२५ निर्विशेषत्वानुमान-भङ्ग-प्रसाधनम्

अनित रसुलभैरवद्यदूरैरतिगणनैरनिशश्रितो विशेषैः श्रुतिशतमहितः श्रितेषु सत्यः श्रियमिह संतनुतां श्रियः पतिनैः ॥ अनुभूतिर्निर्विशेषा अनुभूतित्वादिति निर्विशेषत्वानुमानम् । अनुभूतौ खाभिमतं सर्व केवलव्यतिरेकिणैव यतः सिषाधयिषन्ति, तत एवानुमानमत्रा प्रमाणमिति सुगमम् । तत्रापि पक्षतावच्छेदकस्य हेतुत्वे सुतरामसाधकत्वम् । 1 निर्विशेषत्वानुमान-भङ्ग-प्रसाधनम् ५५३. पक्षधर्मताज्ञानं हि तत्र अनुभूतिरनुभूतिरिति स्यात् । न चैवं वादे प्रयोक्तमर्हति घटो घट इतिवदबोधकत्वात् । किञ्चानुभूतिर्निर्विशेषेति प्रयोगकाल एवासति बाधके उद्देश्यतावच्छेदकविधेययोः प्रयोज्यप्रयोजकभावभानस्य प्रसिद्धत्वात् धनवान् सुखीत्यत्रेवानुभूतित्वप्रयुक्त निर्विशेषत्वमिति लभ्येत यदि, प्रयोज्य प्रयोजकभावः संभवेत् । असंभवादेव तथाऽर्थलाभमसंमत्य कुत इति हेतुमाकाङ्क्षति । तदा च अनुभूतित्वादिति प्रयोगे तस्याप्रयोजकतायाः प्रागेवावधारितत्वादनुमित्यसंभव एव । प्रत्युतैवं प्रयोगः साधक हेत्वभाववचनपर्याय इत्येव सिद्धयेत् । तथा प्रतिज्ञाविरोधोऽपि ; अनुभूतिरितीतरव्यावृत्तानुभूतित्वरूपधर्मवत्तया निर्देशं विधाय तद्विशेषवत्त्वेन ज्ञापितायां तत्र निर्विशेषत्वसाधनस्य मम माता वन्ध्येत्येतत्तुल्यशीलत्वात् । न च पारमार्थिक विशेषनिषेधे तात्पर्यम् । निर्विशेषेति पदस्य सर्वविशेषनिषेधपरताया एव स्वरसत्वात् तथा प्रयोगायोगात् । पारमार्थिक विशेषरहितेत्येव प्रयुज्यत इति चेत् — साध्याप्रसिद्धिः । व्यतिरेकव्याप्तिवर्णनासंभवश्च ; यत् पारमार्थिकविशेषवत् घटादि, तत् अनुभूतित्वरहितमिति दुर्वचत्वात् । न हि तत्र पारमार्थिको विशेषोऽस्ति । अनुभूतिः खसमानसत्ताकविशेषरहितेति साध्यत इति चेत् — एवमप्यप्रसिद्धिरेव । अनुभूतित्वरूपतादृशधर्मवत्त्वात् प्रतिज्ञाविरोधश्च । अनुभूतित्वमसमान सत्ता कं श्वेत् -यदा तन्नास्ति, तदा अनुभूतिरंप्यननुभूतिः स्यात् यथा घटः कपालभावे प्राप्ते न घटो भवति, तद्वत् । स्वपृथग्भूतखसमानस’ ताकविशेषरहितेति प्रयोगे चाप्रसिद्धिः । किञ्च खसमान सत्ताकेति विशेषणदानं धर्माणामपरमार्थत्वज्ञानाधीनम् । अपरमार्थत्वज्ञानञ्च सर्वविशेषनिषेधरूपप्रकृतानुमानावसेयम् । अन्यथा पारमार्थिकविशेषाभावस्य प्रागेव सिद्धेः अनुमानवैयर्थ्यात् । जगदपारमार्थ्यग्राहिका श्रुतिः ब्रह्मातिरिक्त सर्वं मिथ्या, नेह नानेत्येव प्रतिपादयतीति हि भवन्मतम् । श्रुतमेव, मन्तव्यमिति वचनात् मन्यत इति चेत् — यत् मन्तुं शक्यम्, तदेव मननीयम् । शब्दस्याखण्डार्थबोधकत्वाभावात् अखण्डं श्रुतमेव न भवतीति कुतस्तन्मननम् । मननञ्च पक्षसाध्यहेतूनां मिथोऽन्वयसंभवे । न च निर्धर्मण्यन्ययसंभवः, न चानुमानमप्यखण्ड साधकमिति 4 ५७४

भवद्भिरेतावत् प्रतिष्ठापितमस्ति । इतः प्रयत्नेऽप्यनुमानवानभिज्ञतैव स्यात् । काल्पनिकधर्मधर्मिभावादरणेनानुमानप्रयोग इति चेत् —— अनुभूतित्वरूपकाल्पनिकधर्मवती विशेषाभावरूपकाल्पनिकधर्मवती अनुभूतित्वरूपकाल्पनिकधर्मवत्त्वादिति प्रयुक्तं स्यात् । तत्रैकस्य काल्पनिकत्वेऽन्यस्यापि काल्पनिकत्वममिति नियमाभावात् हेतुरप्रयोजकः । विशेषाभावरूपधर्मस्य काल्पनिकत्वेऽनुमीयमाने विशेषाणां तत्प्रतियोगिनां वास्तवत्वमेव सिद्धयेत् । ब्रह्मातिरिक्तसर्व मिथ्यात्वप्रतिपादकश्रुत्या विशेषैस्तैः सहैव विशेषाभावस्यापि मिथ्यात्वमवगमितमिति चेत् – अवगामितार्थप्रतिष्ठापनानुकूलमिदमनुमानं न भवतीत्येव ब्रूमः । तस्मात् भवद्भिरेवमनुमानमनुपपन्नम् । अत एव अद्वैत सिद्धौ निर्विशेषत्वे किं प्रमाणमिति पृष्टा अनुमानादेः प्रमाणत्वासंभवमादृत्य श्रुतिमात्रस्य प्रमाणीकरणम् ॥ , यद्यप्येतावदुक्तप्रकारायोगेऽपि अन्यदनुमानमुद्भावयितुं शक्यम् । अनुभूतिः अपारमार्थिकस्वगत सर्वविशेषवती अनुभूतित्वादिति । स्वविषमसत्ताकखगतसर्वविशेषवतीति वा साध्यम् । यत्र स्वविषमसत्ता कस्वगतसर्व विशेषवत्त्वं नास्तितत्रानुभूतित्वमपि नास्ति, यथा घटादौ । तत्र घटत्वादीनां घटसमानसत्ता कत्वादिति परं त्विदमप्यनुमानमनुभूतित्वादीनां पृथगिवावभासमानानामप्यपृथग्भतत्वस्य भवदभिमतत्वात् तत्र स्वसमानसत्ता कत्वस्यावश्यकत्वात् स्वगतसर्वविशेषाणां स्वविषमसत्ताकत्वाभावात् बाधितम् । एवम् अनुभूतिः धर्मिसमान सत्ताकघर्मवती पदार्थत्वात् इत्यनुमानेन सत्प्रतिपक्षितञ्च । धर्मीति पदस्थाने स्वेत्यपि सुवचन् । न च स्वपदधर्मिपदाभ्यां घटादि ग्राह्यं दृष्टान्ते समन्वयकाले ; पक्षग्रहणञ्चानुमिताविति अनुगमो नास्तीति अद्वैतसिद्धयुक्तं युक्तम् । पर्वतो वह्निमान् धूमात् इत्यादावपि दृष्टान्ते ग्राह्यवयादिव्यक्तिरन्येति तुल्यत्वात् प्रायेणानुमानोच्छेदप्रसङ्गात् । तस्मात्, “शब्दस्वभावोपन्यासस्यानुमानं प्रत्यप्रयोजकत्वात् " इति सिद्धचुक्तमपि चिन्त्यम् । अन्यथा तु स्वविषमसत्ताक स्वगतसर्वधर्मवतीति प्रकृतानुमानेऽपि ततः पूर्वमुक्तेष्वनुमानेष्वपि स्वपदेन निर्विशेषत्वानुमान-भङ्ग-प्रसाधनम् 1 ५७५ विभिन्नग्रहणादनुमानासंभवस्तुल्यः । वस्तुतः खपदमप्रयुज्यापि साध्यनिवेशः संभवति । स्वसमानसत्ताकधर्मवत् इत्यस्य धर्मविशिष्टमित्यर्थात् । वैशिष्ट्यञ्चाधेयता संबन्धेन । आधेयता च सत्तासमानसत्ताकत्व संबन्धेनेति । तस्मान्नेहशक्षुद्रोपद्रवस्य प्रसक्तिः । यत्तु अनुभूतिरिति वा ब्रह्मेति वा पक्षीकरणमयुक्तम् ; आश्रयासिद्धेरिति सिद्धयुक्तम् -तत् अनुभूतिः निर्विशेषेत्यनुमानेऽपि तुल्यम् । अथ स्यात् — श्रुत्याऽनुभूतेः सर्वविशेषराहित्यस्य प्रतिपन्नत्वान्नेदमनुमानं तन्निरसनक्षम सिति तन्न – तन्न -अस्माभिरपि श्रुत्या सर्वविशेषसद्भावस्य प्रतिपन्नत्वान्न निर्विशेषत्वानुमानं क्षममिति सुवचत्वात् । किञ्च न श्रुत्या अर्थनिर्धारणावसरेऽनुमानेन तमर्थ दूषयामः । अनुमानेन साधनमयुक्तम् सप्रतिसाधनत्वादित्येव । तत् श्रुत्या निर्धारितत्वादनुमानमनपेक्षितमिति श्रुतिविचार एवावतरणीयम् । तदा च श्रुतिवचनानां न तथा निर्विशेषत्वमर्थ इति निरूपयामः । यदि तु श्रुत्या आपातप्रतीतार्थस्य तर्कोपष्टम्भेन साधनार्थमनुमानप्रयोगः, तदा तदनुमानं प्रतिपक्षितत्वादिसर्वदोषरहितमेव प्रयोक्तव्यमिति प्रकृतनिर्विशेषत्वानुमानं दुष्टमेव । यस्तु श्रुत्यर्थः वादिनोरुभयोरपि सुनिश्चितः, तस्य चेत् साक्षाद्वा अर्थापत्तिविधया बाधकत्वम् ; तदा तद्विरुद्धमनुमानं नोदेप्यति । अन्यदा तु नानुमानस्य श्रुतिं प्रदर्थ दूषणं प्रसजति । तथाच श्रुत्यर्थ एव विचार्यताम्, किमीदृशैः वृथाकालहरणैरनुभूति नित्यत्वानुत्पन्नत्वनिर्विकारत्वनिर्विशेषत्वाद्यनुमानाभासैः । एतावतैव निर्विशेषानुमान-भङ्ग-परीक्षा परास्ता । विशिष्यापि किञ्चिदुच्यते यदुक्तम् — अद्वितीयपदेन द्वितीयनिषेधे अद्वितीयत्वरूपद्वितीयस्यापि निषेधसिद्धिवत् निर्विशेषत्वानुमानेन विशेषाभावरूप विशेषस्याप्यभावसिद्धिरिति — तन्न –दृष्टान्तस्यापि विचार्यत्वात् । द्वितीयपदेन द्वितीयाभावरूपप्रमेयस्यापि ग्रहणं कदा स्यात् ? सिद्धे द्वितीयाभावे । तसिद्धिश्चाद्वितीयमिति वाक्यात् । तथा चाद्वितीयपदं प्रथमतो द्वितीयाभावातिरिक्तद्वितीयमात्रग्रहणेन तदभावं प्रतिबोध्याथ एवंसिद्धं द्वितीयाभावं द्वितीयत्वेन गृहीत्वा तदभाव ५७६

बोधनेऽपि पुनर्याप्रियत इत्येव वक्तव्यम् । तदयुक्तम् — सकृत् प्रयुक्तस्य शब्दस्य सकृदेवार्थगमकत्वात् । स्वाध्यायोऽध्येतव्य इत्यत्र तु वाक्यान्तराणामिवास्यापि वाक्यस्य नित्यस्याध्ययनेन गृहीतत्वात् ज्ञातस्य सर्वस्य स्वाध्यायत्वेन कोडीकरण नायुक्तम् । अनुगतेनापि प्रतियोगितावच्छेदकधर्मेण प्रतियोगितया स्त्रीकरण तासामेव व्यक्तीनां स्यात्, यासामभावग्रहणात् पूर्वं ग्रहणयोग्यत्वम् । घटो नास्तीत्यत्र कस्यचित् घटस्य कदाचित् भानेऽपि अन्येषामपि घटानां प्रतियोगित्वमिष्यते । तदभावग्रहणात् प्राक् कदाचित् अन्येषामपि ग्रहणसंभवात् । अन्यथा अन्योन्याश्रयश्च द्वितीयाभावे ज्ञाते द्वितीयत्वेन तद्ग्रहणम् ; द्वितीयत्वेन तस्मिन् ज्ञाते द्वितीयाभावज्ञानमिति । अतो वैषम्यात् विरम्यव्यापारायोगाच्च अभावग्रहणात् प्राकृ द्वितीयत्वेन यावतां भानं कालभेदेनापि संभाव्यते, तावतामेव प्रतियोगित्वमिति तावन्मात्रवृत्तिद्वितीयत्वविशेष एव प्रतियोगितावच्छेदकोऽपि भवितुमर्हति । अन्यधा प्रतियोगितावच्छेदकविशिष्टप्रतियोगिना साकमभावस्य विरोधात् विवक्षिताभावप्रतियोगिभूतस्य विशेषा भावस्य तस्य चैकत्र प्रतीत्यसंभवात् । प्रतियोगिज्ञानस्य भ्रमात्मकस्य प्रमात्मकस्य वा प्रमात्मकं भ्रमात्मकं वाऽप्यभावग्रहं प्रति विरोधित्वादनुमानस्यैवासंभवात् । अतो न अद्वितीयमिति पदेन द्वितीयाभावरूपद्वितीयस्याप्य. भावः सुवचः । एवमेव निर्विशेषमिति न विशेषाभावरूपविशेषस्याभावबोधनम् ॥ यत्तु — साध्यभूतः विशेषाभावः नानुभूतिधर्मः, येन तद्रूपविशेषखीकारः प्रसज्येतः किन्तु सोऽनुभूतिरेव । न चैवं पर्यायतया पौनरुत्तयप्रसक्तिः । विशेषाभावत्योपलक्षितरूपेणानुभूतेः निर्विशेषपदेन बोधनादिति–तन्नविशेषाभावत्वरूपं धर्ममादायानुभूतेः सविशेषत्वप्रसङ्गात् । भवन्मते शुद्धादुपहितं भिन्न मिथ्या चेत्यद्वैत सिद्धयादिसिद्धतया अनुभूतित्वोपहित पक्षपदबोधित विशेषाभावत्वोपहितं साध्यपदबोधितश्च शुद्धानुभूत्यतिरिक्तमिति अनेनानुमानेन शुद्धे ब्रह्मणि किमपि नोक्तं भवेत् । उपाधिभेदेनोपहितस्य भिन्नत्वात् अनु निर्विशेषत्वानुसम-प्रसाधनम् ५७७ भूतित्वोपहिते विशेषाभावत्वोपहितेनैक्यं दुर्भणञ्च स्यात् । एवञ्च साध्यधर्मवि शिषितया अबाधितार्थबोधकत्वरूपं प्रामाण्यं आगमानुमानयोर्नास्त्येव । भवताऽप्युक्तम्, “पक्षसाध्यहेतूनां यथायथमन्वयापेक्षत्वात् कल्पितं धर्मधर्मिभावमादाय समन्वयो न व्याहन्येत" इति । एवं कल्पितार्थविषयकज्ञानस्य चाबाधितार्थविषयकतया प्रमात्वमक्षतमिति प्रागुक्त व्याहतं वेदितव्यम् । साध्यकाल्पनिकार्थविषयकत्वस्यैवैतावतोक्तेः । यद्यपि प्रातिभा सिकार्थविषयकज्ञानजन्यस्य कस्यचिद्वयवहारादेः व्यवहारिकार्थविषयत्ववत् व्यावहारिकार्थविषयक ज्ञानजन्यस्य ज्ञानस्य पारमार्थिक विषयकत्वं भवितुमर्हति तथापि तत्रावि कारणीभूतस्वज्ञानादेः कार्यभूतस्य च व्यवहारस्य स्वरूपतो व्यावहारिकत्वमविशिष्टम् । तथा आगमानुमानादेः तज्जन्यज्ञानस्य च स्वरूपतो व्यावहारिकत्वं तुल्यम् । तस्मान्ना सत्यात् सत्योत्पत्तिः । भवन्मते शुद्धस्य प्रमाणग्राह्यत्वाभावात् पारमार्थिकविषयकत्वमपि ज्ञानस्य दुर्वचमेव ॥ , अथास्तु स्वरूपातिरिक्तोऽपि धर्मः कश्चित् । सगुणवाक्यसिद्धास्तु विशेषा इह निषिद्धयन्त एवेति चेत् — अनुभूतिरिति लौकिकानुभूतीनां पक्षीकरणम् उत सामान्यतो जीवानाम्, आहो निर्विशेषब्रह्मणः, अथ वा ब्रह्मणः ? नाद्यः, तत्र सगुणवाक्प्रतिपद्धसार्वश्यादिनिषेधे सिद्धसाधनात् । अत एव न द्वितीयः । न च तृतीयः, आश्रयासिद्धेः । श्रुतितः प्रतिपन्नमिति नासिद्धिरिति चेत् — सिद्धावनुमानस्यानपेक्षणात् । श्रुतेरपि निर्विशेषब्रह्मबोधनासामर्थ्यस्य भवदभिमतत्वाच्च । खप्रकाशत्रलात् तत्सिद्धिरिति चेत् — खप्रका-: शत्वं हि स्वाधीनस्वव्यवहाररूपकार्यानुमेयम् । कोऽसौ व्यवहारः ? न तावत् अनुभूतिरिति । तथा कस्याप्यननुभवात् । नाप्यहमिति । तथा सति, तत्रैकत्वानुभूतित्वादिविशिष्टतयैव प्रतीत्या निर्विशेषत्वासिद्धेः । विशिष्टतया सिद्धावपि विशेषाणामनन्यत्वं स्थाप्यत इति चेत्-स्थापकानुमान एव पक्षतया स्वीकृतं किमिति विचार्यत इति । न तुरीयः; शास्त्रवेद्ये तत्र शास्त्रप्रमितगुणानां निषेधायोगात् । अनुभूतित्वादिति हेतुरपि तादृशस गुणब्रह्मनिष्ठधर्म विशेष 73 ५७८ परमाथभूषणे एवेति तस्य न तदीयगुणाभावसाधकत्वमपि । न चानुमानायोगेऽपि निर्गुणमित्यादिश्रुतिबलात् तत्सिद्धिरिति वाच्यम् —तदर्थविचारस्य तदवसरे करिप्यमाणत्वात् । ब्रह्मनिगुणत्वोपपत्तिघट्टे चाद्वैत सिद्धौ, “न हिंस्यात् सर्वा भूतानि” इति वाक्यस्याविशेषात वैधहिंसाविषयत्वापत्तिरित्याशङ्कां मनसिकृत्योत्तम्, “अहिंसावाक्यस्यावैध हिंसाविषयकत्वेन समानविषयकत्वाभावात् " इति । सा रीतिः निर्गुणमिति वाक्येऽपि कथं नावतरतीति सहृदयीभूय चिन्त्यताम् । समानर्विषयकत्वे विकल्पापत्तिरिति चेत् विकल्पे शास्त्रस्य कादाचित्को बाधः; पारमार्थिकापारमार्थिकभावेन निर्वाहे तु सगुणवाक्यस्य सर्वदैव बाध इति सुतरामेवं न युक्तम् । अबाधेनोपपत्तौ बाधायोगो हि सर्वसंप्रतिपन्नः । नित्यत्वेन प्रतिपन्नानां जीवेश्वरादीनामपि निर्गुणादिवाक्यान्यथानुपपत्त्या कदाचित् निवृत्तिकल्पनं हि महत्तरो बाध एव । तं विनैव वाक्यार्थे अहिंसावाक्यस्येवोपपद्यमाने किमित्येतावत्कल्पनेत्यलमत्राधिकेन ॥ यत्तु मिथ्याज्ञानस्यापि यावत्प्रवृत्तिविसंवादं प्रमाण्यमस्ति, मिथ्यात्वेनानिश्रीयमानार्थ विषयकज्ञानत्वरूपस्य प्रामाण्यस्य स्वीकारादिति — तंत्रेदं वक्तव्यम् । एवं प्रामाण्यं सर्वत्र स्वीकुर्वता भवता पूर्वम्, “यथार्थ सर्व विज्ञानम् " इति सर्वत्र प्रामाण्यस्वीकारिणः कथमुच्चावचमाक्षिप्यन्ते । प्रवृत्तिविसंवादपर्यन्तं प्रामाण्यं ब्रुवता भवता तत्राप्रामाण्यं हि पश्चात् वक्तुं न शक्यते । ज्ञानं हि तदा जातं यावत्सतं प्रामाण्यविशिष्टमेव स्थित्वा नष्टम् । अथ तु प्रवृत्तिविसंवादेन यदा प्रामाण्यं प्रतिषेद्धमिष्यते, तदा धर्म्येव नास्तीति कथं तत्र प्रामाण्यापनयेनाप्रमाण्यमाविर्भावनीयं भविष्यतीति । वस्तुतः मिथ्यात्वेनानिश्चीयमानार्थविषयक ज्ञानमित्यस्य अर्थविषयकज्ञाने मिथ्यात्वानिश्चयः, अप्रामाण्यानिश्चय इत्येवार्थ इति अप्रामाण्यानिश्चयमात्रमिदं कथं प्रामाण्यमेव भवेत् ? एवं ज्ञानस्वयंप्रकाशत्ववादिभिः तत्रापि प्रामाण्यं गृह्यत इत्यप्युच्यते । एवमपि तस्यापि प्रामाण्यमस्तीति न युक्तम् । यद्यपि प्रातिभासिकविषयके ज्ञाने तत्र प्रातिभासिकं प्रामाण्यमनिर्वचनीयमुत्पन्नमिति मन्येत तथा व्यावहारिकविष निविंशेषत्वानुमान प्रसाधनम् ५७९ यकज्ञाने व्यावहारिकं प्रामाण्यमप्यस्तीति -तथापि पारमार्थिकविषयक ज्ञानेऽपि पारमार्थिकं प्रामाण्यं अस्तीति तु न सुवचम्; परमार्थद्वैतापत्तेः । अनित्यपरमार्थस्वीकारापत्तेः । अपारमार्थिकस्य ज्ञानस्य पारमार्थिकप्रामाण्याधारत्वायोगाच्च ॥ अतः परमार्थविषयकत्वमस्तीति प्रामाण्याधारत्वं वक्तव्यम् । तत्र किं नाम प्रामाण्यम्, कस्य च तदाधारत्वम्, कथञ्च तद्द्मह इति कथ्यताम् । प्रामाण्यमर्थ तथात्वमिति मीमांसकाः । तद्वति तत्प्रकारकत्वमिति तार्किकाः । परमार्थविषयकस्य च ज्ञानस्याखण्डार्थविषयकतया प्रकाराभानात् तदुभयमपि दुर्वचमेव । धर्मिव्यक्तिभानमात्रेण प्रामाण्ये तु इदं रजतमिति शुक्तिविषयक ज्ञानेऽपि प्रामाण्यस्य वास्तवस्यापत्तिः । परिभाषायामपि तद्वति तत्प्रकारत्वं प्रामाण्यं वृत्तिगतं वृत्तिग्राहकसामग्रीरूपेण साक्षिणा मास्यमिति स्वतो ग्राह्यमित्युक्तम् । “तत्रान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वमात्रम्" इति अन्तःकरणोपहितचैतन्यमेव विषयभासकमिति परिभाषायामेवाधस्तादुक्तत या, ततः प्राक्, “प्रतिफलितचैतन्यरूपं घटादिज्ञानम् " इति प्रतिफलित चैतन्यांशस्यैव ज्ञानत्वोत्तथा, “प्रत्यक्षप्रमा चात्र चैतन्यमेव " इति च चैतन्यस्यैव प्रमात्वोत्तया च प्रमात्वरूपं प्रमाण्यमपि सर्वत्र चैतन्यनिष्ठमेव वक्तव्यम् ; न तु वृत्तिनिष्ठम् । अन्तःकरणस्य जडतया भासकत्वासंभवे कथितेऽन्तःकरणवृत्तेः तदसंभवः कथित एव । भानं भासनमेव विशेष्यताप्रकारतासंसर्गतारूपं प्रसिद्धमिति भासकस्यैव सविषयकत्वं वक्तव्यमिति तद्वति तत्प्रकारकत्वं चैतन्यस्यैव वक्तव्यम् ; न तु वृत्तेः । शुद्धचैतन्ये तदयोगेऽपि उपहिते वृत्तिप्रतिफलिते वा चैतन्ये तद्भवतीत्येव चाङ्गीकर्तव्यम् । निर्विशेषब्रह्मज्ञाने च प्रामाण्यं किन्निष्ठम्, केन भास्यम्, कथञ्च खतो ग्राह्यमिति बिचारे तद्वति तत्प्रकारकत्वरूपप्रामाण्यस्य सर्वत्रेष्टस्यात्राभावात् प्रामाण्यमेव न संभवति । वृत्तिनिष्ठ तु नतराम् । वृत्तेर्जडायाः कुत्राप्यभासकत्वात् । चरमवृत्त्यायत्तत्वान्मोक्षस्य चरमवृत्तिस्वीकारेऽपि तद्व्याप्यत्वस्य शुद्धचैतन्ये संमतत्वेऽपि न५८०

वृत्तिब्रह्मणोर्विषयविषयिभावः; तस्य चैतन्यनिरूपिततायाः अनुपदमेवोक्तेः; वृत्तेरपि चैतन्यभास्यत्वात् न चैतन्यस्य वृत्तिभास्यत्वरूप वृत्तिविषयत्वप्रसक्तिः । चैतन्येनैव चैतन्य प्रकाश्यत इत्य् अपि न स्वस्य स्वकर्मत्वायोगस्य ब्रह्मसिद्धयादावुक्तत्वात् । चैतन्यविषयकव्यवहारकरत्वं चतन्यस्येति चेत्-चरमवृत्तिकालीनाखण्डार्थप्रकाशस्य व्यवहाररूपता न भवितुमर्हति । तदा सर्वबाधेन व्यवहारप्रसक्त्यभावात् । व्यवहारसामान्यस्य वस्तृविशेषाधीनतया तदा वक्तुरेवाभावात् । चरमवृत्तित्र्यतिरिक्तानां सविशेषग्राहित्वमेव, निर्विशेषग्राहित्वं तु तदैवेति वदतां निर्विशेषव्यवहारः संसारकाले हि दुर्निरूपः । अतस्तद्विषयव्यवहाराप्रसिद्धया तद्भासकत्वरूपं प्रामाण्यं कस्यापि तदानीं न सिद्धम् ॥ यत्तु अबाधितार्थविषयकत्वं प्रामाण्यं परिभाषायामुपक्रमे स्पृष्टम्, अबाधितार्थविषयकत्वरूपप्रमाण्यस्वीकारे घटादिज्ञानानामप्रामाण्यं स्यादित्याशंक्य, संसारकालीनबाधविषयत्वाभाववदर्थविषयकत्वं तदिति परिहृतं भामतीपरिभाषादौ 1 संसारकालश्च चरमवृत्तिप्राक्कालः । तदा चाद्वितीयब्रह्मज्ञानस्य बाघ एव । सर्वैरपि सद्वितीयत्वेनैव ग्रहात् तदभाववत्ताज्ञानरूपबाधस्याक्षतत्वात् । ब्रह्मणोऽपि बौद्धैर्बाधाङ्गीकारात् निवृत्तिर्वाध इति चेत् अद्वितीयं ब्रह्मेति वादिकलितमद्वितीयत्वं प्रपञ्चसत्यत्वप्रतिष्ठापक वास्तव श्रुत्यर्थप्रवण मत निर्णीतार्थज्ञानेन संसारदशायामेव निवर्त्यत इति संसारकालीनबाधितार्थविषयकत्वस्यैव सत्त्वात् न प्रामाण्यसंभवः । किञ्च तत् कुत्रापि खो ग्राह्यं न भवतीति न तत् प्रामाण्यम् । बाधितत्वतदभावादेर्घटादिवृत्तिव्याप्यत्वाभावात् । अत एव प्रामाण्यं स्वतो ग्राह्यं न भवतीत्यभिहितम् ; तदभावत्वादेः प्राक् वृत्त्या ग्रहणाभावात् ; तद्वति तत्प्रकारकत्वरूपप्रामाण्यघटकांशेष्वेव वृत्तिव्यापनादिति । अतः अखण्डार्थज्ञानं प्रमेति वचनं प्रामाण्यस्य, तदाश्रयत्वस्य, तत्स्वतो ग्राह्यत्वस्य चासंभवात् दुरुपपादमेवेत्यास्तां तावत् ॥ यत्त — विशेषाभावस्याभावतया ब्रह्मण्यभावरूपधर्म स्वीकारेऽपि न भावरूपधर्मस्वीकार इति कुत एवं भावे प्रद्वेष इत्यत्र लिख्यते न वयं भाव निर्विशेषवतृमान-भङ्ग-प्रसाधनम् ५८१ इति द्विष्मः, प्रमाणपरतन्त्रा द्वैतिन इति तन्न -धर्मातिरिक्तत्वपक्षे भावत्वेऽभावत्वे वा अद्वैतश्रुतिविरोधस्य तुल्यतया अभावमात्रस्वीकारस्यानुचितत्वात् । ब्रह्मणो भावत्वात् भावत्वेन सजातीयद्वितीयराहित्यमद्वैतमिति कथ्यत इति चेत्-ब्रह्मणः स्वतन्त्रत्वात् स्वतन्त्रद्वितीयाभाव एवाद्वैत मित्येव किं न स्यात् । यथा ब्रह्म सत्त्वेन प्रतिपन्नम्, तथा स्वतन्त्रत्वात् कारणत्वादिनापि प्रतिपन्नमिति ताहशद्वितीयाभावादप्यद्वैतं भवेत् । एवं यत्र विशेषाभावो भावरूप एव तत्र भावाश्रयत्वमप्यवार्यम् । कालत्रयसंबन्धित्वाभावरूपो विशेषो यो घटादिगतः, तदभावो हि कालत्रयसंबन्धित्वं भावरूपमपि विशेषाभावरूपमिह कथितमिति ॥ नित्यत्वनिर्विशेषत्वादेः ब्रह्मणि प्रतिपन्नस्य मिथ्यात्वे सौगतवैशेषिकाद्यभिमता नित्यत्व सविशेषत्वाद्यापत्तिं शतदूषणीकृतामनूद्य खण्डनं क्रियमाणमति विचित्रम् । यद्युच्येत -कर्मभक्तिसाध्यज्ञानयोगगम्यं परतत्त्वं स्वीकृतमिति न सौगतादिमतप्रवेशापत्तिरिति–सौगतमतं वा भवतु, अन्यमतं वा, नित्यत्वनि-. विशेषत्वादेर्मिथ्यात्वे अनित्य सविशेषत्वापत्तिरित्यपसिद्धान्तो हि न शक्यते वारयितुम् । एवञ्चापाद्यमानस्य सौगतादिसंमतत्वात् तन्मतमुल्लिखितम् । स्वमतमुपेक्ष्य परमतं स्वीकृतं स्य दिति दूषणाशयः । सौगतादिनाऽस्मात्संमत परतत्त्वं न स्वीकृतमिति चेत्–न हि तदंशे साम्यमस्तीत्युच्यते । अनित्यत्वसविशेषत्वांश एव तदुक्तेः । यत्तु साध्यादिधर्मानन्वयादनुमान व नेत्यनुमानदूषणं निरालम्बम् । यदा साध्याद्यभावः सर्वबाधदशायाम्, तदाऽनुमानस्या -प्यभावात् । व्यवहारदशायां साध्याद्यन्वय एव त्वस्तीति तन्न व्यवहारदशायां सर्वज्ञत्वादीनां विशेषाणामेव सत्त्वेन निर्विशेषत्वबाधादनुमानायोगात् । मिथ्यात्वस्य त्रैकालिकात्यन्ताभावप्रतियोगिता रूपतया व्यवहारदशायां विशेषाः सन्ति, ऊर्ध्वमेव न सन्तीत्युक्तेरयोगाच्च ॥

निर्विशेषत्वमनुभूतिसमसत्ताकविशेषराहित्यमित्यपि न तथा सति अनुभूतिः अनुभूतिसमसत्ताकविशेषरहिता अनुभूतित्वात् इत्यनुमाने यत् ५८२

अनुभूतिसमसत्ताकविशेषम्, तत् अनुभूतित्वरहितम्, यथा घटादीति व्यतिरेकव्याप्तिवर्णनायोगात् । यदि च स्वसमसत्ताकविशेषरहितेति स्वशब्दघटनेनानुमानप्रयोगः, स वादारम्भ एव दूषितः । सत्तात्रैविध्यस्याप्रामाणिकतय समसत्ताकेति विशेषणायोगश्च । पूर्व बाप्पधूमभ्रमेण जायमाना वहधनुमितिरपि प्रमैव मिथ्याभूतस्याप्यर्थक्रियाकारित्वमस्तीत्यादि बहूत्तवा, “यादृच्छिकसंवादिलिङ्गविभ्रमवत् तत्सिद्धिरित्यादिशङ्कासमाधानादिसदर्भस्तु तथा अनभ्युपगमादाकाशमुष्टिहननमेव " इति समनन्तरमेव तद्विरुद्ध लेखनमप्येवं हेयमेव । व्यावर्त्याभावात् । न च नित्यत्वादिवाभ्युपेतधर्मव्यावृत्तिः । दृश्यत्वं हि वृत्त्यभिव्यक्तचैतन्यविषयत्वम् । तत्तु नित्यत्वादिधर्मसाधारणम् । तद्विषयकवृत्तौ अविवादात् । चैतन्यं विना तद्भानायोगाच्च । एवं भेदादायः नानुभूतिधर्माः दृश्यत्वादिति प्रयोगे नित्यत्वादीनामपि पक्षत्वस्य भवदुक्ततयाऽपि तत्र हेतुभूतदृश्यत्वान्वयस्येष्टतया न दृश्यत्वमिह नित्यत्वादिधर्मव्यावृत्तम् । नित्यत्वादीना मनुभूतिधर्मत्वेऽनुभूयमाने तदभावसाधनमप्ययुक्तम् । तेषामनुभूतिधर्मत्वमपारमार्थिकमस्ति पारमार्थिकत्वेन धर्मत्वाभावः साध्यत इति चेत् — पारमार्थिकस्वस्थ व्यधिकरणधर्मत्वमसिद्धम् अनुभूतिधर्मता पारमार्थिकी धर्मतात्वात् रूपादिनिष्ठघटादिधर्म तावदित्यनुमानेन पारमार्थिकत्वसाधनाच्च । न च शङ्खः पीत इति भ्रमात् पीतरूपनिष्ठशङ्खधर्मतायां व्यभिचार इति वाच्यम् तादृशधर्मताया एवाप्रसिद्धत्वात् । अनिर्वचनीयधर्मोत्पत्तेर सिद्धत्वाच्च । घटादिधर्मतायां पारमार्थिकत्वम सिद्धमिति चेन्न – अनुभूयमानस्य सर्वस्य पारमार्थिकताया औत्सर्गिकत्वात् । ज्ञानानां खतः प्रामाण्यात् । श्रुत्या तत्पारमार्थिकत्वमपोद्यत इति चेन्न – श्रुतेस्तत्सिद्धौ अनुभूतिधर्मतायामप्यपारमार्थिकत्वं सहैव ततः सिद्धयतीति किमिति तन्मात्रानुमानेन । श्रुतिः प्रत्यक्षसिद्धपारमा थिंकत्वनिषेधिकाने तिच स्वावसरे निरूपयिष्यते । किञ्च रूपादीनां यथा अनुभूतिधर्मत्वं नास्ति, तथा नित्यत्वादीनामपि तन्त्रस्तीति सामान्यतो धर्मत्वनिषे धानुमानमेव प्राप्तम् । तत्तु प्रत्यक्षसिद्धधर्मत्वापलापान्न संभवतीति पारमार्थि 1 निविंशेषत्वानुमान-भङ्गप्रसधानम् ५८३ कत्वेन तदभावः सिषाधयिष्यते । इदञ्च पारमार्थिकत्वं तत्र नास्तीति अपारमार्थिक तदित्यधिगतं चेत् – स्यादपि । न चापारमार्थिकत्वमन्यतः सिद्धम् । न च रूपादिप्रकृतदृष्टान्तः अपारमार्थिकत्वांश साधनोपयोगीति ।

अनुभूतिः सविशेषा भासमानत्वात् घटादिवत् इत्यनुमानेन निर्विशेत्वानुमानं सत्प्रतिपक्षितमित्यत्र यदुक्तम् – अपारमार्थिकविशेषवत्त्वस्येष्टत्वात् सिद्धसाधनमिति तर्हि तथैव निर्विशेषत्वानुमानेन अपारमार्थिक निर्विशेषत्वमादाय सिद्धसाधनमिति भाव्यताम् । पारमार्थिकविशेषवत्त्वसाधने अप्रसिद्धिरित्ययुक्तम् । घटादेरपि पारमार्थिकतया पारमार्थिक विशेषवत्त्वस्य बहुल दृष्टेः । अयं सर्प इति भ्रमविषये पारमार्थिक विशेषाभावाद्व्यभिचार इति च न किं तत्र इदमर्थे साध्याभावः उत सर्पे । रज्जाविदमर्थे पारमार्थिकविशे सद्भावस्याविगीतत्वात् । सर्पस्यात आपणस्थस्यैव भानात् तत्र विशेषाणामिष्टत्वाच्च ॥ अनुभूतिर्निर्विशेषा अनुभूतित्वादित्यनुमानं तावत् केवलव्यतिरेकिं । केवलव्यतिरेकि चानुमानमेव न भवतीत्यन्यत्र प्रपञ्चितम् । तत्र प्रतिप्रयोगस्त्वन्वप्येव दृश्यते, यथा— अनुभूतिः सविशेषा भासमानत्वादिति । नन्वत्रानुभूतिरिति पक्षीकृतं किं स्वरूपचैतन्यम्, उत वृत्तिज्ञानम् ? आद्ये, बाधः । अन्त्ये सिद्धसाधनममिति चेन्न -६ रूपचैतन्यस्य जीवेश्वर भेदभिन्नस्य सर्वस्य नाना विशेषवत्वस्यैव प्रमाणप्रतिपन्नतया बाघलेशाभावात् । निर्विशेषचैतन्यसदसद्भावविचारस्यैवेदानीं क्रियमाणतया तत् सिद्धं कृत्वा बाधवर्णनस्यानुचितत्वाच्च । श्रुत्या तत् साधयाम इति चेत् तर्हि श्रुत्यर्थविचार एवावतीर्यताम् . किमाभा सानुमानप्रपञ्चनप्रयासेन । अस्माभिश्चात्र घटमहं जानामीत्येवं तिङन्तव्यवहारविषयीभूतमेव पक्षीकृत्य सविशेषत्वं स्थाष्यते । तत्रैव निर्विशेषत्वसाधने भवत्प्राच्यैः संरब्धत्वात् । एवं विवादाभावे च तत्साधनमप्युपेक्ष्यत एवेति न सिद्धसाधनप्रसक्तिः । यच्चानुभूतिर्निर्विशेषा अनुभूतित्वादित्यनुमा ; ५८४

नेन सत्प्रतिपक्षत्वमिति – तन्न – अनुभूतिसविशेषत्वस्यानुभवसिद्धतया तदनुमानेऽस्माभिः प्रथममप्रवृत्तेः । भवद्भिर्विपरीतानुमाने क्रियमाणे अनुभूतिः सविशेषेति सत्प्रतिपक्षानुमानमस्माभिः प्रयुज्यत इति किला स्थितिः । भवतु तावदेवम् ; अथापि अस्मदनुमानं निर्विशेषश्रत्यनुगृहीतत्वात् प्रबलमिति चेन्न श्रुत्युपजीवनत्वस्यावश्यकत्वेन तद्विचार एव क्रियताम्, किमनुमानैरित्यसकृदुक्तत्वात् ॥ यत्तु सविकल्प कज्ञानत्वमुपाधिः, ब्रह्मरूपसंविदि निर्विकल्पकज्ञाने वा उपाध्यभावेन साधनाव्यापकत्वादिति -तन्न –निर्विकल्पकज्ञानाभावस्य निर्विकल्पनिरास्वाद एव प्रसाधितत्वात् । सविशेषत्वरूपसाध्यस्य घटादिष्वपि सत्त्वेन तत्र सविकल्पकज्ञानत्वाभावेन साध्यव्यापकत्वाभावाच्च । उक्तश्च शतदूषभ्याम् – “सविशेषत्वानुमानस्य विपक्षे बाधकमस्ति निर्विशेषत्वानुमानस्य च तन्नास्ति” इति ॥ 1 यदपि नित्यत्वादयोऽनुभूतिधर्माः अभ्युपगतानुभूतिस्वरूपं प्रति तद्धर्मतया प्रमाणतः साध्यमानत्वात् इत्यनुमानस्य दूषणम् तदप्यनादेयम् । अत्र स्वाभ्युपगतानुभूतिस्वरूपं प्रतीति हेतुविशेषणस्य व्यर्थत्वात् व्याप्यत्वासिद्धिरिति वचने स्वेतिपदघटनादयथानुवादः ; स्वपदस्य साधकपुरुषपरत्वस्यैवात्र वाक्ये स्वरसप्रतीतत्वात् तदादरणे चोपर्यनन्वयात् । ये प्रति साध्यते तद्ग्रहणे च तत्पदं सर्वथैव व्यर्थमिति । यः खलु तार्किका दिरात्मानमनुभूतिरूपं न मन्यते, तं प्रति नित्यत्वस्यानुभूतिधर्मतया साधनासंभवात् तं प्रति अनुभूति नित्या मोक्षमागित्वादित्यनुमानप्रयोगे, जानामीति ज्ञाधात्वर्थस्यैवानुभूतित्वात् तदनित्यत्वस्य चानुभविकत्वात् तदतिरिक्तस्यात्मनोऽनुभूतित्वे मानाभावाच्च अनुभूतौ हेतोरेव अभावात् न साध्यसिद्धिरिति स प्रतिब्रूयात् । एवमनुभूत्तिमपि योऽपलपति शून्यवादी, तं प्रत्यप्यनुभूतिनित्यत्वं दुःसाधम्, आश्रयासिद्धेः । अतः अनुभूतेर्नित्यत्वसाधकस्य प्रमाणत्वमभ्युपगतानुभूतिस्वरूपं पुरुषं प्रति भवतीति ज्ञापनार्थं तत् पदम् । किञ्च योऽनुभूतिं तन्नित्यत्वमुभयं न मन्यते, तस्मै नित्यत्वविशिष्टानुभूतेरेव केनचिद्धेतुना साधने तद्धेतुरूपं प्रमाणमादायापि नित्यत्वे . निर्विशेषत्वानुमान-भङ्ग प्रसाधनम् ५८५ तद्धर्मतया प्रमाणतः साध्यमानत्वादिति हेतुरस्ति । तावता नित्यत्वस्यानुभूतिधर्मत्वमेव, न त्वनुभूतिस्वरूपत्वमिति न नियन्त्रयितुं शक्यमिति हेतुरयमप्रयो जकः स्यात् । अतः अभ्युपगतानुभूतिखरूपं प्रतीत्युक्तम् । तेनेदमुक्त भवति –यदि नित्यत्वमनुभूतिधर्मो न भवति किन्त्वनुभूतिस्वरूपमेव, तर्हि अनुभूतेः सिद्धत्वे तन्नित्यत्वस्यापि सिद्धत्वात् तत्रापि विवादो न स्यात् । अनूभूतिस्वरूपमनुमन्यमान एव तु बौद्धस्तन्नित्यत्वे विवदते । अतः तत्खरूपाभ्युपगमशालिनं प्रत्यपि साध्यमानत्वात् स्वरूपातिरिक्तत्वमावश्यकमिति । अतो न तद्दलम् । तं प्रत्यपि धर्मत्वातिरिक्ताकारेण साधने धर्मत्वं न साधयितुं शक्यम् । अप्रमाणेन केनचित् अनुभूति नित्यत्वसाधनेऽपि तेन साध्यमानत्वरूप हेतुर्न धर्मत्वस्थापने पारयेत् । तस्मात् सबै दलं सार्थकम् । तत्राद्वैती एवं प्रतिबोध्यते । भवताऽनुभूतिर्नित्या मोक्षभागित्वादित्यादि बहूपन्यस्यते । प्रतिपाद्यश्चानुभूतिमभ्युगपगछति । तन्नित्यत्वं पुनर्नेच्छति । यद्येकमेव तदुभयमपि स्यात्, एकज्ञानकालेऽन्यविषयकविवादो नैवाङ्कुरेत् । अत, इह धर्मधर्मिणोर्भेद एष्टव्य इति । एतेन भवत्कृतमप्रयोजकत्वशङ्कनमपि शमितं वेदितव्यम् । एवं स्थितेऽत्र प्रमाणपदेन श्रुतिग्रहणेन अन्योन्याश्रयदोषोद्भावनेन च दूषणमसङ्गतमित्यवधेयम् । एवं हेतुकोटिनिविष्टस्यास्यांशस्य त्यागे प्रतिज्ञान्त रमिति निग्रहस्थानमिति लेखनमप्यसंबद्धम् ; हेतुप्रतिज्ञयोर्भेदात् । स्तम्, अनुभूतिर्निर्विशेषा अनुभूतित्वादित्यनुमाने विपक्षे बाधकं यदुपन्य सविशेषत्वं अननुभूतित्व त्वमस्तु अननुभूतित्वं माऽस्त्विति प्रसंगइति तदयुक्तम् सविशेषउत्र तर्कघटकांशयोर्व्याप्रयभावे शंक्यमाने समाधानस्य कार्यत्वादिति चण्डमारुतवर्णन हि निदुष्टम् । यदुच्यते व्यभिचाराग्रहे सति सहचारग्रहे व्याप्तिः सिद्धयत्येवेति तन्न सत्यां व्यभिचारशङ्कायां तदसिद्धेः । तस्मात् अग्निमान् धूमादित्यत्र व्यभिचारशङ्कायाम्, अग्न्यभावे धूमो न स्यादित्युक्तौ तत्रापि व्यभिचारशंकायां बथा यद्यग्मिं विनापि धूमः स्यात् धूमोऽमिजन्यो न स्यादिति तर्कः प्रवत्र्त्यते ; तथे 74 ५८६

हापि व्यभिचारशङ्कायां तत्परिहारकः कश्चित् तर्कः प्रदर्शनीय एव । यावदाशकं तर्कप्रवृत्तेरेव न्यायाचार्यैरप्युक्तत्वात् । अतो विपक्षे बाधकराहित्यान्निर्विशेषत्वानुमानमननुमानम् । सन्ध्योपासनादि कर्तव्यमित्यत्र युक्तिरुच्यतामिति केनचित् पृष्ठे कश्चिदाह, संध्योपासनमवश्यकर्तव्यं सन्ध्योपासनत्वा दिति; मोक्षस्य ज्ञानसाध्यत्वं कुत इति प्रश्ने कश्चिदनुमिनोति, मोक्षो ज्ञानसाध्यः, मोक्षत्वादिति ; ताहगेवायमुपन्यास इति । श्रवणप्रतिष्ठार्थानि प्रतिवादवारकाणि परसंदेह प्रणोदकानि वा मननरूपाण्यनुमानानि नैवंविधानि भवितुमर्हन्तीति ॥ दूरीकृत्य श्रुतिततिमिदंवेद्यमर्थ स्वतन्त्रैः तर्कैरान्विक्षिक्यधिक महितैः स्थापयन्तोऽपि नालम् । इत्थत्वे यः श्रुतिषु निजधीकल्पितापार्थमूलः तर्काभासो बहुरिह मृषावादिनां तेन किं स्यात् ॥ शुभमस्तु श्रीः