स्वरूपतः खभावाद्वा विकृतानामपीश्वरः । नित्याविकृतचित्तेड्यो निर्विकारः परोऽस्तु नः ॥ ब्रह्मरूपा याऽनुभूतिः सैकैव लौकिकनानानुभूतिरूपेण स्फुरतीति लौकिकानुभूतीनामेव तत्रैक्यस्थापनकामनया अनुसन्नत्वनिर्विकारत्वादिकमद्वैतिनः प्राञ्चः प्रतिपादयामासुः । अन्यथा वेदान्तवेद्यस्य ब्रह्मणोऽनुत्पन्नत्वनिर्विकारत्वादेर्वेदान्तत एव सिद्धेरनुमानानपेक्षणात् । एवं स्थितेऽस्मदुक्तदूषणगणान्मोचन-मार्गमलभमा नया शतभूषण्या लौकिकानुभूति पक्षकत्वपक्षपरित्यागेन ब्रह्मरूपानुभूतिपक्षकत्वमेवाद्रियते ; सिद्धसाधनमपि भूषणं मन्यते । तत्र दृष्टान्तविधया निर्दिष्ट संविन्निर्विकारत्व भङ्ग-प्रसाधनम् 1 1 ५५३ । मनुमानान्तरं यत्, ब्रह्म निर्विकारं विकारात्मना विवर्तमानत्वात् यथा रजतात्मना विवर्तमानमिदं रजतशून्यमिति—तन्त्र समीचीनम् । ब्रह्मण्यप्यनन्तविकारसद्भावस्यात्रैव वादेऽन्ते शतदूपण्यां दर्शित्वात् । परं तु ते विकारा नापुरुषार्थभूता इति विशेषः । दृष्टान्तश्च साध्यविकलः; रजतात्मना विवर्तमानायां शुक्तौ तदीयनानाविकारसद्भावस्य सर्वसंमतत्वात् । सर्वथा निरतिशयत्वे विवर्तकारणत्वायोगेन तदुचितसहकारिसमावेशस्य स्वीकार्यतया तत एव सविकारत्वाच्च स्वविवर्तरहितत्वसाधने च विरोधः विवर्तमानत्वे सति विवर्तराहित्यायोगात् । विवर्तभूतविकारराहित्यसत्त्वे व सिद्धसाधनम् । अन्यादृशविकारशङ्कातङ्कशमनाविद्धिश्च । वृधिकात्मना विवर्तमाने गोमये विवर्तविकारस्यापि सद्भावेन व्यभिचारश्च । स्पष्टमिड, “दृश्यते तु” इति सूत्रे । हेतौ च विकारात्मनेति दलं व्यर्थम् । गोमचवृधिकादिस्थल एवं लोके विवर्तप्रसिद्धया शुक्तिरजतादौ तदप्रसिद्धया तादृशान्तोत्तय योगश्च । अतश्च विमानत्वं विवर्तभूतविकारसाधकमेवेति हेतोर्विरुद्धत्वमेव । एवमनुभूति निर्विकारा अनुत्पन्नत्वादिति प्रकृतेऽनुमानेऽपि पूर्वोक्तदोषा यथायथ भाव्याः ॥ यत्तु अविद्यायामनुत्पन्नत्वरूप हे नुसत्त्वेऽपि न व्यभिचारः निर्विकारत्वरूपसाध्यस्यापि तत्र सत्वात् । परिणातिनामविद्यायां वसमानसत्ताका नेकविकारसत्त्वेऽपि अविद्यानिवृत्तौ तेषां विकाराणानपि निवृत्त्या निर्विकारत्वस्याक्षतेरिति तन्न –अविद्यानिवृत्तेः प्राक् विकाराणां निवृत्त्यभावात् विकारनिवृत्तिकाले अविद्याया अपि निवृत्ततया धर्म्यभावेन तत्र विकारराहित्योपपादनायोगात् । “अविद्याप्रयुक्तानां विकाराणां अविद्यायाश्च युगपदेव निवृतिः " इति भवतैवोक्तत्वात् । अविद्यानिवृत्त्यनन्तरं विकारनिवृत्तिरिति पक्षस्यापि कतिपयेsपि विकारनिवृत्त्यनन्तरं अविद्यानिवृतिरित्यस्य सर्वचैवानभ्युपगमाच्च । शुद्धचिति विकारराहित्यस्य निर्विवादतथा अविद्याशालायां चित्येव निर्विकारत्वं साध्यते । तत्र विशेषणीभूतत्वादविद्यायाः पक्षकोटिनि वेशात् तत्र व्यभिचारापादनं न भवतीत्युक्तावपि बाधः स्फुटः । अविद्यायाः सविकारत्वम्य 70 ५५४
निर्विवादत्वात् । अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगीति पटकारणतन्तावेव पटाभावानुमानवत् अविद्यायां विकाराभावानुमानं सुवचमित्यपि न । तन्तौ पटाभावानुमानासंभवस्य प्रागेव दृश्यत्वानुमान-भङ्गे दर्शितत्वात् । विकाररूपप्रतियोग्यधिकरणे विकारात्यन्ताभावस्य दुर्घटत्वात् । भावाभावयोर्विरोधात् । अविरोधे तु अद्वितीयत्वज्ञानेन सद्वितीयत्वाज्ञानं बाध्यमेव न भवेदिति ब्रह्मेतरस्य मिथ्यात्वमेव न सेत्स्यति ॥ यत्तु –अविद्यायाः पक्षकोटिप्रवेशाभावेऽपि न दोषः, अनुभूतिर्निर्विकारा, अनुत्पन्नत्वादित्यत्रानुत्पन्नत्वं धर्मिविषमसत्ताकमेव हेतुतया विवक्षितमिति अनुत्पन्नत्वमुत्पत्त्यभावः ब्रह्मणि वर्तमानः ब्रह्मसमानसत्ताक एव । परमार्थनिष्ठस्यापरमार्थप्रतियोगि काभावस्यापि परमार्थताया एव युक्तत्वात् । शुक्तौ शुक्तिरजताभावस्य तथा विधत्वं ह्यनुभूयते । अतो विषयसत्ताकमनुत्पन्नत्वमसिद्धम् । स्वविषमसत्ता कत्वमुत्पत्तिविशेषणं कृत्वा तादृशोत्पत्त्यभावात् निर्विकारत्वं साध्यते चेत् तदा ब्रह्मोत्पद्यते, अविद्योत्पद्यते इति भ्रान्तिसिद्ध। निर्वचनीयोत्पत्तिमत्त्वस्योभयत्राक्षतत्वात् स्वविषमसत्ताकोत्पत्तिरराहित्यमसिद्धं स्यात् । समसत्ताकोत्पत्तिराहित्यविवक्षायां ब्रह्मसमसत्ताकोत्पत्त्यप्रसिद्धया हेत्वसिद्धिः । स्वसमसत्ताकस्वोन्पत्तिकं यत्, तद्भिन्नत्वं हेतुः स्वपदेन घटादिग्रहणेन ब्रह्मणि सवन्वय इति चेत् — अविद्याया उत्पत्त्यभावेन स्वपदग्राह्यत्वायोगात् तत्र व्यभिचारस्तदवस्थः । अथानुपन्नत्वादिति हेतुप्रयोगो न युक्त एव । अथापि अविद्यायाः स्वयमुत्पन्नत्वाभावेऽपि तत्राकाशादीनामुत्पत्त्या उत्पत्तिरूपावस्था यत्वं तत्राक्षतम् । तथा च खसमानसत्ताकोत्पत्तिरूपावस्थाकं यत्, तद्भिन्नत्वं हेतुरिति न दोष इति चेत् — समानसत्ताकेति व्यर्थम् । यत्किञ्चिदुत्पत्तिरूपावस्था विशिष्टभिन्नत्वस्यैव पर्याप्तत्वात् । अस्तु तथैवेति चेत् -अन्यतरासिद्धो हेतुः । ब्रह्मण आरम्भणाधिकरणन्यायेन कार्यत्वस्य संप्रतिपन्नतया विशिष्टाद्वैतिभिस्तस्येष्टतया च सोत्पत्तिकभिन्नत्वस्यायोगात् ॥ यत्तु –साध्यभूत निर्विकारत्वघटक विकार शब्देनोत्तरावधिविवक्षायामविद्यायां व्यभिचारः, अनत्पन्नायां तस्यां बाध्यायामुत्तरावधिराहित्याभावादित्येत संविनिर्विकारत्व भङ्ग-प्रसाधनम् ५५५ तदभाव एव त्समाधानाय विशेषणदानम् खसमानसत्ताकोत्तरावर्धियः साध्यते । अविद्यानिवृत्तेर निर्वचनीयत्वानङ्गीकारात् स्वसमानसत्ताकोत्तरावधिर्नास्ति । अतः साध्यस्यापि सद्भावान्न दोष इति -तन्न -ब्रह्मसमानसत्ताकोत्तरावध्यसिद्धया साधनायोगात् । स्वसमानसत्ताकोत्तरावधिकं यत्, तद्भिन्नत्वं साध्यमिति चेत् स्वपदेन शुक्तिरजतादिग्रहणमपिं न स्थात् । तदीयोत्तरावधेः रजतादिनिवृत्तेः रजतादिसमानसत्ताकत्वाभावात् । सत्यम्, अथापि घटा । दिकमेव गृहीत्वा समन्वयः, उत्तरावधिर्हि नाशो निवृत्तिश्च । तत्र घटादीनां निवृत्ते लेकेि प्रसिद्ध्यभावेऽपि नाशप्रसिद्ध्या, तस्य च समानसत्ताकत्वाददोषादिति चेत्–न-पश्चान्निवर्तमाने शुक्तिरजतादावपि साध्यसत्त्वेन ब्रह्मणि शुक्तिरजततुल्यत्वशङ्कया निवृत्तिमत्त्वबुद्धेर निवृत्ततया निर्विकारत्वसाधनप्रयोज नविरहात् । नाशाप्रतियोगित्वस्यैव साक्षात् साध्यत्वसंभवेन ईदृशवकरीत्यवलबम्नस्य व्यर्थत्वाच्च । एवञ्च शून्यवादिनः ब्रह्मणो बाधं ब्रुवतः एतदनुमानमप्रतिकूलं स्यात् । यत्तु ——प्रागभावे व्यभिचारवारणाय हेतौं भावत्वे सतीति निवेशे तेनैवाविद्यायामन्यनैकान्त्यं वार्यते । तत्त्वदीपिकाग्रन्थे भावभावा विलक्षणत्वस्याविद्यायामुक्तत्वादि तन्न भावत्वाभावत्वयोर्मिथो विरोधात् ज्ञानाभावरूपाज्ञानमुपेक्ष्य भावरूपज्ञानस्यैव प्राचीनोक्ततया तद्विरोधाच्च भावाभाववैलक्षण्योतघयोगात् । " परस्परविरोधे च न प्रकारान्तरस्थितिः” इति न्यायेन भावत्वाभावत्वान्यतरस्यावश्यकत्वात् । अन्यथा भवता स्वच्छन्देन उत्पन्नानुत्पन्नोभयविलक्षणत्वस्याविद्यायां स्वीकारादव्यभिचार इत्य् अपि सुवचत्वात् । अज्ञानस्य भावाभावविलक्षणत्वे तत्परिणाम भूतप्रपञ्चस्यापि तथात्वस्यावश्यकतया भावत्वस्य ब्रह्ममात्रे पर्यवसानात् तावन्मात्रस्य हेतुत्वसंभवेन अनुत्पन्नत्वरूपप्रथम हेतोः परित्यागप्रसङ्गाच्च । तथा च " तर्क कुशलताऽऽविष्कृता भवतीति श्रीभाष्योक्तं सुप्रतिष्ठितम् । अविद्यायां व्यभिचारवारणाय पारमार्थिक विकारराहित्यस्य साध्यतया स्वीकारे पारमार्थिकविका सिद्धया उद्भावितायाः परिहाराय पारमकर्थि ५५६
त्वं स्वसमान सत्ताकत्वम्, तथा च न कश्चिद्दोष इति क्रियमागो विस्तरः सर्वथैवानन्वित इति त्वयमेव परिशीयताम् । रूपानुभूतिमेव पक्षीकृत्य तत्र निर्विकारत्वसाधनेऽपि तत्र, “आनन्दो विषयानुभयो नित्यत्वञ्चेति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् मिवावभासन्ते" इति पञ्चतन्तात् तात् धर्मानादायापि सविकारत्वान्निर्विकार बाधितम् । अनारोपित विकारराहिलं साध्यमिति चेत् तादृशविकाराप्रसिद्धि दोषस्तदवस्थः । एवं मिथ्यामूतानन्तविकाराश्रयत्वादपि बाधितत्वम् । " यत् यत् उत्पन्नम्, तत् तत् समसत्ताकविकारवन् यथा घटादि" इति व्यतिरेकव्याप्तिप्रदर्शनचायुक्तम् । यत् साध्याभाववत् तत् हेत्वभाववत् इति हि व्यतिरेकव्याप्तिमदर्शननिष्कर्षः । तहि भवन्मते ब्रह्मणि निर्विकारत्वानुमानं कथमिति चेत् न वयमनुमानेन निर्विकारत्वं सिषाधयिषामः । यत्पुनः अद्वैतिनः ईश्वरतत्त्वं प्रकृतिविक्तं निर्विकारमेव मन्यन्त इति तन्न -अद्वैतमते सार्वश्य सर्वशक्तित्वादीनामपि मिथ्याभूतविकारतया तावदाश्रयस्येश्वरतत्त्वस्य निर्विकारत्वा वेगात् । ईश्वरस्य सविकारत्वेऽपि तत्तत्त्वं निकृष्टं निर्विकारमेवेति चेत्-ईश्वरेति किम्; जीवसाधारण्यादेतदर्थस्य । यच्चालोच्यमानम्, “प्रकृतित्रियुक्तस्य चिन्मात्रस्य कथं सत्येन जगता संबन्धः श्री भाष्यमते " इति—–तत्र चिन्मात्रमितिपदेन यदि निर्गुगचैतन्यखरूपात्मविवक्षा, तर्हि तस्याभावादेव न संबन्ध आलोचनीयः । यदि मात्रपदस्य अंशतोऽपि जडत्ववारकत्वमात्रविवक्षया सगुणचैतन्यरूपात्मपरत्वम्, तथा किं जीवपरत्वमुत परमात्मपरत्वम् आये भोग्यभोक्तृभावप्रकारा एव संबन्धाः प्रसिद्धाः । अन्त्ये चाधाराचे प्रभावनिष्यनियामकभावादयोऽनन्ता इति किमत्र गवेषणीयम् ? प्रकृतेरात्मनाञ्च पारमार्थिकतया न संबन्धे काचिदनुपपत्तिरस्ति । यत्पुनः -चिदचिच्छरीरविशिष्टस्य परमात्मन उपादानत्ववर्णनात् चिदचिद्गतक्लेशजन्मादिविकारजालवत्त्वमपि परमात्मन्युच्यतामिति -तन्न –स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः “ इति (१-२-७०) श्रीविष्णुपुराणोक्तरित्या " संविनिर्विकारत्व-भङ्ग-प्रसाधनम् ५५७ परमात्मनः सृज्यपाल्य संहार्यजगदभेदस्यापि स्वीकारात् कार्यकारणयोरनन्यत्वास्यारम्भणाधिकरणेऽपि स्थापितत्वाच्च विशिष्टत्रह्मण्युपादानोपादेयभावस्य, विशेषणमात्रे क्लेशजन्मादिविकारस्य विशेष्ये ब्रह्मणि नियन्तृत्वलीलारसानुभवितृत्वादेश्च व्यवस्थया सिद्धौ भवदुक्तदोषप्रसत्तप्रभावात् । विशेषणांशमात्रे उपादानोपादेयभावं विशेष्यांशं वेदान्तादविद्वांसः कामं वर्णयन्तु । वेदान्ताधिगतव्युत्पत्तयस्तु विशिष्टे उपादानत्वमुपपादयन्ति । तत्र प्रकृतिगतमुपादानत्वं ब्रह्मण्यस्तीत्युच्यत इति कथम् ? किञ्च शब्दार्थनिष्कर्षः शास्त्रलोकव्यवहाराधीनः, न खच्छन्द्रकल्प्यः । तत्र क्लेशकर्माद्यशेषदोषासंस्पृष्टत्वेन प्रसिद्धे परमात्मनि जीवादिगतक्लेशाद्याश्रवत्वं न शक्यमापादवितुम् । अत एव न तथा व्यवहारोऽपि । उपादानत्वव्यवहारस्तु स्फुटमुनिपत्युपलभ्यमानः इति उपादानशब्दस्यार्थे परिशीच्यमाने साक्षादाश्रयत्व –आश्रयाश्रयत्वान्यतरसंबन्धेन स्थूलावस्थापूर्वभाव्यवस्था विशिष्टत्वमेवोगदानत्यमिति निर्णीयते । यथा भावत्वं सत्ताविशिष्टत्वं द्रव्यगुणकरी सामान्यविशेपसमवायेषु व्यवह्नियमाणत्या समवायसामानाधिकरण्यान्य तर संबन्धेन सत्ताविशिष्टत्वरूपं तार्किकैरिष्यते । यत्र यदाश्रयत्वग्राह्कप्रमाणमस्ति तत्रैवान्तरालिकपदार्थानां तदव्यवधायकत्वम् । अत एव प्रासादे शेते, पर्यके शेते, वेद्यां हवप्यासादयति, बर्हिपि हवींष्यासादयति, इत्यादीनामान्तरालिकानां पर्यङ्कबर्हिरदीनामव्यवधायकत्वम् " इति चोक्तं भावप्रकाशिकायाम् । ब्रह्मण्येव मुख्यमुपादानत्वम्, न तु चेतनाचेतनयोः, कार्यकारणावस्थे च ब्रह्मगते एवोपादानोपादेयव्यवहारनिवामिके शास्त्रसिद्धे । अतो न विशेषणगतावस्थामादाय विशिष्टव्यवहारकल्पनस्यावश्यकता इत्यादिकमप्युपादानत्वशोधनावसरे व्युत्पादयिष्याम इति किमत्र प्रासनिकविस्तरेण । 66 अद्वैतमत एव तु ब्रह्मण्युपादानत गौणं गौणतरं गौणतमं वा असंभाविततथाविधमपि वा । उपादानोपादेययोरैक्यं हि सत्कार्यवादिभिर्वेदान्तिभिः संप्रतिपन्नं स्वीकर्तव्यम् । न चोपादेयभूतेन जगता मिथ्या ५५८
भूतेन उपादानत्वाभिमतस्य ब्रह्मण ऐक्यमस्ति । बाधार्थ सामानाधिकरण्यस्थैवैक्यश्रुतिषु भवदिष्टत्वात् । अतोऽविद्यानिष्ठमुपादानत्वं ब्रह्मणि गौणम् । तदपि अविद्यागतकार्य पूर्वावस्था सजातीय कार्यपूर्वावस्थामात्र निबन्धनं चेत्, युज्येत । तद्विहाय पूर्वावस्थाश्रयः विद्याक्रान्तत्वनिबन्धनमित्युक्त्तया मुख्यपदार्थवृत्ति गुण सजत्तीयगुणवत्त्वे सत्येव गौणत्वस्य वर्णनीयतया कार्यपूर्व भावित्वरूपगुणतुल्यरूपं परित्यज्या विद्याब्रह्मणोर्यः तिरोधायकतिरोधेयभावः संबन्धः, तत्संबन्धित्वमुभयगतं गुणमादायोपादानवाचोयुक्तिब्रह्मणि निरूपणीयेति गौणतरम् । संबन्धस्य तिरोधायकत्वतिरोधेयत्वरूपभिन्नधर्मघटिततया एकरूपसंबन्धित्वाभावाच्च गौणतमम् । सोऽपि गुणः परमार्थतो नास्ति निर्विशेषे ब्रह्मगीति चासंभावितमेवेत्यन्यत्र विस्तृणुयाम ॥ 1 सशरीरत्वस्य नित्यमङ्गलत्वादिकस्य च मम माता बन्ध्येतिवत् मिथो व्याहतिरिति यदुक्तम्तत् खसिद्धान्तविरुद्धम् । भगवतो रघुनाथाद्यवतारेध्वपि दुःखाद्यभिनयमात्रमिति सशरीरस्यैव भगवतः सर्वदैव मङ्गलत्वस्य सिद्धान्तलेशसङ्गहाद्युक्तस्य प्रागेव प्रदर्शितत्वात् ; स एकधा भवति " इत्यादिना नान. शरीरपरिग्रहस्य, तथात्वेऽपि, " .. न रोगं नोत दुःखताम् " इति मङ्गलत्वस्य च मुक्तेष्वपि श्रुत्या वर्णितत्वेन श्रुतिविरोधेऽनुमानस्यानुदयाच्च । निर्गुणे ब्रह्मणि नित्यमङ्गलत्वादिकं पुष्कलमिति कथं तत्रभवन्तः प्रतियन्तीति च खयमेव विमृश्यम् ॥ निखिलजगन्निदानमनवद्यगुणैकनिधि निजचरणश्रितेषु निरपायदयाप्रसरम् । निरुपधिसाम्यसौम्यतमरम्यरमानिलयं निजकुलदैवमेव हृदयं मम भावयतु । शुभमस्तु ॥ श्रीः