२७ अहमर्थात्मत्व-प्रसाधनम्

अहमहमिकाभाजो वाचो यदङ्घ्रिसरोरुह प्रवणमनसामर्थ्याः शुद्धाः लसन्ति मुखाम्बुजे । निगम शिखराचार्यः सोऽयं श्रियै स्वयमेतु मे निरवधिदयापारावारो निधिहृदि संनिधिम् ॥ अहमर्थो नात्मेति वदद्भिरहमर्थ इति किं विवक्षितमिति विचार्यम् । प्रकृतिपरिणामविशेषोऽहङ्कारनामेति चेत् इष्टमेव तस्यानात्मत्वम् । भूम्ना चाहङ्कार इत्येव तस्य प्रसिद्धिः ; न त्वहमिति । अहङ्कार इत्यस्य चाहम्बुद्धिरिति अहम्बुद्धिहेतुरिति वाऽर्थः स्यात् । कुम्भकारशब्दस्येवाहङ्कारशब्दस्य यदि चाहंकारपदविवक्षितोऽपि अहमर्थ अमर्थोत्पादक इत्यर्थश्च बाधितः । एव स्यात्, तर्हि कारेत्यधिकं न प्रयुज्येत । तस्मादहं पदबोध्यमन्यत्, ५९० परमाबभूवणे अहङ्कारश्वान्य इति स्वरसप्रतीतमेतत् । ततश्च यत्र कचित् अहम्बुद्धिजमकत्वमहङ्कारद्रव्यलक्षणमित्यवगम्यते । तत्र घटपटादौ घटपटादिबुद्धिरिवाहमर्थे अहमिति बुद्धिः खत एव भवतीति न तदर्थं किञ्चिद्भयं परिकल्प्यमिति विमृष्टे, अनहमर्थेऽहं बुद्धिरूपविपर्ययहेतुरहङ्कार इत्यौचित्यात् सिद्धयत्येव । अत एव च्चिप्रत्ययमन्तर्भाव्याहङ्कारशब्दं श्रीमाप्ये व्युत्पादयति । स चानहमर्थः यत्र यत्र लोके अहम्भ्रमः प्रसिद्धः स स देहादिः । तीर्थंकराश्च देहेन्द्रियादावारमबुद्धि भ्रान्तिरूपां प्रदर्श प्रतिपेधन्ति । भगवान् पराशरश्च, “पिण्डः पृथक् यतः पुंसां शिरः पापादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहम्” इति देहतदवयवेष्वबुद्धि निषेधन् मुरूयोऽहमर्थोऽन्य इत्याः । ततः प्राक च, “शब्दोऽहमिति दोषाय नात्मन्येष तथैव तत् । अनात्मन्यात्म विज्ञानं शब्दो वा भ्रान्तलक्षणः ॥” इति स्वयमेवात्मनि अहंशब्दे मुख्यवृत्तं दर्शयति ; नाहकारे । एवञ्च, “आनात्मन्यात्मबुद्धिर्या” इत्यत्राप्यात्मबुद्धिरिति अहंबुद्धिरेव गृह्यत इत्यहमात्मनोरवयं पराशराभिमतमिति स्फुटम् । अहं बुद्धिशोधनेनात्मतत्त्वमुपदिशंश्वायम्, अहङ्कारतत्त्वमहं पदमुख्यार्थ इति न सूचनयाऽपि ज्ञापयतीति स्थिते कथमहंशब्दयः स्यादहङ्कारः । अहङ्कार इति चित्तत्वमस्तीत्येव लोको न बुद्धयते । देहेन्द्रियमनः प्राणेषु अहंबुद्धिरेव लोकनिरूढा । सा भ्रान्तिः । आत्मन्यहं बुद्धिश्च शास्त्रन्युत्पादिता; सा प्रमा । अत्यन्ताप्रसिद्धे अहङ्कारतत्त्वेचाबुद्धिर्न लोकसिद्धा ; न वा शास्त्रशिक्षिता; किन्तु निर्विशेषात्मवाद्विकल्पितेत्येव तत्त्वम् । कणादश्च महर्षिः, " अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः" इति आत्मन्यहेत्वं प्रत्यक्षादिप्रमाणसिद्धं प्रतिपादयति । सांख्य वेदान्तिमात्रप्रसिद्धमहङ्कारतत्त्वं परैस्तीर्थकरैः नेष्यतेऽपि । तैश्चाहंबुद्धिः भ्रमरूपा प्रमारूपा चान्यत्रैव स्थापनीयेति सर्वानुभवसुदूरमेवेदमहङ्कारेऽहंत्वकल्पनम् ॥ कश्चायम हंकारः ? प्रकृतिजन्यमहत्तत्त्वजन्यः सांख्यप्रसिद्ध इति चेत्-न–तादृशसृष्टिक्रमस्य भवद्भिरनुक्तेः । उक्तावपि स प्रतिजीवं भिन्नो न ; अहमर्थात्मत्म-प्रसाधनम् ५९७ भवति । महत्तत्त्वमहङ्कारतत्त्वश्चैकमेव खलुक्तम् । सात्त्विक राजसतामसभेदेन त्रैविध्ये इष्टेपि जीवभेदानुविधाय्यनेकाहङ्कारतत्त्वोत्पत्तिष्यते । न च तस्याहङ्कारस्य प्रतिसुषुप्ति लयो भवितुमर्हति ; एकत्र पुरुषे लये अन्येषामपि तदभावप्रसंगात् । अत एव तदेव प्रकृतिजन्यमहमर्थ इति भवदभिहितमयुक्तम् । भवद्भिश्च अहंत्वस्य शुद्धात्मनि स्वीकारे सविशेषत्वापत्तिः । आत्मन एकतया जीवान्तरेष्वपि अहमिति व्यवहारापत्तिः त्वमित्याविहारानापत्तिः । सांख्यमते वस्तुतो जीवानां भिन्नत्वेन तन्मते जीवानामेवाहमर्थत्वे तन्वते निर्विकारत्वेऽपि जीवानां निर्विशेषत्वे प्रमाणाभावेन मुख्याहमर्यत्वेऽनुपपत्त्यभावेऽपि अद्वैतपक्षे दोषस्त्र स्थितिरिति नूनं परिशील्य तद्भिया भवद्विरात्मातिरिक्त एव कचिदहं त्वमारोपितम् । तत्र देहादौ तत्स्वीकारे बहुप्रमाणक्षोभः स्यादिति अहङ्ककारतत्त्वं तथात्वेन वर्णितम् । एवमपि महज्जन्याहङ्कार सत्त्वस्याप्येकतया तु जीवान्तरेऽप्यहमिति बुद्धिः स्यात्; जीवभेद एव न सिद्ध्येत्; आत्मनः, तदुपाधेरहङ्कारस्य चैकत्वादिति विभाव्यम् । अथान्तःकरणमहङ्कार इति चेत् — अविद्या परिणामभूतभूतपञ्चकजन्यं तदिष्टं परिभाषायाम् । तच्च न मनोऽपेक्ष्यान्यत् भवितुमर्हति । अस्तु तथैव ; पैङ्गिरहस्य ब्राह्मणे, “तयोरन्यः पिप्पलं स्वाद्वत्ति इति सत्त्वम्, अनश्नन् अन्यो अभिचाकशीतिीति ज्ञः" इति मनः पर्यायसत्त्वशब्दप्रयोगादिति चेन्न पौतिरहस्ये सत्त्वशब्देन जन्तुपर्यायेण जीव उच्यते, “ज़” इति च, “ज्ञाज्ञौ द्वावजौ ईशनीशौ” इति श्रुतिप्रसिद्धः परमात्मेति अधिकरणव्याख्यातु प्रपञ्चितत्वेन तस्य साक्षित्वायोगात् । इन्द्रियैरन्यैः सह सात्त्विकाहंकारजन्यतया श्रीविष्णुपुराणादिषु प्रसिद्धस्य मनसः पञ्चभूतोपादानकत्वायोगात् । मरणादिष्वप्यनुवर्तमानस्य मनसः सुषुप्तावपि प्रलीनस्याहङ्कारस्य चैक्यायोगात् । नूनमेव प्रलीनत्व — प्रतिजीवभिन्नत्वनिर्वाहार्थमेव भूतपञ्चकजन्यमन्तःकरणमहङ्कारापरपर्यायमिष्यत इव परिभाषादौ । ५९८ ;

महत्तत्त्वमेव वा तज्जन्यमेव वा भवन्मतेऽङ्कार इति च तत्रतत्रावगम्यते । देहात्मवादिभिः आमरणानुवर्तिनि देहे अहन्त्वमभिमन्यते ; भवद्भिस्तु प्रतिसुषुप्तिलीनमेकं भूतपञ्चकजन्यमप्रामाणिकं परिकल्प्य तत्राहंत्वकल्पनया दिनतदंशभेदेनाप्यहमर्थे भेद इष्यत इति चित्रमेतत् । एवंस्थिते आमोक्षस्थायी जीव एक इति पक्षोऽपि कथं स्थास्यति ? अविद्या परिणामस्याहङ्कारस्य सुषुप्तौ लयेऽपि कारणात्मना सोऽस्तीति चेत् किं तत् कारणम् ? अविद्येति चेत् ननु पञ्चभूतजन्यत्वं खल्वन्तःकरणस्याभिहितम् । तेषु चापलीनेषु सत्सु किमित्यविद्यापर्यन्तधावनम् ? नृनं भूतजीववाद एवं भङ्गयन्तरेणोपन्यस्तं भवति 1 अहङ्कारगतानां वासनादीनामविद्यायां सद्भावे, अविद्याया अंशभेदस्वीकारेण एकजीवीयानां जीवान्तरेष्वसंकरवर्णने चाविद्यांशा एवाहङ्कारपदाभिधेया भवन्तु कृतं परिणामान्तरकल्पनया प्रतिसुपुप्ति तद्विलयकल्पनया च । सुषुप्तौ तलये प्रमाणमस्तीति चेत् मातापित्रादिसर्ववस्त्वभावोऽपि सुषुप्तं प्रति श्रुतौ श्राव्यत एव । तेषां स्थितानामपि तदा स्वकीयत्वानुसन्धानविरहमात्रेण तथा व्यवहार इति चेत् — सोऽयमहङ्कारविषयेऽपि समः समाधिः-सुषुप्तिकाले जीवस्य, नरोऽहं देवदत्तोऽहमिति जागरखप्नदशासमानयोगक्षेमाहङ्काराधीनाहं बुद्धितत्कार्याभावात् अहंकारो लीन इति वाचोयुक्तिरिति । अपिचाविद्यांशानां देशभेदेन विभिन्नत्वात् सञ्चरतां जीवानामहं बुद्धिर्न कश्चिदविद्यांश विशिष्य विषयीकुर्यादिति प्रतिक्षणजीवभेदोऽपि प्राप्नोति । वस्तुतः उत्क्रान्त्य धिकरणमाप्येतद्गुणसूत्रे अणुपणिमाणा बुद्धिरिति यावदात्मसूत्रे अनादिबुद्धिसंबन्धः यावन्मोक्षभावी, पुंस्त्वसूत्रे सुषुप्तिप्रलययोरपि शक्त्यात्मना बुद्धिरवतिष्ठत इति नित्योपलब्सूित्रे आत्मनः उपाधिभूतमन्तः कर्ण मतोबुद्धिर्विज्ञानं चित्तमिति चानेकधा व्यपदिश्यत इति च भाषितमिति सुषुप्तिप्रलयानुस्यूतस्यैवोपाधित्वोत्तया स उपाधिरेवाहंबुद्धिविषयत्वेन भवद्भिरभिमन्तुमर्ह इति युक्त तस्याविद्यानतिरेक मेवाभिमत्या विद्यैवाहमर्थ इति सैवाहङ्कारशब्दधाऽपीति । एवञ्च सुषुप्तौ लयवर्णनं तद्व्यापारलयाभिप्रायं गौणमेव । जागरावस्थाभावि अहमर्भात्मत्व-प्रसाधनम् ५१९ भुक्तपीताप्यायनभावित संकल्पादिव्यापाराश्रयत्वस्य तदानीमभावात् । अस्तु काममविद्यातिरेक, अथापीमा अपि बुद्धयः प्रतिजीवं भिन्ना अनादयः । अहमज्ञ इत्यहमर्थस्य तद्विशेषणस्याज्ञानस्य चाविद्यापरपर्यायस्य भेदप्रतीतेश्च । बुद्धिरियमपि मिथ्यात्वात् तत्त्वज्ञानबाध्या भवतीत्येवं भवन्मतं यदि परिष्क्रियते, तर्हि प्रमाणशतविरोधेऽपि युक्तिविरोधो नातीव भवेत् । सुषुप्त्यादौ लयवर्णनम्, सुखमहमस्वाप्समिति सुषुप्तिकालस्थितत्वेनानुसंहितस्याहमर्थस्य तदानीमभाववचनम् एवमाद्यन्यच्च चार्वाकमतमपेक्ष्याप्यति फल्गुत्वं भवन्मतस्यापादयतीत्यलमनेन ॥ यत्तु सुखमहम स्वाप्समिति सुप्तोत्थितस्य परामर्शः तदा सुखभानमज्ञानमानश्च विना नोपपद्यत इति तन्न अखाप्समिति प्रतीतस्यातीतकालस्य तदानीमभातस्याप्यनुमानवत् स्वापस्याप्यनुमानसंभवात् । पश्चात् चत्वरस्थतया गजप्रतिसन्धानाभावेन हेतुना प्रातश्चत्वरे गजाभावानुमानवत् । यत्तु अन्यभिचरितप्रकाशसत्ताकत्वात् सुखदुःखाहङ्कारादीनाम्, सुषुप्तौ अहंकाराभानं तदभावादेवेत्यवसीयत इति तदपि न प्रलयेऽपि सूक्ष्मरूपेणाभ्युपगतस्याहमर्थस्य अव्यभिचरितप्रकाशसत्ताकत्वे प्रमाणाभावात् बाह्यान्तरेन्द्रियाधीनवृत्तिकालमात्र एवाहंमानमिति स्वीकारे भवन्मते दोषाभावात् । सुषुप्तिप्राक्कालस्थिताव्यक्तेः ऊर्ध्वकालिकव्यक्तेश्च भिन्नत्वे, पूर्वस्मिन् दिने इदमहमकरवमिति उत्तरदिनवर्तिना पूर्वदिनातीतव्यक्तेः स्वभिन्नायाः अहंत्वेन ग्रहणायोगाच्च । तद्वयक्तेरपि प्रतिसंधातृगताहंत्वाश्रयत्वे सुषुप्तिकालिकसूक्ष्मांशस्यापि अहंत्वाश्रयत्वसंभवेनाहमर्थाभावकथनस्यायुक्तत्वाश्च । क्षणिक विज्ञानसन्ततिरहमर्थ इति बौद्धमतवासनामूलश्यायं सुषुप्तिजागर भेदभिन्नस्थिर बुद्धिसन्ततिरहमर्थ इत्यद्वैतिवादः । अहमर्थस्य स्वयम्प्रकाशत्वसिद्धौ सुषुप्तौ मानमपरिहार्यम् । अन्यथा पुनस्तार्किकमीमांसकादिसरण्या, स्थितस्यैव तस्याऽऽनुमानिकी सिद्धिरिति च व्यक्तं शतदूषण्याम् ।ः

यत्तु नाहंकारमात्रमहमर्थः ; किन्तु चिदचिद्गन्थिरूप इति —तत्र किं प्रमाणम् ? अहंकारमात्रग्रहणेऽपि तत्राध्यासवशात् चैतन्यस्य कर्तृत्वभोक्तृत्वादेश्च प्रतीयमानस्योपपन्नत्वात् । अहमिति बुद्धयवच्छिन्नचैनन्यपर्यन्तग्रहणेऽपि चैतन्ये, अहंकरोमीति चैतन्याश्रयत्वस्य दुर्वचत्वात्ः स्वाश्रयत्वायोगात् । कर्तृत्वादिकं तु तदा क्लिष्टमारोपयितव्यम्; अहङ्कारे तु साक्षादन्त्रितमिति सौकर्याच्च । तर्हि अहं ब्रह्मास्मीत्यस्य कथं निर्वाह इति चेत्सर्व खल्विदं ब्रह्मेति सर्वतादात्यस्य कथं निर्वाहः । बाधायां सामानाधिकर व्यमिति चेत् तुल्यम् । वर्णित चेदं प्रागेव तत्त्वमसीत्यत्र । एवञ्च चैतन्यरूपात्मप्रतिफलनाभावेऽहंकारस्य कर्तृत्वादि सर्वे नोपपद्यत इति तदर्थे चैतन्यरूपात्मस्वीकारेऽपि स सर्वदा निर्लेप एव । न बध्यते ; न च मुच्यते । बस्तु वा तत्र बुद्धितत्प्रतिफलनमेव बन्धः, तदभावश्च मोक्ष इति । सर्वथा अहंशब्दस्य चिदचिदग्रन्थ्यर्थकत्वं न कल्पनीयम् ॥ I तर्हि, ‘तत्त्वज्ञानेनाहं मुक्तो भविष्यामि’ इत्यभिसन्धिः कथम् ? अहमर्थस्य मुक्तौ नङ्क्षयतया मुक्तिवर्णनायोगादिति चेत् अत एवाहंशब्दोऽहंकारविलक्षणस्यात्मनो वाचक इति ब्रूमः । एवमपि चिदचिग्रन्थिरूपत्वमहमयस्य नापेक्षितम् । कचित् अचिदूपविशेषणप्रीतिश्वार्थात् सिद्धयति, “आत्मा वा इद मेक एवाग्र आसीत् " इत्यादौ कार्यान्यथानुपपत्त्या अविद्याशबलत्वादिवत् । अहंकारविशिष्टचिदर्थकत्वेऽपि “अहं गौरो ब्राह्मणो गच्छामि” इत्यादौ अर्थादेव देहरूपविशेषणलाभस्य वक्तव्यत्वात् । एकतरार्थस्वीकारेण निर्वाहे सम्भवति गौरवादप्युभयग्रन्थेरर्थत्वं न युक्तम् । अवश्यञ्चात्ममात्रपरत्वमेषितव्यम् । “आत्मानं चेत् विजानीयात् अयमस्मीति पूरुषः” इत्यत्र, अस्मीत्यस्य कर्ता अहमर्थः खल्वात्मैव न विशिष्टः ; अतत्त्वज्ञानत्वापत्तेः । अत्र अयमस्मीत्येव पाठः ; न तु भवदुक्तरीत्या अहमस्मीत्यन्यदेतत् । एवञ्च सुषुप्तौ, अहमज्ञः, मामन्यञ्च न जानामीत्यत्रापि बुद्धिविशिष्टस्याहमर्थत्वे विशेषणांशे बुद्धावज्ञानाश्रयत्वासंभवेन शुद्धपरत्वं स्वरसम् । अहंशब्दस्याहं अहमर्थात्मत्व-प्रसाधनम् ६०१ कारपरत्वमिष्ट्रा तदा कारणात्मना तत्सत्त्ववर्णनमयुक्तम् । कारणात्मनेत्येतद्बोधकपदाभावे तथा प्रयोगस्यासाधुत्वात् । अन्यथा प्रलयेऽपि घटादयः आसन्निति व्यवहारः स्यात् । पदार्थानां पूर्वोत्तरकालयोर्याहशी अवस्था, मध्येऽपि तादृश्येवावस्थेति नियमस्याभावेऽपि प्रागूर्ध्वञ्च स्थूले देवदत्ते कार्यदशायामपि देवदत्तशब्दवाच्यत्ववत् अहंकारतत्त्वस्य सुषुप्तौ स्थौल्याभावेऽप्यहंशब्दवाच्यत्वस्य संभवात् स्थूलस्यैवाहं त्वमिति कल्पनं निर्मूलमेव । अमर्थभानं तदाऽप्यस्ति न वेत्यन्यदेतत् । अहमर्थस्याखप्रकाशत्वपक्षे सामग्रीसद्भावसद्ध वनिबन्धनत्वात् प्रकाशाप्रकाशयोः । कटकमुकुटादिषु सर्वत्र हिरणकव्यवहारवत् कार्यकारणभावापन्नसन्ततौ अहमिति व्यवहारस्य युक्तत्वात् । कारणात्मना विद्यमानस्याप्यहंकारस्य संस्काराद्याश्रयत्वाङ्गीकारे तस्य कारणस्याविद्यात्मकस्य सर्वसाधारण्यात् तदविद्या परिणामभूताहंकारान्तरेऽपि तद्वासनासंक्रमः स्यादिति चैत्रीयवासना कार्यप्राप्तिः मैत्रेऽपि स्यात् । अविद्यायामंशभेदकल्पनया कथञ्चित् परिहारान्वेषणे तु तस्यांशस्यैव सर्वकालानुस्यूतस्याहमर्थत्वमिति स्थूलाहंकारतत्त्व कलानं निर्मूलमेव स्यादिति च भाव्यम् ॥ यत्तु विवर्तोपादानोपादेययोरैक्यं न प्रातिभासिकमिति तन्न चैतन्यस्य ब्रह्मण एव विवर्तोपादानत्वात् उपादेयानां जडत्वाभिमतानां तदैक्यस्य परीक्षणदशायामेव बाधिततया प्रातिभासिकत्वावश्यभावात् । विवर्तस्य ब्रह्मतादात्म्ये तादात्म्यघटकमैक्ां न प्रातिभासिकम् भेदस्तु प्रातिभासिक इति च विपरीतम् । जडाजड योर्भेदस्यैवाप्रातिभासिकत्वात्, ऐक्यस्यैव प्रातिभासिकत्वात् ॥ यच्च-सुखा विद्याचैतन्यानां सुषुप्तौ प्रकाशे न विप्रतिपत्तिः किन्तु अहङ्कारप्रकाश एव सेति तन्न; सुखप्रकाशेऽपि हि विप्रतिपत्तिः तार्किकादिभिः सह विवादेऽस्त्येव । आवयोस्तत्र विप्रतिपत्त्यभावेऽपि अविद्याचैतन्ययोः तद्तिरिक्तयोः प्रकाशेऽस्त्येव विप्रतिपत्तिः । भावरूपाज्ञानानङ्गीकारात् अज्ञानप्रकाशो न तदा । सुखातिरिक्ते चैतन्ये तत्प्रकाशे च तदा न प्रमाणम् । सुखचैतन्ययोरैक्यस्वीकारात् न विप्रतिपत्तिरिति चेत् तर्हि सुखाविद्या चैतन्याना 76 ६०२ 1

मिति पृथक्कृत्य लेखनमयुक्तम् । न हि सुखत्वेनेव चैतन्यत्वेन रूपेणान्येनापि तदा प्रकाशत इतीष्यते, येन तथा लेखनस्य कथञ्चित् सार्थक्यं स्यात् । अहंकारप्रकाशे विप्रतिपत्तिरित्यपि शोधने सुखस्याहमर्थत्वे वितिपत्तिरित्यर्थ एव पर्यवसानम् । प्रकृतिपरिणाम स्याहंकारतत्त्वस्य जागरादिदशायामप्यप्रकाशस्याविशिष्टत्वात् आत्मप्रकाशस्यैव स्वीकारात् । अतो जागरदशायां योऽहंशब्दार्थो भासते, सुषुप्तावपि स भासत एवेत्यस्माभिरुत्तथा जागरदशाभानमेव कस्येत्येव विचार्यम् । तत्रात्मनो मानमुभयोर्न विप्रतिपन्नमिति तदधिकस्याचिदंशस्याप्यहमर्थकोटिप्रवेशे न प्रमाणम् । तादृशाचिदशराहित्येऽपि मुक्तेश्वरादिव्यवहारेऽहं पदप्रयोगस्य श्रुतिस्मृतिसिद्धत्वात् चिदशमात्रे शक्तिसंभवे विशेषणान्तरविशिष्टे शक्तिकल्पनायां गौरवाचेति वयं ब्रूमः । भवन्मते आत्मन एकत्वात् अहं शब्दस्य तन्मात्रार्थकत्वे चैत्रेण मैत्रोऽप्यहमिति व्यवह्नियतामित्यापत्तिवारणार्थं विशेषणं प्रवेशनीयमापतति । तदापि सुषुप्तिसाधारण्याय स्थूलसूक्ष्मसाधारणाहं कारांशस्याहमर्थकोटिप्रवेश संभवे स्थूलमात्रे नियन्त्रणमयुक्तमिति च ब्रूमः । एवमपि सांडशः सुषुप्तौ न प्रकाशत इति चेत्-जागरेऽपि न प्रकाशत एव । देहात्मनोः प्रकाशस्यैवानुभवात् । कर्तृत्वभोक्तत्वाद्याश्रयतया तत्प्रकाश एकत्र जागर इति चेत् सुषुप्तौ अज्ञानमा नाङ्गीकारे परव्यावर्तनेन स्वस्यैव तदज्ञानमानं तदेति नियमार्थं अहमस्खा समिति चैत्रप्रयोगस्य मैत्रविषयकत्ववारणार्थं सुपुष्ठयाश्रयचैतन्यावच्छेदकतया तद्भानमपि स्वीकार्यं भवेत् । अज्ञानं ज्ञानाभावः तदा न प्रकाशत इति स्वीकारेऽहं कारतत्त्वस्य प्रकाशानावश्यकत्वेऽपि तद्विलीनत्वं न कल्प्यम् । ज्ञानाभावावच्छेदकतयापि तदा तदावश्यकत्वात् । तत्र भातं च सुखं न वैषयिकसुखम् । सुषुप्तौ तदप्रसक्तेः । अतः तदाधारतया अहमर्थप्रकाशो यद्यपि नादर्तव्यः अथापि आत्मरूपसुखमात्रप्रकाशे सुखं चैत्रोऽखाप्सीत् इत्यप्रयुज्य सुखमहमस्वाप्समिति प्रयोगः सुखस्येवा हन्त्वस्यापि तथा प्रकाशमावेदयति । तत् यद्यहं त्वमात्मनिष्ठमेव ; सिद्धस्तर्हि वादार्थः । यद्यहंकारनिष्ठम्, तहंकार अर्थात्मत्व-प्रसाधनम् ६०३ प्रकाशः सुषुप्तावेषितव्य इति । यदा तु सुषुप्तिर्निद्राऽपि वृत्तिविशेष इतीष्यते, तदा विद्यकवृत्तित्वेन स्वीकृता सा अन्तःकरणसूक्ष्मांशवृत्तिरेवेति स्थूलसूक्ष्मसाधारण्यमेवाहन्त्वस्यावश्यकमिति प्रागुक्ततया तादशवृत्त्याश्रयाहमर्थभानं प्राप्तमिति न तदपलापो युज्यने । किञ्चाविद्यावृत्तिविषयत्वं किं सुखरूपस्यात्मनः परम्, उताहंत्वाद्यनुबन्धेन । आद्ये, तत्त्वमसिवाक्याधीनाखण्डाकारवृत्तिसाम्यात् तत्रैव वृत्त्या सर्वप्रपञ्चनिवृत्तिरिति सुषुप्तो मुक्त एव स्यात् । अन्त्ये सिद्धमहङ्कारभानम् ॥ यत्क्तम्प्रतिसन्धानान्यथानुपपत्त्या सुषुप्तावहमर्थप्रकाशकल्पनमितीदं न संभवदुक्तिकम् । सुखमहमखा समिति ज्ञानं हि नात्मांशे प्रतिसन्धानम् । असन्निकृष्टस्यानुभूतस्य च खलु स्मरणं नाम । मतद्वयेऽपि अवस्थात्रयेऽप्यात्मनः प्रकाशमानत्वान्न प्रतिसन्धीयमानतेति सत्यमिदं शोधनीयम् । सुषुप्तौ वृत्तिराविद्यकी भवतीतिपक्षे तद्विशिष्टतया प्रतीकस्य पाश्चात्यं प्रतिसन्धानं नायुक्तम् । सिद्धान्तलेशसंग्रहेऽपि साक्षिनिरूपणावसरे उपपादितमिदं प्रतिसंधानम् । अनन्तरवादे च तादात्विकवृत्तिपक्ष दर्शयिष्यते । एवं धर्मभूतज्ञानमेव सुखरूपात्मग्राहि तदेत्येकदेशिमते आचार्यप्रदर्शितेऽपि तादृशधर्मभूतज्ञानविशिष्टात्मप्रतिसन्धानं नायुक्तम् । यदा सुखरूपात्ममात्र स्वयंप्रकाशस्तदेति उभयसंमतः पक्षः, तदा सुखमहमखाप्यमित्यस्य कथं प्रतिसन्धानतेति तु परिशीलनीयम् । तत्रान्ततो निष्कृष्टं संगृह्य ब्रूमः । खापकाले स्वापस्य कालस्य चाननुभूतत्वान्न तदंशे प्रतिसन्धानता । स्वापस्यैवाननुभूतत्वे स्वापगतं सुखत्वमि त्यनुभवाभावात् न स्वापगतमुखत्वांशेऽपि प्रतिसन्धानता । अतः सुखरूपात्मांशे प्रतिसन्धानत्वं वक्तव्यम् । तच्च न भवति । अननुभूयमानस्य हि प्रतिसन्धानम् । आत्मा चानुभूयत एव सर्वदा स्वयंप्रकाशत्वात् । न च कालाद्यविषयकः प्रकाशः स्मरणवहो दृष्टः । आत्मनः स्वयंप्रकाशश्च न कालगोचरः ६०४

इति न तस्य स्मरणाधायकता । यदि जानामीति धर्मभूतज्ञानस्य कालपरिच्छिन्नतया प्रतीतिवत् आत्मनोऽपि कालावच्छिन्नतया मानं स्यात् तर्हि सुषुप्तिकालविशिष्टस्य प्राग्भातस्यात्मनः पश्चात् प्रतिसंधानमिति कल्प्येत । तसु न; आत्मतत्त्वस्य निर्विषयकतया कालभा सकत्वायोगाच्च । शुद्धात्मांशस्तु सर्वदैव प्रकाशमानो न स्मर्यमाणदशानापद्यत इति । एवमपि सुखमहमम्वाप्रमित्यस्य प्रत्यवमर्शरूपताया भवन्मते विवादाभावात् अस्मद्भाष्ये तदंश सूचनपूर्वकम्, “एवं हि सुप्तोत्थितस्त्र परामर्शः सुखमहमस्वाप्स मिति 1 अनेन प्रत्यवमर्शेन” इत्यादिकं भाषितम् । अत्रायमाशयः -स्वापकाले अहंत्वसुखत्वविशिष्टं किञ्चिदासीदिति एतत्प्रत्यवमर्शात् ज्ञायते । स्वापे सुखत्वस्यात्रावगमेsपि स्वापस्य ज्ञानाभावस्य सुखत्वबाधात् इदानीं यथा सुखं भवति, तथा अस्वाप्समिति स्वापे सुखकरत्वरूपमुखत्वाङ्गीकारे तादात्विकसुखप्रतीतिस्वारस्य-भङ्गापत्तेः सुखमस्वाप्समित्यस्य सुखसमकालिकस्वापवानहमासमित्येवार्थ इति स्वापकाले सुखस्थितिमतीतौ वषयिकखस्य तदा प्रसत्यभावात् आत्मरूपसुखमेव परिशेषसिद्धमिति तदा सुखत्वात्वविशिष्टवस्तुसिद्धिः । अस्य प्रत्यवमर्शता त्वेवम् " स्वापपूर्वकालभवानुभवप्रत्यभिज्ञाऽऽत्मनः पूर्वकालस्थत्वेऽनुमिते, मध्यकालविषयानुभवप्रतिसन्धानाभावेन स्वापे चानुमिते, तदुभयं क्रोडीकृत्य अहमस्वाप्समिति पुनरनुसंधत्ते । स्वस्मिन् स्वानुकूल्यस्य च निर्विवादतया जागरे स्वयंप्रकाशमालक्ष्य च सुषुप्तावपि सुखांशस्वप्रकाशस्थितिमनुमिनोति । एवमनुमितस्य चानुकूल प्रकाशस्य स्वापस्य च समकालिकतया स्वापविशेषणतया सुखमहमस्वाप्समिति परामृशति । तथा च सर्वमिदमनुमितप्रतिसन्धानमिति सुवचम् । अत्र च प्रतिसन्धाने अनुभूतित्वविशिष्टतयाऽऽत्मनो मानाभावात् अहन्त्वविशिष्टतयैव भानात् अनुभूतित्वविशिष्टं नानुमितम्, किन्तु अहन्त्वविशिष्टमेवेति च स्वापे अहंभानसाधकमिदम् । सुषुप्तावहमर्थसत्त्वमेव प्रत्यवमर्शमुख्यावगम्यम् । भानाभानादिकं तु वस्तुस्वभावप्रमाणायत्तमित्यादि भाव्यम् । सन्निकृष्टस्यानुभूयमानस्य च वस्तुनः तावन्मात्रविषयकप्रत्यवमर्शायोगेऽपि तदधिकगृहीतचरयत्कि अहमर्थात्मत्व-प्रसाधनम् ६०५ चिदाकार विशिष्टतया प्रत्यवमर्शो नानुपपन्नः । प्रथम ग्रहणञ्चानुमाना दिनेत्युक्तम् । अतो न किञ्चिदनुपपन्नमित्युत्पश्यामः । भवदीयग्रन्थप्रतिपादितस्य प्रत्यवमर्शपक्षस्य तार्किकादिभिरिव मा निरासो नाम भूत् आत्मस्वयंप्रकाशताया अस्माकमपीष्टत्वादि त्याशयेन श्रीभाष्ये सुखमहमस्वाप्समिति प्रत्यवमर्शाप्रतिषेध इति शोधनमिदमुभयैरव्यादर्तव्यमेव यावत् वृत्तिधर्मभूतज्ञानविकासो वा तदा नेप्यत इति । यदि च स्थूलोऽहङ्कार एवाहमर्थः स्यात् तर्हि स्वापकाले न किञ्चिदज्ञासिषमिति ज्ञानाभावमिव, नाहमभूवमिति स्वाभावमपि गृह्णीयात् । अविद्याविशिष्टात्मनः स्थितत्वेऽपि स्थूलाहमर्थविशिष्टात्माभावात् । तस्मात् तादाविका विद्यांशस्यापि भवद्भिरहमर्थत्वमेष्टव्यम् । अस्तु तावदिदम् । श्रीमाप्यादौ अहमिति आत्मप्रकाशस्येष्टत्वात् मामन्यश्च नाज्ञासिपमिति कथं प्रबुद्धः प्रतिपद्यत इति चेत् — जागरे यथारूपं मां जानामि, चैत्रं गौरं ब्राह्मणमन्यानेकारविशिष्टश्च न तथा तदाऽहमज्ञासिषमिति तदर्थस्यानुभवसिद्धतया अनुपपत्त्यभावात् ॥ अन्तःकरणस्यैवाहमर्थत्वे च मोक्षार्थप्रयत्नो दुर्घटः । न हि अहं नष्टः स्यामिति प्रयतते । किन्तु अहं मुक्तः स्यामित्युक्तोपरि यदुच्यते–अहं पदं शुद्धान्तःकरणपरं नेष्यते ; किन्तु तदवच्छिन्न चैतन्यपरम् । तत्र विशेषणांशनाशेऽपि विशेष्यांशस्य मुक्तिकाले स्थास्यत्तया मुक्तः स्यामित्युपपन्नमितितत्र ब्रूमः । बद्धोऽहं मुक्तो भविष्यामीति प्रयत्नाश्रयत्वं कस्य ? अन्तःकरणस्य वा चैतन्यस्य वा ? आद्ये यः प्रयतते, न स मुक्तो भविष्यति । किन्तु नङ्क्षयत्येव । नान्त्यः; चैतन्ये प्रयत्नाश्रयत्वायोगात् । अन्तःकरणतादात्म्या ध्यासात् प्रयत्नाश्रयत्वाध्यास इति चेत् —नन्वध्यासोऽपि काचिद्वृत्तिरेव । तदाश्रयत्वमपि चैतन्ये बाधितमेव । अहङ्कारः स्वयं चैतन्यं तादात्म्यारोपात् प्रयत्नाश्रयतया मन्यत इति चेत् — ईदृशमतिरूपबन्धाश्रयत्वं तर्हि अन्तःकरणस्यैव, न चैतन्यस्य । तादृशविपरीतमतिविषयत्वं चैतन्ये स्थितं तस्य बन्धः इति चेत् — नैतत् । न हि राजानमृजुं कश्चित् कुटिलत्वेन गृह्णातीति 1 ६०६ परमार्थ भूषणे तद्विषयत्वमात्रेण तस्य दुष्टत्वम्, नास्तिका ईश्वरमनीश्वरं मन्यन्त इत्येतावता न हीश्वरस्य किञ्चिद्धीयते । अतस्तन्निवृत्तिरूपमुत्तत्यर्थः प्रयत्नो व्यर्थः । अहङ्कारः स्वस्मिन् चैतन्यतादात्म्याध्यासाधीन सर्व विकार परिहारार्थमेव प्रयतत इति चेत्–तथा प्रयतमानोऽयमन्ततः स्वनाशमेव किलापादयति ; न स्वस्य मुक्तिम् । मोक्षो हि नाम, किञ्चिद्विशिष्टस्य तद्विशेषणराहित्येन स्थितिः । चैतन्यं विपरीताभ्यासविषयत्वात् मोक्तुमहंकारः प्रयतत इति चेत्-तर्हि चैतन्यस्य स्वविषये प्रयत्नाभावात कथम, “राज्यकामस्य निर्मलीकरणेन सर्वाङ्गालङ्करणमेवेदम् ; न शिरच्छेद" इत्युच्यते । न हि राजस्स्थानापन्नस्य चैतन्यस्य स्खालहरणार्थः प्रयत्नः कश्चित् । प्रयतमानस्याहङ्कारस्य स्वरूपनाश एव भवतीति तत् शिरच्छेदादधिकमेवेति । वरं तु सांख्यमतम्, यत्र पुरुषस्य बन्धमोक्षयोरुपपादनायोगेऽपि बुद्धेः स्वरूपेण कारणात्मना च पश्चादवस्थानात् " बध्यते मुच्यते च नानाश्रया प्रकृतिः " इति वक्तुं शक्यते । परं तु एकस्मात् चैतन्यात् प्राप्तविवेकायां बुद्धौ सकृदेव सर्वमुक्तिः स्यादिति शंका शिष्यते । तदेव मतम्, “विप्रतिषेषाच्चासमञ्जसम्" इति प्रतिक्षिप्तं भगवता वादरायणेनेति स्थिते का कथा भवन्मतस्य ? अतो निर्विशेषे चैतन्ये कस्यापि व्यापारस्य दुर्वचतया अहंपदस्य चैतन्यपर्यन्तार्थपरत्वेऽपि न तस्य मुमुक्षा उपपादिता भविष्यति ॥ एतेन, ज्ञातृत्वकर्तृत्वाभ्यासस्य युष्मत्प्रत्ययगोचाराहङ्कारादि धर्माध्यासस्य च निवर्तनार्थमोक्षशास्त्राणि प्रवृत्तानि” इत्युक्तमपि निरस्तम् । अहंकारनिष्ठज्ञातृत्वादेर्धर्मस्य चैतन्यरूपे आत्मन्यध्यासः किंनिष्ठः । न तावत् चैतन्ये, ज्ञातृत्वघटकज्ञानस्येवाध्यासस्यापि वृत्तिविशेषतया अहंकारनिष्ठत्वात् । अध्यासस्याहंकारनिष्ठत्वे तु तत्सत्त्वे चैतन्यस्य किमनिष्टमायातम् . येन तन्निवर्तने प्रयत्नः क्रियते । अहंकारः स्वयमध्यास स्वगतं निवर्तयितु यतत इति चेत अध्यासनिवृत्त्यर्थो यत्नः स्वनाशपर्यवसायी किल भवति । तत्कथं स मुमुक्षुरित्युच्यते । युष्मत्प्रत्ययगोचराहङ्कारेत्यपि न सत् । अहंशब्द अहमथात्मत्य-प्रसाधनम् । ६०७ मुख्यार्थी यद्यहंकारः, कथं स युष्मदर्थः । चिदचिद्मन्थिरेवाहमर्थः, न केवलोऽहंकार इति चेत्—प्रन्थिरिति किं तदुभयं विवक्षितम् उत एकविशिष्टापरम् ? आद्ये किं तत्र प्रवृत्तिनिमित्तम् । यद्यहङ्कारत्वं चैतन्यत्वं च, तदनुभवातीतम्, एवमुभयत्वस्य प्रवृत्तिनिमित्तत्वेऽपि मेदग्रहस्य सिद्धत्वात् चैतन्याहङ्कार भेदाग्रह मूलकस्याध्यासस्य का प्रसक्तिः ? अन्त्येऽपि विनिगमनाविरहादर्थद्वयापत्तिः । विशेष्यविशेषणभावश्च केन संबन्धेन ? येन केन चित् भेदसंबन्धेन चेत् तर्हि भेदग्रहसत्त्वान्नाध्यासप्रसक्तिः । अभेदसंबन्धेन चेत –तर्हि अहंकारवृत्तिधर्मेण चैतन्यमानं वा, चैतन्यधर्म विशिष्टतया अहङ्कारभानं वा विवक्षितं स्यात् । नान्त्यः, चैतन्यवृत्तिधर्माप्रसक्तेः । चैतन्यविशिष्टतयैवाहङ्कारभानमिति चेत् — तहिं चैतन्याहङ्कारयोर्भेदग्रह एव स्यात् । आद्ये कोऽसौ धर्मः ? अहं त्वमेवेति चेत् — यद्यहं शब्दप्रवृत्ति निमित्तमहंत्वमहंकारे वस्तुतोऽस्ति स कथं युष्मदर्थः । युष्मदर्थत्वं नाम परार्थत्वम् । परं च चैतन्यमेवाभिमतम् । तदर्थत्वं तदपेक्षितप्रयोजननिवर्तकत्वं तद्गतातिशयहेतुत्वं वा । कर्तृत्वभोक्तत्वादेः सर्वस्याहंकार एवेष्टत्वात् निर्विशेषे चैतन्ये अतिशयाधानायोगात् अहंकारगतसुखाद्यतिशयार्थमेवान्यत् सर्वमिति अहंकारार्थमेव सर्वमिति नाहंकारस्य परस्मै भासमानत्वम् । एवमहङ्काररूपधर्म्यध्यासोऽपि चैतन्ये नास्ति । चेतनोऽहं करोमीति चैतन्याश्रयतयैवाहंकारप्रतीतेः । अत एव तयोर्भदामहायोगः । अहंकारनिष्ठस्याहंत्वस्य चैतन्यस्य च आश्रयाश्रायितया भाने च वक्ष्यमाणाहमर्थ पक्षकानुमाने पक्षेऽहमर्थेऽहंकारे ऽहम्प्रत्ययविषयत्वरूप हेत्वसिद्धिः । अहमिति चैतन्याहंकारयोरुभयोरेव भानम् । परं त्वनया प्रतीत्या तद्भेदाग्रह इति चेत् — एवमपि अहं प्रत्ययविषयत्वरूपहेतो चैतन्येऽपि सत्त्वात् वक्ष्यमाणानुमानेऽनैकान्त्यम् । चैतन्यं स्वयं भासते, अहंकारं च भासयति चैतन्यविषयीणी चाहंकारे वृत्तिः जायमाना दोषवशात् चैतन्याश्रयतयाऽहंकारविषयिणी चेतनोऽहमितीति चेत् तर्हि “चैतन्यरूपोऽहं करोमि " इति प्रतीत्यभावात् चेतनोऽहं करोमीत्येव प्रत्ययात् अहंकारे कर्तृत्वं स्थितमेव गृहीतमिति कथं चैतन्ये कर्तृत्वाध्यासः । अहमित्युभयेोरेकत्वेन ग्रहणमिति चेत्–तर्हि ६०८ परमार्थ भूषणे चेतनोऽहमिति चैतन्याश्रयत्वेन ग्रहणं न स्यात् । अथ चैतन्यस्वरूपस्याहंकारस्य चैक्यग्रहणमप्यस्ति । चैतन्यस्वरूपञ्च तदा भासमानं चैतन्यत्वेन न भासते । तत्र स्वरूपेण भासमाने चैतन्याहंकारद्वये चैतन्यत्वेन चैतन्यं धर्मतयाऽपि भासत इति चेत् नूनं वृत्तिरेव चैतन्यत्वेन भाता अहमथविशेषणीभवतीति । भ्रमनिवह कल्पन भ्रमणेऽपि न चैतन्यमुमुक्षोपयोगिबन्धोपपादनं संभव तीत्यलम् । “ब्रह्म वेद ब्रह्मैव भवतीति श्रुतिरप्यद्वतिमत एव स्वरसेत्युक्तमप्ययुक्तम् । अत्र सा श्रुतिरेवाद्वैतिमते स्वरसा स्यात्, न त्वन्येति समाधि केचिन्मन्येरन् । तत्त्वं तु सा श्रुतिरपि साधर्म्यपरमसाम्यादिप्रतिपादकश्रुतिवत् अद्वैतमते अस्वरसेत्येव । ब्रह्मकं सत्यम् -अन्यदसत्यम् । अतः सर्वदा ब्रह्मकमेव भवति, ब्रह्ममालसद्भावकथनं ह्ययुक्तम् । तन्मते ;

न त्वन्यदिति स्थिने, ब्रह्मवेदनानन्तरमेव तथा — यो ब्रह्म वेद, स ब्रह्मैव भवतीति वाक्यार्थे य इति कस्य ग्रहणम् ? नाहंकारस्य तस्य मुक्तौ बाधेन ब्रह्मभावायोगात् । नाहंकारग्रथित चैतन्यस्य । तस्य वेदनरूपवृत्त्याश्रयत्वाभावात् । एवं ब्रह्मैव भवतीत्यस्य ब्रह्मातिरिक्तं न भवति, जगडूपेण विवर्तनं न भवतीत्यर्थे अन्तःकरणावच्छिन्नचैतन्यस्य वेदितृत्वाभिमतस्य जगद्रूपेण विवर्तनस्य कदापि प्रसत्यभावात् अप्रसक्तप्रतिषेधः । एकस्य वेदने सत्यप्यन्येषाममुक्ति स्वीकारात् ब्रह्मातिरिक्ताभवना योगश्च । अस्मन्मते तु “विष्णुरेव भूत्वेमान् लोकानभिजयति” इत्यादाविव एवकारस्य यथाकोशं सादृश्यार्थकत्वात् प्रमाणान्तरा विशिष्ट मिदमपि वचनं ब्रह्मसाक्षात्कारिणः ब्रह्मसाम्यप्राप्तिमेव वदतीत्ति स्वरसम् ; अन्यथा एवकारवैयर्थ्यात् । तदेतदवसरे विवेचयिष्यते ॥ अनात्मनि देहे आत्मनो नाम, देहेऽहं बुद्धिरेवेति संप्रतिपन्नम् । कथं तत् भवम्मते अहं शब्दस्यात्मार्थकत्वाभावात् । अहंकारप्रथितात्मरूपविशिष्टार्थकत्वादहं शब्दस्य तदुपपत्तिरिति चेत्-नअहंकारमात्रमहमर्थ इत्येव भवदीयग्रन्थे पु दर्शनात् । किश्च अहमर्थौ नात्मा, अहंप्रत्ययविषयत्वात् शरीरवदित्यनुमाने अहमर्थात्मत्व-प्रसाधनम् ६०९ भ्रमस्य अहमर्थपदेन कस्य ग्रहणम् ? विशिष्टस्येति चेत् -तत्र विशेष्ये आत्मत्वे वर्तमाने, विशिष्ट तदभावः कथम् ? विशेष्यवृत्तिप्रतियोगिकविशिष्टानुयोगिकाभावानीकारात् । विशिष्टं विशेष्यादन्यदिति चेत् तदा अहमिति आत्मभ्रनरूपता प्रागुक्ता परित्यक्ता स्यात् । अहमर्थ इत्यहंकारमात्रग्रहणे तु तत्रात्मत्वनिषेधे सिद्धसाधनम् । न च पारिभाषिकभेदः इह साध्यते । अतः आत्ममिन्नत्वमात्मत्वविशिष्ट विषयकप्रीतिविषयत्वम् । तच्चात्मत्वरूपधर्माग्रहणादहङ्कारविशिप्र चैतन्यरूपे पक्षे सुस्थमिति वाच्यम् पारिभाषिकभेदस्थानत्वे सत्यपि सम्भवेन ततो विवादशमनायोगात् सिद्धसाधनादर्थान्तराच्च । एत्रमत्ययविषयत्वरूप हेतोः चैतन्येऽपि भवदिष्टत्वाद्वयभिचारश्च । तथा लोकानुभवोऽपि अहमिति किञ्चिद्धर्मविशिष्टैकधर्मिविषयक एव । न त्वहंकारावच्छिन्नात्मारोपेण देहग्रहपर्यन्तानुभवोऽस्ति । तथा सति अहंकारतदवच्छिन्नत्वादिषु विवादस्यैवाभावप्रसङ्गात् । अहंकारात्मनोः भेदाग्रहस्यैव भवदिष्टतया अहङ्कारावच्छिन्नतया मानाद्ययोगश्च । अस्तु तर्हि अहं गौर इत्यत्र देहस्याहंत्वस्य चैव मानमिति चेत् —— यदि इदमहंत्वमहंकारनिष्ठम्, तदा अमर्थ आत्मेति सिद्धम् ; अन्यथाऽस्यात्मभ्रमत्वाभावप्रसंगात् । यत्तु –अहमिति आत्मप्रकाशस्य सुतौ स्वीकारे जागर इव विशदप्रकाशापत्तिरिति -तत्रेदमवधेयम् । अस्त्येव वैशद्यम् । आत्मस्वरूपं हि सर्वदै करूपमेव प्रकाशते । ज्ञानेच्छादिगुण। दिवैशिष्टयप्रकाशनिबन्धनञ्चेत् वैशद्यम्तत् ज्ञानाद्युत्पादक सामग्रीसभवधानायत्तमिति न तस्य सुघुतौ प्रसङ्गः । किञ्चाद्वैतमते देहात्मभ्रमो दुरुपपादः । यत्र यद्भ्रमः, तयोर्मिंथो विरुद्धधर्माग्रहणे अभेदे नेकत्रान्यतरस्यारोपो वा एक तर धर्मस्यान्यत्रारोपो वा भ्रम इति वक्तव्यम् । न च निर्वर्म आत्मनि विरुद्धधर्मः कश्चिदस्ति यद्ग्रहणस्य अनिवर्तकता स्यात् । अतो विरुद्धधर्माभावात् सर्वदा भ्रम एव स्यात् । चैतन्यं निर्विशेष स्वरूपतो गृमाणमपि भ्रमनिवृतिहेतुरिति वा वक्तव्यम् । तदा च न देहात्मभ्रमप्रसक्तिः । एवमेव चैतन्यस्याहङ्काराभेदाध्यासोऽप्यसंभवीः । एतेन विरुद्ध 77६१० परमाथभूषणे स्वभावत्वं स्वरूपसत् न श्रमप्रतिबन्धकम् किन्तु विरुद्धस्वभावत्वज्ञानम् । तदभावात् देहात्मभ्रम इत्यप्यपारस्तम् । निर्धर्मणि चैतन्ये विरुद्धधर्मस्य कदाऽप्यसंभावितत्वात् । स्वरूपस्यैव विरोधित्वे च तत्प्रकाशोऽस्त्येवेति न भ्रमप्रसक्तिः । वृत्त्या ग्रहणम पंक्षितमति न च वाच्यम् । अहंशब्दस्य चिदचिदन्थिपरत्वस्योक्ततया शाब्दवृत्त्या चितो गृह्ममाणत्वात् । वस्तुतः स्वरूपस्य स्वप्रकाशेन वा वृत्तिद्वारा वा विरोधित्वमेव नास्ति; अन्यथा अहंकार चैतन्यतादात्म्याध्यासरूपभ्रमस्यैवानुदयापत्तेः । तद्भ्रमो हि नाम अभेदेन तस्य वा, तद्धर्मस्य वा भेदसंबन्धेन तत्रारोपः । अत्र च तद्धर्माभावात् तस्यैवारोप इति वक्तव्यम् । तस्मिन् भ्रमेण गृह्यमाणे सहाहंकारग्रहणमेव न भवितुमर्हति । मिथो विरुद्धयोरे कज्ञानेन ग्रहणायोगात् । यत्तु · -शरीरस्य चेतनत्वं स्वातिरिक्तचैतन्याध्यस्तस्य स्वाधिष्ठानतादात्म्यनिबन्धनमिति तन्न -तथा सति प्रपञ्चसामान्ये चेतनत्वग्रहापत्तेः सर्वस्य चैतन्ये आत्मन्यध्यस्तत्वात् । तादात्म्यस्य तत्रापि संमतत्वात् ॥ यत्तु परिभ्रमणम् — देहेऽहं प्रत्ययः श्रीभाष्यमतेऽपि न भवति । तादात्म्यावगाहित्वाभावात्, नित्या नित्ययोरपृथक सिद्धययोगेनापृथवसिद्धयवगाहित्वाभावाच्चेत्यादि सर्वमिदम -स्मत्सिद्धान्तापरिज्ञानमूलमिति किमत्राभिनिविष्टात्यन्तानवहितप्रतिबोधन विस्तरेण ॥ यत्तु प्रत्यक्त्वं खप्रकाशसाक्षिस्वरूपत्वम् । तच्चाहङ्कारोपहिते सुषुसावविद्योपहिते; न तु शुद्धे । तत एव न मुक्तौ प्रत्यत्तत्त्वम् । अतः उपहितधर्मत्वात् प्रत्यक्त्वस्य नात्मत्वप्रयोजकत्वमिति तत्रोच्यते । निरुक्तमिंद प्रत्यक्तमहं कारनिष्ठ वा चैतन्यनिष्ठं वा ? नाद्यः, साक्षिखरूपत्वस्य तत्रासंभवात् । अन्त्ये, उपहितमनुपहित वा चैतन्यमेव हि प्रत्यक् । न च चैतन्यातिरिक्तम् । एवञ्च प्रतीचोऽहमिति प्रत्ययविषयत्वेऽहमर्थत्वं प्रत्यग्भूतसाक्षिनिष्ठमेवेति कथमहङ्कारस्याहं शब्दमुख्यार्थता ? अस्तु कामम् । अथापि न तत् आत्मत्वप्रयोजकम् । आत्म + अहमर्थात्मत्व-प्रसाधनम् ६११ त्वस्य शुद्धनिष्ठत्वादिति चेत् -तदयुक्तम् । शुद्धे आत्मत्वरूपधर्म स्याप्ययोगात् । अत सातत्यगमने, आप्लु व्याप्तवित्याद्यात्मशब्दनिरुक्तीनां परं शुद्धे कथं संभवः ? शुद्धे आत्म शब्दविवक्षिततत्तदशोपलक्षितत्वादात्मशब्दप्रयोगः इति चेत् एवं प्रत्यक्तमहं प्रत्ययविषयत्वञ्चोपलक्षणतया स्वीकृत्य तत्रात्मत्वकथनमपि नायुक्तम् । यस्त्वेवं प्रत्यक्तस्य कदाऽप्यनहः, स आत्मा न भवतीति विवक्षितलाभात् । अपि च विचार्यते–स्वप्रकाशसाक्षिस्वरूपत्वमित्यत्र स्वपकाशेति व्यर्थम् । अस्वप्रकाशस्य साक्षिणः कस्यचिदभावेनाव्यावर्तकत्वात् । साक्षिपदव किं चैतन्यपरम् उत अहङ्काराद्युपहित चैतन्यपरम्, आहो, “साक्षाद्द्रष्टरि संज्ञायाम्” इत्यनुशासनानुरोधेन द्रष्टृपरम् । आद्ये मुक्तौ साक्षित्वं नास्तीत्युक्तं न घटते । तदापि हि तत् चैतन्यमेव । द्वितीये साक्षिपदेनैवाहंकाराप हितत्वेन ग्रहणात् । उपरि, “तच्चाहंकारोपधानेन”" इत्यादिवाक्यानन्वयः । किञ्च प्रत्यक्पदं सर्वेऽपि तान्त्रिकाः प्रयुञ्जते । न च प्रकाशमहंकारोपहितमथवा अविद्योपहित चैतन्यरूपमर्थ लोकः प्रतिपद्यत इति नैवं निर्वचनं युक्तम् । तृतीये स्वविषयकप्रकाशवान् द्रष्टा प्रत्यगित्येवम्, “प्रत्येतुः प्रत्येतव्यादन तिरेकः प्रत्यक्तम् " इति द्रष्टृदृश्यैक्यम् विषयत्वाश्रयत्त्वोभवसंबन्धेन ज्ञानविशिष्टत्वमित्येवं रूपमेव तार्किकादिप्रसिद्धं प्रत्यक्तमुक्तं भवतीति नेदं भवदभिमते साक्षिणि संभाव्यते । अथ खाश्रयविषयक वृत्तिभासकलं प्रत्यक्तमिति चेत् -इदमपि सर्वतान्त्रिकसाधारणं न भवति । अस्तु तावत् । तत्र किं नाम भासकत्वम् । व्यवहारप्रयोजकत्वमिति चेत् — वृत्तिपदेन अहमिति शब्दप्रयोगोपयोगिनी प्रयोक्तगता वृत्तिर्गृह्यते, उत श्रोतृगता ? आधे अहंकारस्य साक्षिभास्यतया तद्विषयकवृत्तिसद्भावे मानाभावः । अन्त्ये वृत्तेः श्रोतृ निष्ठतया वक्तुश्च वृत्तिविषययतया तद्विषयकवृत्तिसद्भावे स्वाश्रयविषयकेति निवेशायोगः । न च व्यवहारातिरिक्तः अहंकारस्य वृत्तेर्वा साक्ष्यधीनः प्रकाशो नाम कश्चिदस्ति । अथ तद्व्यवहारकर्तृविषयकव्यवहारप्रयोजकत्वं प्रत्यक्तुमिति विवक्षितमिति चेत्तदिंद अहमिति धर्मभूतज्ञाने तार्किकाद्यभिमते प्रत्यक्तरहितेऽप्यस्ति । स्वविषय ६१२

कव्यवहारकर्तृत्वरूपं तु प्रत्यक्तं भवत्साक्षिणि न भवितुमर्हति । साक्षिणोऽकर्तृत्वात् । 14 सर्वथा केवलस्यात्मनः अहं प्रत्ययविषयत्वाभावेऽपि अहङ्कारच्छ तया तस्य तद्विषयत्वस्याव्याहततया अहमर्थो नात्मेति न वक्तुं शक्यम् । यथा जीव आत्मा, इश्वर आत्मेति वादो न बाधितार्थः, तथा अहमर्थ आत्मेत्यपि । शोधनेऽहं कारस्येदं प्रत्ययगोचरत्वस्यापीष्टत्वात् विशिष्टार्थवाचिनोऽप्यहं शब्दस्यात्मैव प्राधान्येन विषय इति नात्मनोऽहमर्थत्वाभावः । एवं प्रत्यकमप्यात्मन एवेति, “कश्चिद्धीरः प्रत्यगात्मानमैक्षत्” इति श्रुत्या, “अपरोक्षत्वाच प्रत्यगात्मप्रसिद्धेः” इति भाव्यतयाख्यानभामत्यादिना च सिद्धम् । तत्र हि श्रुतौ, “पराश्चि खानि व्यतृणत् स्वभूः" इतीन्द्रियाणां पराग्रूपपरपदाथेग्राहित्वं स्वाभाव्यं प्रतिपाद्य प्रत्यमुपस्वात्मदर्शनादमृतत्वमुच्यते । न चाहंकारच्छुरितात्मदर्शनममृतत्वसाधनम् । अतो मोक्षसाधन प्रत्यक्षविषयतत्त्वमेव प्रत्यक्तमिति ज्ञायते । इदञ्च प्रत्यक्तविशेषण परात्मव्यावृत्तये । स्वात्मसाक्षात्कारं विना कस्यापि मोक्षाभावात् । आत्मा परमात्मा तं प्रत्यगात्मानमिति श्रुत्यर्थः । अस्तु वा प्रत्यग्भूतस्य स्वात्मनः य वाचि । भवन्मते चात्मन एकत्वात् अत्मज्ञानस्य } सर्वथा प्रत्यक्पदं स्वात्ममोक्षसाधनत्वात् आत्मा नमित्येवालमिति प्रत्यक्पदं व्यर्थम् । “अहमिति प्रत्यगात्मनि भावात् परत्राभावात्" इति कणादसूत्रमपि प्रागुदाहारि । अत एवाहं ब्रह्मास्मीति ज्ञानं मोक्षहेतुरिति भवतां दुर्वचम् । अद्वितीयं ब्रह्मेति ज्ञानस्यैव सर्वबाधकत्वेन मोक्षहेतुत्वसंभवात् । चैत्रो ब्रह्मेति ज्ञानस्येव अहं ब्रह्मास्मीति ज्ञानस्यापि मैत्रमोक्षसाधनत्वायोगात् । अन्यथा इंदं रजतं, अयं घट इति ज्ञानेषु इदमंशावच्छिन्न चैतन्यभानस्येष्टतया अहंकारावच्छिन्न चैतन्यग्रहणवत् तदपि मोक्षसाधनं भवतु । प्रत्यक्षे विषयावच्छिन्न चैतन्यस्य प्रमाणचैतन्यस्य चाभेदस्यानीकृतत्वात् प्रमातृचैतन्यस्य प्रत्यगात्मत्वे घटादीदमवच्छिन्नचैतन्यमपि प्रत्यगात्मेति अहंकारो पलक्षितस्येव घटाद्युपलक्षितस्याप्यात्मनो ज्ञानं मोक्षाय स्यात् । शतदूष अहमर्था मत्य-प्रसाधनम् १३ ण्याम्, “ इदं रजतमित्यत्र इदम्येव प्रत्यगंशोऽपि सिद्धः" इत्युक्तमिति तु अयथानुवाद इत्यन्यदेतत् । अतः प्रत्यक्तस्यात्मनिष्ठतायाः शाङ्करभाष्याविसिद्धत्वात् अहत्वस्यापि तत्समानयोगक्षेमत्वात् यथा कथञ्चित् अहम्पदजन्योपस्थितिविशेष्यत्वस्य आत्मन्यक्षतत्वे अहमर्थात्मत्वसमर्थनं न प्रतिषेध्यम् । सत्यमेतत् । अहंकारस्यात्मत्वमेव वारयाम इति चेत् न वयं तत् साधयामः । अथ ज्ञातुरात्मत्वं वार्यत इति चेत्-अहंकारस्यान्तःकरणतया ज्ञातृत्वस्यानन्तरवादे निराकरणात् अन्यस्य ज्ञातृत्वे सिद्धे तस्यात्मत्वं न शक्यं वारयितुमिति प्रतिबोध्यते ॥ ८ यत्तु भाष्योपक्रमे, “ युष्मदस्मत्प्रत्ययगोचरयोः " इत्यात्मनः अस्मत्यत्ययगोचरत्ववर्णनं भ्रान्तिकालीनविषयत्वमादाय; शब्दान्तरेण व्यवहर्तुमशक्यत्वात् अहमर्थ आत्मेति पूर्वपक्षिदृष्ट्या वेति तत्र पूर्वपक्षिदृष्टयेत्ययुक्तम् ; पूर्वपक्षिणा सिद्धान्तिसंमतप्रमेय परिस्थिति मनुरुद्धचैवाध्यासदौःस्थ्यस्य शक्य गानत्वात् । सिद्धान्तेऽपि न चायमेकान्तेनाविषयः अस्मत्प्रत्ययविषयत्वात् ’ इति भाषणाच्च । भ्रान्तिकालीनविषयत्वमादायेति च तदोपपद्यते, यद्यभ्रान्तिकालीनः अहमिति व्यवहारः कदापि क्वाप्यन्यत्र प्रदश्र्खेत । अहंकारस्य विषयत्वमस्ति न वेति तु विप्रतिपन्नम् । आत्मनोऽहमित्यत्र विषयत्वं पुनरन्तः करणे तत्र विशेषणे स्वीकृतेऽपि संप्रतिपन्नन् । तस्मात् तत्राहंशब्दस्यौपचारिकत्वं न भविष्यति । शुद्धात्मनः कथं वाच्यत्वमिति चेत् -तदेतत् ब्रह्मशब्दात्मशब्दानुभूतिशब्दावपि तुल्यम् । अन्यथा ह्येवं वदता उपक्रमप्रभृति भाव्यमयथाभूतमिति दूषितं स्यात् । युष्मत्प्रत्ययगोचरत्वं तत्र–विषयेषु कथितमनुपपन्नम् । अभिमुखचेतनवाचित्वात् युष्मत्पदस्य । अहंप्रत्ययविषय इदं प्रत्ययविषयश्च भिन्न इत्यभिप्रयतैव अहमिदं ममेदमित्युपर्य च्यमानमप्यनुपपन्नम् विषयविषनिरिति अहं प्रत्ययविषयस्य विषयत्यकथनमप्यनुपपन्नम् ; अहं जानामीत्यादाव मर्थनिष्ठज्ञानादेरेव विषयित्वानुभवात अहमिति गृहीतस्य विषयितया प्रथाविरहात् । एवमन्यपुरुषीययुष्मत्प्रत्य ११४

यगोचरस्य स्वकीया स्मत्प्रत्ययगोचरत्वस्याप्यानुभविकत्वात् तमः प्रकाशवद्विरोधो नास्ति’ इत्येवमाद्यनुपपत्तिवत् आत्मनि अहं प्रत्ययविषयत्वकथनानुपपत्तेरपि भवतां दर्शितत्वात् । विषयित्वानुपपत्तिः स्वप्रकाशत्वतात्पर्येण परिहियते यदि, अहम्प्रत्यय-विषयत्वमपि वृत्तिविषयत्वाशयेन परिह्नियताम् । आत्मनो वृतिव्याव्यताया भवदिष्टत्वात् । शक्यते हि — आत्मस्वरूपमात्र स्वयंप्रकाशम् अहंकारमात्रं च साक्षिभास्यम् ; घटपटादिवृत्तौ जातायां वृत्तिमत्त्वेन चाहंकारे भाते तादृशीत्वविशिष्टतया आत्मस्वरूपविषत्रिणी वृत्तिः काचिदुदेति । तद्विषयत्वमहं प्रत्ययविषयत्वमिति वक्तुम् । न च ईदृशामहप्रत्ययविषयत्वातिरिक्तं विषयत्वं क्वचिद्दृष्टमस्ति । सर्वमिदं भवन्नतपरिष्करणमात्रमस्मत्कृतम्। वस्तुतोऽहं त्वस्यात्मनि आरोपितत्वे प्रमाणाभावात् परः शतचाधक श्रुत्सित्त्वाच्च प्रमारूपास्मत्प्रत्ययविषयत्वमध्यात्मन्यस्त्येव । न हीवरीऽहं व्यवहारः प्रमां विना निर्वोढुं शक्यः । तस्याहंकारविरहात् सर्वज्ञतया भ्रमासंभवाच्च । “ईश्वरस्याविद्याऽस्तीति” चेत् नासावहंकारः । ईश्वरः स्वावियामेवाहन्त्वेन गृह्णाति न तु खात्मानमिति चेन्न " मत्तः परतरं नान्यत्", " अहमात्मा गुडाकेश" इत्यादिव्यवहारविरोधादिति ॥ यत्तु धर्मभूतज्ञानमचित्पदार्थेऽन्तर्भूतं न भवनि, अजडत्वात् । चिति अन्तभूतं चेत्, प्रत्यक् भवेत् । ततः सिद्धमनहमर्थेऽपि प्रत्यक्त्वम् । चिह्नर्हिभूतञ्चेत्, चिदचिदीश्वरतत्त्वत्रयमात्रगणनानुपपत्तिरित्यादि तदिदमपि संरम्भवचनम् । अजडत्वेऽप्यचित्त्वसंभवत् । अचित्त्वं हि चैतन्यराहित्यम् । धर्मतया चिदन्तर्भावेऽपि न दोषः तावता प्रत्यक्तप्रसत्त्यभावात् । त्रैविध्यविभाग नियामकस्य चास्मग्रन्थेषु विशदत्वात् । tara गुणानेोजीवेश्वरोगभूतिमति भेदात् इत्य् अपिंपरिगणनादित्यलम् ॥ यत्तु विशिष्टाद्वैतकोशरीत्या प्रत्यकूपदं जीवात्ममात्रपरमितितत् यथावत् कोशापरामर्शमूलम् । परामार्थप्रकाशिकादौ चरस्माभिः प्रत्यगहमर्थतत्त्वं शोधितं द्रष्टव्यम् । यत्त –स्वप्रकाशत्वं प्रत्यक्त्वमित्येव अहमर्थात्मत्व-प्रसाधनम् ६१५ अस्माभिः निर्वक्तव्यमिति तन्न अस्मन्निरुक्ते प्रत्यक्ते दोषाभावेन धर्मभूतज्ञानातिप्रसक्तस्यास्य निर्वचनस्यास्मदस्वीकृतत्वात् । " इदंप्रत्ययगोचरत्वं परात्तव साक्षित्वं प्रत्यकत्वमित्यद्वैतिमत एव निर्वहती" त्यपि न ; अस्मन्मतेऽपि तन्निर्वाहात् । साक्षिशब्दार्थ एव तु यथार्हं कथनीयः । प्रकाशमानत्वघटित प्रत्यतवं वर्णनीयं चेत् तर्हि वतां कामम्, स्वस्मै भासमानत्वं प्रत्यत्तमिति । अहंकार षब्दस्य कत्यर्थाः, “अथातोऽहंकारादेश’ इत्यत्र च कतमस्य ग्रहणम् इत्यादिकं श्रीमाप्यादिष्वेव व्यक्तम् । न तत्र भवता किमप्युक्तमित्यमावइयकविस्तर विचारात् विरम्यते । तत् सिद्धं मूढैरिव प्रतिबुद्धैर्योगिभिः ईश्वरेण चाहमिति गृह्यमाणो नाहंकारादिरिति सर्वानुगुण्यायाहमर्थ एवात्मा स्वीकार्य इति । अहंकार तत्त्वाहितानात्म देहाद्यहं कारजभ्रान्त्यहं कारहीनैः । अहंशब्दकाष्ठार्थनारायणग्राह्यहंकारमान्यैरहं साधु दृश्यः ॥ श्रीः