नमस्तस्मै विचित्राय साक्षिणे सर्वकर्मणे । विचारनिरपेक्षायादृश्याय फलदायिने ॥ अहंताज्ञातृते आत्मन्यनिच्छद्भिरुदीर्यताम् । कुतोऽत्र साक्षितामात्रमिति संप्रति वते ॥ अज्ञाता स्यात् कथं साक्षी निष्क्रियत्वांशमात्रतः । साक्षात् द्रष्टरि संज्ञायामिति द्रष्टरिशासनात् ॥ जीवब्रह्मैक्यवादिनः आत्मन्तरमहमानाः सर्वदेवक्यं त्रिमूर्त्यैक्यमित्याद्यप्याद्रियमाणाः ब्रह्म, ईश्वरः, ईश्वरसाक्षी, जीवसाक्षी, इत्येवमनुपपन्नं भेद बहुविधं कल्पयन्ति । शब्दन वृत्तिनिमित्तभेदेऽपि वस्तुस्वरूप भेदस्तावदत्र न शक्यते वक्तम् । स्वनकाशरूपं चैतन्यं किञ्चिदत्ति, तत् वृत्तिसापेक्ष जागरादौ सर्वार्थप्रकाशरूपं भवति, वृत्तिनिरपेक्षमपि कपियप्रकाशरूपनिति तन्मतस्थितिः । एवं प्रकाशरूपतया चेत् साक्षिलम्, तत् सर्वदा सवत्र सुवचमिति सुषुप्त्यादिसमयपरिग्रहेण तदुपपादनगनपेक्षितम् । उपपादनेऽपि तस्यार्थस्य स. क्षिशब्देनोपपादनमयुक्तम् । यावता ज्ञातृत्वकर्तृत्वाहेत्यादिकं चिन्मात्रे न संभवतीति जड एव कचित् अहङ्कारे अविद्यायां वा तत् सर्वमवस्थाष्यते तावता साक्षित्वमपि ज्ञातृत्वविशेषस्तत्रैवेति तदेव वस्तु साक्षिपदव्यपदेश्यं भवेत् । ज्ञात्रादिपदानि ज्ञाधात्वादितः तृजाद्यन्ततया सामान्यानुशासनको यथायथं निष्पाद्यमानानि लाक्षणिकेऽर्थेऽपि नीयेरन् ; नीयन्ते च, ‘ज्ञोऽतएव’ इत्यादौ भवद्भिः । एव कुर्वद्भिर्यस्य शब्दस्य विशिष्यानुशासनं बाधकं जागर्ति, तत् साक्षिपदं स्वापेक्षितार्थसाधने मुख्यमिव सादरं प्रयुज्यते इत्युपेक्ष्यतरमेतत् । यद्यपि साक्षिपद न द्रष्टृसामान्ये प्रयुज्यते दातृप्रतिग्रहीतुपद्रष्टृणां मध्ये उपद्रष्टरि प्रयोग एवाद्रियत इति हि वैयाकरणाः । वादिनोर्विवदमानयोर्मध्यस्थस्येव वादप्रतिवादादि साक्षित्व-भङ्ग-प्रसाधनम् ૧૨ द्रष्टृत्वाविशेषेऽपि न तौ साक्षिणावित्युच्येते; किंतु विवाद क्रियारहित एव । दिदम्, साक्षात् द्रष्टरि संज्ञायाम्" इति संज्ञापदनिर्देशेन योगरूढिसूचकेन दर्शयति सूत्रकारः -तथापि तावता निष्क्रियत्वमात्रेण मा स शब्दः प्रयोजीति साक्षाद्दति विवक्षणीयमर्थमनि स्पष्टमाह । तेन साक्षिपदं द्रष्टृवाचकं सत् अयधारणविवक्षया प्रकृतकार्यकर्तृत्वराहित्येऽपि प्रवृत्तिनिमित्तकोटौ प्रवेशिते सति व्यक्तिविशेषे पर्यवस्यतीति ज्ञायते । द्रष्टृत्वरहितस्तु निष्क्रियोऽपि न साक्षिपदव्यपदेश्य इति तत्सूत्रदर्शितोऽर्थः । यदि साक्षाच्छन्दात् इनिप्रत्ययं द्रष्ट अननुशास्य प्रकाशकरूपार्थेऽनुशिष्टवान् स्यात्, तदा कामं तद्व्यवहारकारणत्वरूपनकाशकत्वमादाय चिन्मात्रेऽपि साक्षिशब्दः प्रयुज्येत । ज्ञातृत्वावान्तरभेष्वरूप प्रधानीकृत्य निक्रियत्वमलभ्यं तदुपसर्जनमभिप्रेत्य साक्षिशब्दमनुशासत् पाणिर्निभवन्मते साक्षिशब्दस्य स्वेच्छया क्वचिन्नयन निवारयत्येव । तदिदमेव तु श्रीमाध्ये, " स्मरति च भगवान् पाणिनिः साक्षादृष्टरि संज्ञायामिति साक्षाद्रष्टर्येव साक्षिशब्दम्" इति गभीरमभाषि । न च भवदभिमतार्थे साक्षिशब्दस्य स्वरसनयोगः संलक्ष्यते । या तु श्रुतिः, “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताविवासः साक्षी येता केवलो निर्गुणश्च” इति सा साक्षिपदघटिताऽपि न भवदभिमतसाक्षिसाधिका । प्रतिजीवं साक्षिभेदात् ईश्वरसाक्षिणश्चान्यस्य सत्त्वात् बहवः किल. साङ्क्षिणः । तत्र एक इति उपक्रमेऽपि विरोधः । यदुक्तम्अत्र श्रुत साक्ष्येकत्वं न साक्षि बहुत्ववारकम् ईश्वरसाक्षी एक इत्येतत्परत्वादिति-तत्रोच्यते, रीतिरियम्, ‘एकस्तथा सर्वभूतान्तरात्मा’ इत्यादिष्वप्यनुत्रियताम् । तेन सर्वान्तर्वर्तिनः परमात्मन एकत्वे ततो निश्चितेऽपि न जीव भूतनानात्मनिषेधः प्रसज्यत इति । वस्तुत इह, ‘एको देव’ इति देवैवयमेवावगम्यते ; न साक्यम् । तच्च, ‘दिव्यो देव एको नारायणः’ इति श्रुत्यन्तरानुगुणम् । तस्य च देवदेवस्य सर्वभूतगूढत्वकर्माध्यक्षत्वादिवत् साक्षित्वमप्युच्यत इति नात्रेश्वरातिरिक्त ईश्वरसाक्षी कश्चित् स्वीकर्तुं शक्यः । 80
૬૪ परमार्थभूषणं ’ चेता केवल ’ इति साक्षिलक्षणप्रतिपादकमिति च भवदीयाः । तत्तु सर्वेषामपि प्रथमान्तानाम् ’ गुणानाञ्च परार्थत्वात् ’ इतिन्यायेन देवविशेषणत्वेनान्वयस्यैवात्र प्रतीतेर्न स्वरसम् । तथा सत्यपि चेता ज्ञातैव केवलशब्दवाच्योदासीनत्वविशिष्टः साक्षी स्यात् । ज्ञातृत्वञ्चाहङ्कारादावेव न चैतन्य इति न चिन्मासाक्षित्वमितोऽवगम्यम् । एवञ्चाविद्यापतिविम्वस्याविद्याविशिष्टस्य वा जगद्वयापारपूर्णस्येश्वरस्य जैवव्यापारेषु यादृशमौदासीन्यविशिष्टज्ञातृत्वरूपम्, तादृशमेव साक्षित्वमियं श्रुतिराहेति मन्तव्यम् । एवमीश्वरस्यैव साक्षित्वश्रवणमवलम्ब्य भवन्मते कौमुदीकारेणेश्वरसाक्ष्यतिरिक्तसाक्ष्यभाव उपपादित इति स्पष्टं सिद्धान्त लेशसंग्रहे । परंत्वीश्वरस्य रूपभेदमभिमत्य कारणत्वादिधर्मास्पदं रूपमीश्वरः, तदनास्पद मुदासीनं रूपं साक्षीत्युक्तम् । तत्तु रूपं दुर्निरूपम् । अविद्याशबलं यद्रूपम्, तदतिरिक्तं सर्वजीवप्रवृत्तिनिवृत्त्यनुमन्तृ सुषुप्त्युत्क्रान्त्योः प्राज्ञशब्दाभिधेयञ्च किं तद्रूपम् । तस्यैव तु, ‘तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ’ इजि रीत्या किञ्चिद्रूपेण कर्तृत्वस्यापि सत्त्वात् तादृशमेव साक्षिपदविवक्षितमिति । यत्तु, ‘अनश्नन्नन्योऽमिचाकशीति’ इति श्रुत्या कश्चिदुदासीनोऽवगम्यत इति -तन्न अन्तर्यामिब्रह्माणादिप्रतिपादितस्यान्तर्यामिण 1 एव अशनं विनैव प्रकाशमानत्वस्याल वर्णनमिति, ‘द्वा सुपर्णा’ इति पूर्वार्धावगततथा रूपभेदे मानाभावात् । एकैकविशेषण भेदप्रयुक्तविशेष्यभेदश्रद्धायां तु, ’ एको देव ’ इत्यादिश्रुत्यादिभिरनन्तानीश्वररूपाणि फणितानि स्युरिति न द्वैविध्यमात्रप्रसक्तिः । किश्च जीवसाक्षिवत् ईश्वरसाक्षिणा भास्यमानं किमिति विचार्यम् अविद्यावच्छिन्नचैतन्यरूपेणेश्वरेण अविद्यापरिणामरूपानन्तवृत्तिच्छुरितेन सर्वं प्रकाश्यत इति तस्य तत एव सर्वज्ञत्वं सिद्धमिति इश्वरसाक्षिणे विभजनीयं किमस्ति ? न चाविधैव साक्षिणा भास्यते, यथा सुषुप्तौ जीवसाक्षिणा तदज्ञानमिति वाच्यम्-तथा सति अहमज्ञः, अहं न जानामीतीश्वरेण प्रतिसंधानप्रङ्गात् । अत एव भावरूपमज्ञानमविद्यादिशब्दवाच्यम् अहमज्ञ इत्यादौ विषय 1 साक्षित्व-भङ्ग-प्रसाधनम् — ६३५ इत्यद्वैत्युपपादनमुदस्तं भवति । एतेन जीवस्य सुखादिकमिवेश्वरस्य सुखं तत्साक्षिणैव भास्यत इत्य् अपि निरस्तम् -सुखादिविपयेऽप्यविद्यावृत्तिखीकारे घटादिवृत्तितौल्यात् तदर्थे साक्षिकल्पनस्यानावश्यकत्वात् । अविशेषेणाविद्याया अपि भास्यत्वापत्तेश्च । ईश्वरेण स्वाविद्या न ज्ञायते चेत् — असर्वज्ञत्वापत्तिः । नन्वीश्वरस्यापि शुद्धचिदानन्दरूपात्माज्ञानम् अहं न जानामीत्यनुभूयमानमस्त्विति चेन्न —तस्य तज्ज्ञानाभावे तदुपदेशभूत वेदादिप्रवक्तृत्वाभावप्रसङ्गात् । तज्ज्ञानमस्ति, न तु तत्साक्षात्कार इति चेत् हन्त, " उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः " इत्युक्ततत्त्वदर्शित्वदशाऽपि तस्य नास्तीति शन्तं पापम् । एवञ्चादर्शनमित्येवाविद्याया नाम स्यात् न त्वज्ञानमिति । अहं न साक्षात्करोमीति च तदवमासः स्यात् ; न त्वहं न जानामीति, अज्ञ इति । दोषोऽयं पृथकसाक्षिवीकारे चास्वीकारे च समानः । सुषुप्तिकाले जीवसाक्षिणा सुखादिप्रकाशनवत ईश्वरस्य प्रलयरूपायां सुपुप्तौ तत्साक्षिणा तत्सुखखरूपभानादिक व्यवस्थाप्यत इति चेत्, तदा यदीवरो भूतभविप्यद्विषय विज्ञानरहितः, तदां सर्वदा सर्वदशित्वं तस्य सर्वसंमतं भज्येत । तदा जीव दृष्ट्राद्यधिष्ठानाद्यभावप्रसङ्गेन, ’ कर्माध्यक्ष ‘इतिसाक्षिवाक्यश्रुतार्थ-भङ्गः सृप्रयारम्भासंभवश्च स्यात् । अतः सार्वकालिका विद्यावृत्तिनि कुरुम्बकरम्बितमीश्वरचैतन्यं न कदापि केवलसाक्षि भवितुमर्हति । अथ जीवसाक्षि विवेचनीयम् तत्रोक्तं शतदूषण्याम् न किञ्चिदनेन साक्षिणा भासनीयमिति । स्वरूप्रकाशस्य सार्वकालिकतया स्वरूपायत्तत्वमेवेति न साक्ष्यधीनत्वम् । अन्यत्तु अहङ्कारवृत्त्यधीनप्रकाशम् । सुखमहमस्वाप्समितीदं साक्ष्यधीनमिति चेत् — तत्र सुखांशः, अहमेशः, स्वापांशः, कालांशो वा ; कतमस्य साक्षिभास्यता ? नाद्यस्य; स्वरूपसुखस्य स्वरूप एव सर्वदा प्रकाशात् । न द्वितीयस्थ, तस्य सुषुप्तावभावात्; जागरेऽप्यहमर्थसत्त्वादेतत्लतिसंधानस्य तदर्थमनुदाहरणीयत्वाच्च । न तृतीयस्य ; स्वापो नाम यदि वृत्तिविशेषः, तर्हि वृत्त्यन्तराणामिव तस्यापि वृत्तिच्छुरितचैतन्याधीनभानतया ► ૬૬
किं पृथग्भूतसाक्षिकार्यमस्तीति । अत एव न चतुर्थस्य । यत्तच्यते सुखस्य स्वरूपत्वेऽपि जागरदशायामपि तद्भाने सुखमहमस्वाप्समिति सुषुप्तौ विशेषाभावप्रसंगात् आवृतस्यापि सुखांशस्यानावृतरूपेण मानं तदा साक्षिणा । अन्यस्य सुखमिति तदा परामर्शनीयस्याभावात् ; सुषुप्तौ वैषयिकसुखाप्रसक्तेरिति-तत्र विचार्यम् जागरदशायामावृतस्य सुखांशस्य तदानीमावरण-भङ्गः किमधीनः, येन स साक्षिभःस्यः स्यात् । मुक्तिप्राक्काला वच्छिन्नतत्त्वमसि वाक्यार्थवृत्तिवत् तत्र कस्यचिदभावे चावृत एव स इति तत्प्रकाशासंभव एव । तथा तस्य सुखस्य साक्ष्यनतिरेकात् अन्येन स्वम्य ग्रहणे आवरणस्य बाधकत्वेऽपि स्वेन स्वग्रहणे आवरणस्य बाधकता न संभवदुक्तिकेति प्रागेवोपपादितत्वेन चावरणमेव सुखांशे दुर्वचम् । एवं सुषुप्तावानन्दावरण निवृत्तौ सुषुप्तिकाल एव मुक्तिप्रसंगः । आनन्दज्ञानादेव हि संसारः । अद्वैतविद्याचार्योक्तविधया आनन्दाभिव्यक्तितारतम्यमन्ति; पूर्णामिव्यक्तिरेव मुक्तिरिति चेत्-न–आनन्दम्य स्वयम्प्रकाशतया तस्य व्यञ्जकानपेक्षितया जडस्य तद्वयञ्जकत्वायोगाच्च आनन्दगतापरिच्छिन्नत्वस्यापि स्वरूपानतिरेकाच्च स्वरूपे प्रकाशमाने प्रकाश्यस्यान्यस्याभावात् तद्योगात् । यच्चोक्तम् — सुषुप्तावन्तःकरणलयेऽपि सूक्ष्मावस्थं तदस्ति । तदविद्या विषयिणी वृत्तिः सुखादिविषयिणी च वृत्तिर्भवति । प्रमाणजन्यवृत्तिविलक्षणतद्वृत्त्युपहितचैतन्यसंबन्धादविद्यासुखादीनां भानमिति–तत्र जागरदशावस्थितमन्तःकरणमहमर्थ इति नियन्त्रणमयुक्तम् । सुषुप्तिकालिकसूक्ष्मांशस्यापि अहमस्वाप्सामित्यह मुल्लेख विषयत्वात् सुषुप्तिजागरसाधारणान्तःकरणस्वरूपमेवाहम्पद विवक्ष्यमित्युक्तमेव । तथा शास्त्रविदां सृष्टिप्रलयप्रवाह विज्ञानानुरोधेन अहं भूतपूर्वेषु प्रलयेषु सर्वेषु सर्गेविवासमिति प्रलयावच्छेदेनाप्यहमर्थस्थिति प्रतीत्या अविद्यांश एवाहमर्थत्वेन भवद्भिरेष्टव्यः । तत्रान्तःकरणस्य घटाद्याका रावृत्तिरित्युक्तौ तुल्यपरिमाणतापत्तिरिति स्यान्नाम । अन्पत्र गुणादिविषये वृत्तेस्तदा कारत्वं वृत्त्यच्छिन्न चैतन्यभास्यत्वातिरिक्तं न किञ्चित् सुवचम् । एव साक्षित्व-भङ्ग-प्रसाधनम् ६३७ मिहा विद्यैवा विद्याकारवृत्तिरूपेण परिणमत इत्युक्तावपि अविद्याऽवतिष्ठत इत्येतदतिरेकेण किश्चिद्रूप नोक्तं भवति ; स्वस्य स्वं प्रति विषयत्वञ्चायुक्तम् । एवमविद्यायाः ब्रह्मरूप सुखाकारा वृत्तिरित्यप्यसंभाव्यम् । यथा हि नीलाकारं ज्ञानमिति चौद्धमतम्, " अर्थेनैव विशेषो हि निराकरतया घियाम्" इति विषयस्वातिरिक्तस्याकारस्याभावान्निरस्यते, तथाऽत्रापि भाव्यताम् । चैतन्यवत् वृत्तेर्जडायाः प्रकाशकत्वाभावात्तु विषयत्वमपीह दुर्वचमिति विशेषः । तस्मात् तत्तदाकारा वृत्तिरुदेति, तदुपहितं चैतन्यं तत्तद्भासकं भवतीत्युपपादनमसंभवि । अत एवाविधक निवृत्त्याssवरणनिवृत्तिः, तत आनन्दस्य, अविद्यायाः, तद्रूपकालस्य च प्रकाश इत्युक्तमप्यपास्तम्वृत्ते रेव दुर्वचत्वात् । कालविषयीणी वृतिर्भवतीत्यपि दुर्वचम् । सामान्यतः कालस्य विषयत्वे व्यावर्तनाभावात् कालोपाविविशिष्टस्यैव तस्य भानं वाचम्-तत्र एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति बाह्यसूर्यपरिस्पन्दादिरूपानुभवसिद्धोपाधिविशेषावच्छिन्नकालस्यैव स्फुरणात् तद्विषय वृत्तिरेव तदा वक्तव्येति जगरादविशेष एव सुषुप्तेः स्यादित्यपि शतदूषण्यामुक्तमेव । एवमज्ञानं भावरूपमिति पक्षे सिद्धेऽपि तदाकारा वृत्तिर्न भवतीत्युक्तम् ; तत्रैव न प्रमाणमिति च स्थास्यति । ज्ञानाभावरूपमज्ञानश्च ज्ञानरूपप्रतियोगिग्रह णाधीन ग्रहणत्वात् ज्ञानस्य च विषयैकनिरूप्यत्वात् न ग्रहीतुं शक्यमिति भवताम्रपीष्टमिति सुषुप्तौ तद्वृत्त्युदयप्रसक्तिरेव नास्ति । तथा च सुखमहमस्वाप्स मित्यत्र कालस्याज्ञानरूपस्य स्वापस्य अविद्यमानस्याहमर्थस्य च ग्रहणासंभवे स्थिते सुखमानमेव शिष्यते । तदाकारत्वमपि वृत्ते दुर्वचमित्युक्तम् । / कारणञ्च किं वृत्ते ? यद्यकस्मादेव वृत्तिः, तर्हि जागरेऽपि स्यात् । अथ बाह्यवृत्तौ चक्षुरादि प्रमाणमिव सुषुप्तिकालभाविवैलक्षण्यं देहादावन्तः करणे वा स्थित तादृशवृत्तिप्रयोजकमिति चेत् — तर्हि भंग्यन्तरेण प्रमाणमेवापूर्व किञ्चिदुपन्यस्तं भवतीति जागर इव तत्रापि प्रमाणाधीने जीव एव तत्प्रकाशकारणं भवेदिति किं साक्षिरूपविशेषव्ययदेशेन ? सुखस्यात्मस्वरूपस्वाच्च स्वप्रकाशतया न तत्र वृत्त्यपेक्षा .६.३८
एव तर्हि सुखमहमस्वाप्स मित्यस्य प्रत्यवमर्शरूपत्वं कथं निर्वाह्यमिति चेत् — भवन्मते क्लेश एव । अस्माकं तु धर्मभूतज्ञानम्य कस्य चित् सद्भावात् प्रत्यवमर्शत्वं सुनिर्वचमिति पक्षोऽप्याचार्यैः निर्विषयस्वयम्प्रकाशविचारवादे न्यरूपि, यथा, “अतः सुषुप्तावपि सा साश्रयैव संकोचादिधर्मवती च । एकदेशिमतेनात्मविषयतया सविषया च । ततश्च सुखमहखाप्समिति परामर्शोऽप्युपपन्नः इति । यादृशसामग्रीबलात् सुषुप्ताव विद्यावृत्तिः काचिज्जायत इति भवतो च्यते, तादृशसामग्रीवलादेव धर्मभूतज्ञानं सुखरूपात्मविषयक परिणामविशेषं लभते । ज्ञानानां जायमानानां कालपरिच्छन्नतया ग्रहणस्वाभाव्यात् अस्मन्मते च कालस्यातिरिक्तपदार्थतया सर्वत्र ज्ञाने तत्कलानां मानस्येष्टतया च सुखस्वरूपस्यात्मनः कालस्य च तदा भानं सुवचमिति सिद्धं प्रत्यवमर्शत्वम् । वस्तुतः तार्किकनीमांसकादयः सुखभानं तदा नेच्छन्ति । दुःखमहमखाप्यम्, गाढं चाहं सुप्त इत्यप्यनुभवस्य कदाचित्कस्य पातञ्जलादौ दर्शितत्वात् दुःखमोहयोरपि सुषुप्तौ प्रसङ्ग इत्यापादयन्ति च । अस्माभिस्तु आत्मनः सुखरूपस्य स्वयम्प्रकाशतया स्वरूपात्मक सुखप्रकाशमात्रं तदा स्वीकृत्य सुखमहमस्खाप्समित्यस्य प्रत्यवमर्शत्वं प्रकारान्तरेणाहमर्थात्मत्वप्रसाधनावसर एव प्रपञ्चितमित्यलमधिकेन । आस्तामेतत् । इदं नः प्रकृतम् । यावत् ज्ञातृत्वं न स्वीक्रियते, तावत् साक्षित्वमपि न सुवचम् । उक्तञ्च श्रीमाप्ये, ज्ञातैव हि लोकवेदयोः साक्षीति व्यपदिश्यते " इति । यावत् ज्ञातृत्वमात्मनि निषिध्यते, तावत् साक्षित्वमपि निषेध्यमेव । ’ एको देव ’ इति लोके उपक्रान्तदेवत्वादीनां पाश्चात्यस्य च चेतृत्वस्यान्तराले निविष्टं हि साक्षित्वं तद्वदेव भवन्मते अनात्मनिष्ठं भतितुमर्हति । शोधने च तत्तत्पुरुषसा क्षिणा वाह्यप्रमाणग्राह्माणां तत्तत्पुरुषीयदेहादीनामपि सर्वदाभास्यत्वमस्तीत्यादेरुपेक्ष्यत्वेऽपि एतावत्तु वक्तव्यमस्ति-यत्-चैतन्यं स्वरूपतः स्वप्रकाशं भवति । अन्तःकरणावच्छिन्न चैतन्यं वृत्ति साक्षित्व-भङ्ग-प्रसाधनम् च्छुरितं सत् बाह्यं सर्व प्रकाशयति । ६३९ अन्तःकरणरूपाहमर्थ-तद्गुतरागद्वेष सुखदुःखादिवृत्त्यादिकं तु चैतन्यमात्रभास्यमिति तदात्वे तत् साक्षीति तदेतत्प्रमेयदौः स्थ्यं वादान्तरत एवं सुग्रहमिति इह व्यपदिश्यत इति । वादे एतत्प्रकाशकत्वेन स्वीकृतेऽत्र चैतन्ये साक्षिपदव्यपदेशः सादरं क्रियमाणो न युक्त इत्येतावत् ब्रूमः । यदा तु मुक्तिकारणाखण्डाकारवृत्तिरिव सुषुप्तौ सुखविषयेऽन्तःकरणसूक्ष्मांशविषये स्वापादिविषये च वृत्तिरपीष्यते, तादृशवृत्तिज्ञानाश्रयत्वं ज्ञातृत्वविशेष एव साक्षित्वमिति न तस्यात्मनिष्ठत्वम् किंतूपाधिनिष्ठत्वमेवेति उपहिते साक्षिशब्दनिर्देशो ऽनुपपन्न एवेति । तदा चैतन्याश्रयस्यैव ; भवता तु—विषयचैतन्यः भिन्नप्रमातृचैतन्यं साक्षीत्युक्तौ द्रष्टृरूपं साक्षिः तदभिन्नवृत्त्यवच्छिन्नचैतन्यं साक्षीत्युक्तौ साक्षात्काररूपं साक्षीति विवेक इत्युक्तम् । पदद्वयेऽपि साक्षिशब्द मुख्यार्थासंभव एव । साक्षिपदार्थताया लोकप्रसिद्धत्वात् । यत्तु सुषुप्तावप्यन्तःकरणसूक्ष्मावस्थारूपा विद्योपहित चैतन्यस्य प्रमातृत्वमनपायमिति साक्षिणि प्रमातृत्ववचनम्, तत् अद्वैतिष्वेव जीवातिरिक्तसाक्ष्यभावपक्षोऽपि कश्चिदस्तीति प्रागुपन्यस्य कथञ्चित् तत्राविशेषव्युत्पादने प्रकृत्य, अन्तःकरण विशिष्टः प्रमाता, तदुपहितः साक्षीति प्रमातृसाक्षिणोर्भेदप्रतिपादक सिद्धान्तलेशसंग्रह ग्रन्थविरुद्धम् । ज्ञानचैतन्यप्रमितिप्रत्यक्षादिपदानि वृत्तिप्रतिफलित चैतन्यपर्यन्तबोधकानीति परिभाषा दावप्युक्तमिति तदाश्रय एव हि ज्ञातृसाक्ष्यादिपदनिर्देश्यो भवेत् । न च भवदभिमतसाक्षिणस्तथात्वं भवितुमर्हति । तस्मादुल्लोकमुच्छास्त्रञ्च प्रमेयनातं स्वयं शिक्षित्वा सर्वस्यापि व्यवहारस्य क्लेशेन निर्वाहं विदधतां ज्ञात्रादिशब्दप्रयोगे संगतिविरहः साक्ष्यादिपदप्रयोगे समादरश्च न स्थाने । ब्रह्मैव विकृतं किञ्चित् ब्रह्मा नाम यथा, तथा । यत् साक्षादपरोक्षात् तत् साक्षीति स्यान्नु कल्पना ॥ जीवस्य साक्षिणश्चेष्टो यदि भेदः, कथं तदा । अवाप्तं सुखमेतावदहं नाज्ञासिषं मनाक् ॥६४. परमाथभूषण , इति जीवः साक्षिभातप्रतिसंधानकृत् भवेत् । ऐक्याध्यासादिति तु यत् तन्न, अध्यासेऽप्यनैक्यतः ॥ जीवस्य नानाव्यवहारकर्तुः साक्षित्वमिप्येत न हीति चेन्न । लोकेऽपि नो तर्हि भवेत्तु साक्षी सर्वो नेकव्यवहारकारी ॥ कार्यान्तरेऽ सौ कृतिमानपि स्यात् साक्षी कचिच्चेत् तदकर्तृभावात् । जैवेषु कार्येषु तु साक्षिमावादशोऽपि साक्ष्यस्तु किमन्यथोत्तया ॥ परन्तु साक्षित्वमिहेरयद्भिः ज्ञातृत्वमप्यप्रतिषेधनीयम् । असंभवस्तस्य यदीह जीवे परे च तुल्यस्तु स साक्षितायाम् ॥ अद्वैत सिद्धयुक्तमपीह चिन्त्यम् –अज्ञानमज्ञानतयाऽन्यथा वा । स्यात् साक्षिमास्यं सततम् ; न पूर्वः न जागरेऽज्ञानधियोऽनुवृत्तिः ॥ स्वरूपतः सार्वदिके तु भाने मानं हि नो किञ्चिदतश्च नान्त्यः । किश्चेह नाज्ञासिषमित्युपात्तः किमन्वयी स्यात् वद भूतकालः ॥ ज्ञाधातुवाच्ये तु न, यद् ब्रवीपि भावात्मकाज्ञानपरं समस्तम् । अज्ञान एतर्हि न भूतकालः ; नाज्ञानवृत्तौ न हि सा पदोक्ता ॥ भावात्मकाज्ञानमतो न सिद्धयेत् जीवोऽथ साक्षी यदुपाधिकः स्यात् । एका तमोवृत्तिरपीह चिन्त्या कथं सुषुप्तौ विविधास्तु वृत्तिः ॥ साक्षीति कूटस्थ चितिं यदाहुः स्यात् कूटसाक्ष्येक निरूप्यमेतत् । अत्ताऽमर्थोऽस्त्वभिचाकशीीत्युक्तस्तु जीवोऽस्त्विति शाङ्करोक्तिः ॥ जीवोऽयमत्ता स परः परः स्यादित्यात्मयुग्मं खलु सूत्रसिद्धम् । जीवात्मसाक्ष्यात्मयुगं तदर्थ इतीयमर्वाग्जनकल्पनैव ॥ , जीवोऽथ साक्षीति विभागक्लप्तिः तं कल्पितं भेदमथो निदये । परस्य जीवस्य च भेदमेवमवास्तवं वर्णयितुं कृता स्यात् ॥ सुखात्मना संततभासमानैः मुक्तौ लसत्तीव्रमुखत्ववोधैः । सार्वज्ञयतः साक्षिभिरीड्यमानो देवोऽहमर्थैर्हृदि मे स दीव्यात् ॥ शुभमस्तु । ● श्रीः