वेद्यो वैदरशेषैर्जयति निरुपमो वेदिताऽस्याखिलस्य स्वस्मै भातः स्वयं सन् अपृथगुपगताशेषविज्ञानवस्तुः । ज्ञानानन्दखरूपाक्षरपरमपदाद्यन्तरः संविदात्मा श्रीमानेष श्रितप्तः श्रुतिमतिभजनाद्यात्म संवित्पदं नः ॥ संवित् आत्मा अजडत्वादिति संवित्पक्षकानुमानं शतदूषण्युक्तमद्वैतिनामसंमतमिति कृत्वा स्वयम् आत्मा संविद्रपू इत्यात्मपक्षकानुमानं शिक्षयति शतभूषणी । तत्नेदं वक्तव्यम् संविदात्मनोरैक्ये समर्थनीये द्वेषापि पक्षनिर्देशः संविदात्मत्व भङ्ग-प्रसाधनम् ५८७ संभवन्न शक्य उपेक्षितुम् । उभयविधमपि निर्देशं निरस्यत्येव शतदूषणी, “अस्तुतर्ह्यात्मानं पक्षीकृत्यात्मत्वादेव ज्ञानतादात्म्यसाधनम् " इत्युपर्युपन्यासात् । किञ्च लोकप्रसिद्धाः संविदः स्वाभ्युपगत निर्विषयनिराश्रयसंविदनतिरिक्ता इति नियमयितुं संविदः प्रागभावस्याग्राह्यतया प्रागभावाभावम्, अत एवानुत्पत्तिम्, ततो निर्विकारत्वम्, नानात्वम्, निर्विशेषत्वञ्च स्थापयद्भिर्हि तदुपरि आत्मत्वमप्युपन्यस्यते । एतावदनुमानकदम्बस्थापनीया तावत् स्वाभिमता निर्विषयनिराश्रयसंवित् इतः पूर्वमप्रसिद्धेति न तां विशिष्य पक्षीकृत्य तत्र प्रागभावाद्यभावादिकं साधयितुं कश्चित् पारयेत् । अतः प्रसिद्ध संविद्द्महणेनैव सर्व क्रियते । तत्रानुत्पत्त्यादिसाधने यत् पक्षीकृतं प्राक्, तदेव प्रक्रमानुरोधात् प्रकृतेऽपि पक्षीक्रियत इति सिद्धं संविदः पक्षत्वम् । लौकिकसंविदां सपक्षत्वान्न पक्षत्व मिति तु न; संवित्पक्षकानुमाने तत्सपक्षत्वाविवक्षणात् । व्यतिरेकव्या शिक्षेत्र प्रदश्यते । व्यतिरेकदृष्टान्तश्च घटादिः । यत्तु व्यतिरेक्यनुमानस्यागतिकगतित्वमिति, तदभिनन्दामः । भवदीयैव्यतिरेकव्याप्तिरेव प्रायः परिगृह्यत इति वस्तुतो भावत्कप्रकारानुवादोऽयं भवतैव दूष्यते चेत् किं नस्तेन ? । वयं हि केवलव्यतिरेक्यनुमानं सर्वथैव निराकुर्मः, यद् भवद्भिर्विलक्षणतत्त्वसाधनाय विलक्षण विशिष्याऽऽद्रियते — अनुभूतिः खतः सिद्धा अनुभूतित्वात् प्रागभावरहिता स्वतः सिद्धत्वात्, अनुत्पन्ना प्रागभावाभावात्, निर्विकारा अनुत्पन्नत्वात्, अत एव भेदरहिता चेत्येवम् । यतु, “न चाद्वैतिनो दृष्टान्ततत्रैव निर्दिश्यमानस्य धर्मभृतज्ञानस्य पक्षत्वं मन्यन्ते । अत आत्मपक्षीकरणेन संविद्रूपत्वसाधनमेव” इति तदिदमप्यद्वैतिग्रन्थविस्मरणनिबन्धनम् । इदं हि सर्वमात्मा कानुवदनं श्रीभाष्ये शतदूषण्यादौ वा प्राचीनस्येष्टसिद्धिग्रन्थस्य । तत्र च, “याऽनुभूतिरजामेयाऽनन्ताऽऽत्माऽऽनन्दविग्रहा । महदादिजगन्मायाचित्रमितिं नमामि ताम् " इत्युपक्रम्य स्वयमेव तद् विवत्रे । तत्र च यच्छन्दः स्वतः सिद्धत्यपरः । स्वतः सिद्धत्वञ्च प्रसिद्धं लौकिकसंविद एव । तत्र च यथा वर्णगततया प्रतीतानां ५८८
विकाराणां नादे निरूपणेन वर्णनित्यत्वस्थापनम्, तथा संविन्निष्ठतया प्रतीतानां सर्वेषामन्यगतत्वाभिमत्या स्वाभिमतसंविद्विशेषत्वमेव लौकिकसंवित्स्वाशय्य संविन्नित्यत्वादिस्थापनकामनया सर्वमिदमुक्तम् । अनुभूतिगतमनुभूतित्वं यच्छब्दविवक्षिते स्वतः सिद्धत्वे हेतुः; स्वतः सिद्धत्वम जडत्वे; अजडत्वममेयत्वे; अमेयत्वमनन्तत्वे; अनन्तत्वमात्मत्वे; आत्मत्वमानन्दत्व इति क्रमः । उक्तञ्च तत्र, “नन्वनुभवित्रा आत्मना विनानुभूतिः । तत् कथं सा अनन्ता ? नैष दोषः, यतः सैव सः । कथम् ? उच्यते। सोऽप्यनुभूतिस्वभावश्चेत्, नास्या भेदः । अन्यथा सोऽनात्मेति नानुभविता । अतः सैवात्मा । अनन्तत्वाच्च । अथवा अनन्तत्वात् सैव परमात्मा” इति । अत्रानन्तत्वहेतुना अनुभूतेः त्वादार्थात्मत्वं तत्पदार्थात्मत्वञ्च साधयता पूर्वम्, “अनुभूतिस्वभावश्चेत्, नास्या भेदः इति लिखता, अनुभूतिर्नात्मा तदाश्रितत्वात् अज्ञानवदित्यनुमानं दूषयितुम्, अनुभूतिरात्मा अनुभूतित्वादित्यप्पनुमानमभिप्रेतम् । अनन्तत्वादनुभूतेर त्मत्वमपि सिद्धमित्यर्थ इति च । तद्वयाख्यात्रा एतदनुमाना निर्देशेऽपि एतदभिमतमिति ग्रन्थस्वारस्यसिद्धम् । अनन्तत्वाच्चेति चकारयोगादपि पूर्वः कश्चिद्धेतुर्वि वक्षितोऽस्तीति ज्ञायत एव । तथाचानुभूति निष्ठमनुभूतित्वमजडत्वमित्यादिकं साधकं भवितुमर्हतीति सुदूरं विभाव्य शतदूषणी प्रयुक्ते, “संवित् आत्मा अजडत्वात्” इति । एतावदपरामृश्य, “अद्वैतिनामसंमतं संवित्पक्षकानुमानम् इति लेखनमतिसाहसम् । ईदृशग्रन्थानामन्यथानयनासंभवान्नैतदपलापे यतनीयम् । ज्ञानोत्तमेन व्याख्यात्रा सहित स्त्विष्टसिद्धिकृत् । विमुक्तात्मा स भवता विमुक्तः स्वेष्टानितः ॥ भवतैवानन्तरवादारम्भे, “ अहमर्थो नात्मा सुषुप्तिमोक्षयोरननुवर्तमान’ त्वात् …….. चैतन्यमात्मा अनुवर्तमानत्वात् " इति चैतन्यपक्षकमनुमानमभिप्रेयत इव । एवं सिद्धान्तसिद्धाञ्जनादिकमपि भाव्यम् । अनुभूतिपक्षकात्मत्वानुमानम साम्प्रदायिकमिति च न कुत्राप्युक्तम् । अत्रेष्टसिद्धयभिमतानामनन संविदात्मत्व भङ्ग-प्रसाधनम् ५८९ भाव्यत्वाजडत्वा मेयत्वादीनामसिध्युपपादना देवानन्तत्वासिद्धया नानुभूतेरात्म त्वसिद्धिप्रसक्तिः । अथात्मपक्षकं भवदुक्तमनुमानमपि विचार्यम् आत्मा संविद्रूप इत्यनुमानं किं तार्किकान् प्रति उत परान् वेदान्तिनः प्रति । नाद्यः संवित्कर्मतामन्तरेणापरोक्षत्वादिति हेतोरसिद्धेः । तैरनुव्यवसायमुखेनैवात्म प्रत्यक्षस्याभिमतत्वात् । ननु स्वतोपरोक्षत्वाभावे कदाचिदत्मनि, अहमनहं वेति संशयः स्यात् ; तथा नाहमिति विपर्ययोऽपि । घटपटादिकं हि ज्ञानाधीनप्रकाशं ज्ञानाभावात् कदाचित् संशयविपर्ययविपयोऽपि दृश्यते ; न चैवमात्मेति चेन्न — एवं तर्हि शुद्धस्यात्मनः स्वप्रकाशत्वं न सिद्धयेत् । अहं त्वेन रूपेणात्मा सर्वदा भासत इत्येव्यं भवेत्, यथाऽस्मन्मते । तच्चार्हत्वं भवन्मते अहंकार रूपाचेतननिष्ठमिति तस्यापि तर्हि स्वप्रकाशत्वापत्तिः । किञ्च धर्मिज्ञानं विना संशयायोगात् अहमनहंवेति संशयात् प्राक् धर्मिज्ञानेन भाव्यम् । तदा च धर्मी आत्मा केनरूपेण गृयते । न चात्वादिरूपेण गृहीते तत्संशय उदेतु । न च प्रकारान्तरेण तद्नुभवे किञ्चित् प्रमाणम् । न च शब्दानुमानादिना आत्मा कश्चिदस्तीति ज्ञाने जाते सति तत्रात्मनि अहमनहंवेति संदेहो ऽस्विति शङ्कयम् जाते ज्ञाने समनन्तरमनुव्यवसाोत्पत्त्या अहं जानामीत्या कारकेण च तेन अहमिनि धर्मिणो ज्ञाततया संदेहानवकाशात् । अतः स्वप्रकाशतामन्तरेणाप्युपपत्तिः । यथा सुखदुःखयोर्नियमेनासंदिग्धं प्रकाशमा नयोरपि भवन्मते संवित्कर्मतामन्तरेणापरोक्षत्वं नास्ति, तथैवात्मन्यपि । इयंतावत् तार्किकसरणिः । द्वितीयः कल्पः सिद्धसाधन नापि वेदान्तिनः प्रतीति प्रसंगात् । किञ्च किमिदं साध्यं संविद्रूपत्वम् ? ’ स्वरूप संवित् विवक्ष्यत’ इति लिखित्वा, ‘दृष्टान्ते स्वरूपसंवित्त्वाभावेऽपि न साध्यवैकल्यम् ’ इति भवदुक्तिर्व्याहता । वृत्तिरूपसंविद्विवक्षायाञ्च बाधः । संवेदनवदिति वृत्तिं दृष्टान्तीकृत्य तदभेदः कथमात्मनि सावयितुं शक्यते ; पक्षदृष्टान्तयोर्भेदावश्यम्भावात् । स्वयम्प्रकाशत्वरूप संवित्त्वश्चेत् साध्यम्, तदाऽपि दृष्टान्तस्य५९०
संवेदनस्य वृत्तिरूपताया भवदुक्तत्वात् वृत्तीनां संविष्कर्म तयैवापरोक्षत्वात् हेतुवैकल्यमिव साध्यवैकल्यमपि । अत एतदपेक्षया संवित्पक्षकव्यतिरेक्यनुमानमे व ज्यायः । स्वस्मैभासमानत्वरूप जडत्वस्यात्मनि नासिद्धिरिति च न युक्तम् ; आत्मपक्षकत्वाभावादनुमानस्य; लोकप्रसिद्धसेवित्पक्षकत्वात् । यावदतिरिक्तात्मासिद्धिः, तावत् हेतुरयमसिद्ध एव । अन्यभिचरितप्रकाशसत्ता कत्वम जडत्वमिति पक्षे सुखादिभिर्यमिचार उक्तः परिजिही ते इतरानपेक्षाव्यभिचरित प्रकाशस ताकत्वमिति परिष्करणेन, सुखादिप्रकाश साक्षिसापेक्ष इति न दोष इत्याशयेन । एवं तर्हि संदिग्धासिद्धिः सविदतिरिक्तात्मसद्भावे तत्संबन्धाधीन एव संवित्प्रकाशः स्यात् । तदभावे चेतरानपेक्षः स्यादिति । एवमजडत्वं हेतुं निरस्याथेष्टसिद्धिदर्शितमनुभूतित्वमपि हेतु निराकर्तुमुक्तं शतदूषण्याम्, अतो ज्ञानत्वहेतुः परिशिप्यत इति । तत्र यदुक्तम्, अर्थोपलक्षितप्रकाशत्वं ज्ञानत्वमिति तन्न अनुभूतिव्यतिरिक्तस्यानुभवितुः सद्भावात् कथमानन्त्यमित्याशङ्कय हीष्टसिद्धौ उभयोरनुभूतिस्वभावत्वाद भेद उक्तः । यदीदमनुभूतित्वमर्थोपलक्षितप्रकाशत्वरूपं स्यात्, न तत् आत्मनि स्यात् । आत्मनः स्वप्रकाशत्वेऽप्यर्थान्तरप्रकाशकत्वस्यासंप्रतिपन्नत्वात् । अथात्मत्वरूपसाध्यशोधनावसरे आत्मत्वं न ज्ञातृत्वम्, किं तु ज्ञातृत्वोपलक्षित संविन्मात्रत्वम् । सत्यज्ञानमिति ज्ञानस्वरूपत्वप्रतिपादनादिति यदुक्तम् — तन्न –ज्ञातृत्वस्य प्रत्यक्षविरोधान्निरासे ज्ञातृत्वो पलक्षितसंविन्मात्रत्वस्यापि निराससिद्धेः । संविदि संविन्मात्रत्वसाधने सिद्धसाधनाच्च । सत्यं ज्ञानमित्यत्रान्तोदात्तस्वरबलात् ज्ञानाश्रयत्वरूपार्थावश्यकतायाः प्रागुक्तत्वाच्च । ज्ञोऽत एवेत्यस्य सूत्रस्य ज्ञानस्वरूपता परत्ववर्णनमप्युदक्षरत्वादुपेक्ष्यम् । स्वर सप्रतीतज्ञानाश्रयत्वाविरोधेन विवक्षावशादर्थान्तरस्यापि कथञ्चिदुपलक्ष्यत्वस्यादरणीयत्वेऽपि प्रतीनबाधकल्पनाया अयुक्तत्वात् । अतोऽस्मन्मते ज्ञानत्व संविदात्मत्व-भङ्ग-प्रसाधनम् ५९१ । ज्ञानाश्रयत्वोभयविवक्षायामपि न दोष इत्यन्यत्र विस्तरः । ज्ञानस्वरूपत्वस्योभयसंप्रतिपन्नत्वेऽपि ज्ञशब्दस्य तदर्थकत्वमसंप्रतिपन्नम् । ज्ञानस्वरूपत्वलाभस्तु यावदात्मभावित्वाच्चेति चकारतो भवितुमर्हति ; चितितन्मात्रेणेति सूत्राच्च । आत्मपदस्य ज्ञानाश्रयत्वार्थकत्वे आत्मनोऽचेतनत्वापत्तिरिति च विचित्रम् ज्ञानाश्रयत्वमेव हि चेतनत्वम् । ज्ञानपक्षकात्मत्व साध्यकप्रयोगं नाद्वैतिनः स्वीकुर्वन्तीत्येतत् इष्टसिद्ध्यादिग्रन्थ विस्मरणविजृम्भितमिति प्रागेव प्रादर्शि । पाठक्रमादर्थकमो बलीयानितिन्यायेन संविदात्मेति लेखनेऽपि आत्मा संविदित्येव विवक्षितमिति च तथा तद्द्मन्यनिर्वाहायोगस्य विस्पष्टत्वादेव परास्तम् । कथं नु धर्मभूतज्ञानस्य ज्ञानाश्रयत्वरूपमात्मत्वं कश्चित् साधयेदिति चेत् — कथं नु ज्ञानाश्रयस्यात्मनो धर्ममूतज्ञानाभिन्नत्वं कश्चित् साधयेदित्यपि तुल्यम् । न वयं विशिष्य तथा प्रयुज्महे; सामान्यतः आत्मा ज्ञानमित्येव । दूषयितारस्तु तथा विकल्पयन्तीति चेत् तदिदमिष्टसिद्ध्यभिमते संवित् आत्मेति संवित्पक्षका नुमानेऽपि समानमिति । तस्मात्, “आत्मा संविद्रूप इति योजनामाश्रित्यैव सर्वत्र खण्डनं मण्डनं वा कार्थम् " इति भवतः शासनं न प्राचीना अद्वैतिनोनुवर्तिप्यन्त इत्यवधेयम् । ज्ञातृत्वमिति प्रथमकल्पानन्तरम् प्रत्येतुः प्रत्येतव्यादिति द्वितीयकल्पः प्रस्तुतः । तत्र सर्वत्र मुद्रणप्रमादं स्थितमविज्ञाय, प्रत्येतुः प्रत्येतव्यात् व्यतिरिक्तत्वम् ’ इत्येव पाठं प्रतीत्य, “संवेद्यभिन्नत्वमसंवेद्यत्वं वाऽऽत्मत्वम् " इति पर्यायप्रयोगमपि विधाय; " कल्पोऽयमनुकूल एव, अनुभूतेरवेद्यतायाः पूर्वमेव विशदीकरणात् " इति लेखनमपि उपरि प्रकृतविकल्पदूषणग्रन्थांशा परामर्शमपि दर्शयति । ‘अवेद्यत्वाभिमतानुभूतेर्वेद्यत्वप्रसंगस्त्वधिकः’ इति चोपरि कल्पोऽयं दूष्यते । प्रत्येतव्यात् व्यतिरिक्तत्वमिति संवेद्यभिन्नत्वं चेत् विकल्पार्थः, कथं संवेद्यत्वप्रसञ्जनमुपरिक्रियमाणं संगच्छेत । तस्मादत्र, “प्रत्येतुः प्रत्येत. व्यादव्यतिरिक्तत्वम् " इति पाठः शोधनीयः । आह चोदयनाचार्य आत्मतत्त्वविवेके, “प्रत्येतुः प्रत्येतव्यादव्यतिरेकः प्रत्यक्त्वम्” इति । अन्ववादि चायमर्थो न्यायकुलिशे श्रीवादिहंसाम्बुवा हैराचार्याणामाचार्यैः; आचार्यैश्व ५९२
- ,
- तत्रतत्र । परमार्थकप्रकाशिकायामस्माभिरपीदं परामृष्टम् । तथा च प्रत्येतुः प्रत्येतव्यादव्यतिरिक्तत्वरूपं प्रत्यक्त्वमात्मपदविवक्षितं किमिति द्वितीयकल्पार्थः । तच्च ज्ञातृज्ञेयैक्यम्; आश्रयत्वविषयत्वोभयसंबन्धेन ज्ञानविशिष्टत्वरूपमन्यादृशं वा । पूर्वस्मिन् कल्पे आश्रयत्वमात्रमुक्तम् अत्र विषयत्वमपि समुच्चितमिति विशेषः । ज्ञाता यदि खात्मानमेव तेन ज्ञानेन गृह्णाति तदा प्रत्यगित्युच्यत इति तुल्लक्षणसमन्वयरीतिः । तस्मादत्यन्तानवधानमूलकमिदं द्वितीयकल्पदूषणं शतभूषण्याम् । तृतीयादिकल्पानां शतदूपणीकृतं दूषण मपरिहृत्य सर्वमुपपन्नमिति सामान्यतो लेखनं न हृद्यम् । तस्मादमिः सूर्यः तेजस्त्वादिति प्रयोगसमानयोगक्षेम एव, संविदात्मा अजडत्वादिति प्रयोग इत्यवधेयम् । आश्रयाश्रयिभावेन मिथोभिन्नत्वेन प्रसिद्धयोर्ज्ञानात्मनोरैक्यसाधनस्यात्यन्तवाधितत्वात् । औपचारिकश्वात्मशब्दप्रयोगः संविदि निष्प्रयोजनत्वान्न साधनीयः । यत्तु नित्यज्ञानस्य नित्यज्ञानाश्रयत्वस्यान्यत्रादर्शनादिति तदपेशलम् ; न ह्यन्यत्र दृष्टिरपि वस्तु सद्भावे प्रमाणम् । तथासति पृथिव्यप्तेजः प्रभृतिषु गन्धशीतोष्णस्पर्शादयोऽपि न सिद्धयेयुः; अन्यत्रादर्शनात् । विलक्षणं ब्रह्मापि न सिद्धयेत्, तस्य वैलक्षण्यस्यान्यत्रादर्शनादित्यलं विस्तरेण । यत्तु निगलिताहङ्कारादिबन्धस्य चिन्मात्रस्य संवित्पदेन ग्रहणे संविदात्मा अजडत्वादिति प्रयोगः स्वरस इति तदपि न तादृशचिन्मात्रस्याप्रसिद्धत्वादाश्रयासिद्धेः । श्रुतितः प्रसिद्धिरिति चेत् — तत्राप्यप्रसिद्धिरेव । प्रसिद्धयभिमाने चानुमानमेव व्यर्थम् ; तत एव सर्वसिद्ध्यभिमतिसंभवात् । शुद्धसंवित् औपाधिकज्ञातृत्यवती अजडत्वादित्यनुमानपर्यवसानोत्प्रेक्षणञ्चायुतम् –एवं हि सति जडत्वस्य मुख्यज्ञातृत्वप्रयोजकत्वापत्तेः । अनुभूत्यतिरिक्तस्यानुभवितुः सद्भावनिषेधार्थं प्रवृत्तमिदमिष्टसिद्धिगतमनुमानं यद्यौपाधिकज्ञातृत्वसाधकं स्यात् संविदि तावता मुख्यस्य ज्ञातुरन्यस्य निषेधो न सेत्स्यतीत्यर्थान्तराच्च । संविदात्मेति, आत्मा संविदिति वाऽनुमानप्रयोगे हेतुभूतमजडत्वमद्वैतसिद्धयभिमतमात्मत्वमेवेत्यपि न युक्तम् संवित्पक्षकानुमाने आत्मत्वस्य संविदात्मत्वभश-प्रसाधनम् ५१३ साध्यतया तस्यैव हेतुत्वायोगात् अजडत्वस्यात्मत्वरूपत्ववर्णनानुपपत्तेः । द्वितीये तु व्यतिरेवमनुमानमयुक्तम्, अगतिकगतित्वादिति प्राक् भवदुक्तत्वेन तद्विरोधप्रसंगात् । अले नात्मत्वमजडत्वम् । यचैतदनुमानप्रयोजनवर्णनम्–सुबुतयाद्यवस्था स्वहंकारनाशात् आत्माऽपि नष्ट इति शङ्काशमनमेतत्कृत्यम् ; आत्मा संविद्रूप इति तस्य मुक्तावपि स्थसिद्धिश्चेति तन्न संबित्स्वरुपस्वे साधितेऽपि पुनः शङ्कातादवस्य्यात् । सुषुप्तिर्हि ज्ञानाभावः । अतः सुषुप्तौ, न मे किञ्चित् ज्ञानमासीत् इति ज्ञान भावस्य पश्चात् प्रतिसंधानदर्शनेन आत्मनः संविद्रूपत्वे आत्मविनाश एव स्यात् सुतरां प्रलयमोक्षयोरिति शङ्का सवतिष्ठते । अहमर्थनाशस्तु सुषुप्त्यादौ न लोकानुभवसिद्धः ; किंत्वद्वैतिमतप्रक्रियाविशेषविन्मात्रविज्ञेय इति नास्याः शङ्काया अपि प्रायः प्रसक्तिः । वस्तुत आत्मा नानहमर्थः, नानित्य इत्याद्यनुमानमेव तादृशङ्काशमनं स्यात् । छान्दोग्ये, “अथातोऽङ्कारादेशः " इत्येतदनन्तरम्, " अथात आत्मादेशः ’ इति श्रुतिः प्रवृताऽस्ति । तदुपजीवनेनेदमनुनानमित्यप्ययुक्तम्तत्राहङ्कारस्य वस्तुतः सत्ताया एवोपदेशावगततया आत्मनोऽहं ग्रहग्राह्यत्वमबाधितं मन्तव्यमित्येव तद्वाक्यतः स्वरसतोऽवगन्तव्यतया आत्माऽइमर्थ इति स्थापन एव तच्छ्रुत्युतवेगेनाहमर्वत्वनिषेधानुमानस्य तद्विरुद्धत्वात् संवित्वानुमानस्य तद्वाक्यस्य च संबन्धगन्धस्याप्यभावाच्च । ; ; " स्वरूपज्ञानस्य विषलेखाद्यवस्थाविशेषवत्त्वं मतद्वयेऽपि नास्तीति चायुक्तम् भवन्मते सर्वस्यापि पदार्थस्यात्मभूत चैतन्यैकभास्यतया तद्विषयत्वेन चैतन्ये तदुल्लेखित्वाभावायोगात् । अन्यथा, " उपलब्धिवदनियमः” इति सूत्रभान-भ नीकल्पतरुपरिमलादिबहुमन्थविरोधश्च । तत् पारमार्थिकमपारमार्थिकं वेत्यन्यदेतत् । अत एव, “श्रुतिशरणा हि न संविद्रूपमात्मानं विषयोलेखाद्यवस्थमा द्विकते” इत्युक्तमप्यपास्तम्, ब्रह्मभूत चैतन्यातिरिक्तचैतन्याभावात्, चैतन्यातिरिक्तस्य च विषयभासकत्वाभावात् विशिष्टमविशिष्टं या चैतन्यमेव विषयभासकमिति तदुल्लेखित्वस्य तत्रापलापायोगात् । अन्यथा जगदा 75 ५९४
=ध्यप्रसंगात् । “विज्ञातारमरे केन विजानीयात् " इति श्रुतिर्मुक्तिदशायां विज्ञातृत्वाभावाभिप्रायेति यदुक्तम् — तत्र पृच्छयते तथा सति विज्ञातृत्वेन रूपेणात्मानं केन प्रमणेन जानीयात्; मुक्तिदशायामात्मा विज्ञातृत्वरहित एव विज्ञेय इति किं श्रुत्यर्थी मन्यते ? वरमेतदपेक्षया, विज्ञातारं धर्मिणं केन विजानीयात् ; ग्राहकप्रमाणाभावात् स्वरूपमपि नास्तीति शून्यवादावलम्बनम् ; विज्ञातृत्वरूपविशेषणमात्रे निषेधसंकोचस्याप्रामाणिकत्वात् । किञ्चैब सति विज्ञातारमित्यस्य विज्ञातृत्वेनेत्यर्थवर्णनादपीदं क्लिष्टम् ; मुक्तिदशायामित्यध्याहारश्च दोषः । “अलं वा अरे इदं विज्ञानाय " इति सर्वज्ञानसामध्ये आत्मन्युपदि इयमाने तदनुरोधेन विज्ञातारमित्यस्य सार्वश्याश्रयमित्यर्थे स्वरसे तत्त्यागेन विज्ञातारमित्यस्य ज्ञानस्वरूपमित्यर्थ निमप्ययुक्तम्, स्वस्वारस्य वाक्यान्तरस्वारस्योभय-भङ्गात् । सर्वविषयग्राहित्यमेव विज्ञातृपदार्थ इति चेत् — सोऽप्यर्थः क्लिष्ट एव; विषयमाहिज्ञानाश्रय इत्यर्थस्यैव स्वरसत्वात् । भवता पुनरात्मनि विषथोल्लेखरूपावस्थापि नास्तीत्यपसिद्धान्तं ब्रुवता नायमर्थः सुवचः । “अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा” इति तूपात्तं वाक्यं भवन्मतप्रतिकूलमेव ; तत्राविनाशिपदपौनरुतयपरिहाराय अनुच्छित्तिधर्मेत्यस्य बहुव्रीहिगर्भबहुबीहितया अनुच्छित्तिकज्ञानरूपधर्मशालीत्यर्थस्यैव यथाप्रमाणं ग्राह्यतया धर्मभूतज्ञाननित्यत्वस्यैव सिद्धेः । Me ; यत्तच्यते केवलसंविदो मुक्तिदशायां श्रोतृत्वासंभवेऽपि बन्धदशायां तत्संभवात् मोक्षशास्त्र श्रोतृत्वमुपपन्नमिति तन्न श्रवणस्य वृत्तिविशेषस्याहकार एवाश्रय इति स एव हि श्रोता भवेत् ; न संवित् । अहंकारं प्रति च, ’ त्वं मुक्तौ भविष्यसी’ त्युपदेष्टुमशक्यम्; मोक्षे तस्य नाशात् नष्टो भविष्यसीत्येव वाच्यम् । तेन च अहं मुच्येयेत्यनभिसंधाय नश्येयमित्येवाभिसंघातव्यम् । तथा चेयं न मुमुक्षा । अहमित्यस्याहङ्कार विशिष्ट संवित्पर्यन्तार्थ कतया विशेषणनाशेऽपि विशेष्यांशसद्भावात् मोक्षभागित्वमुपपन्नमिति चेत्-एवमपि श्रोतृत्वं कस्य ? संविदि वृत्त्याश्रयत्वायोगात् । अहंकारः शृणोति, संविदात्मत्व भङ्ग-प्रसाधनम् ५९५ संविन्मुच्यत इत्युक्तौ अन्यमुत्त्यर्थमन्येन श्रवणं क्रियत इत्यायातम् । तदिदं स्वार्थाय वा स्वानर्थाय वेति चिन्त्यताम् । अनन्तरवादे चेदं विवेचयिष्यते । तत् सिद्धं लौकिक विदामेवाङ्गभञ्जनादिना आत्मत्वस्थापनमशक्यमिति ॥ अनुभाव्यैर्ज निमद्भिः सविकारैः सद्भिदैश्व सविशेषैः । मुरुमे हितैरात्मभिरः स मेऽस्तु परमात्मा ॥ इदम्प्रथमसंभवैरपि चिरप्ररूढैर्मतेः अहम्प्रथमिकायुतैरिह यतः पतङ्गाश्रितम् । अतः खिरशुभम्फुरदुचिमतपत्रीपपदः परिष्कृतजगत्त्रयो जयति भूरि रामानुजः ॥ शुभमस्तु श्रीः