२४ संविदनानात्व-भङ्ग-प्रसाधनम्

नानाजातीयसंवित्पदनिजविभवो नित्यनाकाधिवासो नानाकै संविनिरुपममहिमा नन्त नित्याभिवन्द्यः । नानाचाराविवेकोद्धत जनसुलभो यश्च नाना न किश्चित् नानाचाराङ्गधर्मप्रभुरघहरणो भातु नारायणोऽयम् ॥ आत्मनानात्वस्यास्मात्समतत्वेऽपि धर्मभूतसंविन्नानात्वनिषेधकानुमानभलनस्यैवात्र वादे मुख्यत्वात्, संविदनुभूत्यादिपदैरात्मविवक्षणेऽपि आत्मनानात्वस्यैव “नानात्मनो व्यवस्थातः”, “शास्त्रसामर्थ्याच्च” इत्येवं कणाददर्शितरीत्या सर्वप्रमाणसंमततया तन्नानात्वप्रतिषेधस्य बाध्यत्वात् तत्र, “न त्वेवाहं जातु नासम्” इति श्रीगीता श्लोकमात्रं गृहीत्वा नानात्मस्थापनस्यात्र वादेऽनुपनिबः द्धतया तद्वाक्यविचारेण परीक्षोपक्रमो वृथाविस्तरः । विचारितचरश्चैत च्छ्लोकार्थप्रागेवेति किमत्र चर्वितचर्वणेन । यत्तु " बहूनि मे व्यतीतानि जन्मानि तब चार्जुन” इति परमात्मजीवात्मनां जन्मादि प्रतिपादयिप्यता भगवता, ‘न त्वेवाह’ मिति जन्मनिषेधः क्रियमाणो न घटत इति सोऽयमनुक्तोपालम्भः । अस्य लोकस्य सार्घकालिक स्थितिमात्रपरत्वेनात्र जन्मतन्निषेघप्रस्तावगन्धस्याप्यभावात् । सर्वदा स्थितस्य कथं जन्मेति चेत् —— कदाचित् स्थित्वा नष्टस्य बहूनि जन्मानि कथम् ? “जीव ईशो विशुद्धा चित् " इति तदनादित्वस्य भवदिष्टतया एकं जन्मापि कथम् ? जन्म नाम आमनः स्थितस्यैव शरीरेण संश्लेषः; स भवितुमर्हति सकृदसकृद्वेति चेत् — सिद्धस्तर्हि जन्मप्रतिपादक श्लोकस्य सावैकालिक सद्भावप्रतिपादकप्रकृत श्लोकस्य चाविरोधः । योगवासिष्ठवचनं तु नात्यन्तं प्रमाणम् । न च तद्विरोधलेशोऽपि । " संविदाकाशमेवाहं भवानपि जना अपि । प्रियामहे नो कदाचित् कुतः संविद्विनश्यति ?” इत्ययं श्लोको 1५६० परमार्थ भूषणे हि प्रत्युत अहं भवान् जना इति आत्मानेकत्वं दर्शयत्येव । एवं दर्शयन्नेव सर्वेषां संविद्रत्वम्, आकाशवदतिसूक्ष्मत्वम्, अत एव सूक्ष्मतया, “अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्” इत्युक्तरीत्या इतराविनाश्यत्वञ्च बोधयति । उपाधिभूतशरीरविशिष्टाकारेणात्मनां नित्यत्वं तु न वयमपि ब्रूमः । तस्मात देहातिरिक्तज्ञानस्वरूपाणामात्मनां देहनाशेऽपि न नाश इतीहोच्य मानायें आत्मैक्यसाधकत्वलेशस्वाप्यभावादेतदुदाहरणमप्युपेक्ष्यमेव । एवं स्पष्टां भेदयतीति कथञ्चित् खमते निर्वाहमेव प्रवृत्तं भाष्यम्, भेद निर्देशस्तु शरीरमेदाभिप्रायेण " इति न तु साधकतया ।

यत्तु —

लोकप्रसिद्ध आत्मभेदः औपाधिकः प्रमात्राश्रितः
न संविद्-भेदं साधयति

इति, तत्रात्मभेदः लोकप्रसिद्ध इति अभ्युपेतं युक्तम् ।
स्वाभाविके भेदे स्वरसे
औपाधिकत्वम् अप्रतीतं किम् इति कल्प्यम्?
प्रमात्राश्रितो भेद इत्य् अपि सत्यम्।
प्रमात्र्-अतिरिक्तस्यात्मनोऽभवात्
आत्मनां प्रतीत्य्-अभावाद् एव
संवित्त्वेन रूपेण भेदाप्रतीतिः ।
ोिऽपि तु लोक सिद्धोऽस्त्येव । स च जानामि, अजानाम्, साक्षात्कारोमि, अनुमिनोस, प्रत्यमिजानामीति बहुप्रकारः । भवदुपात्तश्रुतिवाक्यम्, एको देव" इत्यादिकमपि परमात्मन एकत्वमेव ब्रवीति, न संविदेकत्वनित्यम् ॥ " भवता चाल संवत्पदेनाला ग्रहणम् उत लोकप्रसिद्धज्ञानानामपि ? आद्ये, संविदिति सामान्यनिर्देशो न युक्तः । तथा सति पक्षैकदेशे बाघप्रसङ्गात् । आत्ममात्रपक्षी कारेऽपि बाध एव । अप्रयोजकश्च हेतुः । अजानामपि परंमाणूनामनेकत्वस्याने कवादिप्रतिपन्नत्वात् । अजानामात्मनामेवानेकत्वस्य सांख्यादिभिरुक्तत्वात् । आत्मनः सच्चिदानन्दांशानां पृथग्भूतानामध्यजत्वाच्च । " जीव ईशो विशुद्धा चित्" इत्युक्तानां षण्णामनादित्वस्य भवदिष्टतया अनादित्वादेवाजत्वस्यावश्यकतया तन्नानात्वस्याप्यभ्युपगततया हेतुरनैकान्तिक एव ॥

५६३ यत्तु —— संविदि आत्मनि यतः कुतश्चिद्भेदोऽपि निषेद्धुं शक्यते । आत्मनो देहादिभेदवत्त्वेऽपि तस्य देहादेरपरमार्थत्वेन तद्भेद निषेवसंभवात् । अत एव तदनन्यत्वाधिकरणे भामत्याम्, “भेदं व्यासेधाम" इति भेदनिषेधबोधनर्मिति—तदयुक्तम् । आत्मनः परमार्थत्वे देहादेव परमार्थत्वे भेदस्यैवावश्यकतया तन्निषेधायोगात् । प्रत्युतापरमार्थमतियो गिक भेदस्य परमार्थभूतात्मस्वरूपतया वास्तवत्वेन तन्निषेधासंभवाच्च । अथ परमार्था परमार्थयोस्तादात्म्यमिष्यते, इदं रजतमिति शुक्तिरजतयोस्तलतीतेरिति चेन्न –तत्र हि तादात्म्यप्रतीतिमात्रम् ; न तु तादात्म्यस्य वास्तवता । किञ्च भवद्भिस्तादात्म्यं नाम घटितः अभेद इति वर्णनात् भेदाभेदद्वये भास्करादिभिरिव स्वीकार्ये कथम्, " नामे ब्रूमः किन्तु भेदं व्यासेघामः" इति लेखनम् ? उभयनिषेधात्तु परमार्थपरमार्थोः अतादात्यमेव वास्तवं भवदिष्टं स्यात् । एतद्भामत्यर्यश्च प्रागेव प्रतिक्षिप्तः । यत्तच्यते—" युष्मदस्मवत्यगोचरयोः" इति भाष्ये पूर्वपक्षिणा देहात्मविवेके उपक्षिप्ते, “सत्यं विवेकोऽस्ति । स तु परोक्षः । न तादृशोऽपरोक्षश्रममनादिमपाकर्तुं प्रभवति” इति विवेकं कृत्वाचिन्तया समाधानमुक्तम् । वस्तुतो देहात्मविवेको नेट एवेति–तत्रोच्यते-यदि देहात्मविवेको नेट, किन्तु कृत्याचिन्तैव ध्यास विनैव प्रमयैवान्योन्यधर्भग्रहण निर्वाह्यम् । अन्योन्येत्येव न वक्तव्यमित्येवाशयः स्यात् । एवं तर्हि तमःप्रकाशवत् विरुद्धखभावयोरिति विरुद्धस्वभावत्वमपि नेप्यत इति स्यात् । तथा चास्मलत्यगोचरोऽपि तमः, युष्मत्लत्ययगोचरोऽपि प्रकाश एव वा । किमिदं युक्तम् एवं देहानविवेकस्याभावे च, " एक आत्मनः शरीरे भावात्" इत्यधिकरणेन शारीरके विवेकव्युत्पादनमयुक्त स्यात् । यदि च परमार्था परमारपि तादात्म्यमस्ति तर्हि देहात्मवादो न प्रतिक्षेप्यः । यदि च भेदाभेदद्वयनिष्टम्, यदि वा भेदसह एषोऽभेदः, तर्हि तादास्यान्तर्गतो भेद एव देहात्मविवेकोऽस्तु । भेदाभेदद्वयसत्त्वे भेदाभेदोभयव्यासेधः तदनन्यत्वाधिकरणभामत्युक्तो न स्थास्यति । तादात्म्यं भेदाभेदोभयरूपमिती 71 ५६२ " परमाथभूषणे दञ्च प्रागेव परास्तम् । यदि च तादात्म्यान्तर्गतत्वमभेदस्य, तर्हि सोऽभेद एव तदनन्यत्वमित्युच्यताम् । किमिति भेदनिषेध एव चिकीर्षित इत्युच्यते । यदि चाभेदो नेष्टः, कथमिदमविकरणमसत्कार्यवादनिरासेन सत्कार्यवादस्थापकं स्यात् । शोधने हि भवन्मते कार्यस्यैवापह्नवात्, न सत्कार्यवादः, नाप्यसत्कार्यवादः, किन्तु सद्कार्यवाद एव । “आरम्भणशब्दादिभ्य" इति सूत्रनिर्दिष्टं आरम्भणपदञ्चावस्थारूपविकारतद्वाचिनामधेोभयस्पर्शित्वं द्रव्यस्य दर्शयति । न च शुक्तेः रजताश्रयत्वं वा रजतत्वाश्रयत्वं वा रजतनामवत्त्वं वाऽस्ति । अतः श्रुतिविरोधच । सिद्धान्तेऽप्यध्यासमाप्ये अध्यासमूलकव्यवहारस्यानादितायाः अभ्यासस्वरूप विवेचनस्य च क्रियमाणतया देहात्मैक्ये चाध्यासप्रसक्त्यभावात् विवेक इष्ट गवेति । अतः विवेकं कृत्वा चिन्तयेत्येतदयुक्तमिति किं पिष्टपेयण ! किञ्च संविन्न नाना अनुत्पन्नत्वादित्यनुमाने पक्षसाध्यहेतूनां मिथो भेदोऽस्ति न वा ? अस्ति चेत् कथं यतः कुतश्चिद्भेदस्य स्थितस्यापलापः ? न नानेति नानाप्रतियोगिक भेदस्य स्थापनादपि संविदि यतः कुतश्चिद्भेदोऽस्त्येव । नानेति पदेन तस्य भेद्रव्य ग्रहणे च नेति तद्भावो दुर्वचः । अतो यतः कुतश्चिद्भेदो नानापदार्थो न भवितुमर्हति । हेतुसाध्यपक्षाणामैक्ये पुनरनुमानप्रयोग एव दुष्कर इति सामान्यतो भेदराहित्यसाधनं दुश्शकम् ॥ अथोच्येत संविन्न नानेत्यस्य यत् जडप्रपञ्चभूतं तदुपहितचैतन्य

रूपञ्च तत् सर्वं ब्रह्मरूपसंविदि अध्यस्तमित्यत्रैवानुमानतात्पर्यम् । अयमेव च यतः कुतश्चिद्भेदनिषेध इत्युच्यत इति — अत्रेदं वक्तव्यम् -अत्रेदं वक्तव्यम् अस्याध्यासस्य कथं निवृत्तिः : शुक्तौ रजताध्यासस्य, नेदं रजतमिति ज्ञानादिव, संविदि प्रपञ्चरूपेण संप्रति गृह्यमाणायां नेदं जगदिति ज्ञानान्निवृत्तिरिति चेत् — तर्हि प्रपञ्चभेदग्रहणं संविद्यावश्यकमिति कथं भेदाभावः संविदि ? एवञ्च तत्त्वज्ञानस्यैवाध्यासनिवर्तकत्वात् अत्र विषयभूतो भेदः पारमार्थिक इत्य् अपि संवेदनानात्व भङ्ग प्रसाधनम् ५६३ सिद्धयेत् । अपारमार्थिकप्रतियोगिकभेदः पारमार्थिको न भवतीति भामत्यपि प्रतियोगिपारमार्थ्यप्रसङ्गात् । अत एवानुपपन्ना । भेदस्यापारमा भेदस्य पारमाये अद्वैतरक्षणाय ब्रह्मस्वरूपत्वस्यावश्यवक्तव्यतया ब्रह्मणः प्रकाश मानतया भ्रान्तिरेव न स्यादिति भिया तु भामत्यां तदपारमार्थिकत्वमुक्तम् । सेयमुभयतस्पाशा रज्जुरिति । किञ्चानुत्पन्नत्वरूपहेनोरत्र साध्ये अप्रयोजकत्वमेव । अनुभूत्यवान्तर भेदनिपेधतात्पर्यंत एवं प्राचैरेतदनुमानप्रयोगात् तल्लक्ष्यासिद्धिश्च । आश्रयासिद्धि, श्रुतिमूल्ये सिद्धसाधनम्, अन्यथा बाधश्च ॥ • अविद्यातः परमार्थ विभागः भेदापरनामा आत्मनश्चेन्त्रेष्यते, वस्तुतोऽविद्यैव स्यादात्मे ‘ति श्रीमायं गृहीत्वा वदुक्तम्भ्रान्तिकालीनं तादात्म्यमादाय यद्यापादनन्दिम् तर्हि न तोपदेशसमारम्भ इति इदमनुपपन्नम् । परमार्थतो विभागो नास्ति चेत्, तादात्म्यं पारमार्थिकं भवेदिति स्पष्ठे श्रीमाण्यार्थे भ्रान्तिकालीनतादात्म्यापादनमिति कथमुच्यत इति । अविद्याया अपारमार्थिकत्वेऽपि अविद्याप्रतियोगिकभेदः ब्रह्मणि पारमार्थिक एव वक्तव्यः, शुक्तौ शुक्तिरजतभेद इव । स च भेदो द्वैतमिया ब्रह्मस्वरूप एवेष्यते, तदाऽप्याधाराधेयभावोऽपीत्यन्यदेतत् । एवञ्चार्थं पारमार्थिक भेदो नेष्यते चेत्, तहिं ब्रह्मणि अविद्याया अविद्यात्मना सेन साकं यादृशमैक्यं तादात्म्य विलक्षणम्, तदेव ब्रह्मणा सहाविद्याया इति अविद्यावत् ब्रह्मापि मिचैव भवेत् । एतदर्थप्रतिपादनार्थमेव वस्तुतः पदमेवकारश्च भाष्ये ॥ यत्तु संरम्भवचनम् " अनुभूतिर्न नाना" इत्यत्र संविज्जातीयमात्राद्भेदनिषेध इति द्वितीयपक्षे शतदूषण्यां सिद्धसाधनवर्णनमसङ्गतम् । अहमर्थं संविदूपमहमर्थान्तरात् संविदूपाद्भिन्नमेव हि घण्टाघोषेण श्रीभाष्यानुयायिनो घोषयन्तीति—-तत्रानवधानहेतुं संरम्भं परित्यज्य सूत्तयर्थः परिशील्यतामिति प्रतिबोधयामः । संविदन्तर भेदनिषेधः किल चतुर्थः कल्पः । स च ५६४

निरसिप्यत एवोपरि, " भेदस्यापि सिद्धेर्निषेधायोगात " इति । इति । अतो द्वितीयचतुर्थयोर्भेदमनाकलय्य किमित्येवं वर्णनम् अयं हि संविज्जातीयमात्राद्भेदनिषेध इति कल्पः । स च संवित्त्वावच्छिन्नप्रतियोगिताक भेदाभावः । न हि कस्मिंश्चिदपि घटे घटत्वावच्छिन्नप्रतियोगिताको भेदो भक्तुिमर्हति । तथा संविदि संवित्त्वावच्छिन्नप्रतियोगिताकभेदस्यासंभवः सर्वसंप्रतिपन्न इति सिद्धसाधनवर्णनं हि समञ्जसमेव । एवं द्वितीयचतुर्थयोर्भेदमनाकल्य्योपरितनग्रन्थप्रवृत्तिरप्येवमुपेक्ष्येति ॥ 1 यच्च भेदवत्त्वेनप्रतीयमानसंवित्प्रतिद्योगिक भेदराहित्यस्य साध्यत्वे अविद्यायां संविद्भेदस्यैव सत्त्वात् हेतोविरोध इति शतरूपणयुक्तपरिहारायोक्तम्, अविद्यायाः संविवध्यन्तायाः संविदुपाधिभूतायाः संविदपेक्षया नात्यन्तं भेद इति भेदराहित्यसत्त्वान्न व्यभिचार इति तत्र विरुद्धहेत्वाभासत्वे आपाद्यमाने व्यभिचरितत्वं नास्तीति भवद्वर्णनमन्यादृशमित्यन्यदेतत् । अविद्यायां साध्यसद्भावकथन प्ययुक्तम् । न नानेति वादिनो हि संविदां प्रातीतिक भेटे सत्यप्यन्यादृशभेदो नास्तीत्यत्र तात्पर्यम् । तथा च संवित्यतियोगिकप्रातीतिक भेदस्य संविदि सद्भावात् तद्राहित्यं दुःसाधमिति पारमार्थिक भेदराहित्यसाधने संवित्प्रतियोगि कपारमार्थिक भेदाप्रसिद्ध्या साध्याप्रसिद्धिः । संविद्भिन्नस्य वस्तुनः परमार्थतः सत्त्वे किल तत्प्रतियोगिकः पारमार्थिका भेदः प्रसिद्धयेत् । तस्मात् भेद्रवत्त्वेन प्रतीयमानसंवित्प्रतियोगिक स्वाश्रयसमानसत्ता कभेदराहित्यं साध्यमिति वक्तव्यम् । स्वं भेदः ; संविदि तत्समानसत्ताकः संवित्प्रतियोगिको भेो नाम्ति ; अविद्यायां तु अविद्यासमानसत्ताकः संवित्प्रतियोगिको भेदोऽस्तीति साध्याभावात् विरुद्धत्वमेव । उपाधेरुपाधिमदपेक्षया अत्यन्तं भेदो नास्तीति चायुक्तम् । घटावच्छिन्नआकाश इत्यत्र घटस्याकाशस्य चात्यन्तभेदस्यैव प्रामाणिकत्वात । अध्यस्ताधिष्ठानयोरत्यन्तं भेदो नास्तीति चायुक्तम् । मिथ्यातथ्ययोः कथमप्यैक्यस्य कथयितुमशक्यत्वात् । अन्यथा बाघकालेऽपि शुक्तौ इदं रजतमिति व्यव संवेिदनानात्व-भङ्गप्रसंधानम् ५६५ हारापत्तेः । अध्यासस्थले प्रातीतिकः कथञ्चिदभेदः स्यात्, उपाध्युपाधिमतोस्तु सोऽपि नास्ति । उभयत्रापि भेदस्तु अत्यन्तमेवास्तीत्येवानुभविकम् । तादात्म्यं भवदिष्टभेदाभेदघटितं नेति च प्रागेव प्रादर्शि ॥ यत्त –संविन्न नानेत्यस्य संविदि सर्वमेव निषेधरूपत्वे सर्वमिथ्यात्व तात्पकत्वम् । संविद्भेदनिषेधरूपत्वे च सर्वजीवैक्यपरत्वमिति –तन्न –न हि संविन्ननानेति किञ्चित् श्रुत्वावामस्तीति कृत्वा तस्य कोऽर्थ इतीह विचार्यते । किन्तु भेदनिषेधानुमानम् । तत्रानुत्पन्नत्वादिति हेतुर्थस्यार्थस्य प्रयोजको भवितुमर्हति स एवार्थों ग्राह्यः, न त्वन्यः । किञ्च संवित्पदेन संवित्त्वेन पक्षविपक्षा, उत्तान्यथा ? आये लौकिकानुभृतिष्वपि संवित्त्वप्रसिद्धिसद्भावात् तासु मिथो भेदस्यानुमविकतया भेदनिषेधे बाधः । एवं सत्यभूतद्वितीयराहित्यबोधनेऽपि सत्यस्य ब्रह्मणः सत्त्वात् । तथा जीवस्य संवित्त्वस्वीकारेण मिथो जीवभेदनिषेधपरत्वे च जीवानां नानात्वस्यानुभविकतया बाध एव । ब्रह्मत्वेन पक्षीकारेऽनुत्पन्नत्वमप्रयोजकम् । श्रुत्या नानात्वनिषेधे तु तस्थास्तदर्थकत्वनिश्चयेऽनुमानवैयर्थ्यम् । अन्यदा तुक्त एव दोषः । न च ब्रह्मपक्षीकारे जीवनानात्वनिषेधानुमानप्रसक्तिरित्यादि द्रव्यम् । ; एतेन संवित् स्वभिन्ना नेत्यस्य ‘तत्त्वमसि’ वाक्यार्थवर्णनपरत्वमित्यप्यपास्तम् । न हि ‘तत्त्वमसि’ वाक्यमेतदर्थकमित्यनुमीयत इह । तदैक्यमर्थात् सिद्धयतीति चेत् अनुमानस्यानाभासत्वे किल पश्चात् तत्परिशीलनम् । किञ्च यत्र यत्र स्वभिन्नत्वम्, तत्र तत्रोत्पन्नत्वमिति व्यतिरेकव्याप्तिर्न घटते घटभिन्ने ब्रह्मण्यविद्यायाञ्चीलन्नत्वाभावात् । उत्पदलक्ष्यं स्वरूपं त्वंपदलक्ष्यखरूपाभिन्नमनुत्पन्नत्वादिति प्रयोगश्चायुक्तः । जीवेशा विद्यातद्भेदप्रागभावादिष्वपि हेतुसत्त्वात् त्वंपद लक्ष्यस्वरूपाभिन्नत्वाभावाद्व्यभिचारात् । न चानुत्पन्नत्वं प्रयोजकम् । उत्पन्नेषु घटादिष्वपि संवित्स्वरूप भेदसत्त्वात् अनुत्पन्नेष्वपि प्रकृतिपरमाण्वादिषु प्रतिवादिभिः संविदवीकाराच्च तत्त्वायोगात् " सर्व ५६६

भूतस्थमात्मानं सर्वभूतानि चात्मनि " इति लोकस्तावत्, " सर्वत्रासौ समस्तश्च वसत्यत्रेति वै यतः " इतिवत् आत्मनो भूतानाञ्च मिथो भेदसंबन्धमेव सप्तमीस्वारस्यात् ब्रूयादिति न तस्य भवत्पक्षे स्वारस्यमिति तदुपादानमयुक्तम् । " सर्वत्र समदर्शिनः " इति च साम्यं सादृश्यमेव वक्ति; न त्वैक्यम् । एतेन, " यो मां पश्यति " इत्य् अपि व्याख्यातम् । एकैकस्याप्यात्मनः स्वस्मादभिन्नत्वसाधने च सिद्धसाधनमित्युक्तौ तर्हि तदिष्टमेवेति शतभूषणीलेखनं तु विचित्रमेव । विवक्षितार्थासाधनादर्थान्तरम्, अनुमानस्यानवसरश्चेत्युक्तौ कथमिष्टमेवेत्युच्येताद्वैतिभिः ? अविद्यायाः संवित्तादात्म्यस्वीकारात् तद्भेदराहित्यमेवास्तीति न व्यभिचार इति च वार्तमिति प्रागेवोपपादितम् । एवं तर्हि घटादावपि संवित्तादात्म्यमस्तीति संविद्वेद एवाप्रसिद्ध इति कुत्र व्यतिरेकव्याप्तिग्रहः । कथञ्च साध्याप्रसिद्धावनुमानप्रयोगः । एवं घटावच्छिन्नचैतन्यं प्रति घटस्योपाधितया तादात्म्यमपि भवता सुवचम् । घटानुपाहितसंविदपेक्षया घटे भेदोऽस्तीति चेत्-अविद्यानानात्वपक्षे एकाविद्यानुपहितं यदविद्यान्तरोपहितं चैतन्यं तद्भदः अविद्यान्तर इति पुनभि चार एव । एवमुपहित चैतन्यवत् अनुपहितचैतन्यस्यापि सर्वदा सत्त्वस्य स्वीकृतत्वात् तद्भेदः समस्त्येवाविद्यायाम् ॥ ‘चन्द्रातिरिक्ततरङ्गचन्द्रनिषेधन्यायेन संविदन्तर निषेध’ इत्यत्र ‘तरङ्गचन्द्रदृष्टान्तोऽपि विषम इत्यादिग्रन्थमनूद्य यदुक्तम् —— बिम्बप्रतिबिम्बयोरभेदः सत्यता च संमन्यते । तथा च दृश्यमानसंविद्वेदः विषयाश्रयादिभेदोपाधिकत्वान्न स्वाभाविकः । प्रतिबिम्बस्य बिम्बात् भिन्नत्वे मिथ्यात्वे च स्वीकृतेऽपि विम्बव्यतिरेकेण प्रतिविम्बस्याभावकथनान्न दोष इत्यादि । एष आपातोपन्यासो न प्रदर्शितानुमानदूषणायालम्भविष्णुः । मिथ्यात्वं सत्यत्वं सर्वमप्यव्यवस्थितं भवदीयैरुच्यमानमभिसन्धाय यावद्वक्तव्यम्, तावदुक्तमेव शतदूषण्याम् । अतस्तद्दूषणापरिहारेण सिद्धान्तलेपन्यासवैखरी नानुमानं प्राणयिष्यति । एवं ह्यत्रोच्यतेप्रतिबिम्बस्य मिथ्यात्वे तद्वत् संविदां सोपाधिकानां, संविद नानात्व-भङ्ग-प्रसाधनम् ५६७ मिथ्यात्वेन शुद्धसंविदो भिन्नत्वात् तद्भेदराहित्यमयुक्तम् । भवन्मतेऽपि शुद्धसंविद्यतिरेकेण सोपाधिकसंविदामभाव इत्युक्तिरेव समञ्जसा । न तु शुद्धसंविदः सोपाधिकसंविद्यतिरेकेणाभावः । सोपाधिकसंविदां पक्षीकारे चानुत्पन्नत्वादिति हेत्वनन्वयः । एवं संवित्त्वेन सामान्येन पक्षीकारे तद्भिन्नसंविद्भेदाभाव इति साध्यनिर्देशायोगः ; तद्भिन्न संविदप्रसिद्धेः । कस्याश्चित् संविदः पक्षत्वे लोके नानासंवित्सद्भावानुभवात् स्वभिन्नसंविद्भेदाभावबाधः । एवं संविदो मिथो न भिन्नाः अनुत्पन्न त्वादित्यनुमानेऽपि बाधा सिद्धी वेदितव्ये । एवं सोपाधिकसंविदः शुद्धसंविद्व्यतिरेकेण न सन्ति अनुत्पन्नत्वादित्यभिप्रायकत्वेऽपि असिद्धिसाध्याप्रसिद्ध्यादयो वेदितव्याः । संविदेकत्वे श्रुतिप्रमाणतः सिद्धे तत्र सोपाधिकसंविदाभावः साध्यत इति चेत् — अनुमानमेव व्यर्थम् । श्रुतितस्तदसिद्धिश्च वक्ष्यते तदवसरे । एवमाकाशघटाकाशयोरिव बिम्बप्रतिबिम्बयोरैक्येऽपि पक्षीभूता 1 संवित् केति प्रकृतविकल्पपूर्वकदूषणं सर्वमतिदेष्टव्यम् । एवमनुमानदोषे उद्धाव्यमाने तदपरिहारेण वृथा सिद्धान्तकथा न युक्तेति । अत्रेदमवधेयम्-भवतो लौकिकसंविदां नानात्वमुत्पन्नवञ्चेष्टमेव । शुद्धसंविद एवानुत्पन्नत्वानानात्वादिसाधनमस्मदिष्टमितिहिप्रागुयन्यस्तम् । अत्र तु " दृश्यमानसं विद्भेदः विषयाश्रयादिभेदोपात्रिकत्वान्न स्वाभाविकः" इति लौकिक संवित्सु ऐक्यसाथनमेवानुमन्यत इति व्याघात इति ॥ संविन्न नानेत्यस्य संवित् संवित्साजात्यरहितेत्यर्थे अविद्यायामनैकान्त्यमपि कश्चिद्दोष उपन्यासीति तत्र यदुक्तम्, “नाविद्या संवित्सजातीया” इति तत्रोच्यते । किमिदं साजात्यम् ? कथञ्च साध्यं निरुच्यत इति शोधनीयम् । यदि संवित्साजात्यं नाम संवित्त्वावच्छिन्नभिन्नत्वे सति संविद्वृत्तिधर्मवत्त्वम्, तत्र घटकीभूतो धर्मः कः ? न तावत् संवित्त्वम् संविद्भिन्ने " ५६८

संविद्धर्मायोगात् । अथ यः कश्चित् ? तर्हि वस्तुत्वमेयत्वादिरपि । तत्र पक्षभूतसंविदि संविद्भिन्नत्वघटितसाजात्याभावात् साध्यसाधनम्, अविद्यायां तु संविद्भिन्नत्वं संविद्वृत्तिवस्तुत्वादिधर्मवत्त्वं चेति न साजात्यराहित्यमिति ग्रन्थतात्पर्यम् । अथ संवित्साजात्य गहित्यं नाम स्वभिन्नस विकत्वाभाव इति चेत् — अविद्या भिन्नसंवित्सद्भावात् व्यभिचार एव । स्वसजातीयसंवित्कत्वाभावः साध्यमिति चेत् तदापि खपदेनाविद्याग्रहणे संवित्त्वेन रूपेण स्वसजातीयत्वस्य संविदि दुर्वचत्वात् साध्यानन्वय इति व्यभिचार एव । यथा कथञ्चित् साजात्यविवक्षणे तु अविद्यायाः स्वसजातीयसंवित्त्वमेवास्तीति स एव दोषः । स्वसजातीयसंवित्कं यत् तद्भिन्नत्वं तादृशत्वाभावः साध्यमिति चेत् तत्र यच्छन्दवाच्यं किम् ? लौकिकसदिदां मिथः सजातीयत्वात् खसजातीयसंवित्कत्वमिति चेत् तर्हि शुद्धसंविद एव पक्षत्वमिति फलति । तस्याः प्रमाणतः सिद्धौ अनुमानं व्यर्थम् । असिद्धावाश्रयासिद्धिः । संवित् सिद्धा, तदेकत्व मसिद्धं साध्यते इति चेत् — हेतुरप्रयोजकः । इदमेवाभिप्रेत्य सूक्तम्, “एकतथा सिद्धौ च किमत्र पुनः साध्यम् । अत एव न पञ्चमः” इति । संवित् स्वसजातीयरहिता अनुत्पन्नत्वादित्यनुमाने चैका विद्यांशानामेव जीवभेदकत्वमिति विवरणानुसारिपक्षनिलक्षणे अविद्यानानात्ववादिभामतीपक्षे अविद्याभिरनैकान्त्यम् । संवित्त्वेन पक्षत्वे च बाधासिद्धयादीत्यपि भाव्यम् । संविदविद्ययोः दृग्दृश्यभावेन वैलक्षण्यात् साजात्यमपि नास्तीति वदन् तादात्म्यं स्वीकरोतीति च विचित्रमेतत् । न हीदं कार्यकारणयोरिवाभेदसहं वैलक्षण्यम् । यत्रयत्रोत्पन्नत्वम्, तत्रतत्र स्वसजातीयवत्त्वमिति व्यतिरेकव्याप्तिप्रदर्शनञ्च तन्मर्यादानवगम निबन्धनम् ॥ संवित् स्वसजातीयरहिता अनुत्पन्नत्वादित्यनुमानतात्पर्ये च यथा नानानाद्यविद्या पक्षे हेतुमत्यामविद्यायां साध्याभावात् व्यभिचारः, यत्रयत्र स्वसजातीयवत्त्वम्, तत्रतत्रोत्पन्नत्वमिति नियमस्यानाद्यनेकात्मपरमाण्वादिस्वीकारिमतेन असिद्धया व्यतिरेकव्याप्तेदुर्वचता च-तथा संविदामनेकत्वस्यानुभविकतया

་་ बाधश्चेति, “अबाधितप्रतिपत्तिसिद्धदृश्य भेदसमर्थनेन दर्शन भेदोऽपि समर्थित एव, छेद्यभेदात् छेदन भेदवत् ” इति श्रीमाण्ये उक्तम् । यत्तु -अयं भेदः उपाधिभेदप्रयुक्त इति — सोऽशः श्रीभगवद्यामुनपादैरेव प्रतिक्षिप्तः “प्रतिप्रमातृविषयं परस्परविलक्षणाः । अपरोक्ष प्रकाशन्ते सुखदुःखादिवत् धियः ॥ संबन्धिन्यङ्गयभेदस्य संयोगेच्छादिकस्य तु । न हि मेदः स्वतो नास्ति नाप्रत्यक्षश्च संमतः ॥” इति । यस्य भेदः संबन्धिभेदमूलमवसेयः, तस्य स्वाभाविकभेदराहित्यमेवेति वक्तुं न शक्यते । घटपटसंयोगस्य कुख्यकुसूलसंयोगस्य च भेदः संबन्धिभेदमादायैव निरूपणीयोऽस्ति । क्षुद्रफलेच्छायाः मुमुक्षापाश्च विषयभेदमूलमेव भेदज्ञानम् । न हि तावता तत्र तत्र मेदस्यास्वाभाविकत्वं वा अनानुभविकत्वं वा । तद्वदेव संविद्विषयेऽपि, अन्यथा संयोगादेरपि अनेकत्वासिद्धेः । तथा च घटादीनामप्यवस्थाभेदेनेव भेदस्य वक्तव्यतया अवस्थायाश्वावयवसंयोगविशेषरूपतया संयोगैक्येन अवस्थैक्यमिति घटपटाक्यमपि प्रसजेत् । न च पुण्यपापरूपकर्मोपाधिकं सुखं दुःखञ्चात्मनो वाऽन्तकरणस्य वेत्येतावता सुखदुःखरूप विभिन्न धर्मद्वयापलापः । न च बीजपूरे लाक्षारसाव से कोपाधिकः पुष्पे धवलिमेति तस्याविद्यमानता ।

अतः संबन्धि-भेदात् संयोगाद्य्-उत्पत्तिवत् दृश्य-भेदात् विभिन्न-संविद्-उत्पत्तिर् एवानुभविकीति न प्रत्यक्ष-बाधेनैक्य-वर्णनं सुशकम् ।

कथं तर्हि नित्य-ज्ञान-रूपात्म-स्वीकार इति चेत् — किम् अत्रानुपपन्नम् ! संविद्रूपाणाम् आत्मनाम् अनेकेषां वर्तमानत्वात् अनुत्पन्नत्व-रूप-हेतुमत्सु तेषु स्वसजातीय-राहित्य-रूप-साध्याभावात् व्यभिचार एव तदङ्गीकारे । आस्तामेतत् ।

“निर्विषया संवित् स्वीकृतैव किले"ति चेत् — यासां संविदां स-विषयत्वं प्रत्यक्षसिद्धम्, तासां निर्विषयत्वं हि न स्वीक्रियते । विषयम् अनवगाह्याहम् इति प्रकाशमानानां तु निर्विषयत्वम्, तथा प्रकाशमानत्वात् तत्र संविद्-वाचो-युक्तिश् चेति न किञ्चिद् अनुपपन्नम् ।

धर्म-भूत-ज्ञानं तु यदा प्रकाशते, तदा सविषयम् एव प्रकाशते । विषयभेदेन ज्ञानानि तानि भिन्नान्य् एव ।

72 fofits.५७०

यथा च घटपटादीनां महद्-आदि-पृथिव्य्-अन्तानाम् अपि वा भेदे सति सर्वपरिणामास्पदं प्रकृति-द्रव्यम् एकम्, तथा तावत्-परिणाम-शील-द्रव्यमात्मधर्मभूतमस्तीति श्रुत्या तर्कसनाथया सिद्धयतीति प्रागेव व्युदपादि । तत्र ज्ञानपदव्यपदेशश्च ज्ञानपदवाच्य परिणामभूयस्ततयेति न किञ्चिदवद्यम् । ज्ञानभेदानङ्गीकारे च, न जानामि, ज्ञास्यामीति कालभेदान्वयानुपपत्तिः; ज्ञानस्य विषयस्य च कालत्रयस्थायित्वात् । ज्ञानस्य विषयस्स्य च सबन्धः पूर्वमस्थितः पश्चाज्जायत इति चेन्न -हग्दृश्य संबन्धानुपपत्तिवादिभिस्तदुक्तयसंभवात्; स्वरूपातिरिक्तसंबन्धाभावेन संवित्स्वरूपं जातमित्यत्रैव पर्यवसानाच्च । एवं जायमानानां संविदां किं विभिन्नकालिकरूपरसादिवत् भेदमात्रम्, उत, किञ्चिद्रव्यपरिणामरूपत्वमित्येतत्तु सत्तर्कप्रमाणसमरिंगम्यमित्यन्यदेतत् ॥ यत्तु किञ्चित् -दृश्यभेदे दर्शनस्यापि भेद इति भाष्यं कथं घटताम् ? घटपटसमूहालम्बनज्ञानस्य दृश्य भेदेऽप्यैक्यादिति – नायमपूर्व आक्षेपः । शतदूषणीतत्त्वटीकादिष्वेव शङ्कित्वा परिहृतत्वात् । श्रुतप्रकाशिका दर्शितो भाष्याशयश्चात्रानुसंधेयः यथा दृश्यानां भेदः अबाधितप्रतिपत्तिबलात् सिद्धः, तथा दर्शनानां भेदोऽपि तादृशप्रतिपत्त्यैव सिद्ध इति । अथौपाधिक एवायं भेदोऽस्तु इत्याशङ्कय, तत्परिहारायोक्तम्, “छेद्यभेदात् छेदन भेदवत् ’ इति यदि दर्शनरूप क्रियाया भेद औपाधिक इति क्रियानित्यत्वैकत्वादि, तर्हि छेदनक्रियानित्यत्वैकत्वाद्यपि आपाद्यते इति तदाशयः । अन्योऽप्याशयः कश्चितु मन्यते अनुमित्यादयः संविदः स्युर्नाम । दर्शनरूपाः संविदस्तु न भिद्यन्ते । एकसन्मात्रविषयकत्वादिति । तं प्रत्याह-पूर्व ‘घटोऽस्ति पटोऽस्तीति प्रतीतिषु दृश्यभेदानां विषयत्वं स्थापितम् । यदि तु सन्मात्रविषयकत्वमेव दर्शनानां प्रत्यक्षरूपाणामिति स्यात्, तर्हि दर्शनं सर्वमेकमेवेति शङ्कयेतापि । अबाधातु घटादिप्रतिनियतविषयकत्वमप्यस्तीत्युक्तमेव । तस्मात्, ‘एकमात्र विषयकत्वात् सर्वे दर्शनमेकम् उपाधिरूपविषयाणामेवाभावादुपाधिकृतोऽपि भेदो नास्तीति न वक्तुं शक्यमिति । अलेदमप्युक्तं भवति चक्षुरादीनां रूपरसादिप्रतिनियत विषयग्राहितयैव सिद्धत्वात् अन्यथा तत्कल्पने

५७१ प्रमाणाभावात् विभिन्नेन्द्रियमात्रमायाकारवत्तया वस्तूनां भेदस्य प्राकू समर्थितत्वात् ग्रहणवैलक्षण्यवर्णनमप्यन्तर्भूतमेवेति सिद्धं दर्शनानां भिन्नत्वम् । एवं दर्शन भेदे सिद्धे संविदैक्यस्य भग्नत्वात् अनुमितिशब्दबोधादीनामप्येवं भेदो वेदितव्य इति ।

यत्तु -घटपटादिविषयभेदेनैव दर्शनभेदे स्वीक्रियामाणे एकघटदर्शनस्य सर्वघटविषयकत्वापत्तिरित्ति—तन्त्र —— घटभेदेन दर्शनभेदो नास्तीत्यनुक्तेः । घटपटरूपविषयभेदेन दर्शनभेद इत्यस्याप्यनुक्तेः । दर्शनपदेन ज्ञानसंकोच विकासरूपार्थविवक्षायां दर्शनभेदो न सिद्धयेदित्यपि वर्तम् । तद्विवक्षायां भेदस्यैव सिद्धेः । यद्विषयसंबन्धोपयोगी यः परिणामः सः, तदन्यविषयसंबन्धोपयोगी परिणामश्च सावयवद्रव्ये अवयवभेदेन जायमानः घटदर्शनपटदर्शनयोः भेदमेव साधयन् श्रीमाप्य सम्यगेव हि संगमयेत् ॥ यत्तु -विषयासंबद्धानां दर्शनानामिति लेखनम् तन्न विषयेण संयोगसंबन्धस्येष्टत्वात् ॥ यस्तु क्रियायामनेक कारकसंबन्धो दृष्ट इति सत्यमेतत् । अनेककर्मकारकसंबन्धो भेदं साधयति यथा ग्रामगमनं सागरगमनञ्च भिन्नम्, तथेति । वस्तुतः शतदूषण्यां दृश्यभेदेत्यस्यार्थो विवक्षितो वर्णित एवेति किमनेन विस्तरेण ? एतदुक्तं भवति देवतानां हविरुद्देश्यत्वत् दंपत्योः यागकर्तृत्ववच्चस्थितं व्यासज्यवृत्तिकर्मकारकत्वं यत्र भिनम्, तत्र दर्शनमेदः । दर्शनं जातं निर्विषयमवतिष्ठते । क्रमेण विषयैः संवनातीत्यनुभवविरुद्धम् । अत एव विरम्यव्यापारायोगात् विषयसंबद्धमेव ज्ञानं यावत्सत्तमिति तान्त्रिकाः । तत्रकदा यावत् विषयीकरोति तावन्निष्ठ कर्मत्वमेकम् । ग्रहणात्मकविषयतायाः कालभेदेन भिन्नत्वात् तत्कालावच्छिन्नविषयतारूपग्रहणनिरूपकं दर्शनं तत्कालानवच्छिन्नविषयता रूपग्रहणनिरूपक दर्शनाद्भिन्नम् । दर्शनैक्ये विरम्यव्यापारायोगात् पूर्वमेव पश्चाज्ज्ञातस्यापि विषयस्य गृहीतत्वप्रसङ्गादितिः एवञ्च कालभेदप्रयुक्तविषयता भेदप्रयुक्तत्वात् दर्शनभेदस्य एकेन दर्शनेन युगपदनेकग्रहणे वा ५७२

एकस्य विषयस्य कालभेदेन दर्शनभेदेन ग्रहणेऽपि वा न कश्चिद्दोष इति ध्येयम् ।

भवता तु, आत्मभूताया निर्विशेषायाः संविद एवैकत्वम् इष्यते, लौकिक-संविदः पुनर् भिन्ना एवेति क्रिया-समभिहारेण वदता तद्व् याहतम् एवात्र,

‘लौकिकसंविदाम् ऐक्यम् एव । भेदस् त्वौपाधिको पारमार्थिकः’

इत्य् उच्यते ; अनुमान-दुषणान्य् अपरिहृत्य च स्व-सिद्धान्तोपन्यास-मात्रेणोपरम्यत इति किम् अनेन ? ।

1 यदि दृश्यमेदेन दर्शनभेदे अनेक कर्मकारकसंवद्धस्य संविद्रूपेश्वरतत्त्वस्यानेकत्वापत्तिरिति शास्त्रं व्याकुलितं स्यादिति कथ्यते ? तर्हि ईश्वरतत्त्व सकर्मकं न भवतीतीष्यताम् । एवं भवदुक्तिश्च एकस्याः संविदः अनेकोपाधिसंबन्धो न युक्त इत्यभिप्राथिका भवत्सिद्धान्तनिरा सिकैवेत्यपि भाव्यम् ॥

गभीर-भाष्यार्थ-विचार-धोरणीं सु-विस्तृताम् अप्रतिपद्य यः पुनः ।
व्याख्या-कृद्-उत्थापित-पूर्व-पक्ष-वाग्-
अंशानुवादो न स वाद-खण्डकः ॥

शुभमस्तु
श्रीः