श्रवणमनन चिन्ताध्यान संदर्शनादि प्रतिकलभव संविद्वेद्य धीमोदरूप । । जनिमदजनिनानाका र विज्ञानधर्मा जनयतु निरवद्यां संविदं नः स देवः ॥ अनुभूतिर्नोत्पद्यत इति अद्वैतिपक्षप्रतिक्षेपिणं संविदनुत्पत्तिवादं परीक्षमाणा शतभूषणी दृष्टिसृष्टिवादं विस्तरेण प्रस्तौति । दृष्टिसृष्टिवादं च चण्डमारुत उपक्षिप्य, अत्राहुरित्यारभ्य तत्खण्डनमनूद्य तदुपरि केनचित् कृतं समाधानमपि तथा प्रतिचिक्षेप यथा तत्खण्डनखण्डनमा नुपूर्व्येणाद्वैत सिद्धिकृतमपि प्रतिक्षिप्तमेव भवेत् । तस्यास्य दृष्टिसृष्टिवादस्यात्र विस्तरस्तावद स्थाने । विवक्षितं त्वन्ततः शतभूषण्या एतावदेव यत् वृत्तिरूपाः संविद उत्पद्यन्त इति वयमपि वदामः, शुद्धं तु चैतन्यमन्यदेकं नोत्पद्यत इति । तत्र तस्याः संविदः श्रुतिसिद्धत्वे अनुपत्त्यनुमानप्रस्तावो वृथा । श्रुतिनिरूपणाशक्तथा अनुभूयमानानां लौकिकीनां संविदा मेवानुत्पत्तिं प्रसाध्य तासां संविदनुत्पत्ति-भङ्ग-प्रसाधनम् ५४१ संविदां लाघवादैक्यमेवेति निरूपणे तु संविदनुत्पत्तिदूषणवादोऽयम् अनुमानस्यबाधितत्वादि प्रस्तौतीति सारभूतः समाधिः । एतावति पर्याप्तेऽपि अत्रान्य दपि किञ्चिदभिधाय प्रस्तुतात् विषयान् किञ्चिद्विशेम । अवच्छेदकावच्छेदेन ब्रह्मभूताया अनुभूतेः पक्षत्वे तस्याः अनुत्पन्नत्वनिर्विकारत्वनानात्वादेः प्रायोऽङ्गीकारसंभवादनावश्यकत्वेन, भवतां कतिपयशतदूषणीवादपरीक्षणोपेक्षणवत् एषां वादानामप्युपेक्षणमेव युक्तम् । अपिच ब्रह्मणः परं पक्षत्वे अनुभूतिरिति निर्देशो न युज्यते । अनुभूतेर्ज्ञानापरपर्यायतया तार्किकादिसंमतज्ञानानामपि पक्षको टिप्रवेशात् एकदेशवाधात् । साधनपक्ष परित्यज्य सामानाधिकरण्येन साधने इप्यमाणेऽपि हेतोरनुभूतित्वस्य तार्किक संमतानुभूतिष्वपि सत्त्वादनेकान्तः । वृत्तिभिन्नानुमतित्वविवक्षायामपि तार्किकादिभिः सर्वासामनुभूतीनां मनोवृत्तिभिन्नत्वस्येष्टतया स एव दोषः । वृत्त्यवच्छिन्नचैतन्यमनुभू तिपदविवक्षितं चेत् चैतन्य वृत्त्या कयाचिदवच्छिद्यते इत्यस्य प्रतिवादिभिरस्वीकृतत्वात् आश्रयासिद्धित्वप्रसिद्धिश्च । अतो ब्रह्मात्मकानुभूतेरप्रसिद्धतया तदग्रहेण लौकिकानुभूतीरेव गृहीत्वा तासु प्रतीयमानमुत्पत्तिविकारनानात्वादिकं युक्तिभिर्निरस्य तस्या एकत्वं प्रसाध्य सैव ब्रह्मेति वक्तव्यमित्येव प्राचीनाद्वैतिनिरूपणसरणिः । अतः शतभूषण्याशयोऽत्र न परीक्षकसमत इति ॥ यत् प्रथममुक्तम् । जगन्मिथ्यात्वं प्रतिकर्मव्यवस्थया दृष्टिसृष्टिवादेन च द्वेधा निरूप्यत इति तत्र प्रतिकर्मव्यवस्था न मिथ्यात्वसाधिका । प्रतिकर्मव्यवस्था हि नाम, प्रतिनियतकर्मकारकव्यवस्था । इदमस्य ज्ञानकर्मीभवति, न सर्वमिति नियमः । सेयं प्रतीतिमात्रशरीरत्वरूपमिथ्यात्वपक्षे नोपपद्यत इति शङ्कायां प्रतिकर्मव्यवस्थानुपपत्तिपरिहारमात्रे किल प्रयत्यते ; न तु प्रतिकर्मव्यवस्थया मिथ्यात्वं साध्यत इति स्पष्टमद्वैत सिद्धौ । दृष्टिसृष्टिवादे च दृष्टेः प्राक वस्त्वभावात् प्रागपि वस्तुस्थितिमुपजीव्य प्रवृत्त ५४२ परमार्थ भूषणे प्रतिकर्मव्यवस्थापक्ष-भङ्ग इत्याशङ्कय प्रतिकर्मव्यवस्थोक्तिर्मन्दाधिकारिविष "" यिणीत्युक्तम् । अयं भावः यथा योगाचाररूपबौद्धपक्षं यथावत् ग्रहीतुमक्षमान् सौत्रान्तिकवैभाषिकप्रायमन्दाधिकारिणः प्रति अनुमेयतया बाह्यपदार्थास्तित्वं बुद्धेनोपदिष्टम्, तथा दृष्टिसृष्टिवादेऽस्मिन् अतृप्तान् मन्दान् प्रति प्रतिकर्मव्यवस्था काचिद द्वैतिभिरुपदिष्टेति । परन्त्विमं दृष्टिसृष्टिपक्षम्, जीव ईशो विशुद्धा चित् तथा जीवेशयोर्मिंदा । अविद्या तच्चितोर्योगः षडस्माकमनादयः इति ‘अनादित्वेनाद्वैति संमतपदार्थषट्कव्यतिरिक्तविषयतया समर्थयतेऽद्वैतसिद्धिः । इदममि किञ्चिन्मन्दाधिकारिविषयमिति युक्तमद्वैतिभिरध्यवसातुम् । सिद्धान्तलेश सङग्रह एवानाद्यविद्यादिविषयेऽपि दृष्टिसृष्टिवादमुपन्यस्यानादिव्यतिरिक्तमात्रविषयकतया पक्षान्तरमुक्तम् । पूर्वत्रारुचेरेव पक्षान्तरोक्तिरिति चेत्यदि पक्षान्तरप्रारम्भमात्रेग पूर्वत्रारुचिरिष्यते, तर्हि दृष्टिसृष्टिवाद द्वेधा, दृष्टिसमसमयपदार्थसृष्टिः, दृष्टिरेव सृष्टिरित्येवं प्रदर्श " द्विविधेऽपि दृष्टिसृष्टिवादे मनः प्रत्ययमलमनानाः " इति तं वादं प्रत्येतुमनहं मुक्तकण्ठमुक्ता सृष्टदृष्टिवाद उपर्युपन्यस्त इति तत्रैव रुचियुज्यते । विचारणीयश्चेहापि मनागयं दृष्टिसृष्टिवादः । केयं दृष्टिः ? चैतन्यमात्रं चेत् दृष्टिः, तस्य नित्यतया तत्समानसत्ताकत्वात् सृष्टेः घटादीनां सदातनत्वापत्तिरिति स पक्षोऽद्वैत सिद्धावेव त्यक्तः । वृत्तिरेव दृष्टिरिति चेत्, घटादेः प्रपञ्चस्य वृत्तिरूपदृष्टिसृष्टित्ववत् वृत्तेरपि दृष्टिसृष्टित्वमङ्गीकार्यमिति वृत्तिविषयकवृत्त्यन्तरकल्पन वाऽनवस्थापत्तिः । वृत्त्युपहितचैतन्यं दृष्टिरित्युक्तावपि तद्धटकवृत्तेर्जडाया अनित्याया दृष्टिसृष्टित्वमेष्टव्यतिति तदवस्थ एव दोषः । न च वृत्तः चैतन्यभास्यत्वात् चैतन्यमेवादाय तत्र दृष्टिसृष्टित्वमिष्टमिति वाच्यम्चैतन्यभास्यत्वस्य घटपटादिसर्वसाधारणत्वात् । चैतन्यस्य सदातनतया पूर्ववत् वृत्तेरपि तत्समानसत्ताकतया सदातनत्वापत्तेश्च । तस्य तस्य दृष्टिसृष्टित्वं नाम तत्तद्विषयकवृत्त्युपहितचैतन्यरूपदृष्टिसृष्टिकत्वमित्येव वक्तव्यतया वृत्तौ वृत्तेर्विषयत्वाभावेन वृत्त्यन्तरस्य कल्पनीयतया अनवस्थाया अपरिहार्यत्वाच्च । संविदनुत्पत्ति-भङ्गप्रसाधन मूँ ५४३ अपिचेयं वृत्तिरन्तःकरणस्येति वक्तव्यम् । न चान्तःकरणमज्ञानवत् । अनादि । अतस्तस्य दृष्टिसृष्टित्वमिष्टं कथमुपपन्नम् ? न हि स्वपरिणामभूतवृत्तिरूपदृष्टिसृष्टित्वं स्वस्थ भवितुमर्हति । तद्वृतेः प्राक् तदसद्भावापत्त्या तद्वृत्तेरेव दुर्घटत्वाच्च । अन्तःकरणमज्ञानरूपेणावतिष्ठत इति चेत् — अन्तःकरणमिति किम् ? घटपटादिकं सर्वमपि जगदज्ञानरूपेणावतिष्ठत एव । तथा च दृष्टिसृष्टिरेव न स्यात् ॥ एवं किञ्चित्परिणामो वृतिरित्यपि दुर्वचम् । कार्यकारणभा वादेः कल्पनामात्रत्वादस्मिन् पक्षे । एवं कल्पकस्य द्रन्दुरभावे कल्पनाया एवानुदयात् कल्पक इष्टः कः ? न तावत् शुद्धचैतन्यमेव । अनिर्मोक्षप्रसङ्गात् । न च किञ्चिद्विशिष्टं तत् । तस्य किञ्चित्पदार्थस्यापि दृष्टिसृप्टेरेव वक्तव्यतया तद्रष्टुरन्यस्यापेक्षयाऽनवस्थानात् । न चोत्तरोत्तरकार्यस्य पूर्वपूर्व कारणायत्तत्वेन अनवस्थायाः सर्वसंमतत्वादिह । प्युत्तरोत्तरदृष्टिः पूर्वपूर्वदृष्टयधीनेति न दोष इति वाच्यम् — एवं तर्हि पूर्वविज्ञानाधीनमुत्तरविज्ञानमिति विज्ञानात्मवादियोगाचार मतप्रवेशापत्तेः । न च किञ्चित्पदेनाज्ञानमविद्या गृह्यते, तदनादित्वाच्च तन्मतवैलक्षण्यमिति वाच्यम् -शुक्तिरूप्यादीनां मिथ्याभूतानां प्रतीतिमात्रशरीरकत्वदर्शनात् तथैव जगतोऽपि मिथ्यात्वात्तदावश्यकतया किल दृष्टिसृष्टिवाद इष्टः । सा मिथ्यात्वयुक्तिरविद्यादिषु परं दृष्टिसृष्टिवादं कथं नानुमन्यताम् । अप्रतीयमानतादशायामपि तत्सत्त्वे हि मिथ्यात्वमेव न सिद्धयेत् । सत्यम् ; अनादित्व-भङ्गो मा भूदिति तत्र दृष्टिसृष्टिवादास्वीकार इति चेत् – युक्तौ सत्यामपि यदि स्वतन्त्र्येण तत्र नेष्यते, तर्हि युक्तिर्व्यभिचरितत्वादयुक्तिरेवेति प्रपश्चविषयेsपि दृष्टिसृष्टिवादो न स्यात् । तस्मात् अर्धजरतीयायोगात् ज्ञानेश्वरादीनामपि दृष्टिसृष्टित्वमेव । अनादित्वमपि काचित् दृष्टिसृष्टिरेवेति न तद्-भङ्गः । दृष्टिसृष्टिवादाभावपक्षेऽप्यनादित्वं हि कल्पितमेव । मिथ्याभूतस्य कल्पनाविषयत्वस्यावश्यकत्वात् । चन्द्रिकाकारस्तु वस्तुतस्तु ईशस्येव जीवेशभेदादेरपि स्थूलमनः परिणामत्वमेव सुषुप्त्यन्यकाल एव तस्य सृष्टेः" इति लिखन् अज्ञानातिरिक्त सर्वत्र दृष्टिसृष्टिवादमवतारयति । अज्ञानं तु सुषुप्तिप्रलययोर S 1
स्ति, अज्ञानसाक्षितया तदानीमात्मनोऽवस्थानादिति तदाशयः । तत्र न किदह मवेदिषमिति सुषुप्तिकालिकानुभवः कथञ्चित् स्यात्, न तु प्रलयकःलिकः । जन्मान्तरानुभूतानामपि विषये स्मरणाभावे स्थिते, प्रलये किञ्चिदनुभवस्य जातत्वेऽपि तत्स्मरण प्रसत्यभावाच्च (प्रलयेऽहमा समिति स्वस्थितेरेवानिश्चितत्वात् ) तदा न किञ्चिदहमवेदिषमिति निश्चयस्यानानुभविकस्वात् । शुक्तिरूप्यस्वम देखि सर्वस्यापि मिथ्याभूतस्य चैतन्यातिरिक्तकारणसापेक्ष कल्पनाविषयत्वस्यैव दर्शनेनाज्ञानस्यापि तथात्वस्यैव कल्पयितुं युक्ततया अनादित्वायोगाच्च । मलनकान्यापि दृष्टिसृष्टितयैव स्थितेर्वक्तव्यतया तदानों दृष्टिप्रसक्तयभावेन तत्कालस्यैवाभावेन तदाऽप्यज्ञानं स्थितमिति दुर्वचत्वाच्च । तस्मात् सबै कल्पनामात्रमित्येव स्यादिति बौद्धमतमेवेदम् । दृसृिष्टिवादोऽपि मन्दाधिकारिविषयो भवेत्, यदि शून्यवादी माध्यमिको मध्ये प्रविशेत् ॥ किश्च दृष्टिसृष्टिवादे प्रमाणम्ः “न तु तत् द्वितीयमस्ति ततोऽव्यद्विभक्तम्, यत् पश्येत्” इति श्रुत्या तत्र सुषुप्तौ सर्वनिषेधात् प्रतीत्यभावकालेऽपि वस्तुसत्त्वे तथा निषेधायोगात् दृष्टिकाले एव वस्तुसत्तेतिं चेत् तर्हि शरीरेन्द्रियतद्व्यापारतदवीनादृष्टतन्त्रियन्त्रीश्वरादिसर्वविलयः सुषुप्ताविति पुनर्जागरदृष्टिसृष्टिः कथम् ? अज्ञानमस्तीति चेत् तस्यापि द्वितीयान्तर्गततया तदभावोऽपि श्रुत्याऽवसीयते इति कथं तत् परं स्यात् । अज्ञानस्य साधारणत्वात् सूक्ष्मांशानाश्च दृष्टिसृष्टिवादे स्थित्ययोगाच्च सुप्तोत्थितेषु प्रतिनियतदृष्टिसृष्टिव्यवस्था दुर्घटा स्यात् । सुषुप्तौ नाहं किञ्चिदवेदिषमिति तादात्विकाज्ञानसाक्षित्वप्रतिसन्धानमपि काचित् दृष्टिसृष्टिरेवेति न तस्याज्ञानरूपविषयसाधकता स्यादिति ध्येयम् ॥ एवं दृष्टिसृष्टिपक्षे पूर्वापरकालस्वानुभूतस्त्रपरानुभूतवस्तुप्रत्यभिज्ञादिकः सर्वोऽपि लोकानुभवः सर्वथैवोपेक्षितः स्यात् । सिद्धयुक्तरीत्या स्वाप्नवत् सर्वं निरस्यत इति चेत् न खमे जागरवत् कार्यकारणनैयत्याद्यदर्श संविदनुत्पत्ति-भङ्ग-प्रसाधनम् ५४५ नस्य चण्डमारुत एवोक्तत्वात् । यथा कथञ्चिन्निर्वाहप्रदर्शनमात्रेण न तत्तन्मतप्रामाणिकत्वसिद्धिः । लाघव गौरवचिन्तया यत्र लाघवम्, तस्यैव पक्षस्य लोकानुभवानुकूलस्य सर्वसंमन्तव्यत्वात् । दृष्टिसृष्टिवादे दृष्टिकाल एव वस्तुसत्त्वादयदा नष्टत्वात् दृष्टिभेदेन च वस्तुभेदात् अन्तःकरणरूपाहमर्थस्य घटादिप्रमेयस्य च तदा तदा मिन्नतया दर्शनोपादानोपयोजनादीनां कर्तुरैक्य दृश्योपादेओपयोज्यैक्यञ्च न स्यादिति सर्वासिद्धिरिति ौद्ध प्रति शारीर कोक्त सर्वं दूषणमापतति । तहिं प्रतीतिमात्रका लिकत्वाभावे मिथ्यात्वं न स्यादिति चेत् मा भूत् । सृष्टदृष्टिवादे मिथ्याभूतशुक्तिरजतादिसाजात्यं न निर्वहतीति दृष्टिकारे तत्राप्यनौचित्ये एवं मनसि विपरिवर्तमाने मिथ्यात्वपक्षत्याग एव स्थाने । । किं परैस्तनिरसननकारस्यात्र प्रदर्शनेन । सिद्धान्तलेशसंग्रह एव स्वरूप व्याक्रियैव पराक्रियेति सरण्या दृष्टिसृष्टिवादस्याऽऽपातदृष्टिमूलतां प्रामाणिकदुष्परिग्रहतां च प्रतिपादयति । दृष्टिसृष्टिवादे, ‘आत्मन आकाशः संभूतः ’ इत्येवं सृष्टिक्रमप्रतिपादकश्रुतयः कदर्थिताः स्युरित्याक्षिप्य, अध्यारोपापवादाभ्यां निष्प्रपञ्चब्रह्मप्रतिपत्तिर्भवतीति तदुपायतया तदा तदा यः कोऽपि क्रमोऽव्यवस्थया श्रुतिषुच्यत इजि सर्वत्र न तात्पर्यमित्येव भाग्याद्युद्धोष इति वदन् हि श्रुतिविरोधं दर्शयत्येव । व्यर्थस्तर्हि शारीरके वियत्पादप्राणपादयोः तत्तत्सर्गक्रम समप्टिव्यन्टिनियमनप्रकारादिनिरूपणप्रयत्न इत्याशङ्कय च केवलं वाक्यार्थ विचारकौशलसंपत्त्यर्थन्यायव्युत्पादनमात्र सर्वम् ; न तु तत्तन्निरूपितं प्रमेयं तथैव स्वीकार्यमिति समाधानात् शारीरक विरोधोऽपि जागर्तीत्याविष्करोति । एवमिह फलाध्यायदशितजीवोत्क्रमणक्रमार्चिरादिक्रमसगुणब्रह्मानुभवप्रकाराणां निर्विशेषब्रह्मक्यप्राप्तिरूपमुख्यमोक्षकाङ्क्ष्यनुपयोगितया फलाध्यायत्यागे, तदपेक्षितभक्तिरूपोपायपरः तृतीयोऽप्यध्यायस्त्याज्यः, तादृशमक्तिगोचरस्य ब्रह्मणस्ततत्कारणवाक्यप्रतिपाद्यानन्तगुणविशिष्टत्वतद्दु धैर्यत्वप्रतिपादकौ प्राञ्चावप्यध्यायौ तत एव परित्याज्याविति स्थिते, तदुदाहृतश्रुतिस्मृतीतिहासपुराणादीनामपि तदुक्तार्थपर ५४६
तया सिद्धे समुपेक्षणीयत्वे बहिश्शास्त्रमेवाद्वैततत्त्वहितपुरुषार्थनिर्णय इति तावत् प्रागेव प्राज्ञैः प्रत्यपादि यत्, ततोऽधिकमेवाद्वैतेऽस्मिन् अविस्रम्भकारणमापतितम् ; यत एवं दृष्टिसृष्टिवाद एव मुख्याधिकारिग्राह्य इति मुष्टिग्रहेण शास्त्रप्रतिपादिततत्तदुपाय कालान्तरभावितत्फलत द्विचारग्रन्थकृतव्यवस्थादि सर्वं कल्पनामात्रम्, न किञ्चित् कस्यचित् कारणम् ; तृप्तिहेतुतया भोजनादिप्रवृत्तिरपि स्वामिकतुल्येति वैदिक वैदिक सर्वाविशेषपर्यवसायिन्या निरूपणसरण्या सर्वजन नियन्त्रणकारणेन सर्वमुत्पथं नीयते इत्यलमनेन ॥ सर्वथा अनुभूतिरनुत्पन्ना प्रागभावाभावाद्वितीदृशानुमानेनानुभूत्यनुत्पत्तिसाधनस्य दृष्टिसृष्टिवादसृष्टदृष्टिवाद सर्वसाधारण्यादत्र दृष्टिसृष्टिवादप्रपञ्चनं चण्डमारुतप्रासङ्गिकार्थदृप्टिसृष्टिमात्रमिति नातीवात्रोपयुज्यते । शतदूषण्युद्भावितानां दोषाणां क्रमेण परिहरणे प्रयत्ले कर्तव्ये तत्स्थाने विषयान्तरपूरणेन वादविस्तरमात्रत्वात् । अत्रानुत्पत्त्यनुमानेऽनुभूतिपदेन घटविषयकप्रत्यक्षादिरूपा संवित् गृह्यते, उत शुद्धसंविदिति विकल्प्य, आद्ये प्रत्यक्षसंविदोऽस्मदीयायाः अनादित्वे प्रत्यक्षस्य वर्तमानग्राहितया घटादेरप्यनादिताप्रसङ्गः । अन्त्ये चाश्रयासिद्धिः ? निर्विषय निराश्रयानुभूतेः कथमप्यसिद्धत्वादित्याह शतदूषणी । तत्र शुद्धसंवित्पक्षीकरणमेव भवदिष्टम् । तच्च इष्टसिद्ध्यादिग्रन्थगतिविरुद्धमपि । न च " अद्वैतमतं तु तत् निर्विषयमिति सर्वविदितमिदम् " इत्युक्तिमात्रेण भवन्मतसिद्धत्वमात्रेणाश्रयासिद्धिः परिहृता भवति । सुषुप्त्यादौ तादृशसंवित्प्रकाश इत्य् अपि दुर्वचम् ; तादृशप्रकाशप्रतिसन्धानादर्शनात् । नाहं किञ्चिदवेदिषमिति प्रतिसंघानं तु अहमर्थे अज्ञानाश्रयत्वं ग्राहयेत् न तु संविद्विशेषस्थितिम् । सुखमहमखासमिति प्रतिसन्धानमपि सुखरूपाहमर्थस्थितिं दर्शयेत् न तु संवित्स्थितिम् । एतद्बलादनुमाने च अहमर्थो नोत्पन्न इत्यनुमानप्रयोगे प्रयत्नः क्रियताम् ; न तु अनुभूतिरनुत्पन्नेति । तत्प्रतिसन्धानबलात् तदा सुखप्रकाशः अज्ञानप्रकाशश्च यद्यमिप्रेयते, तर्हि निर्विषयनिराश्रयप्रकाशस्फूर्तिस्तत्रेति कथं सिद्धयेत् ? तदा च सविषयसंवित्पक्षीकरणमेव ; संविदनुत्पत्ति-भङ्ग-प्रसाधनम् ५४७ पुनः कृतं स्यात् । तत्रापि ’ सुषुप्तेः प्रागूर्ध्व च तत्तद्वेदी जहं सुषुप्तौ न किञ्चित् अवेदिषम्’ इत्येव प्रतिसन्धानस्यानुभविकत्वात् अज्ञानविषयक संविदः प्रागूर्ध्वञ्चाभावस्य गृहीततया उत्तपत्तिविनाशोभयवत्त्वं निश्चितमिति अनुत्पत्त्यनुमानं कालातीतं स्यात् । पूर्वापरका लिकज्ञानविषयप्रापञ्चिकांशाज्ञानपरामर्शित्वाच्चास्य न प्रपञ्चप्रत्यनीकब्रह्मविषयका ज्ञानपरामर्शित्वं भवदिष्टं सिद्धचेदित्य पि विभाव्यम् । प्रतिसंधानञ्चेदं सुषुप्ताव हमर्थ समर्पकत्वात् भवन्मतं प्रतिकूलम् । कारणात्मना अहमर्थोऽस्तीति चेन्न कार्यात्मना स्वरूपेणाहमर्थस्थितेरेवात्र गृह्यमाणत्वात् । अन्यथा हि अज्ञानस्यैवाहमर्थकारण " J स्वरूपत्वात् न ज्ञानमित्येवाकारः स्यात् ; न तु नाहं किञ्चिदवेदिषमित्येवम् । अहमित्यात्मा गृह्यत इति चेत् तदेव ब्रूमः अहंरूपेणात्मग्रहणात् तद्रूप एव स तदाऽप्यस्तीति । दृष्टिसृष्टिवादे च सुषुप्तौ सर्वप्रपञ्चलयात् अहमर्थस्याप्यभावात् अनुपपन्नमेवेदं प्रतिसंधानम् ॥ ; एवं न किञ्चिदहमवेदिपमिति ज्ञानविशेषणतया अज्ञानविशेषणतया बा किञ्चिच्छब्देन विषयसमर्पणात् विषयविशिष्टाज्ञानप्रकाशस्यैव तदा वक्तव्यतया विषयप्रकाशे अज्ञानायोगात् विषयाप्रकाशे च विषयरूपविशेषणाग्रहेण तदज्ञानरूपविशिष्ट काशायोगात् अज्ञानप्रकाशस्तदा दुर्घटः । यदा च भावरूपान्यादृशाज्ञानमेवाप्रामाणिकम्, ज्ञानाभावश्च सुषुप्तौ स्थितोऽपि न गृह्यमाणः किन्तु पश्चादनुमीयमान इति प्राच्यबहुग्रन्थदर्शितं स्थास्यति -तदा दृष्टिसृष्टिवाद इवान्याद्वैतिवादेऽपि अज्ञानसाक्षित्वप्रसत्यभावात् सुषुप्तमुक्तयोरविशेष एव स्यात् । अस्मन्मते तद्दोषारोपणं तु गगनजम्बाललेप एव । मुक्तस्य सार्वश्यसर्वानुभावित्वादेरस्मदिष्टत्वात् । रात्मनोरविशेषं स्वीकारोति " इति च स्थवीयः । 66 शतदूषणी सुप्तमुक्तयो तत्र तत्प्रसक्त्यभावात् । निर्विशेषा संवित् पक्षीकर्तुं न शक्यते अप्रसिद्धत्वादित्येतदुपपादनायास्मन्मते स्वमात्रप्रकाशोऽप्यहमर्थः प्रत्यक्त्वानन्दत्वादिविशेषधर्मवत्तत्रैव प्रकाशते इति न निर्विशेषस्फूर्तिः, सुषुप्तौ धर्मभूतज्ञानं निर्विषयमपि न स्फुर्ति, न वा ५४८ निर्विशेषम्, "
धर्मिनिष्ठत्वादिनानाविशेषयोगित्वादिति ह्युच्यते । एतेन ‘धर्मभूतज्ञानं निर्विषयमेव सुषुप्तौ भासत इति श्रीभाव्यमतम् " इत्यादिक मपार्थं सिद्धम् । पदेपदे धर्मभूतज्ञानविचारप्रस्तवनं प्रद्वेषविशेषमेव प्रदर्शयेत् । न मात्रयाऽपि दूषणस्यावसरो भवितुमर्हतीति किं षेिण ॥ यत्तु — अन्तर्यामिणः परमात्मनः अत्यन्तं जीवसन्निहितत्वात् न तत्प्रकाशाय सुषुप्तौं धर्मभूतज्ञानापेक्षेति—तन्न तत्प्रकाशाय तदा धर्मभूतज्ञानापेक्षा स्तीति अस्माभिरनुक्तेः । न च संनिहितत्वमात्रेण परमात्मा घर्मभूतज्ञानं विना प्रकाशेत । तथा सति हि जागरेऽपि प्रकाशेत । हिरण्यनिधिम् ”, “ नैनत् देवा आप्नुवन् पूर्वमर्धत् “, " एष सर्वेषु सुप्तेपु गूढोत्मा न प्रकाशते " इति श्रुमिह भाव्यम् । अत एव श्रुतीनां सार्थक्यम् ; ध्यानादिविधीनाञ्च ॥ . तद्यथा यत्तु — ईश्वरस्योत्पत्त्यभावे अनादित्ये नित्यत्वे च न विप्रतिपत्तिरितितन्न-भवन्मते तस्यापि कल्पितत्वेन, अनुपदमेव चन्द्रिकावचनमपि प्रदर्श दृष्टिसृष्टिवादे तद्विषयेऽपि दृष्टिसृष्टेः प्रदर्शिततया च तस्योत्पत्त्यभावनित्यत्ववोरयोगात् । सर्वाद्वैत्मितेऽपि मुक्तौ चिन्मात्रातिरिक्तस्याभावेन साध्यस्येशस्य नित्यत्वासंभवाच्च विप्रतिपत्तेरक्षतेः । घटादिप्रकाशलक्षणसंविदोऽनुत्पत्तिमत्त्वे घटादेरप्यनुत्पत्तिः स्यादिति शतदूषण्याशयः उत्तरसूक्त्यां तत्रैव स्फुटः ; प्रागेवेह स्पष्टीकृतश्च । तदर्थाग्रदणभूलं घटावच्छिन्न चैतन्यस्यानुत्पत्तौ घटानुत्पत्तिवर्णनमयुक्तमिति दूषणमिति ध्येयम् । कथञ्च घटादिविषयप्रकाशरूपसंविदितिशब्दे जाग्रति घटविषयक संविदिति स्पष्टमर्थमुपेक्ष्य घटावच्छिन्नसंविदित्यर्थान्तरकल्पनया विकल्पनं घटते ? अपिच पृच्छयते किमिदं घटावच्छिन्नत्वं संविदः ? सर्वव्यापित्वात् संविद आकाशस्येव तदवच्छिन्नत्वचेतून अवच्छेद्यावच्छेदकभावो हि केनचित् संबन्धेन संबन्धिनो भवति । घटाकाशयोश्व संयोगः संविदनुत्पत्ति-भङ्ग-प्रसाधनम् ५४९ संबन्धोऽस्तीति महत आकाशस्य परिच्छिन्नेन घटेन संयोगिनाऽवच्छेदः । अतोऽवच्छेद्या संबन्धिनोऽवच्छेदकत्वायोगात् संवित्संबन्धो घटस्य के इति वक्तव्यम् । न तावत् संयोगादिः, परमार्थापरमार्थयोस्तदयोगात् । ज्ञानस्वातीतानागतादिकम संबन्ध्यपि विषय इति विषयविषयिभाव एव संबन्ध इति चेत् तहिं घटावच्छिन्ना वा घटविषयिणी वेति कोटिद्वयात्मना विकल्पो न कल्पते । ज्ञानविषयत्वमपि वस्तुनः स्वयम संबद्धत्वेऽपि खसामग्रीबन्धं वा पुरस्कृत्यैव भवितुमर्हति । अन्यथा सर्वस्य सर्वविषयत्वप्रसङ्गात् । न च नित्यचैतन्यस्य विषयगत सामग्रीसंबन्धायत्तो विषयविषयिभावो वक्तुं शक्यते । तथा, “दृष्टिरेव संविदिति दृष्टिरपरेति संविद्वयं वर्तते " इति भवदुक्तिव्याघातश्च । उक्तिमध्येऽपि च व्याघातः । न हि दृष्टिरेव सृष्टिरिति वादे घटोत्पत्तिः घटदृष्टिरिति द्वयमिध्यते । किन्तु दृष्टिसमसामयिकी सृष्टिरिति दृष्टि सृष्टिवाद एव तु तदिति । अधिष्ठानत्वमेवावच्छिन्नत्वमिति चेत् अधिष्ठानत्वमेव किम् केन संघन्धेन संवन्धित्वं तदिति निरुच्यताम् । घटाध्यासाधिष्ठानत्वमेव घटाधिष्ठानत्वमिति चेत् —नेदं तर्हि घटावच्छिन्नत्वम् । तथा सति घटावच्छिन्नपटावच्छिन्नचैतन्यैक्यप्रसङ्गात् अवच्छिन्नान्तवैयर्थ्यात् । चैतन्यरूपा वृत्तिरूपा चेति द्वयी संविदित्येव वक्तव्ये वक्रगतेरयुक्तत्वाच्च । मृत्पिण्डावच्छिन्नचैतन्यं घटरूपेण विवर्तत इत्युक्तौ मृत्पिण्डाध्यासाधिष्ठानं चैतन्यमित्यर्थवर्णने मृत्पिण्डाध्यासानन्तरमेव घटो भवतीति सिद्धौ सर्वत्र कार्योदयात् पूर्वं कारणस्य ज्ञातव्यत्वापत्तेश्च । इदं रजतमिति भ्रमाभावप्रसङ्गाच्च । शुक्तयवच्छिन्न चैतन्यस्य तदा सत्त्वात् तस्य व शुत्त यध्यासाधिष्ठानरूपत्वात् शुक्तधध्यासस्यापि तदानीमावश्यकत्वात् । अध्यासपदेन सद्भावमात्रविवक्षायां पुनरपि मिथ्यासत्ययोः संबन्धाभावदुर्वचत्वदोषः प्राप्नोति । एवञ्च दृष्टिसृष्टिवादव्यतिरिक्तवादेऽपि जडानां संविदश्च भास्यभासकभावातिरिक्तस्य दुर्वचतया विश्वव्याप्ता संवित् विश्वभासिकैवेति ज्ञाताज्ञातविवेक एव न स्यात् । सर्व सर्वदा भासेत । कस्मै इति चेत् -कदाचित् “५५० यस्मै पुंसे भासते । चेत्
अन्तःकरणवृत्तिरूपकारणाभावात् न भासते इति न तर्हि तदानीं तस्य चैतन्यस्य तत्तत्पदार्थावच्छिन्नता स्यात् । अन्तःकरणावच्छिन्नचैतन्यमेव प्रमातृ इत्य् अपि न सिद्धयेत् । सर्वत्र चैतन्यस्य भासकत्वे सति भानाश्रयत्वरूपप्रमातृत्वस्य सर्वत्रावर्जनीयत्वात् । यदि त्वेवं स्यात् अविद्याव्यापिचैतन्यस्येश्वरतया अविद्याकार्यघटपटादिसर्वावच्छिन्नस्यापि ईश्वरत्वमिति तेन चैतन्येन तस्य तस्य भास्यत्वादेव चेश्वरः सर्वज्ञ इति तं प्रति सर्व सर्वदा भासत इतीष्टमेवेति तहि अन्तःकरणस्याप्यविद्याकार्यतया अन्त करणावच्छिन्न चैतस्यस्याप्यन्याविशेषमीश्वरतया ईश्वरस्य च सर्वानुभावितया तत्तदनेकावच्छिन्नत्वेऽपि चैतन्यैक्यादेवेश्वरैक्यस्य वक्तव्यतया जीवस्याप्यन्तः करणावच्छिन्नचैतन्यरूपतया जीवेश्वरैक्यमद्यापि संपन्नमितीश्वरवत् जीवोऽपि सर्वानुभावी स्यादिति । अवच्छिन्नत्वमेव किमिति शोधनावसरे तदनिरूपणेनकोऽयमुपन्यास इति च भाव्यम् । एतेन, ‘अनादिः संवित् विश्वव्याप्ता’ इत्यादि सूक्तिः किं दृष्टिसृष्टिवादमाश्रित्य उत पक्षान्तरमिति विकल्पो ऽपि व्युदस्तः । सर्वदैव दोषसद्भावस्योपपादितत्वात् ॥
अथ स्वयं वयं किञ्चिदुद्भावयामः -घटावच्छिन्नत्वं नाम चैतन्यस्य घटरूपेण परिणताज्ञानविषयत्वमिति कदाचिन्मन्येत । तत्र विकल्ष्यते किं घटत्वावस्थापन्नाज्ञानविषयत्वम् उत घटकारणीभूताज्ञानविषयत्वम् ? नाद्यः ; घटात्मना परिणतिदशायां तस्य सविषयकत्वायोगात् । न हि घटादीनां विष यित्वं ज्ञानादेरिव खीकर्तुं युक्तम् ; अनुभवविरोधात् । नान्त्यः ; घटप्राकालिकाज्ञानविषयत्वे अज्ञानावच्छिन्नत्वं तदा स्यात्, न तु घटावच्छिन्नत्वम् । अथ घटावच्छिन्नत्वं नाम कालिकसंवन्येन घटविशिष्टाज्ञानविषयत्वम् । इदञ्च न घटकालातिरिक्तकाले इति तदापि समानकालिकघटपटावादाय घटावच्छिचैतन्यस्य पटावच्छिन्नचैतन्यस्य चाभेदः स्यात् ; उभयसमानकालिकाज्ञानविषयत्वात् । तुल्यरीत्या अन्तःकरणावच्छिन्न चैतन्यं घटावच्छिन्नैचतन्यं चैकं स्यादिति प्रमातृचैतन्यविषयचैतन्या भेद निबन्धना घटप्रत्यक्षता सर्वदा घटकाले संविदनुत्पति-भङ्गप्रसधानम् ५५१ प्राप्नोति । अन्तःकरणविषययोः समानदेशत्वमपि प्रत्यक्षत्वे प्रयोजक मिति चेत् — अस्तु अथापि घटावच्छिन्नचैतन्यं प्रलयावच्छिन्न चैतन्यमपि स्यात् । अज्ञान एव घटकालावच्छिन्नत्वान्वयात् अज्ञानविषयत्वस्य चैनन्ये प्रलयकालेऽपि सत्त्वात् । घटकालीनाज्ञानसंबन्धक्षणावच्छिन्नत्वं चैतन्ये विवक्षितमिति चेत्–क्षणस्य मिथ्याभूतस्य परमार्थेन चैतन्येन संबन्धायोगात् क्षणावच्छिन्नत्वस्यापि दुर्वचत्वात् । ननु किमनेन विस्तरेण ? अज्ञानबलकल्पितः सर्वोऽप्यनुभूयमानः संबन्धः पदार्थानां संविदश्प्यत इति तन्मूलं तदवच्छिन्नत्वमपि अज्ञानकल्पितमस्त्येवेति चेत् -घटादिपदार्थमात्रस्यैव लोकानुभूतत्वात् नित्यसंविदः पदार्थानाञ्च संबन्धस्यानानुभविकत्वात् । परीक्षकलोकानुभवसिद्धमिदं सर्वमिति चेत् — परीक्षकतम लोकप्रतिषिद्धयमानतया व्यावहारिकदशामनासादितमवसादितमेव सर्वमिति ॥ ( व्याव यत्तक्तम्न तु कल्पितेनाकारेणाद्वैत-भङ्गभीरुता " इति—एवमभीरुभिः किमिति लोकप्रसिद्ध सर्वानुभूतीः सर्वांश्च सतो गृहीत्वा सर्वानुभूत्यैक्य-सर्व सदैक्य-सदनुभूत्यैक्यादिस्थापनप्रयासभरः परिगृह्यते ? हारिकविषयेषु सत्यत्वबुद्ध्या प्रवृत्तेषु मतेषु यद्यदंशस्य यथा यथा स्वीकारे लाघवम्, प्रमाणगतिः, लोकानुभव संमतिश्च तत्तदंशस्तथातथैवेष्यते; एवमिष्टं सर्वं ब्रह्मणि निर्विशेषे कल्पितत्वात् व्यावहारिकसत्यमेव सत् मिथ्या’ इत्येतावत एव कथनीयत्वात् । कस्यापि मतस्य दूषणे अप्रवृत्य तदंशे उपेक्षामेवोदवा स्वोंत्प्रेक्षिता द्वितीयंब्रह्मनिरूपणेन कालयापनस्यैव युक्तत्वात् । ज्ञानान्यपि लोकप्रसिद्धानि जायन्ते च नश्यन्ति चेति सर्वे यथानुभवमस्तीति किमिति अन्तःकरणबहिर्व्याप्त्यादिकल्पना, दृष्टिसृष्टिवादादिबौद्धपक्षानुमोदनम्, प्रतिकर्मव्यवस्था मन्दाधिकारिविषयेति कल्पनञ्च । वस्तुतोऽनुभूतीनामुपलभ्यमानानामुत्पत्ति विनाशादेर्भवदिष्टत्वात् स्वविषयैः सह तासां मिथ्यात्वसिद्धेः अहमिति चात्मनो यादृशाकारेण भानम्, तादृशाकारेण मिथ्यात्वात् निर्विषयनिराश्रयसंविदन्तरानुपलम्भाच्च निरूपणे क्रियमाणे नूनमद्वैतवादोऽयं शून्यवाद एवेत्यास्तां तावत् ॥ ५५१
संविद उत्पत्तिर्न भवति, प्रागभावाभावादित्यत्र प्रागभावस्योपलभ्यमानतया नाभाव इति श्रीभाष्य एवोपपादितम् । विस्तृतश्च शतदूषण्याम् । तदुपरि दूषणमुद्भावयितुमपारयता दूषितांशस्य पङ्क्तिद्वयेन संगृचानुवादमात्रेण तत्खण्डितत्वबुद्धिः क्रियमाणा नोपपन्ना । दृष्टिसृष्टिवादे चण्डमारुतोक्त दूषणानामद्वैत सिद्धौ परिहार उक्त इति च न तृप्तिः कार्या । तत्रोक्तस्य समाधानस्य सर्वस्यापि सर्वं स्वप्निकतुल्यमित्येवं बौद्धपक्षनिवेशपर्यवसायितया हेयत्वस्य प्रागेव प्रदर्शितत्वात् ॥ गणनरहिता नित्या संवित् परावररूपिणी विलसति वचःप्रामाण्यादित्युशद्भिरिहादृताः । सततजननध्वंसाः धर्मात्मधी परिणामतः जगदनुभवप्राप्ता नानावियोऽपि यथायथम् ॥ शुभमस्तु ।