२८ ज्ञातृत्वाध्यास-भङ्ग-प्रसाधनम्

नित्या विभूतभव्यानुपधिकनिखिलमा हिविज्ञानधर्मा नित्येदृक्सूरि बृन्दस्तुत निजम हि मानन्तसचेतनात्मा । कर्माविद्यादिचक्रभ्रमणजनसमुद्धारणैकान्तकर्मा शर्मायं सर्वकर्मा दिशतु मम नतेः कर्मभूमा त्रिधामा ॥ स्वमतं सिद्धवत्कृत्य स्वगृहीतार्थवर्णनम् । क्रियासमभिहारेण कृतं न स्वष्टसाधकम् । दूषणानां परीहारे यत्यते चेन्मनागपि । फलेग्रहित्वं यत्नस्य विभ्रष्टव्यं भवेदिह ॥ लोकानुभवसतर्क लाघवात्यन्तदृरगः । आम्नाय बाधितश्चांशः कथं सिद्धवदुद्यते ॥ ६१६

अहं चिदचितोर्ग्रन्थिः चेतने नास्ति चेतना । अन्योन्याभ्यास इत्यादौ प्रमाणं प्राक् प्रदर्शनम् ॥ आत्मनां ज्ञत्वकर्तृत्वतत्परायत्तताः वदन् । कथं व्यासस्तन्निषेधचिन्मात्रैकात्मतामतिः ? यतु, ‘जोडतएवे ‘ति सूत्र भावे कप्रत्ययान्तज्ञपदघटितं चिद्रपत्वमेवारमन उपपादयतीतिदि व्यामोहनमात्रम् । " इगुपधज्ञाप्रीकिरः कः " इति कंप्रत्ययो हि, “कर्तरि कृत्” इति कर्तर्यनुशिष्टः । सर्वत्रैव श्रुतिस्मृतिसूत्रेषु क्लिष्टार्थवर्णनमात्रेण स्वनतं स्थापितं भवतीति न विस्रब्धव्यम् । सहृदयानामनभिनिवेशिनां पुरस्तात् इदमुपपादनं नूनं मतमौर्बल्यस्थापन परमेव स्यात् । भाग्यादिविरुद्धश्चायं निर्वाहः । भाष्यकारो हि चैतन्यस्त्वरूपत्वमेवान्ततः स्वयमाशयानोऽपि तदभिप्रायेण, सांख्यानामिवेति लिखन्नपि ज्ञशब्दयथावस्थितार्थमन्यथयितुमपारयन्, “ज्ञः नित्यचैतन्यः” इत्येव व्याख्याति । नित्यचैतन्यपदं बहुव्रीहिवृत्तं पुल्लिङ्गत्वात् चेतनस्य चैतन्यं नित्यगुणः ; न तु वैशेषिकादीनामिवाऽऽगन्तुकमितीममेवार्थ वक्तुं प्रभवति । पूर्ववत्, “नित्यचैतन्यखरूप” इति विलिख्य ज्ञशब्द व्याख्यातुमपि नेच्छति भाष्यकारः आर्जवनिधिथिरितिस्थिते भावेकप्रत्यय इति शब्दमिमं विशेष्यनिघ्नं स स्वप्नेऽपि नहि व्युत्पादयेत् । इतो वरं तु भवतैवं चिन्तनम् ज्ञानमिति प्रकाशमात्रविवक्षा । ’ तथाच ज्ञइति प्रकाशवानित्यर्थः ; न तु ज्ञानवानिति । एवमुक्तौ अर्थसौष्ठवमात्रहानिः भवता तु शब्दसौष्ठवहानिरपि सहाऽऽद्रियते । एवं ज्ञइत्यस्य भावार्थविवक्षया ज्ञानस्वरूप इत्वर्थमुक्त्वा, “एवं कर्तृत्वादिकमपि" इत्युक्तमप्यसंगतम् । आत्मा न ज्ञाता, किंतु ज्ञानस्वरूप इतिवत् आत्मा न कर्ता, किंतु कृतिस्वरूप इति स्वलूक्तं भवति । न चैतत् संगच्छते । “न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते " इत्यस्य ज्ञातृगतस्य ज्ञानस्य लोको नास्तीत्यर्थं सर्वोऽपि व्युत्पन्नः सरसं गृह्णीयात् । इत्थत्वेच आत्मा ज्ञानस्वरूपो न लुप्यत इति भावत्कोऽर्थः कथं स्वरसस्यात् । " न प्रेत्य संज्ञाऽस्ति ‘इत्यस्य ज्ञानस्वरूपत्वपरत्वं दुर्भणम् । बृहदारः 1 ज्ञातृत्वाध्यास-भङ्ग-प्रसाधनम् ६१७ यकेच, ‘कथं विरुद्धनुच्यते विज्ञातैवात्मा, मरणानन्तरं ज्ञानं नास्त्येवेति’ इति मैत्री इम् ‘अलं वा अरे अर्थ विज्ञानाय’ इति, ज्ञातुमर्थ समर्थ इति प्रतिबुवा पना ज्ञातृत्वरूपधर्माश्रयत्वमेव निगन्तिम् । अत्र शाङ्करोपनिषद्भाष्ये, “वियया नाशिते त्वविद्याप्रत्युपस्थापितांशे अन्यत्वदर्शनलक्षणा संज्ञा नश्यती” त्यर्थो वर्गितः । अत्र सज्ञ पदस्यान्यत्वदर्शनमित्यर्थो न स्वरसः । एतदपेक्षया स्वसिद्धान्तानुरोधेनैव, ‘अविद्याविनाशे सति अहंकारेणकीकृत्य ज्ञानमात्मनो न भवतीत्यर्थवरीनं ज्यायः । समित्येकीकार इति हि प्रसिद्धम् । वस्तुतो भवसिद्धान्तसमतौ मंत्रीकृतं मोहापादनापादनं न युज्यते । विज्ञानघन एवार्थ मुक्त ज्ञानमात्र परिशेषात् ज्ञानाश्रयो न भवतीति न प्रेत्य संज्ञाऽस्ती ‘ति धर्मभूतज्ञानाभावकथनं हि संगतमेव । एवञ्च प्रश्नस्यायमाशयःकिं ज्ञान रूपत्वात् ज्ञानगुणकत्वं न भवतीति भवदभिमतोऽर्थः, उत्तान्यादृश इति । तत्र प्रत्युच्यते, अलं वा अरे अयं विज्ञानाय । ज्ञातृत्वं तस्य कदाऽपि नापैति । एकीकृत्य ज्ञानरूपो भ्रमस्तु नास्तीति । तस्मात् ज्ञानमात्रमसाविति न मन्तव्यम् ? ज्ञानाश्रयत्वमस्त्येवेति भवन्मतविपरीतवर्णनमेवेह सुसंगतमिति वाक्यमिंद भवन्मतनिरासकमेव । ज्ञानाश्रयत्वानङ्गीकारे, ‘अविनाशी वा अरे अयमनुच्छितिवर्मा’ इत्यत्रानुच्छित्तिधर्भपत्रं ज्ञातृस्वरूपस्येव ज्ञानस्याप्यविनाशित्वपरत्वाभावे व्यर्थमेव भवेदिति प्रागेवा वोचाम । ‘विज्ञातारमरे’ इति श्रुतिव्याख्यानं वाक्यान्वयाधिकरणभाष्ये, ‘विज्ञानधातुरेव केवलः सन् भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्टः’ इति कृतं व्याख्यानं तत्रश्रद्धालभ्यो जातु रोचेतः न शब्दस्वारस्यमनुमृत्यार्थ निष्कर्षपरेभ्यः श्रुतिपरतन्त्रेभ्यः । धर्मभूत ज्ञानस्यात्मनश्चापृथ किसद्धिर्न भवति, उपादानोपादेयभावाभावात् । शरीरशरीरिभावस्तु नास्त्येवेत्युक्तमप्यापाततः । पृथक्सिद्धि प्रति तस्यतस्य नियामकत्वाभावस्य आकर एव व्यक्तत्वात् । ’ कर्ता शास्त्रार्थवत्त्वात् ’ इति कर्तृत्व महंकारे तत्समसत्ताकमस्तीत्युच्यत इत्य् अपि हेयम् -’ नात्मा श्रुनेः’ इति यस्यात्मनः प्रागनुत्पत्तिरुक्ता, ‘ज्ञोत एव’ इति च यस्य ज्ञानस्वरूपत्वमुक्तम्, 78 ६१८ परमार्थभूषण उत्क्रान्त्यधिकरणे च यस्यात्वं प्रतिषिध्य विभुत्वमुक्तम्, तस्यैव हि कर्तृत्वं प्रकृतम् । तत् कथमहङ्कारे तदुच्यत इति कव्यते । शास्त्रस्याविद्यावद्विषयत्वादेवमेव हि वक्तव्यमिति चेत् एवं सिद्धं वा सर्वान्यथनमेव माभूदिति प्रतिबोध्यते । बुद्धेस्तत्राप्रकृतत्वात् तद्गतं कर्तृत्वमप्रकृतञ्च । “यावदात्मभावित्वात् -” इति सूत्रे बुद्धिसंयोगस्य यावदात्ममावित्वभाषणमपि बाधितम् मुक्तौ द भावात् । आत्मपदेन संसारदशापन्नात्मग्रहणमिति चानृजु । तथैवेह कर्तृपदेन. बुद्धिग्रहणमपि। आरोपितकर्तृताक इत्यर्थः कर्तेत्यस्येति चेत् एवं प्रत्यधिकरणं साध्यस्यार्थस्यारोपितत्वमेव बादरायणप्रतिविपादयिषित मिति भाष्यताम् साधु शारीरक व्याख्यातं भविष्यति । किमेतावन्मात्रम् उपरि ’ “व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः, " ‘उपलधिवद नियमः ’ शक्तिविपर्ययात्” “समाध्यमावाच्च” इति सूत्रैर्बुद्धयहंकारविज्ञानादिशब्दवाच्यादन्यस्मिन् आत्मन्येव कर्तृत्वं स्थाध्यमानं कथं घटताम् ? भाष्यमपि खसिद्धान्तविरोधेनैव सर्वाणि सूत्राणि व्याख्याति । } वस्तुतो भवन्मते विज्ञानस्यैव बुद्धेः कर्तृत्वं स्थिते बुद्धेः करणत्वात् निर्देशविपर्ययः स्यात् । तदभावात् आत्मैव कर्ताऽत्रोक्त इनि भाषणमयुक्तम् । ‘समाध्यभावाच्च’ इति सूत्रे आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति समाधिरूपदिष्टो वेदान्तेषु औपनिषदात्मप्रतिपत्तिप्रयोजन इति भाषणे चान्योऽपि कश्चित् स्वमतविरोधः । अस्य वाक्यस्य किञ्चिद्विधिपरत्वाभावस्य समन्वयाधिकरणे स्वोक्तत्वात् । भामती तु एतादृशं शोधनीयमर्थमविशोध्य भ्रान्त्यन्तरमपि भाष्ये आरोपयति । ‘श्रोतव्यो मन्तव्य’ इति धारणोपदेशः : ‘निदिध्यासितव्य’ इति ध्यानोपदेशः इति । न हि श्रवणमननयोर्धारणात्वं योगानुशासने विवक्षितम् । न च दर्शनस्य क्रियासाध्यत्वं विधेयत्वं भवतां शक्यशङ्कम्, येन कर्तधिकरणे तदुपदेशो युज्यते । अत एवावसीयते, समाधिं विधेयं निर्दिशता सूत्रकारेणेह दर्शनसमानाकारध्यान वेधावेव वाक्यनैर्भर्यं ज्ञाप्यत इत्यन्यदेतत् । अथ च यथा च तक्षोभयथा’ इत्यधिकरणा ज्ञातृत्वाभ्यास-भङ्ग-प्रसाधनम् ६१९ न्तरेण कर्तृत्वमारोपितमुच्यत इत्य् अपि हेयम् । अरोपितल्वस्याभिप्रेतत्वे पूर्वं स्थापनस्यानावश्यकत्वात् । ’ उभयथे ‘ति पदं हि कदाचित् कर्तृत्वम् अन्यदा तदभावञ्च बोधयेत् ; न पुनः यदा कर्तृत्वम्, तदा तस्यारोपितत्वमपि । वस्तुत एवं भाष्यमा रचयद्विदि, “कर्ता शास्त्रार्थत्वात्” इति सूत्रमारभ्य, " समाध्यभावाच्च " इति सूत्रं यावत् पूर्वपक्ष इत्युपन्यस्य, यथा च तक्षोभयथा " इति सिद्धान्तसूत्रमित्युपादेक्ष्यत कतिपयदोषतोऽमोक्ष्यत । भाष्ये च, यत्तक्तं शास्त्रार्थवत्त्वादिभिः " इत्यादिभाषणं पूर्वसिद्धान्तितार्थस्यापि स्वयं खण्डनीयत्वमेवाभिमन्यते आनन्दमयाधिकरणइवेति साधीयः सूत्रव्याख्यानम् । ।

उपरि श्रतप्रकाशिकावाक्योद्धरणे, “कर्ता शास्त्रेत्यत्र कर्तृत्वस्य खभाविस्खाकतया पारमार्थ्यं किं प्रतिपिपादयिषितम्" इति उद्धायें, “कर्तृत्वस्यास्वाभाविकतया अपारमार्थ्यमित्यन्यधानुवादो ऽप्युत्तरवाक्यार्थानालोचननिबन्धनः । एवम्, “देवस्य वा तदतिरिक्तस्य वा कस्यचिदात्मतयाऽभिमतस्या कर्तृत्वं हि सर्वजनसंम नम्” इत्यप्ययथानुवादः । नानुवादस्य परमन्यथाभावः; “न कर्लधिकरणेनाहमर्थकर्तृत्व देरस्वाभाविकत्वम् “, इत्यादिपरीक्षणवाक्यमपि प्रमादमयम् । यत्तु धर्मि समसत्ताधर्मत्वं कर्तृत्वे कविकरणेन साध्यते इति तन्न असमसताकं कर्तृत्वमस्तीति लोके केनाप्यगृहीततया तत्साधनस्यानावश्यकत्वात् । धर्मपदेनात्मग्रहणे समसत्ताकत्वं कर्तृत्वस्य बाधितम् ; अहंकारग्रहणे कर्तधिकरणे तदप्रसक्तम् । प्रत्युत विज्ञानरूपाहंकारव्यतिरिक्तस्त्रैव कर्तृत्वं तत्र स्थाष्यते भाष्यरीत्यापीति प्रागेव प्रादर्शि । कर्तधिकरणारम्भश्च भवतां व्यर्थः । पूर्वपक्षस्याभावात् । अत एव भाध्ये पूर्वपक्षो नादशि । भामतीकारस्तु आत्मा न कर्ता, किन्तु मोक्तैवेति वदतः सांख्यस्य पूर्वपक्षित्वं मन्यते —तन्न युक्तम् । कर्तृत्वविषये सांख्यसाम्यस्यैव भवन्मते स्थितेः । अतो भवन्मतनिराकरणार्थमेवेदमधिकरणम् ॥ अद्वैत सिद्धौ यदुक्तम्सांख्येन कर्तृत्वमनिष्ट्रा भोक्तृत्वमुच्यते जीवे, तन्निरस्य भोक्तृत्ववत् कर्तृत्वमप्यस्तीति प्रकृताधिकरणे प्रतिपाद्यत इति तदपि न भोक्तृत्वनिषेधार्थमेव हि तधिकरणमारचयित-६२ "

व्यम् ; न तु कर्तृत्वस्थापनार्थम् । उभयस्याप्यात्मनि भवन्मतेऽनिष्टत्वात् । वस्तुतः सांख्योऽपि, पुरुषोऽस्ति भोक्तृमावात " इति वदन्नपि शोधने भोक्तृत्वं न मन्यते । सुखदुःखयोरन्तःकरणधर्मत्वस्यैव तदिष्टत्वात् । सुखदुःखवृत्तिरूपभोगस्यापि तवैव स्थितेश्च । भोगो नाम सुखदुखप्रकाशः चैतन्याधीन इति तदाश्रयत्वं चैतन्यरूपस्य पुरुषस्येति चेत्भवन्मते साक्षिभास्यत्वात् सुखदुःखयोः साक्षिणि तत्प्रकाशवत्त्वमविशिष्टम् । भोगो नाम सुखदुःखप्रकाशक चैतन्यमेवेति चेत् तर्हि तदाश्रयत्वं चैतन्यस्यात्मनो न भवतीत्यप्युभयाविशिष्टम् । अतः वास्तवकर्तृत्वस्थापन एवाधिकरणं सङ्गतं स्यात् ॥ " तत्र कर्तृत्वे आत्मनि स्थापिते पूर्वं स्वाभाव्यग्योक्ततया तद्वत् कर्तृत्वं स्वाभाविकं सार्वकालिकं स्यादिति शंकापरिहाराश्रम् अचेतनस्य कर्तृत्वे यन्त्रादिवत् नियन्त्रयितुश्चेतनस्याभावात सर्वदैव कर्तृत्वापत्तिरिति प्रकृतिकर्तृत्वपरिहारार्थञ्च, “ यथा च तक्षोभयथा " इति सूत्रम् । ज्ञत्वं शरीरापकरणे सत्यपि भवति, असत्यपि, मुक्तौ शरीरं विनैवानुभवस्यापीत्वात्; कर्तृत्वं पुनरुपकरणोपयोजनप्रसक्तौ भवति, अन्यदा न भवतीति वैलक्षण्यं वर्णितं भवति । अत एव कत्वाधिकरणेऽधिकरण भेदकल्पनाऽपि न युक्तेत्यलं परमते सूत्रम्वारस्य-भङ्गनिरूपणीयस्यात्र विस्तरेण ॥ एवं कर्तृत्वस्य सूत्रकृत्साधितत्वादेव, ‘ज्ञातृत्वकर्तृत्व. दिकं नात्मधर्मः, विक्रियात्मकत्वात’ इत्यनुमानमाभासभूतम् । कर्तृत्वस्यानित्यत्वेऽऽत्मनोऽप्यनित्यत्वमिति न हि नियन्तुं शक्यम् । स्थिरेऽपि धर्मिणि घटादौ पाकवशात् रूपादिनाशात् । चैत्रा देरिच्छायां गन्तृत्वस्य, अन्यदा तदभावस्य च दृष्टेः । सूत्रे तक्षदृष्टान्तस्य दर्शितत्वाच्च । सन्ततसञ्चारित्रसरेण्वादिसंयोगसंतानरूपविक्रियात्मत्वस्यात्मनि स्थितेश्च । पारमार्थिकत्वं त्वन्यत् । अतो धर्मधर्मिणोर्भेदात् धर्म समानायुकत्वस्य धर्मिण्यनियमात् धर्मनाशवत् धर्मिनाशस्य पृथक् तत्सामप्रयायत्तत्वात् नाशकरहिते आत्मनि धर्मनाशेन नाशप्रसत्त्यभावात् कर्तृत्वादे 1 ज्ञातृत्वाभ्यास-भङ्ग-प्रसाधनम् ६२१ रात्मधर्मत्वं न दोषावहम् । आत्मनोऽहंकारावच्छिन्नत्वमपि विक्रियात्मकमेव । न चायमानात्मधर्मः । एवं घटावच्छिन्न चैतन्यमित्यादौ चैतन्ये घटावच्छिन्नत्वादिककमपि द्रष्टव्यम् । अतस्तैरनैकान्त्यम् । दृश्यत्वादिति हेतोरसिद्धिस्तु नास्माभिरुक्ता । आत्मनोऽपि दृश्यत्वस्य प्रागुपपादितत्वात् पुनरसाधकत्वं भाव्यमित्यु क्तम् ॥ I यत्तु · धर्मभूतज्ञानस्य आत्मा पृथक् सिद्धत्वे, आत्मा ज्ञानमिति प्रयोगः स्यादिति -तत्रोच्यते । यदि ज्ञानशब्देन ज्ञानमात्रविवक्षा, तदा ऐक्यस्य बाधान्न प्रयोगः । विशिष्टविवक्षया तु प्रयुज्यत एव “विज्ञानं यज्ञ तनुते”, " सत्यं ज्ञानमनन्तं ब्रह्म” इत्येवम् । अहं जानामीति न स्यादिति त्वयुक्तम् । ज्ञाधातोर्धर्ममात्रार्थकतया आश्रय समर्पकपदस्यावश्यकत्वात् । अहमर्थम्यात्मत्वे सशरीरस्यैवात्मत्वापत्तिरिति चायुक्तम् । शरीरं विनाऽप्यहमर्थसत्त्वात्, अहमर्थविलयेऽपि सुषुप्तयादौ शरीरस्य स्थिनेश्च । तथाऽहमर्थपदेन अहंकारदिवक्षणे तस्यात्मताया अस्माभिरकथनात् । अन्यस्तु शरीराभावेऽपि अहमित्यनुभूयमान एव प्रमाणसिद्ध इति न सशरीरत्वनियमापादनप्रसक्तिः । अतः शतदूषणीदूषितानुमानपुनर्गणनं व्यर्थम् । ‘अहं जानामी समानाधिकरणप्रतीतिधर्मतादात्म्याध्यासात्’ इति चायुक्तम् । को हि तिङन्तप्रयोगे वात्वर्थस्य कर्तुश्च तादात्म्यमा नुभविकमिति ब्रूयात् । न हि चैत्रः पचतीत्युक्तौ चैत्रपा कैक्यप्रतीतिः । पच्यर्थस्य पाकस्य आख्यातार्थकर्त्रन्वयात् पाककर्त्रभेदस्यैवानुभवात् । अतोऽहं जानामीति ज्ञानाश्रयाभेद एव प्रतीयते; न तु ज्ञानाभेदः । अत एवाहं ज्ञानमिति भवन्मते भाव्यमित्यापाद्यते एतद्विवेकश्चोपरिष्टात ॥ धर्मभूत ज्ञान स्वरूपशोधनं तु पौनःपुन्येन कृतमेव । शौनकेन, “अबोधादीनां गुणत्वे, “अवबोधादयो गुणाः प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते " इति स्पष्टमुपदिश्यमाने तस्य वाक्यस्य न धर्मभूतज्ञानपरत्वम्, किन्तु चिद्रपस्य स्वयंप्रकाशत्वपरत्वमिति लेखनं न व्युत्पन्नहृद्यम् । सूत्रभाष्ये मणिप्रदीपाद्यपेक्षया प्रभायाः क्रव्यान्तरत्वं साधितमस्तीति, यथा न क्रियते 16 ६२२ ;

/ ज्योत्स्ना मलप्रक्षालान्मणेः ।” इति शौनकदर्शितदृष्टान्तो हि भवद्भाष्यानुसारेऽपि धर्मभूतज्ञानपक्षमेव स्वीकारयति । मीमांसकमनेऽपि आत्मैव ज्ञानरूपेण परिणमतीत्यत्र च न किञ्चित् प्रमाणम् । अस्मन्मते आत्मनि स्वरूपपरिणामानङ्गीकारात् धर्ममृतज्ञानस्य संकोचविकासशालितया परिणामित्वेऽपि धर्मधर्मिणोर्भेदादात्मनि निर्विकारत्वस्याक्षतत्वात् न निर्विकारत्वश्रुतिविरोधः । ज्ञातृत्वमपि कश्चिद्विकार इति चेन्न तम्यात्मपरिणामत्वाभावस्योक्तत्वात् । निर्विकारभित्यस्य परिणामशून्यमित्येवार्थात । सर्वकादाचित्कधर्मानाश्रयत्वमेव निर्विकारत्वश्रुत्यर्थः अविशेषादिति चेन्न तथा सति संयोगविभागादिरपि विकारो नात्मनो भवेत् तथा च संसारित्वमुक्तस्वरूपकादाचित्कसंबन्धोऽपि न स्वात्; श्रोत्यत्वादिरूप वृत्तिसंबन्धोऽपि न भवेदिति । परमार्थी नास्त्येवेति चेत् व्यावहारिक विकारेषु वर्तमाने 3 निर्विकारत्वं कथम् ? न च पारमार्थिको विकारः कश्चिदस्ति, येन विकारपदस्य पारमार्थिकविकारविशेषे संकोचः स्यात् । सर्वप्रकारेण विकाराभावे निर्विकारश्रुतिस्वरसप्रतीते पारमार्थिकविकारशून्यमिति वा पारमार्थिकत्वेन विकारशून्यमिति वा पारमार्थिक संबन्धविशेषेण विकारशून्यमिति वा संकुचितार्यकरूपनं परं कथं घटताम् । मानान्तरा विरोधाय न हिस्यात्” इत्यादी विशेषस्य विशेषविषयत्वं दृष्टमिश्चेत्यद्वैत सिद्धावप्युक्तमिति चेत् तन्मदुक्तरीत्या स्वरूप परिणाम राहित्यं निर्विकारपदार्थ इति विशेषपः देवमानं संभवत् परित्यज्य किमि सर्वमिध्यात्वकल्पनाप्रयासपरिग्रहः ॥ " " 1 ज्ञातृत्वादिकं नात्मधर्मः, विक्रियात्मकत्वादित्यत्र विक्रियापदेन क्रियायोगमात्रादिविवक्षायामस्तिक्रियायोगमादायानैकान्त्यमुक्तं शतदृषण्याम्तत्रोत्पतिविनाशरूपक्रियायोगस्यैव विक्रियात्मत्वादिति न समाधानम् । अस्तिक्रियासाधारणविक्रियार्थत्वपक्षे ऽनैकान्त्यावारणात् । भवदुक्तविक्रिया तु आदिपदग्राद्या गमनसंयोगविभागादिषु आत्मधर्मेषु अपरमार्थिका इति चेत् — किमन्यत्र स्थितानां तेषां हेतुसत्त्वात् । ते आत्मन्यारोपः उत ज्ञातृत्वाभ्यास-भङ्ग-प्रसाधनम् ६२३ ब्रह्मगि जगत इवापूर्वाणामेव । नाद्यः, पारमार्थिकस्य तत्संयोगविभागाद्याधारस्यादृष्टेः । नान्त्यः, तथा सति प्रकृते विज्ञानत्वादिकमात्मनिष्ठमेव परं मिथ्येत्येतावत एव वक्तव्यतया अहमर्थे ज्ञातृत्वादिकमस्ति आत्मनि त्वारोप इति वर्णनप्रयासस्यानव सरत्वात् । तथा चास्तित्वादेरपि ज्ञातृत्वादेरप्यात्मधर्मत्वमेवेति बाघ एव । सर्वधर्मविरहिण आत्मनः पक्षसाध्यहेतु कोटिप्रवेशादिकमपि सर्वथा न भवतीति मूकीभवितव्यम् । अतः तूष्णीमास्येति शतदूषणीनिदेशः शिरसा वोढव्यः । आत्मत्वतुल्ययोगक्षेमताया विज्ञातृत्वेऽप्युक्तिसंभवात् । " चिन्मात्रस्य ब्रह्माभिन्नस्याविद्यानिवकिज्ञानविषयस्य त्रिकालावाध्यस्येव विज्ञातृस्वरूपस्य सत्त्वाङ्गीकारायोगात् " इति भवदुक्तमयुक्तम् । चिन्मात्रत्वब्रह्माभिन्नत्वाविद्यानिवर्तकज्ञानविषयत्वात्रिकालावाध्यत्वरूपधर्मचतुष्टयस्य भवदिष्टस्य विज्ञातृत्वस्य च तत्राभावे तुल्ये चिन्मात्रस्येत्यादिपदानामिव विज्ञातुरिति पदस्यापि समानाधिकरणतया प्रयोगे विशेषवाधकाभावात् । तत्तद्धर्भवत् ज्ञातृत्वस्यापि साक्षादेव तत्र कल्पनसंभवात् । परिणामात्मकवृत्तिरूपज्ञानस्यात्मनीष्टौ आत्मनः सविकारत्वापत्तिरिति चेत् — अपारमार्थिका परिमितविकारशालित्वेऽप्यभिमत निर्विकारत्वानपायात् । धर्मभूतज्ञानान्तरग्रहणेन निर्विकारत्वस्य सूपपादत्वाच्च । तस्मात् ज्ञात्रन्तरपरिकल्पनमयुक्तम् ॥ 1 अहंप्रत्ययो नात्मगोचरः अहंप्रत्ययत्वादिति प्रयोगस्तु — घटप्रत्ययो न कम्बुग्रीवादिमद्विषयः, घटप्रत्ययत्वात्, घटभ्रमवत् इति प्रयोगतुल्यः । अस्मत्प्रत्ययस्य चेदम्प्रययविलक्षणत्वात् इदंप्रत्ययविषयाहंकारव्यतिरिक्तमात्रविषयकत्वेनैव मुख्यत्वमेष्टव्यम् । तथा क्वापि प्रयोगो नास्तीति भवदुक्तिस्त्वपलाप एव ईश्वरमुक्त योगिप्रभृतिप्रयोगाणां परश्शतानां प्रदर्शितत्वात् । विवेकिप्रयोगस्य भ्रान्तत्वायोगात् । अहं ब्रह्मास्मि, अहमात्मेत्यादिप्रत्ययानां तावन्मात्रविषयकत्वाच्च । किञ्च सर्वत्राप्यहं प्रत्यये आत्मनोऽपि भानात् आत्मगोचरत्वाभावरूपसाध्यवैकल्यमेव । अहंप्रत्ययस्य देहादिविषयकस्याप्यात्मभ्रमरूपत्वस्येष्टतया आत्मविषयकत्वस्याप्यावश्यकत्वात् । आत्ममात्र गोचरत्वाभावः साध्यत ६२४

इति चेत्–मुख्यात्मप्रत्ययेऽपि एकत्वानुकूलत्वादिधर्ममानात् आत्ममात्रगोचरत्वस्यास्मदिष्टतया सिद्धसाधनम् । आत्मेतर विशेष्यकत्वं साध्यमिति चेन्न —अहं जानामीत्यादावपि अहमर्थच्छुरितचैन्यमाने आत्मेतर विशेष्यकत्वस्यासंप्रतिपत्तेः । अहमेव सर्वम्, अहं ब्रह्मास्मि, अहं निर्विकार इत्यादौ आत्मन एवं विशेष्यत्वाच्च । आत्मेतर विषयकत्वमात्रसाधने च सिद्धसाधनम् । एवमात्मत्वविशिष्टा विषयकत्वसाधनेऽपि ॥ , आत्मा ज्ञातृत्वादिरहितः अन्तःकरणव्यतिरिक्तत्वादिति प्रयोगे, आत्म न ज्ञानरूपः अन्तःकरणव्यतिरिक्तत्वादित्यपि स्यादित्यत्र ईश्वरे धर्मभूतज्ञाने वृत्तिज्ञाने वा व्यभिचार इत्यप्ययुक्तम् । ईश्वरम्यापि पक्षनिविष्टत्वात् । धर्मभूतज्ञानस्य भवदसंमतत्वात् । वृत्तेश्चास्माभिरनभ्युपगमात् । “अत्र व्याप्तेर्व्यभिचारादप्रयोजकत्वात्” इत्यादिलेखनमप्यपष्ठु इत्यन्यदेतत् । किञ्च, “प्रसञ्जकत्वादप्रयोजकत्वाच्च " इति सूक्तिमनाकलय्य व्यभिचारवर्णनमप्ययुक्तम् । अयं ह्यत्राशयः –अन्तःकरणमेव ज्ञातृ इति यदि प्रमाणप्रतिपन्नम् तर्हि अन्तः करणव्यतिरिक्तत्वं ज्ञातृत्वाभावं साधयेत् । अन्यथा करणव्यतिरिक्तत्वात् कर्तृत्वं नास्तीति साधनमत्यन्तहेयम् । करणव्यतिरिक्तस्यैव कर्तृत्वस्यानुभवसिद्धत्वात् । यदि नियामकमन्तरेणापि ततो ज्ञातृत्वराहित्यं सिद्धयेत, ज्ञानरूपत्वराहित्यं वा किं न सिद्धयेत् । यदि तत्राप्रयोजकत्वम् । तदिहापि तुल्यमिति । आत्मा न ज्ञाता अजडत्वादित्यत्र नाप्रयोजकशंका; ज्ञातृत्वेऽजत्वानापत्तिरिति विपक्षे बाधकतर्कसत्त्वादिति चायुक्तम् । न हि साध्याभावे हेत्वभाव इति कथनमात्रेण विपक्षे बाधकं प्रदर्शितं भवति । साध्यभावोऽस्तु, हेत्वभावो मास्त्विति पुनः शङ्कायां तर्कस्यासिद्धेः । प्रभारूपतेजो विशिष्टस्य प्रदीपस्य तेजस्त्ववत् ज्ञानविशिष्टत्वरूपज्ञातृत्वविशिष्टे ज्ञानत्वरूपाजडत्वस्य स्वीकारे बाधकाभावत् । अन्यत् सर्वमात्मोलेक्षामात्रम् । एवमहङ्कारस्य ज्ञातृत्वे दृश्यत्वप्रकृतिपरिणामत्वादिकं प्रयोजकमिति भवन्मतानुवादस्य शतदूषण्यामकृतत्वात् देहस्याचेतनत्वे तस्य तस्य प्रयोजकत्वं ज्ञातृत्वाभ्यासभम-प्रसाधनम् ६२५ भवदीयोक्तमयुक्तमित्येवोक्तेः अन्यथा गृहीत्वा तत्परीक्षणमसङ्गतम् । लोके दृक्पदस्य ज्ञानसामान्यवाचित्वस्य वा ज्ञानविशेषवाचित्वस्य चैव समतत्वात् अन्तःकरणपरिणामस्व ज्ञानत्वे दृक्त्वस्यापि संभवात् अन्तःकरणं दृष्ट्र भवतीति देहस्थाने अन्तःकरणस्याविद्या परिणामस्य ज्ञातृत्ववादिनां भवतां चार्वाकसौहार्द मित्युक्तं हि समञ्जसमेव । एवमपि दृशिरूपत्वमन्तःकरणपरिणामस्य नास्तीति चेत् ——–तत्परिणामस्य ज्ञानत्वे वस्त्वन्तर परिणा वैलक्षण्येन स्वीकृते तस्य दृशित्वं स्वप्रकाशत्वपि तद्वीवेप्यताम् । सत्त्वाधिक्यप्रयुक्त स्वच्छतातिशये स्वयंप्रकाशत्वमपि क्वचिदिति स्वीकृत्य विलक्षणात्यनिपेधसंभवात् । श्रुतिबलाद्विलक्षण आत्मेप्यत इति चेत् तर्हि तस्याः कुयुक्तिभिर्यथाश्रुतादन्यथार्थकरणं विहाय ज्ञातृत्वादिकनपीप्यताम् । तत्सर्वं पारमार्थिकमपारमार्थिकं वेत्ययं विचारोऽन्यः ॥

ज्ञातृत्वादिप्रकाशो भ्रान्तिरूपः देहालाभिमानवत एव जायमानत्वादित्यनुमानमपि हेयम् देहात्माभिमानरहितानामपि विवेकिनां ज्ञातृत्वप्रकाशसत्त्वादसिद्धेः । न च देहात्माभिमानो नाम देहात्मप्रत्ययः । स च क्वचित् देहे आत्मभ्रान्तिरूपः, अन्यत्रात्मनि देहवत्त्वप्रत्यपरूपः । ईश्वरस्यापि सर्वशरीरत्वात् देहात्मप्रत्ययो ऽस्त्येवेति वाच्यम् अभिमानमात्रवत्पुरुषसमवेतप्रकाशत्वस्यैव भ्रान्तित्वरूपसाध्यप्रयोजकत्वात अभिमानानभिमानसाधारणप्रत्ययत्वनिवेशे तादृशप्रत्यभवत्समवेतप्रकाशत्वस्य प्रयोजकत्वायोगात् । अन्यथा प्रकाशत्वमात्रस्य जायमानप्रकाशत्वमात्रस्य वा हेतुत्वसंभवेन देहात्माभिमानवत एवेति दलस्यैव व्यर्थत्वात् । भ्रान्तित्वं च साध्यं ब्रह्मसाक्षात्कारमात्रनिवर्त्य विषयकज्ञानत्वनित्युक्तमपि न सम्यक् ; ब्रह्मसाक्षात्कारेण घटपटादिप्रपञ्चो निवर्तत इत्यम्यासिद्धत्वेन वादिज्ञाने साध्यवैकल्यात् । शुक्तिरजनादौ हेतुमति साध्याभावादनैकान्त्या च । तस्य ब्रह्मसाक्षात्कारेतरनिवत्वस्यादि सत्त्वात् । साध्यकोट मात्र पदवैयर्थ्यश्च । ईश्वरीयज्ञातृत्वादिप्रकाशस्य भ्रान्ति 1 रूपत्वे ईश्वरस्य भ्रान्तत्वप्रसङ्गाच्च । ननु व्यावहारिकप्रमाश्रयत्वमेवेश्वरस्थापि; 79 ६२६

शुक्तिरजतादिप्रातिभासिक भ्रमानाश्रयस्यापि तस्य ब्रह्मसाक्षात्कार बाध्यार्थविषयकत्वरूपभ्रान्तित्वशा लिज्ञानत्वमिष्यत एवेति चेत् -” तान्यहं वेद सर्वाणि " इतीश्वरज्ञानं किमहंकारे ज्ञातृत्वविषयकम्, उताविद्यायाम्, आहो आत्मनि ? नाद्यः, तस्यान्तःकरणस्य तथाऽनिः । न द्वितीयः, अविद्यामात्रस्याहंप्रत्ययविषयत्वे लोकेऽप्यन्तःकरणमात्रस्य तद्विषयत्वसंभवेन सर्वत्राहं प्रत्ययविषयत्वस्यात्मन्यपलापप्रसङ्गात् । न तृतीयः, सर्वज्ञन तेन शुद्धात्मनि ज्ञातृत्वं नास्तीत्यस्यापि ज्ञेयतया तद्विरुद्धविपरीतज्ञानायोगात् । अथ अहं सर्वं वेदेत्यस्य अविद्यावच्छिन्न आत्मा सर्वविषयकज्ञानरूपपरिणामशाल्यविद्यावच्छिन्न इत्यर्थः । एवमेव स जानातीति चेत् स एवं जानातीत्युक्तज्ञानाश्रयत्वमपीश्वरात्मनि कथम् ? ज्ञानस्याविद्यान्तर्गतत्वात् । किञ्च ज्ञानरूपपरिणामशाल्यविद्यावच्छिन्नत्वं चेत् ज्ञातृत्वम्, तथा लोकेऽपि विवेकिव्यवहारे ज्ञातृत्वं नाम ज्ञानरूपपरिणामशाल्यन्तःकरणावच्छिन्नत्वमेव भवितुमर्हतीति तादृशज्ञातृत्वप्रकाशस्य न लौकिक भ्रान्तिरूपता । त्रह्मज्ञानवाध्यविषयकत्वरूपभ्रान्तित्वमेव साध्यमिति चेत् प्रथमतः आत्मनि ज्ञातृत्वप्रकाशस्य लोके सर्वगतस्य तत्परिशीलने व्यवहारबाध्यतया लौकिकान्तित्वमेव वक्तुमुपक्रम्य ब्रह्मज्ञानवाध्यत्वरूपाप्रकृतांशग्रहणेनानुमानस्यानाभासत्वसंपादनप्रवासे उद्देश्या सिद्ध्या प्रथमप्रयत्नवैफल्यात् । इतरस्य सर्वस्य ब्रह्मज्ञानबाध्यत्वनिश्चये ज्ञातृत्वप्रकाशेऽपि तत् तुल्यप्रमाणसिद्धमिति तत्साधनस्यानपेक्षितत्वाच्च ॥ अथ च ज्ञातृत्वाध्यासः संविदि चेत्, ज्ञातृत्वं संविदिति स्यात् । ज्ञातृत्वस्य तदाश्रयद्वारा अध्यास इति चेत्तदापि ज्ञाता ज्ञानमिति स्यात् । आत्मा ज्ञानत्वेन न प्रकाशत इति न तथा प्रतीत्यापत्तिरिति चेत् यथा प्रकाशते, तदुच्यताम् । न चाहंत्वेन प्रकाशते, अहंत्वस्यान्तःकरणनिष्ठत्वात् । ‘अस्मच्छब्दार्थ आत्मा । अहंकारस्त्वन्तःकरणम् । न त्वस्मदर्थः । कचिदशब्दप्रयोगोऽपि मकारान्ताव्ययपदाभिप्रायेणेति पक्षस्तावनेष्यते । मान्तत्वदान्तत्वरूपविशेषं विना अस्मदर्थोऽपि हि अहंकार एवेत्युच्यते । एवञ्चात्वं न ज्ञातृत्वाभ्यास-भङ्ग-प्रसाधनम् “ ६२७ स्यात्, स्यात् ? चैतन्यनिष्ठमिति । न चैवं वदताऽपि सिद्धिकारेण अहं स्फुरामीति स्फुरणरूपेणात्मप्रतीतिदेर्शितेति तत्रात्वभ्रम इति वाच्यम् -ज्ञानत्ववत् स्फुरणत्वस्याप्यात्मगतताया असंप्रतिपन्नत्वात् । ज्ञानं ज्ञातृ इति प्रतीत्यभावेऽपि स्फुण ज्ञातृ इति प्रतीत्यापत्तेश्च । अत एव आत्मभानस्य पृथगदर्शनात् अहमर्थे आत्मभ्रमो दुरुपपदः । अनात्मन्यात्मबुद्धिर्या" इति आत्मभ्रमस्तावत् प्रामाणिक एष्टव्यः । भ्रान्तौ च आरोपवाचकशब्देनैवाभिलापो भवति, यथा इदं रजतमिति । तथा च यद्यहं त्वमात्मनिष्ठ न अन्तःकरणगतमेव स्वात, कथमात्मभ्रमस्याहमित्युल्लेखः एवमेवात्मन्यमर्थभ्रमोऽपि दुरुपपादः । इदं रजतमितिवत् अधिष्ठानारोप्ययोः पृथग्भानस्यापेक्षितत्वात् । अधिष्ठानगत विशेषधर्माऽपि सामान्यतोऽधिष्ठानस्य, विशेषत आरोप्यस्य च मानावश्यभावात् । अत्र च किमहङ्कारे आत्माध्यासः उतात्मनि अहंकाराध्यासः आये, रजतवत् आत्मनः ? किञ्चिद्रूपण भानं स्वीकर्तव्यम् । आत्मन आरोप तस्य शुक्तिरजतवत् मिथ्यात्वापत्तिस्तु भवता, नात्र रजतवत् वस्त्वध्यासः, किन्तु संसर्गाध्यास इति कामं वार्यताम् तथापि लोहितः स्फटिक इत्यत्र लोहित्यस्येवात्मनः पृथग्भानमपेक्षितम् । अथाहंकारस्यैवात्मन्यध्यासः अहमिति अहंत्वेनात्मभानम् । शुक्तिरजतस्थले रजतमद्राक्षमित्यत्र रजतत्वेन शुक्तिभानवत् । इयान् विशेषः -तत्र इदं रजतमिति पृथक् द्वयोर्भानमस्ति अत्र तु न । अस्तु वा अहमस्मीति प्रतीतौ सद्पेणात्मनि अहमारोप इति चेत् एवं तर्हि अर्हत्व मन्तःकरणनिष्ठम्, ज्ञातृत्वादिकमपि तन्निष्ठमेव । अहंत्वेन आत्मनो भातत्वात्तु जानामीति ज्ञातृत्वं तत्रारोपितं प्रतीयत इति वक्तव्यम् । इदञ्च तदा स्यात्–यदाऽऽत्ममात्रान्वयी धर्मः कश्चित् सह भातः स्यात् । न च स कश्चित् भासने । अतोऽत्र नात्मभाने किञ्चित् प्रमाणम् । अहंशब्देनात्मग्रहणाभावे आत्मनि बन्धमोक्षोपपादनमशक्यमिति चेत् तर्हि त्यज्यतामयमुपन्यासः । यदि चाहे जानामीत्यादौ अहमिति अहंकारमात्रग्रहणं न भवति, आत्मनोऽपि नियमेन सहैव भानमितीष्यते, तर्हि अहं स्फुरामीति स्फुरणरूपे आत्मनि ६२८

अहंकाराध्यास इत्यद्वैत सिद्धयुक्तं कथं घटताम् । पृथग्मानंभवे सर्वत्र तथैवेति नात्मभानप्रसक्तिरस्ति ॥ ज्ञानरूपे आत्मन्यहमर्थारोपेण जानाम्यहमिति भ्रमो भवतीति कश्चित् पक्षोऽपि ग्रन्थेषु सूच्यने; खण्ड्यने च तथा सति ज्ञानमहमिति प्रतीतिः स्यात्, न तु जानाम्यमिति । तत्राद्वैतिपक्ष एवं न भवति । अहमित्यस्य द्वयंशत्वं तत्रैवामर्थस्यात्मनश्च मानमेष्टव्यम्; जानामीति तु वृत्तिज्ञानं, नात्मेति काचिदर्शिका ययप्युन्मिषति । अथाप्यत्रेनं वक्तव्यम्गत्यन्तराभावे काश कुशावलम्बनेनोत्तरणे प्रयत्नः क्रियत इति तावदेकमुत्तरम् । संभावितान् विकल्प्य खण्डयन्तः पद्ममिममुपेक्षितुं नार्हन्तीति नैतदूषणमस्थाने इति चोत्तरान्तरम् । उक्त तावत् अहम आत्मभ्रमो वा आत्मन्नर्थभ्रमो वा दुरुपपाद इति । तत्र कचिदद्वैतमतावलम्बी एवमार अस्ति भाति प्रियमित्यात्मा । सर्वत्रानुस्यूतो भासत इत्यस्मन्मतम् । अत आत्मनोऽस्तित्वेन ज्ञानत्वेन आनन्दत्वेन च भानं भवति । अत एव घटः सन्, घटोऽनुभूयते पटोऽनुभूयते इति अनुस्यूतभातसदनुभूतिरूपात्मसत्यत्वनिरूपणं प्राचीरकारि । यदि घटोऽनुभूयत इत्यत्र धातुना अनुभवरूपात्मग्रहणम्, अहं जानामीत्यत्र परं ज्ञाधातुना किमप राद्धम्, येन तत्रात्मग्रहणं न भवेत् । निर्विषयज्ञानरूपस्यात्मनः सविषयवृत्तिज्ञानवाचिपदग्राह्यत्वं कथम् उभयोर्मेदादिति तु न सम्यक् । श्रतश्चैतन्यस्यात्मन एव तत्तद्विषयावच्छिन्नत्वन द्वैतिनामभिमतम् । तथा हि कर्त्रधिकरणे, " उपलब्धिवदनियमः" इति सूत्रे भाष्यम्, “विपयकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम्, उपलब्धौ नन्यापेक्षत्रम् आत्मनश्चैतन्ययोगात् " इति । भामती, “नित्य चैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्वविषयमु पनयन्ति । तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते’ इति । परिमले, “ नित्यचैतन्यस्वरूपायां विषयोपलब्धौ तावन्नेन्द्रियापेक्षा, नापि तदपेक्षितजन्योपलब्ध्यन्तरे, उपलब्धेरुपलब्ध्यन्तरानपेक्षित्वात् । किन्तु नित्योपलब्धावेव विषयोपरक्तरूपायाम्" इति आत्मभूतस्य चैतन्यस्य } ज्ञातृत्वा व्यास भङ्ग-प्रसाधनम् ६२९ विषयोपलब्धेश्चैक्यनादृतम् । एवञ्च अहं जानामीत्यत्र ज्ञाधातुना ज्ञानरूपात्मग्रहणेन तत्राहमर्थभ्रम इति किं न स्यादिति । प्रत्यवस्थानमिद प्रतिषिध्यतेऽस्माभिः तथा सति जानाम्यहमिति न स्यात् ; किन्तु ज्ञानमहमितीति । दूषणान्तरमप्यत्र भाव्यम् । घटं जानाम्यहमिति घटादिविषयोपरक्तचैतन्यरूपज्ञानेऽहंकार भ्रमः किलायम्, नात्मनि शुद्धे इति । परन्तु तत्तद्विषयोपरक्तत्वादिकं कथञ्चिद्र्यावर्तमानत्वादिना भङ्क्ता ज्ञानं परिशेष्यात्मन्येवायम हमर्थभ्रम इति किमपि ब्रूयादिति तदुपेक्षणेन धर्मधर्मिभावेन भ्रमोल्लेखो न युज्यत इत्येतावदुक्तम् । ज्ञानस्यात्रारोपाधिष्ठानत्वात् आरोप्यत्वाभावात्, " आरोप्यं धर्मिद्वाराऽध्यस्यते; अतो विशेषणतया प्रतीतिः" इति न शक्यं वक्तुम् । अथ ज्ञानरूपस्यात्मन एवाहमर्थे भ्रम इति ज्ञानस्यैवारोप्यत्वमिति चेत्–नतस्याहमर्थस्य चैकतयाऽभ्यासप्रसत्त्यभावेन धर्मिद्वाराऽध्यस्यत इत्यस्य दुर्वचत्वात् । ज्ञानरूपात्मधमित्वस्यान्तःकरण एतावद सिद्धेश्च । ज्ञानमिति वृत्तिमात्रग्रहणे आत्माध्यासोपपादनासंभवाच्च । तस्मात् अहमित्यनेनाहमर्थस्यात्मनश्च मिलितरूपेण ग्रहणमिति पक्षे, जानामीति धातुनाऽऽत्मग्रहणमिति पचेऽपि नाध्यासोपपादनसंभवः । अहं जानामीत्यत्र ज्ञाधातुनाऽऽत्मग्रहणे, अहं करोमि, अहं सुखीत्यादावात्मभान निर्वाहः कथमिति दोषोऽपि भाव्यः ॥ " अत्रेदमवधेयम् -अहंकारात्मनोरभेदारोप इत्येतत् कथमुपपाद्यम् ? किं साक्षिणा चैतन्येनाहमर्थे मास्यमाने स्वस्मिन् तदभेदोऽपि भास्यत इति, किं वा अहमर्थनिष्ठा काचित् वृत्तिश्चैतन्या भेदमहमर्थे ग्राहयतीति । नाद्यः, साक्षिणो भ्रमरूपत्वायोगात् । अङ्गुल्ययेण स्वात्मस्पर्शवत् साक्षिणा स्वस्य ग्रहणासंभवेन स्वकर्मत्वरहिते स्वस्मिन् अहमर्थाभेदस्य स्वेन ग्रहणायोगाच्च । नान्त्यः, अहंकारस्य साक्षिमास्यतया स्वनिष्ठवृत्त्या स्वस्य ग्रहणाभावेन चैतन्य विषया वृत्त्या चैतन्येऽहमभेदग्रह इत्यस्य वक्तुमशक्यत्वात् । तस्मादेवं वक्तव्यम् बाह्यपदार्थविषय इवाहमर्थतद्गतसुख दिविषयेऽपि वृत्ति रवश्यमिष्यते । बाह्यविषये तु इन्द्रियसापेक्षा, अन्यत्र निरपेक्षा । तस्या अहम वृत्तेरभावादेव

सुषुप्तावहंकारलय इत्युच्यते । तत्र सुखादिवृत्तिर्जायमाना सुखादेरहमर्थस्य च सुखादेरात्मनश्च भेदमपि नियमेन गृह्णाति अहं सुखीतिधर्मधर्मिभावेन प्रतीतेः । केवलाहमर्थविषयिणी तु वृत्तिरहमर्थं चैतन्यरूपात्मानञ्च गृह्णाना न तयोर्भेदमवगाहते । चेतन्यस्य चात्मनो वस्तुतो निर्धर्मकत्वात् किञ्चिद्रूपेण प्रकाशप्रसत्तयभावात् । अत एव तस्य पृथगमिलापानत्वात् अहमर्थवृत्तिर्जायमाना अहन्त्वेनाहमर्थ चैतन्यात्मानञ्च भेदं विना गृह्णती अहमित्येवाकारं लभते । इयमेव वृत्तिरह मर्थात्मभ्रम इत्युच्यते इति — इदमयुक्तम् अहमर्थस्य सुखादेश्च वृत्तिं विना स्वरूपत एव साक्षिभास्यत्वे संभवति वृत्तिकल्पने मानाभावात् । साक्ष्यधीनस्तत्प्रकाशश्च तद्विषयकव्यवहार एव; न तु कश्चिदतिरिक्तः । एवञ्च चैतन्यमहङ्कारं सुखादिकञ्च व्यवहारयत् वस्तुतस्तेषां स्वस्य च मिथोमिन्नत्वात् भेदघटित व्यवहार एव कारणं स्यात् । अतो नाभेदभ्रमस्य प्रसक्तिः । यत एवं सति न कदाप्यात्मनोऽहमर्थस्य च भेो लोकेऽनुभवगोचरो भवति, अतो ज्ञायते आत्मनोऽहमर्थस्य च भेदाभावादेवात्मरूपं चैतन्यमहमर्थाभेदव्यवहारमेव सर्वत्र निष्पादयतीति । अत एवाहन्त्वमपि तस्य स्वाभाविकमेव । अन्तःकरणवृत्तेश्चैतन्यविषयत्ववर्णनञ्चासंभवि; चैतन्यस्य स्वतो भातस्यान्याधीनप्रकाशाभावात् वृत्त्या तद्विषयीकरणायोगात् । अत एव वृत्तेरन्तःकरणस्य वा चैतन्यव्यञ्जकत्वस्य नैव प्रसक्तिः । चैतन्यव्यञ्जकत्वं हि चैतन्यविषयक चैतन्यजनकत्वं वा. चैतन्यविषयकव्यवहारजनकत्वं वा । नाद्यः, चैतन्यद्वयस्याभावात् । नान्त्यः, व्यवहारे चैतन्यविषयीभावार्थ मन्यानपेक्षणात् । अन्यथा स्वयम्प्रकाशत्वमङ्गप्रसंगात् । अभिलापकशब्दस्मरणवचनाद्यर्थ तु अहमर्थापेक्षा स्यात् । नन्वविद्यावृतं चैतन्यमहङ्कारेणाऽऽभिव्यक्तं प्रकाशते; अहङ्कारश्च खोपहितं चैतन्यांशमावरणनिवर्तनेन प्रकाशयतीति चेतून अविद्ययाऽऽवृतमहङ्कारेण व्यज्यत इत्यस्यायोगात् । आवृतमन्यस्मै न प्रकाशत इतीष्टमेव ; कुड्यान्तरितस्य वस्तुनः प्रकाशादर्शनात् । इह तु तदुक्तिर्न घटते । न हि स्वस्य स्वप्रकाशे ज्ञातृत्वाध्यास-भङ्ग-प्रसाधनम् ६३१ किञ्चित् तिरोधायकं भवति । मातुर्निलीयते कृष्ण इतिवत् स्वस्मात् स्वयं निलीयत इत्यस्य दुर्वचत्वात् । अत आवरकद्रव्यवाह्येन पुरुषेणाऽऽवरक तिरोहितं न गृह्यत इत्येवानुभवसिद्धम् । न च शैशवे भ्रष्टेन राजपुत्रेण स्वात्मानमजानतैव स्थितेन पश्चात् स्वस्य ग्रहणात् स्वविषयेऽप्यावरणं भवितुमर्हतीति वाच्यम्वैषम्यात् । न हि राजकुमारस्य स्वात्मा वा खगतं सुखादि वा स्वशरीरं वा न प्रकाशते ; किंतु स्वस्य क्षत्रियत्वं न प्रकाशते । तदपि क्षत्रमातापितृजन्यत्वस्य क्षत्रियत्वव्यञ्जकस्यादर्शनात्; अन्यस्य च लिङ्गस्याभावात्; आप्तेनानुपदिष्टत्वाच्च । अतः स्वात्मरूपधमिग्रहणस्य तत्रापि सार्वदिकत्वेन स्वयम्प्रकाशं वस्तु केन चिदावृतत्वात् स्वस्मै न प्रकाशत इति दुर्वचमेव । अतो नाहङ्कारस्य जडस्य स्वप्रकाशात्मव्यञ्जकत्वसंभवः । यदाहुः श्रीभगवद्यामुन शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयञ्जोतिषमात्मानं " पादाः, व्यनक्तीति न युक्तिमत् ॥ " इति । दृष्टव्यः । विस्तरस्तिरोधनानुपपत्तिप्रसाधने तस्मात् साक्षिणा स्वयम्प्रकाशेनाहङ्कारादिभासकेन मिथो भेदोऽपि स्थितो भास्येतैवेति, तथा अहमर्थस्यात्मनश्च पृथग्वस्तुतया कदापि केनाप्यग्रहणात् नाहमर्थव्यतिरिक्त आत्मेति जानातीत्यादेर्धर्मभूतज्ञानपरतया तदाश्रयतया चाहमर्थस्य प्रकाशमानतया तदेशस्य चाबाधितत्वादात्मनो ज्ञातृत्वं वास्तवमेव ; न त्वध्यस्तमिति ॥ रसघनलवणनिदर्शनदर्शित विज्ञानगुणनिसर्गाणाम् । आत्मानमात्मनां श्रुतिराह स्वाभाविकज्ञानम् ॥ शुभमस्तु श्रीः