर्वदा सर्वाभावपरत्वं नाद्वैतवाक्यस्य । किञ्च यथावस्थितज्ञानसामग्री या भवति सा दोषसहकृता चेत् भ्रमं जनयतीति संप्रतिपन्नम् । यथा चक्षुः, श्वेतः शङ्ख इति प्रमाजनकं पित्ते सति पीतः शङ्ख शास्त्रविरोधभ-प्रसाधनम् ६६५ इति भ्रमम् । प्रकृते च भदवासनारूपदोषाभावे चक्षुरादिघटितसामग्री कीदृशयथावस्थितप्रत्यक्ष हेतुः, यस्यां भेदवासनारूपो दोषः समापतन् भ्रमं प्रपञ्चविषयं विदध्यात् । अतः स्वविरहप्रयुक्तप्रमाजनकता कसामग्रीमांत्रण स्वसमवधाने भ्रमजनकत्वाभावे स्वयं दोषत्वेन भेदवासना नावधार्येत । ब्रह्मविषयकवृत्तिज्ञानजनकमन्तः करणं भदवासनादूषितं प्रत्यक्षादिभ्रमं जनयतीति चेत्, न तर्हि चक्षुरादिकमपेक्ष्यम् । क्लृप्तसामग्री च दोषश्चेत्येतदुभयाधिकस्य कुत्रापि भ्रमजननेऽनपेक्षितत्वात् । तथाचान्धोऽप्यन्तःकरणवान् नीलादिक निरीक्षेत । अपि च यस्य प्रमाणस्य यदू विषयग्रहणसामर्थ्यम्, तत् प्रमाणं दोषवशादपि तमेव विषयमविद्यमानसंसर्गमपि संसर्गितया ग्राहयेत् । यथा पीतरूपस्य शङ्खस्य च पृथक्पृथग्ग्रहणक्षमं चक्षुः संसृष्टतया । न पुनर्दोषवशात् चक्षुः माधुर्यादिकं रसं दर्शयतीत्यस्ति । तथा च भदवासना दोषरूपा कीदृशकरण सहाया केषां दोपं विनापि तत्करणग्राह्यतया व्यवस्थितामसंसर्ग ग्राहयतीति वक्तव्यम् । स्वभावतो ब्रह्ममात्रग्राहित्वे चान्तःकरणस्य विषयग्रहणासमर्थेन तेन दोषवशादपि न विचित्र पञ्चग्रहणं शक्योपपादनमिति । किञ्च भेद्रवासनाबलात् घटपटादिकं किं बहिरवर्तमानं प्रत्यक्षेण गृह्यते, उत वर्तमानमेव । नायः ; तथासति बाह्यापलः पिवासनाधीनज्ञान संततिमात्रवादिनो बौद्धस्य पक्षे प्रवेशप्रसंगात् । नान्त्यः ; वर्तमानत्वे तस्य बाध्यत्वाभावेन तज्ज्ञानस्य भ्रमत्वप्रसत्त्यभावेन दोषविचारस्यानवसरत्वात् । न च अनिर्वचनीयरूपं वर्तमानं तत् गृह्यते ; बाधस्तु परमार्थत इति वाच्यम्अनिर्वचनीयमवचनीयमेवेति स्थितत्वात् । यदि चानिर्वचनीयरूपेणास्ति, कथं तर्हि कायेतन्निषेधः परमार्थतया निषेध इति चेत् तर्हि सार्वकालिक सर्वप्रकारनिषेधाभावात् निषेधश्रुतिसंकोचः स्यात् । इष्टोऽयं संकोच इति चेत् -इप्यतां तर्हि भ्रमत्वस्यासंभावितस्य प्रत्यक्षादौ कल्पनां विनैवास्मदभिमतस्वरसरीत्यैव संकोचः । कश्चायं परमार्थतया निषेधो नाम । ब्रह्मात्मना निषेध इति चेत् -तर्हि ब्रह्मभिन्नतया जगदस्तीत्येव स्यात् । 84 ६६.६ एवमविद्यादोषत्व परमायभूषण J भाव्यम् । किमविद्या साक्षात् प्रत्यक्षादिज्ञानं प्रति पृथग्धेतुः, किं वा चकुरीतितत्सामग्रीद्वारा । नाद्यः, क्लृप्तयैव सामग्रया कार्योत्पत्तौ पृथगविद्याकारणत्वकल्पने मानाभावात् । नान्त्यः, परम्परया अविद्याकार्यत्वस्याद्वैतवाक्यजन्यबोधेऽपि सद्भावात् । अपिचाद्वैत वाक्यजज्ञानमेव कुतो न दोषमूलकम् । यद्वतशास्त्रप्रामाण्यायान्यादृशंस्यान्यत्राक्लृप्तस्य कस्यचित् दोषस्यान्यत्र कल्पनम् प्रत्यक्षानुमानद्वैतश्रुतिप्रामाण्यायाद्वैतवाक्यजबोध एवं कश्चिदन्यादृशो दोषो मूलं कल्प्यताम् । अतः सर्वस्यापि समं प्रमाणत्वात् प्रमाणान्तरा विरुद्धार्थपरत्वेनैव वेदान्ते अद्वैतवाक्यानामर्थावधारणं कार्यम्ः यृपादित्यादिवाक्यवत् । समन्वयाधिकारणे चोपनिषदां विध्यन्तरशेषत्वमेव निराकारि ; न पुनर्बाधितोऽपि यथाश्रुतार्थ एव स्वीकर्तव्य इति । अन्यथोत्तरमीमांसारम्भ एवं व्यर्थः स्यात्, ईक्षत्यधिकरणमारभ्य वा । आकाशप्राणज्योतिर्गायत्र्यादिशब्दानां प्रसिद्धार्थ त्यागेन वृत्त्यन्तराश्रयणञ्च न संगच्छेत । विशिष्य च तत्त्वमस्यादिवाक्यस्य भवद्भिर्लक्षणया शुद्धब्रह्मपरत्वकल्पनं सर्वथाऽनुपपन्नमप्रसक्तञ्च स्यात् । अतोऽनन्यपरत्वेऽप्युपनिषदां प्रत्यक्षवाधित सर्वप्रपञ्चनिषेधवोधकत्वं न संभवति । यथा हि प्रत्यक्षावाधितत्त्वात आदित्यो ग्रुप इत्यत्र यूपादित्यैक्यबोधो न जायते, तद्वत् । ननु सत्यं तत्रैक्यबोधो न जायत एव । जातोऽपि अपरीक्षकस्य जातु वाक्यान्तरसंवाद अर्थक्रियादि-परीक्षापरीक्षितेन प्रत्यक्षेणाप्रमाणी क्रियते । तथाहि-’ दीक्षासु यूपं छिनति’, ’ यूपे पशुं नियुञ्जीते ‘ति दीक्षाका लिकयूपीत्पादनयूपाधिकरणक पशुबन्धनादिविधयो हि न यूपस्यादित्यैक्ये संगच्छन्ते । किञ्च प्रतीतस्य यूपादित्यैक्यस्य तात्त्विकत्वे यूपादित्यभेद प्रत्यक्षस्य तेन बाधितत्वात् सुतरामप्रामाण्यमिति प्रतीतप्रामाण्यनिर्वाह एव न भवति । न हि तात्त्विकमैः : वाक्क्बोध्यम्, व्यावहारिकस्तु भेदः प्रत्यक्षगृहीत इति निर्वाहस्यावकाश स्ति । व्यवहारदशातिक्रमे यूपादित्ययोरेवाभावेन तदैक्यप्रति शास्त्रविरोध-भङ्ग-प्रसाधनम् ६६७ पादनासंभवात् । अद्वैत्यभिमततत्त्विकदशायां यूपा दित्यभेदस्येव यूपघट भेदादेरप्यभावेन तादृशभेदाभावबोधनेन स्तुत्यसिद्धेश्च । व्यवहारदशायाश्च भेदस्यैव सत्त्वेन व्यावहारिकस्यैक्यस्यासंभावितत्वात् । अतः प्रत्यक्षस्यानन्यथासिद्धत्वात् तत्र वाक्यस्त्वं त्याज्यमिति चेत्–तदिदं द्वैतनिषेधवचनेव्वपि तुल्यम्–। तथाहि सर्वदेशकालवर्तिपदार्थप्रत्यक्षवलेना योग्यतानिश्चयप्रतिबद्धशक्तिका द्वै निपेधनयो नाद्वैतं बोधयेयुः । अपरीक्षकेणाद्वैः बोधकत्वेनापाततो गृह्यमाणा अपि वाक्यान्तरसंवादादिपरीक्षया तदर्थाप्रत्यायकत्वेन स्थापनीयाः । यदि ह्येषां निर्विशेषब्रह्ममात्रतात्त्विकत्वतात्पर्यकत्वं स्यात् तदा तद्विषयक श्रवणमनन निदिध्यासनादिविधयो संगतार्था भवन्ति । बन्धनिवृत्युपायमृततत्त्वज्ञानसंपत्तये तावत् ते विधय इति संप्रतिपन्नम् । यदि बन्धो मिया, तदा तदभावस्य स्वत एव सत्त्वेन किमर्थं किं संपाद्यमस्ति 1 न च वस्तुतो बन्धाभावेऽपि बद्धत्वेन स्वात्मनो ग्रहणात् कण्ठस्थितकनकनयेन मुक्तत्वाभावबुद्धिनिवर्तनार्थं वाक्यं सफलमिति वाच्यम्वन्धस्येव स्वात्मनो बद्धत्वेन ग्रहणस्यापि मिथ्यात्वेन स्वतस्तदभावसत्त्वेन तन्निवृत्तेरितः संपादनीयत्वाभावात् । न च प्रपञ्चतस्यत्वबुद्ध्या केचित् इतः संपाद्यो मोक्षःः न त्विदानीमस्तीति भ्राम्यन्तः तदुपायान्वेषणप्रयासेनात्मानं क्लेशयन्ति । ततस्तथा मा भवितव्यमिति ज्ञापनमुपनिषदां कृत्यमिति वाच्यम् — ईदृशभ्रान्तेः, तद्वतां पुंसाम्, तदधीनक्लेशादेः सर्वस्याप्यपारमार्थिकत्वेन वस्तुतोऽभावेन ज्ञापनीयांशाभावेन सर्ववैयर्थ्यात् । न चैवंरीत्या परिशोलने वस्तुत उपनिषदामध्यभावेन कासां वैयर्थ्यमापाद्यत इति शङ्कयम् — एवं सति उपनिषदामस्मत्कृतसगुणप्रपञ्चब्रह्मतत्परत्ववर्णनस्य, तथा युष्मन्मते तद्वैयर्थ्यापादनादेः सर्वस्यापि यौष्मा दृष्ट्या मिथ्यात्वेन यौष्माकस्य उपनिषदां भीमांसकाद्यभिमतसविशेषत्वनिराकरणप्रयासस्य विशिष्य द्वैतस्थापनसंरम्भस्य तदर्थप्रकृताक्षेपादेश्च सर्वथैबाकर्तव्यत्वप्रसंगात् । तस्मात् विचारशायां श्रुतयः सन्तीति कृत्वेव ’ ६६८

विचारस्य क्रियमाणतया तदा तासां वैयर्थ्यं यथा नापद्येत, तथा किश्चिदर्थ परत्वमेव तत्र संमन्तव्यम् । सर्वद्वैतमिध्यात्वे च सर्वम्तुतिवैयर्थ्य दुरुद्धरमिति । ; किञ्चाद्वितीयत्रत्मश्रवणे तत एव बन्धनिवृत्तेरावकत्वान्मनन निध्यानादिविधिवैयर्थ्यमेव न च निष्प्रकारकं ब्रह्मज्ञानमेवाविद्यानिवर्तकम् । द्वितीयाभाववद् ब्रह्मेतिश्रवणञ्च सप्रकारकम् । वस्तुतो द्वितीयाभावस्य ब्रह्माति रिक्तत्वाभावेऽपि तत्रैव प्रकारविशेष्यभावकल्पनया तादृशज्ञानम्य जातत्वात् । अतो निवर्तकयथावस्थितज्ञानसंपत्तये मननादि विधीयते । च्च ज्ञानमखण्डब्रह्मसाक्षात्काररूपा वृत्तिरिति वाच्यम् लोके इदं रजतमितिभ्रमस्य इथं शुक्तिरिति स्वरूपज्ञानादिव नेदं रजत निषेधज्ञानादपि निवृत्त्यवात् शुद्धब्रह्ममात्रज्ञानादिव, नैष प्रपञ्च इति श्रवणादपि प्रपञ्चबुद्धयादिवश्यकत्वात्, ब्रह्मातिरिक्तं किमपि नास्ति, ब्रह्मणि प्रपञ्चाभावोऽपि न वस्तुतो धर्म इत्येवंरूपज्ञाने सति प्रपञ्चभ्रमो न निवर्तत इत्युक्तेरयोगात् । परोक्षबुद्धया अपरोक्षभ्रमबाधायोगः । अनुमानागमादिभिरपि प्रत्यक्षबाधेो भवतीत्यद्वैत सिद्धावेव स्थापितत्वात् । आगमेन चन्द्रपरिमाणेऽन्यस्मिन्निश्चितेऽपि चन्द्रप्रादेशिकत्वबुद्धयनुवृत्तिः तत्कारणस्य दूरत्वादेर्दोषस्य तद नीमपि सत्त्वात् । प्रकृते दोषस्यापि मिथ्याभूततया तत्त्वज्ञान निवर्त्यत्वेन प्रपञ्चबुद्धयनुवृत्तिप्रसतयभावात् । नेदं रजतमित्याप्तोपदेशेन शुक्तिरजतबुद्धिनिवृत्तिश्च सर्वसंमता । अत एवाद्वैत सिद्धावेव, " न च न शब्दमात्रं रज्जुसर्पादिभ्रमनिवर्तकम् । किंतु प्रत्यक्षमेवेति वाच्यम् भ्रमप्रमादादिशङ्काकान्तत्वेन नाथं सर्प इत्यादेदुर्बलतया न श्रमनिवर्तितत्वम् । यत्र तु तादृकुछङ्कानाक्रान्तत्वम् तत्र भ्रमनिवर्तकतैव " इत्युक्तम् । प्रकृतेऽपि प्रापञ्चिकज्ञानेषु सर्वत्राप्रमाणत्वबुद्धेरद्वितीयब्रह्मश्रवणेन जनितनया तेषां कार्यक्षमत्वाभावात् तादृशब्रह्मश्रवणानन्तरं क्षुच्छान्तितत्त्वज्ञानाद्यर्थभोजनतत्त्वोपदेशादेरपि विलयप्रसङ्ग एव । अतश्च मनननिध्यानयोरांप न प्रसक्तिः । ननु प्रपञ्च भ्रमस्यापि ज्ञानरूपब्रह्म J । शास्त्रविरोध-भङ्ग-प्रसाधनम् ६६९. स्वरूपतया सत्यत्वमिति चेत् —किं वृत्त्यवच्छिन्न चैतन्यात्मकभ्रमान्तर्गतचैतन्यांशस्य सत्यत्वमुच्यते, उत वृत्तेरपि । नाद्यः, तस्यानिवर्तनीयत्वात् । तस्य स्वयम्प्रकाशतया तत्प्रकाशहेतोर्दोषस्य कस्यचिदभावाच्च तन्निवर्तनार्थं मननादी ति वक्तुमशक्यत्वात् । नान्त्यः ; तस्या असत्त्वेनाभावात् तद्धेतुदोषस्याप्यसत्यत्वेनाभावात् तद्विधिवैयर्थ्यास्य दुर्वारत्वात् । अत उपनिषद्वैयर्थ्यप्रसङ्गात्, विशिष्य मनननिध्यानविधिवैयर्थ्यात् श्रुतोपनिषत्कानां भोजन प्रवचनाद्यर्थक्रियानिष्पत्त्ययोगप्रसङ्गाच्च ब्रह्मातिरिक्त सर्वनिषेधपरत्वमप्रामाणिकमिति प्रत्यक्षषाधितार्थकत्वं यूपादित्यवाक्यस्येवाद्वैतवाक्यस्यापि सिद्धम् । किञ्च शास्त्रप्रत्यक्षविरोधे शास्त्र बलीय इति किमन्यत्र तथा व्यवस्थादर्शनादुच्यते, उतान्यथा शास्त्रप्रामाण्योच्छेदात् । नाद्यः, अदर्शनात् । देहास्मैक्यप्रत्यक्षस्थले मम शारीरमिति भेदप्रत्यक्षस्यापि सत्त्वेन देहात्म भेदशास्त्रस्य तदुपष्टम्भकमात्रत्वस्योक्तत्वात् । चन्द्रप्रादेशिकत्वप्रत्यक्षात् चन्द्रपरिमाणान्तरबोधकं शास्त्रं बलीय इति चेत् — तत्रापि गिरिगत वृक्षपरिमाणादिविषयपरिषऌप्तस्य दूरत्वदोषस्य सद्भावेन प्रादेशिकत्वप्रत्यक्षस्याप्रामाण्ये प्रागेव सिद्धे वास्तवपरिमाण बुभुत्सायां शास्त्रावतारेण शास्त्रेण प्रत्यक्षबाधाभावात् । यत्तु सिद्धयुक्तम्, न चन्द्रप्रादेशिकत्वप्रत्यक्षेऽपि प्रागेव दुष्टकारणत्वनिश्चयः ; नैकट्यस्यापि कचिद्दोषत्वेन सर्वत्र परिमाणाविश्वासप्रसङ्गादिति अतिदूरात् सामीप्यादिन्द्रियघातान्मनोनवस्थानात् " इति सांख्योतरीत्या नेत्रवृत्त्यञ्जनादेनैत्रेणाग्रहणादतिसामीप्यस्यापि क्वचिद्दोषत्वेऽपि सत्यपि दूरत्वादिदोषे यथावस्थितपरिमाणदर्शनस्य काप्यभावेन चन्द्रप्रादेशिकत्वप्रत्यक्षे दुष्टकारणजन्यत्वनिश्चयसंभवात् । चक्षुषा दूरत्वसामीप्यतारतम्येनानेकपरिमाणप्रदर्शनेऽपि त्वाचप्रत्यक्षसहकारेण परिमाणविषयकचाक्षुषप्रत्यक्षविशेषस्य प्रामाव्यनिश्चयसंभवात् तदनुसारेण चक्षुरेतावति सामीप्ये यथावस्थितपरिमाणदर्शकमिति निर्धारण संभवात् । न हि यावति विप्रकर्षे चन्द्रपरिमाणस्या यथावद्ग्रहः, तन्त्र-६७.

तावति कस्यचिदन्यस्य परिमाणं यथावद्गृह्यते । न वा सामीप्यं क्वचिद्दोष इति गिरिशिखर विपिनादिपरिमाणस्य समीपदर्शनेऽप्ययथार्थत्वमनुभविकमिति । यत्तु वेदान्तरक्षामणौ, ज्ञानेन हि दोषमूलकत्वावधारणम् ; न तु दोषमूलकत्वेन बाधावधारणम् । व्यक्तचैतत शावरे भाष्ये’ इतितदतीव स्थवीयः । यथा नेदं रजतमिति पश्चात्तनबाधज्ञानेन पूर्वजाते इदंरजतमिति ज्ञाने दोषमूलकत्वावधारणम्, तथा मानान्तरेण दोषमूलकत्वेऽ वधृते तद्दोषाधीनस्य ज्ञानस्य वाधितार्थकत्वानुमानस्यापि स्वरसप्राप्तत्वात् । भ्रमं प्रति हि दोषः कारणम् । यदि च दोपजन्यत्वं निश्चितम् । तर्हि भ्रमत्वं कथं वार्येत । भ्रमत्वञ्च वाधितार्थकत्वमेवेति । अत्र शाबरभाष्यग्रहणञ्च स्वाभिमतविपरीतस्थापनायैव संपद्यते । इत्थं हि माप्यम् (१-१-५) कथं पुनरिदमवगम्यते इदं तत्संप्रयोगे, इदमन्यसंप्रयोगे इति । यन्नान्य-, संप्रयोगे, तत् तत्संप्रयोगे; एतद्विपरीतमन्यसंप्रयोग इति कथं ज्ञेयम् । यत् शुक्तिकायामपि रजतं मन्यमानो रजतसंनिकृष्टं मे चक्षुरिति मन्यते । बाधकं हि यत्र ज्ञानमुत्पद्यते, नैतदेवम्, मिथ्याज्ञानमिति, तत् अन्य संप्रयोगे, विपरीतं तत्संप्रयोग इति । प्राक् बाधज्ञानोत्पत्तेः कथमवगम्यतेः यदा न तत्काले सम्यग्ज्ञानस्य मिथाज्ञानस्य वा न कश्चिद्विशेषः । यदा हि चक्षुरादिभिरुपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर्बाह्य वा विषयः, ततो मिथ्याज्ञानम् । अनुपहतेषु हि सम्यग्ज्ञानम् । इन्द्रियमनोर्थसंनिकर्षो हि सम्यग्ज्ञानहेतुः । असति तस्मिन् मिथ्याज्ञानम् । तदुभयगतो दोषो मिथ्याज्ञानस्य हेतुः । दुष्टेषु हि ज्ञानं मिथ्या भवति । कथमवगम्यते ? दोषापगमे संप्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत् -प्रयत्नेनान्विच्छन्तो न चेद् दोषमवगच्छेम प्रमाणाभावा ददुष्टमिति मन्येमहि । तस्मात् यस्य च दुष्टं करणम्, यत्र च मिध्येतिप्रत्ययः, स एवासमीचीनः प्रत्ययः, नान्यः " इति । शास्त्रविरोध-भङ्ग-प्रसाधनम् ६७१ अत्र च यदर्थविषयकं यत् प्रत्यक्षम् तस्य तदर्थेन्द्रियसंनिकर्ष जन्यत्वे सत्प्रत्यक्षत्वम् अन्येन सहेन्द्रियसंनिकर्षे सति जन्यत्वे चासत्प्रत्यक्षत्वमित्युक्त्वा –इदं तदर्थेन्द्रियसंनिकर्षजन्यम् इदं त्वन्यादृशमिति विवेक एव दुष्कर इत्याशङ्कय, यत्र नैतदेवमित्याकारकं बाधज्ञानं पश्चाज्जायते, ततश्च पूर्वज्ञानं मिथ्येति बुध्यते, तत् अन्य संप्रयोगजम्, तदभावे च तत्संप्रयोगजमिति समाधाय -तर्हि यदा बाधज्ञानं न जायते, तदा कथं तद्विवेक इति पुनराशङ्कय, प्रत्यक्षकारणभूते इन्द्रिये विषये वा यदि कश्चित् दोषो भवेत्, तर्हि मिथ्याज्ञानमुतीति भाषित्वा दोषमिथ्याज्ञानयोः कार्यकारणभावं दुष्टेषु हीत्यादिना संप्रतिपत्तिदर्शनादित्यन्तेनान्वयव्यतिरेकाभ्यामुपपाद्य, कचिद्दुष्टकारणजन्यत्वज्ञानात् कचिद्वाधज्ञानाच्च प्रत्यक्षाभासत्वनिश्चय इति निगमितम् । लोकवार्तिकेऽपि " निमित्तदोषबोधेन पश्चात यत्राप्यबाधनम् । भवत्येव हि तत्रापि नरान्तरविपर्ययः " 16 इत्युक्तम् । व्याख्यातञ्च न्यायरत्नाकरे, पश्चात् यत्राप्यबाधनम्, तत्रापि निमित्तदोषबोधेन मिथ्यात्वं गम्यते इति । यदि त्ववश्यं विपर्ययेण प्रयोजनम्, सोऽप्यस्त्येव दिङ्मोहादौ नरान्तराणामित्याह भवत्येवेति । एतच्चाभ्युच्चयन त्वेतदवश्यमादर्तव्यम् । विना विपर्ययेण कारणदोषज्ञानमात्रेणैव . एवञ्च शाक्याद्यागमानां कारणदोषादेवा मात्रम् ; शक्यं मिथ्यात्वमवगन्तुम्.. प्रामाण्यसिद्धिः " इति । अत्र बाधज्ञानाभावेऽपि दुष्टकारणजन्यत्वबोध मात्रेण भ्रमत्वानङ्गीकारे कर्मविशेषफलविशेषसाध्यसाधनभावादिबोधकानां शाक्याद्यागमानामप्रामाण्यं साधयितुं न शक्यत इत्यन्तिमवाक्यार्थः । एवं चोदनासूत्रेऽपि (१-१-२) " तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता । अर्थान्यथात्व-हेतूत्यदोषज्ञानादपोद्यते ॥ (५३) " ६७३

इति । अर्थेत्यादि । अर्थान्यथात्वज्ञान-कारणगत दोषज्ञानाभ्यामित्यर्थः । उपरि च, " साक्षात् विपर्ययज्ञानात् लघ्व्येव त्वप्रमाणता । पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिद्ध्यति ॥ दुष्टकारणोघे तु सिद्धेऽपि विषयान्तरे । अर्थात् तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत् ॥ (५८) " " " इत्युक्तम् । व्याख्यानश्च, यद्यप्यत्र साक्षाद्विपर्ययज्ञानाभावात् न पूर्ववत् अप्रमाणता लध्वी भवति, तथापि कारणदोषावगमप्रणाड्या अर्थात् तुल्यार्थतां प्राप्य कियता विलम्बेनास्त्येव बाधः । यथा. गोदोहनेन पशुकामस्य प्रणयेत् " इति पुरुषार्थेनापि गोदोहनेन (पात्रेण) चमसस्य ऋत्वर्थस्याप्यार्थिक तुल्यविषयतया भवति बाधः . एवमत्राप्यस्त्येवार्थतस्तुल्य विषयत्वम् । पीतज्ञानं हि पित्तं गृह्णाति । तच्च श्वेते पीतभ्रमस्य कारणे चक्षुषि विद्यमानं स्वकार्यस्य पीतज्ञानस्य भ्रमत्वमवगमयति । तद्भान्तत्वेन चार्थान्यथात्वमिति बाघसिद्धिः " इति । अयमर्थः –यथा पश्वथं विहितत्वादक्रत्वर्थेनापि गोदोहनपात्रेण प्रणयनाश्रितत्वात् प्रणयनक्रियानिर्वर्तकत्वात् क्रत्वपेक्षितचम सकार्यप्रणयनकारितां प्राप्य चमसो बाध्यते-तथा कारणमिदं दुष्टमिति दोषज्ञानेनापि, बाघज्ञानवत् साक्षाद्विरोध्यविषयकतया केवलं दोषरूपविषयान्तरविषयकतया स्थितेनापि, दोषजन्यज्ञाने अयं श्रम इति भ्रमत्वज्ञानसंपादकतया बाधज्ञानकार्यकारितां प्राप्य बाधज्ञानेनेवार्थतथात्वं बाध्यत इति । बाधज्ञानस्यार्थान्यथात्वविषयकतया तेनार्थतथात्वबाधः साक्षात् दोषज्ञानेन तु ज्ञानभ्रमत्वज्ञापनमुखेनार्थतथात्वबाध इति विशेष इति aa कारिकायां बाघ इत्यस्य बाधज्ञानबाधः चमसस्येव बाधज्ञानस्यानपेक्ष्यत्वकरणमित्यप्यर्थः संभवति । सर्वथा बाधज्ञानाभावेऽपि कारणदोषजन्यत्व ज्ञानात् ज्ञानस्य भ्रमत्वम् अर्थस्यान्यथात्वञ्च स्वामिभट्टमिश्रः सुप्रतिष्ठापितमिति सिद्धं वेदान्तरक्षामणिरचनं तद्विपरीतमेवेति । तस्मात् ब्रह्मात्मैक्यज्ञानं पश्चात्तनबाधाभावेऽपि दोषमूलकत्वेनावधृतत्वादेव भ्रमात्मकमपारमार्थिक विषयकमिति निश्चीयते । अन्यथा शून्यवादिपक्षनिरासो न संभवति । अतो शास्त्रविरोध-भङ्ग-प्रसाधनम् ३ आन्तित्वाविशेषात् नानेन प्रत्यक्षादिबाध इति । तथाच प्रथमतो दोषजन्यत्वज्ञानात् प्रत्यक्षादिभेदज्ञाननिरुद्धं शास्त्र प्रतिबन्धकसद्भावात् नाद्वैतज्ञानमुत्पादयति, उत्पादनेऽपि दोषजत्वस्य पश्चात्परिशीलने अद्वैतरूपस्यार्थस्य त्याग एवेति । अनु ननु यद्यनुमानेन प्रत्यक्षवाधः, आगमेन परं कथं न बाधः । मानबाध्यत्वञ्च दर्शितस्थल एव स्पष्टम् – चन्द्रप्रादेशिकत्वपरिमाणप्रत्यक्षं श्रमः दूरवर्तिपरिमाणप्रत्यक्षत्वात् गिरिवृक्षपरिमाणप्रत्यक्षवदिति । न । तत्रापि प्रत्यक्षेणैव प्रत्यक्षवाधात् । गिरिवृक्षपरिमाणस्य दूरतो दर्शनं समीपे तद्दर्शनेन औचित्यविमर्शसहकुनेन बाध्यत इति सर्वसंप्रतिपन्नम् । तत एवमनुमीयते चन्द्रप्रादेशिकत्वप्रत्यक्षं चन्द्रसमीपदेशस्थितिदशामा विपरिमाणदर्शनबाध्यम् दूरवर्तिपरिमाणदर्शनत्वात् गिरिशिखरवृक्षपरिमाणप्रत्यक्षवदिति । एवं प्रत्यक्षबाधात्वे निश्चिते तत्प्रत्यक्षविषयभूतं परिमाणं किं स्यादिति विचारणायामागमः प्रवर्तमानो यथार्थं बोधयतीति । ननु ज्वालैक्यप्रत्यक्षं ज्वाला भेदानुमानेन बाध्यत इति चेन्न -तत्रापि प्रत्यक्षेण प्रत्यक्षवावस्य सिद्धेः । प्रतिवर्तिप्रदेशं ज्वालोत्पत्तिस्तावत् प्रत्यक्षसिद्धा । पूर्वोत्पन्नज्वालायाश्चोत्तरस्मिन्नवसरे जलवेणिकाया निम्नदेशे स्यन्दनवत् अग्नेरूर्ध्वज्वलनखभावतया पश्चादुत्पन्न ज्वालापरि वेणीरूपेण निःसरणमपि प्रत्यक्षसिद्धम् । तथा च पूर्वज्वालायामुत्तरज्वालाभेदस्य प्रत्यक्षसिद्धत्वात् तेनैक्यप्रत्यक्षमनवधानकालिकं बाध्यते । अतश्चात्रापि ज्वालैक्यबुद्धिरियं ज्वाला मे दप्रत्यक्षबाध्या विभिन्नकालावच्छिन्नज्वालैक्यप्रत्यक्षत्वात् संप्रतिपन्नवदिति प्रत्यक्षबाधनार्ह त्वमेवानुमीयते । ततस्तस्या अप्रमाणत्वम् । एवमचिरनिर्वापितारोपितज्वालाविषयभेदप्रत्यक्षे सति ज्वालैक्यबुद्धेरनुदयादपि तदैक्यबुद्धेर्भेद प्रत्यक्षवाध्यत्वं सुकरमनुमातुम् । न च विप्रतिपन्नस्थले साध्यवटके भेदप्रत्यक्ष पूर्वसिद्धे तद्वाध्यत्वमनुमातुं शक्यम्; तत्सिद्धौ च न प्रमाणमिति वाच्यम् विधेयकोटिप्रविष्टस्यापि विधेयत्वसंभवेन अनेनैव हेतुना विशिष्टस्य भेदप्रत्यक्षबाध्यत्वस्यानुमानात् । 85 ६ ७४

योगिनामन्येषाञ्चावदधानानामपि तत्प्रत्यक्षं संभवति । एवञ्च विवेचकानां ज्वालैक्यप्रत्यक्ष नैवानुवर्तते, चन्द्रमा देशिकत्वप्रत्यक्षवत् । केवलं पूर्वोत्पन्नज्वाला संततिरियमित्येव प्रत्यक्षम् । सेयं दीपज्वालेति संतत्यभिप्रायकवाक्यश्रावणां तु वाक्यस्य साधारणत्वादैक्यभ्रमात्मको बोधः कदाचिदित्येव तत्त्वम् । एवं शङ्खः पीतः, नभो नीलमित्यादिप्रत्यक्षाणामपि दोषाभावदशाभवेन शङ्खो न पीत इति प्रत्यक्षेण समीपदेशावच्छेदोत्पन्ननभोनी रूपत्वप्रत्यक्षादिना च बाधोऽवसेयः । यत्र च नेदं रजतमित्याप्तोपदेशेन इदं रजतमिति प्रत्यक्षबाधः, तत्रापि वक्तुरिव स्वस्यापि रजतभेद प्रत्यक्ष संभव परामर्शेनैवोपदेशबाध्यत्वमिप्यताम् । अपरोक्षस्य परोक्षेण बाधमनिच्छतां भवतां गमनिकेयं खल्वादरणीयैव भवति । सर्वथा प्रत्यक्षान्तराश्रितस्तर्कः प्रभवतीति आगमोऽप्येवं न केवलः प्रत्यक्षबाधक इति । प्रत्यक्षबाधाय नन्वत्रापि तर्हि आगम श्रवणानन्तरभाविप्रपञ्चाभावप्रत्यक्षवाध्यत्वमेव प्रपञ्चस्य स्यादिति न मन्तव्यम् प्रपञ्चस्य रूपरसादिविभिन्नेन्द्रियग्राह्यात्यन्तातीन्द्रियानेकपदार्थ समुदायरूपतया तदभावप्रत्यक्षस्य केनापीन्द्रि येण जनयितुमशक्यत्वात् । तथाऽनभ्युपगमाच्च । न च कश्चित् स्वात्मानं प्रमातारं प्रमाणभूतमिन्द्रियादिकञ्च प्रमेयेण सहाविद्यमानत्वेन प्रत्यक्षेण गृह्णीयात् । गृह्णीयात् । ननु तदाभावप्रत्यक्षेणेव तद्विरोधिप्रत्यक्षेणापि तत्प्रत्यक्षबाध इष्टः ; यथा शुक्तित्वप्रत्यक्षेण रजतधीबाधः । तथाच ब्रह्मणः प्रपञ्चविरोधित्वात् तत्प्रत्यक्षेण प्रपञ्चबाध इति चेन्न ब्रह्मव्यक्तेः प्रपञ्चविरोधित्वा संभवस्य प्रागुक्तत्वात् । एवं नेहनानास्तीत्यनेन ब्रह्मणि प्रपञ्चाभावबोधनस्वीकारेऽपि तत्र प्रपञ्चविरोधित्वं न बोध्यते । न च प्रपञ्चाभावस्याधिकरणात्मकत्वात् ब्रह्मात्मकतया तस्य विरोधित्वमिति वाच्यम्-वायोः रूपाभावस्वरूपत्वेऽपि वायोः रूपस्य च पृथक्सद्भाववत् प्रपञ्चस्य ब्रह्मणश्च सद्भावसंभवेन तावता प्रपञ्चापलापायोगात् । अथ शास्त्रेण प्रपञ्चाश्रयत्वस्य प्रपञ्चात्मकत्वस्य च ब्रह्मणि बोधनात् अद्वैतशास्त्रेण तत्र शास्त्रविरोध-भङ्ग प्रसाधनम् ६७५ तदभावे बोधिते प्रपञ्चखरूपमेव नास्तीति ज्ञायत इति चेन्न ब्रह्मणि तदुभयस्य शास्त्रबोध्यत्वे तद्विरोधेन तन्निषेधस्य तेन कर्तुमशक्यत्वात् । किञ्च प्रपञ्चाभावः प्रपञ्चप्रतिषेधो वा तद्भेदो वा ; उभयथाऽपि पूर्वोत्तरशास्त्र योमिथो विरोध एव । तथाच तदेकदरामाण्येऽपि प्रत्यक्षेण ब्रह्मणो दुर्ज्ञानतया केवलप्रपञ्चमात्रं सत्यत्वेन गृह्यमाणं कथं बाध्येत ? ननु विज्ञानातिरिक्तं न किञ्चिदस्तीति शास्त्रेणोपदेशात् कथं प्रपञ्चस्वीकार इति चेत् तर्हि प्रपञ्चः सत्य एव सन् विज्ञानरूपब्रह्मात्मक इति मतमवलम्ब्यताम्, न प्रपश्चापलापेन निर्विशेषपरिशेषः । वस्तुतो विज्ञानातिरिक्तो न कोऽपि निरुपाधिकसत्ताश्रयः; आत्मातिरिक्तस्य सर्वस्य स्वरूपविकारशालितया षडपि भावविकाराः सन्तीति यः सदाऽस्तीति केवलं वक्तुमर्हः तद्विलक्षण इत्येव, विज्ञानातिरिक्तं न किञ्चिदस्तीत्यस्यार्थ इनिविशदमुदितं विष्णुपुराणे इत्यलं विस्तरेण । तत् सिद्धं प्रत्यक्षविरोधे शास्त्रबलीयस्त्वस्य कुत्रा प्यदर्शनात नायं पक्षः संभवतीति । अस्तु तर्हि अन्यथा अद्वैतशास्त्रप्रामाण्योच्छेदादिति द्वितीयः पक्ष इति चेत् — निरस्तमेतत् । अपि च न युक्तमिदम् एतत्प्रामाण्यश्रद्धायां प्रत्यक्षादिभूयः प्रमाणप्रामाण्योच्छेदप्रसङ्गात् । ननु व्यावहारिकप्रामाण्यस्वीकारान्न प्रत्यक्षादेरात्यन्तिकमप्रामाण्यमिति चेत् एवंविधं प्रामाण्यमद्वैतश्रुतावपि सुवचम् । अद्वैतश्रवणानन्तरसाक्षात्कारो हि भावनाजन्यः साक्षात्कारः । स च सन्निकर्षजभ्यसाक्षात्कारापेक्षया दुर्बलः । अविद्यमानकामिनीसाक्षात्कारादेर्भावनावजत्वात् । अतो वस्तुतो ब्रह्मात्मैक्याभावेऽपि तथासाक्षात्कारोपयोगिभावनासंपत्त्यर्थमद्वैतोपदेशः किं न स्यात् । तस्य क उपयोग इति चेत्सांख्ये प्रकृतिब्रह्मचिन्तकानां प्रकृतिलयादिवत् तथासाक्षात्कारिणां चिरं संसारक्लेशविरहेण तदेकमग्नत्वं फलम् । अयमेवाधिकारी आत्माराम आत्मक्रीड आत्ममिथुनः यस्य सर्वे गृहक्षेत्रारामादिकमनुभाव्यमात्मैवाभूत् तत् केन के पश्येत् केन कं विजानीयादिति । एवं फलविशेषार्थमैक्यप्रतिपादनेऽपि न तस्य वास्तवत्वमिति तत्फलानुभवपर्यन्त ६७६

व्यावहारिकप्रामायं तस्योपपन्नम् । ननु षड्विधतात्पर्य लिङ्गादिना वाक्यस्यैक्ये तात्पर्यमवगम्यत इति चेत् — अस्तु । तावता तदैक्यं वास्तवमिति नावगम्यते । न चैवम्भूतस्यापुनरावृत्तिश्रवणात् नेदं मोक्षातिरिक्तं फलमिति तदैक्यं वास्तवमिति वाच्यम् — अर्चिरादिमार्गेण गच्छ पुनरावृत्तिः श्रूयते । न चासौ गन्ता ऐक्योपासक इति भवन्मतम् । अतोऽयमन्य एव चिरस्थायि किञ्चित्फलभाकू । किञ्च योगिनामुपासनोपयोगि शान्ति गुणसंपत्त्यर्थमभेदभावनमुपदिश्यते, वैराग्यसंपत्तये सुखे दुःखत्वभाववत् । न च तावता वास्तव भेदापलापः । अत एव सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेत्यत्र शान्तिकामेनैक्यानुसंधानं कार्यमित्युच्यते । चमत्कार हेतोर्मुखे चन्द्ररूपणवत् ब्रह्मणीव सर्वत्र तद्भिन्ने बहुमत्यर्थे ब्रह्मरूपणं न युक्तम् । अतो द्वैतनिषेधस्या भेदभावना मात्रार्थत्वात् तन्निष्पादितशान्तिगुणसमृद्धः यथावत् स्वभिन्नं परमात्मानं भतया समाराध्य सर्वभूतविस्तारं तमनुभवतीति संगच्छन्त एवाद्वैतवाक्यानि भवदभिमतार्थपरतयाऽपि देवो भूत्वा देवं यजेते’ तिवाक्यमिव प्रपञ्चाबाधेन । तस्मात् न प्रत्यक्षप्रामाण्यं प्रतिषेध्यम् । अपि च प्रत्यक्षादीनां प्रामाण्यं स्वतः प्रमाणन्यायेन प्रागेव गृहीतम् । एवमद्वैतश्रुतीनामपि । तत्र प्रत्यक्षादौ वास्तवामाण्या भावकल्पनात् उभयोः प्रामाण्यवर्णनप्रकारान्वेषणमेव ज्यायः । तत्र दोषमूलकत्वादिना प्रत्यक्षादेरन्यथासिद्धिर्नास्तीति च न्यरूपि । अद्वैतश्रुतिस्त्वन्यथासिद्धा । चक्षुरादिकं ह्येकप्रकारेणैव पदार्थमवगमयेत् । न तदन्यथवितुं शक्यते । वाक्यं तु शक्तिलक्षणा गौणीर्भिर्यथायोगमन्त्रयबोधनक्षमत्वात् सावकाशमविरोध्यर्थ ग्रहणेन शक्यनिर्वाहम् । अत एव यूपादित्यवाक्येऽर्थान्तरस्वीकारः । अतः सावकाशनिरवकाशयो र्निरवकाशं बलीय इति न्यायेनोवजीव्यत्वादिहेतुनेव निरवकाशत्वहेतुनाऽपि प्रत्यक्षमेव बलीयः । एवं तावत् अद्वैतश्रुतीनामद्वैत्यभिमतार्थे स्वारस्यमस्तीति कृत्वाचिन्तया सर्व मिदं प्रवर्तितम् । अद्वैतश्रुतीनामर्थान्तरपरत्व एव स्वारस्यमिति च स्थापयिष्यते । शास्त्रविरोध-भङ्ग-प्रसाधनम् अद्वैतं केवलं श्रुत्यभिमतमिति संकल्प्य तद्वाधदक्षं धिक्कृत्याध्यक्ष भेदश्रुतिशतमवदन् श्रेष्ठमद्वैतशास्त्रम् । श्रुत्यन्तोष्णीषक्लृप्त्यै प्रबलमपि तथाऽध्यक्षशीर्षं न्यकृन्तन् किं तै निर्बाध सर्वस्वरसगतिविदां पमिति भव्या ॥ शुभमस्तु । ६७७ श्रीः