वेद्यं भक्तैर्नि खिलनिगमस्तोमतो ऽन्यैर वेद्यं सत्यानन्दानुभवनिलयं सच्चिदानन्दरूपम् । ज्ञानानन्दात्मक निरुपम व्योमधामा धिवासं धामानन्तं किमपि कलये कञ्जधामाधिवासम् ॥ अनुभूतेः स्वप्रकाशत्वसाधनव्यसनिभिरद्वैतिभिः तस्याननुभाव्यत्वं स्वीकृतम्, " अनुभाव्यत्वे घटादिवत् अननुभूतित्वप्रसङ्गात् " इति । स्वयंवेद्याया एवानुभूतेरनुभाव्यत्वमप्यविरुद्धमिति श्रीभाष्य स्थापितं शतदूषण्यामुपपाद्यते । तत्परीक्षण प्रवृत्तेन यत् प्रथमं ब्रह्मसिद्धिवचनमुपात्तम्, तन्न तदपेक्षितसाधनपर्याप्तमिति प्रतिपाद्य, अन्यत् तदुक्त शोधयेम । लोकेऽनुभूयमानस्यैव पुरुषार्थत्वात् ब्रह्मरूपसं विदो ऽसंवेद्यत्वेऽपुरुषार्थत्वापत्तिरित्याशङ्कय, " न वयं संविदः संवेद्यत्वं नेति ब्रूमः, प्रमातुः प्रमारूपप्रमाणफलस्य च यथा परासंवेद्यतया स्वसंवेद्यतामात्रेणासत्कल्पत्वाभावः, तथा संविदोऽपि स्वसंवेद्यत्वात् " इति तत्रोक्तम् -तत्र संविदः तथा प्रमातुः प्रमितेश्च स्वसंवेद्यत्ववर्णनात् अनुभूतितदाश्रयात्मोभयविलक्षणसंविद इव लौकिकानुभूतीनामपि स्वसंवेद्यत्वमेवेष्ट प्रतीयते । यदि चात्रा 1 नुभूतेरन्यैकवेद्यत्वकथनमनुपपन्नमित्येवाशयो वर्थेत, तदा न वयं नैयायिकमीमांसकादिवत् निरसिष्यामः । अन्याननुभाव्यत्वस्याप्यभिमतत्वात्तु तमंश प्रतिक्षिपामः । स्वयंप्रकाशत्वस्य संगतत्वात् । अत एव तत्त्वदीपिकाया मात्मनः इतरनिरपेक्षप्रकाशवत्त्वेन ज्ञानरूपत्वकथनस्यापि स्वागतमेव । यत्त्विह स्पष्टमिष्टसिद्धिवचनम्, अनुभूतेरनुभाव्यत्वेऽननुभूतित्वप्रसङ्ग इति तत्तु न युज्यते–तत्रानुभाव्यत्वं निषिद्धयमानं किं स्वात्मकानुभवविषयत्वम् उत स्वेतरानुभवविषयत्वम् ? नाद्यः, तस्याप्यभावे संवेद्यत्व-भङ्गः ५२८
स्यादिति स्वयमुक्तत्वात् । नान्त्यः स्वात्मकानुभूतिविषयत्वरूप संवेद्यत्वरूपेण विशेषेण घटादिवैलक्षण्ये अनुभूतित्वे च संपन्ने इतरानुभवविपयत्वस्वीकारस्यानुभूतित्वादिभञ्जकत्वाभावेन तदावश्यकत्वायोगात् । अथापि तत्स्वीकारः किमर्थं इति चेत् — अनुभवानुसारादावश्यकत्वाच्चेति निरूपयामः । अनुभूतित्वमन्यानुभाव्यत्वं च न मिथो विरुद्धम् । अनुभूतित्वं हि सत्तया प्रकाशमानत्वमिति वेदान्ती ब्रूयात् । परं त्विदं न सर्वतान्त्रिक संमतम् । अनुभूतिपदस्य सर्वैरपि व्यवहियमाणतया सर्वसंमत एव कश्चित् तदर्थो ग्राह्यः । आत्मन्यनुभूतिशब्द प्रयोगश्च न तान्त्रिकान्तरसंमतः, नापि लोकप्रसिद्धः । अनुभवामि, जानामि, संवेद्मि इत्यादिव्यवहारविषयभूतज्ञानसंविदनुभवादिशब्दानां लोकव्युत्पत्तिगम्यं प्रवृत्तिनिमितं तावत् स्वतो विषयप्रकाशकत्वम् । इदमेव चार्थांन्तव्यवहारहेतुत्वम् । तेन स्वव्यवहारहेतुत्वरूपं स्वप्रकाशत्वं काममनुमीयताम् । तावता – ‘स्वेतराधीनव्यवहारविषयत्वरूपमनुभवान्तरागोचरत्वमप्यावश्यकम्, अन्यथा अनुभूतित्वमङ्गः’ इत्यत्र तु न किञ्चित् प्रमाणम् । प्रत्युतानुभूतीनामे कात्मगतानां परकीयानुभवगोचरत्वादेः संप्रतिपन्नत्वात् तदनुमान कालातीतमपि ॥ यत्तु —— स्वसंवेद्यतयैवासत्कल्पत्वपरिहारे सिद्धे किमिति संविदन्तरसंवेद्यत्वं स्वीकर्तव्यमिति –तन्न न ह्यसत्कल्पत्वपरिहारार्थमेव तत्स्वीकार इति केनचिदुक्तम् । अन्यार्थमपि तत्संभवात् । अन्यत् फलमनपेक्षितमिति चेत् असत्कल्पत्वमपि मा नाम परिहारि; किं तेन ? यथा संविदन्तरनिरपेक्षमेव स्वसत्ताकाले स्वव्यवहार निर्वाहः, तथा स्वाभावकाले स्वव्यवहारः संविदन्तर मपेक्ष्यैव कार्य इति तदर्थमेष्टव्यमेव संविदन्तरवेद्यत्वम् । यत्तच्यते संविदां स्वसंवेद्यत्वादनुभाव्यत्वमस्ति, संविदन्तरानुभाव्यत्वमेव तु निषिद्धयते इति तेन किमुक्तं भवति ? अनुभूतिरननुभाव्येति प्रतिज्ञायाः अनुभूतिरनुभवाधीनप्रकाशरहितेति नार्थः, किन्तु अनुभूतिः स्वेतराधीनप्रकाशरहितेति । तत्र परेण परकीयानुभूतेरनुभवान्तरेण ग्रहणादिपर्या अवेद्यत्वभन-प्रसाधनम् ; ५२९ लोचनया अनुभूतिः स्वेतरानधीनप्रकाशशालिनीत्येवमेव तदर्थोऽस्तु तेन स्वाधीनप्रकाशः सिद्धयति ; स्वेतराधीनोऽपि प्रकाशः संभवन् न वारणीय इत्येवेच्यते ॥ यच्चोक्तम् संविदन्तरवेद्यत्वे स्ववेद्यत्वं न भवति, एतत्सत्त्वे च न तदिति तत् कुतः ? उभयोरविरोधात् । वेद्यस्यैकत्वेऽपि वेदितुर्वेदनकालस्य च भिन्नतया वेदनान्तरस्याप्यपेक्षितत्वात् । धर्मभूतज्ञाने अनुभवान्तरावेद्यत्वमनुभूतित्वप्रयुक्त दृष्टमिति तु परमोऽपलापः परेण परज्ञानानुमानादनुभवान्तरवेद्यत्वस्यैवानुभविकत्वात् । अनुभूतेः स्वसत्ताकाले स्वाश्रयपुरुषगंतानुभवान्तराननुभाव्यत्वं तु स्वप्रकाशत्वप्रयुक्तम् । स्वप्रकाशत्वानङ्गीकारादेव तार्किकाः अनुभूतित्वे सत्येवानुव्यसायग्राह्यत्वमप्या स्थिषत । संविदो ज्ञानान्तरवेद्यत्वस्वीकारे सत्तामात्रेण प्रकाशमानत्वकथा कथामात्रमिति तु न । यं प्रति प्रत्यक्षवेद्यत्वम्, तदन्यं प्रति अनुमानादिवेद्यत्वमितिवत् यं प्रति सत्तामात्रेण प्रकाशमानत्वम्, तदन्यपुरुषं प्रति ज्ञानान्तरवेद्यत्वमित्युक्तौ अविरोधात् ; धर्मभूतज्ञानात्मकसंविदः तदाश्रयपुरुषं प्रत्यपि स्वासत्ताकाले ज्ञानान्तरवेद्यत्वसंभवाच । अतोऽनुभूत्यननुभूत्युभयसाधारणतया लोकप्रसिद्धस्यानुभाव्यत्वस्याननुभूतित्वप्रयोजकत्वं न संभवति । ननु घटत्व पटत्वादेः प्रत्येकमननुभूतित्वप्रयोजकत्वे गौरवमिति चेन्न – अनतिप्रसक्तसर्वसाधारणधर्मरूपप्रयोजकान्तराला विशेषधर्माणां प्रयोजकत्वस्वीकारेण गौरवस्यापि सोढव्यत्वात् । न च न तादृग्धर्मः । विषयाप्रकाशकत्वस्यास्वप्रकाशत्वस्य वाऽनुभूतिशब्दाव्यवहार्थत्वप्रयोजकत्वसंभवात् । अज्ञानाविरोधित्वमननुभूतित्वप्रयोजकमिति श्रीभाष्य एव भाषितत्वाच ॥
यत्तु अननुभूतितत्वप्रयोजकमनुभाव्यत्वं तावत् प्रत्यक्षविषयत्वमेव; न तु ज्ञानसामान्यविषयत्वम् । अतः परानुभवानां परेणानुमानादिपरोक्षज्ञानेन ग्रहणेऽपि न ननुभूतित्वप्रसंग इति – तन्न – तथासति अतीन्द्रियाणां जडपदार्थानां परमाण्वाकाशप्रकृतिमहदादीनां प्रत्यक्षविषयत्वरूपाननुभूतित्वप्रयोजकाभावेनानुभूति वापतेः । तत्र प्रयोजकान्तरगवेषणे च भवताऽप्यनुगतप्रयोजक 67५३०
मनुक्तं भवति । एवं स्वप्रकाशत्वं प्रत्यक्षज्ञानान्तरविषयत्वं च व्याहृतमित्यपि न युक्तम् । स्वात्मविषये स्वप्रकाशस्यैव ज्ञानस्य योगिप्रभृतिप्रत्यक्षज्ञानविषयत्वस्याप्यविरोधात् । एवं ज्ञानान्तरविषयत्वं परानुभवानामुपपादयतैव भवता, “तथा च ज्ञानान्तरसंवेद्यत्वे घटादिवदननुभूतित्वापर्त्तिदुष्परिहारा" इति निगमन व्याहतमेव क्रियते ॥ 1
अनुभूतिरसती अननुभाव्यत्वात् गगनकुसुमवदित्यनुमाने धर्मभूतज्ञाने व्यभिचारवर्णनमलग्नम् । तस्यानुभाव्यत्वस्यैव स्वीकृतत्वात् ॥ यतूक्तम् असत्त्वप्रयोजकं नाननुभाव्यत्वम्, किन्त्वज्ञानाविषयत्वम् । न च घटादीनामज्ञानाविषयत्वमेवेति वाच्यम् घटावच्छिन्नचैतन्यस्याज्ञानविषयत्वे घटादेस्तदवच्छेदकत्वात् । तथा चाज्ञानविष तदवच्छेदकत्वान्यतराभाव एवासत्त्वप्रयोजक इति तन्न –अननुभाव्यत्वापेक्षनत्र कस्यचिल्लाघवस्यादर्शनात् । अज्ञानस्याज्ञानान्तर विषयत्वाभावेनाज्ञानाविषयतावत्त्वेनासत्त्वापत्तेश्च । न च विकवाच्यम् असद्विषयकज्ञानस्यैव विकल्पपदार्थतया असत्त्वे असद्विषयकज्ञानविषयत्वं प्रयोजकमिति निरूपणस्य दुष्करत्वात् । वस्तुतो यदननुभाव्यम्, तदसत् तुच्छमिति न वयं धूमः । सतामपि केषाञ्चित् सामग्रीविरहेणाज्ञायमानत्वसंभवात् । अनुभूतिर्यद्यनुभवान्तरानुभाव्या स्यात्, तहिं असती स्यात् इति अनुभवान्तरदलघटनं तु नैवाभिमतम् । यत् प्रकाशानर्हं स्यात्, तत् असदित्येतावत एव प्रर्याप्तत्वात् । न चाननुभाव्यत्वप्रयुक्तमननुभूतित्वमित्यप्यस्मदाशयः, किन्तु अननुभाव्यत्वमिवानुभाव्यत्वमपि नानुभूतित्ववारकमिति ॥ ल्पाख्यवृत्तिविषयत्वमेवासत्त्वप्रयोजकमिति यत्तु अनुभूतेरनुभूतित्वरूपपक्षमात्र निष्ठमप्रयोजकं धर्मं पुरस्कृत्य स्वयंप्रकाशत्वस्थापने घटः स्वप्रकाशः घटत्वादित्यप्यापद्यत इति शङ्कायामुच्यते-घटः स्वप्रकाशः अनुभाव्यत्वादिति भवन्मतेऽप्यापद्यत इति तन्न एतत्प्रतिबन्देराशङ्कितदोष परिहारकत्वाभावात् । पक्षमात्रवृत्तिर्गः अप्रयोजकत्वेन विवक्षितसाधको न भवति ; घटत्वादिवत् अनुभूतित्वमपीत्यत्रैव तात्पर्यात् । न अवेद्यत्वसाधनम् । ५३१ चानुभाव्यत्वं पक्षमात्रवृत्ति पटादावषि सत्त्वात् । तत्राखप्रकाशे हेतुसद्भावाद्वयभिचारश्च । यावत्सत्त्वं प्रकाशमानत्वस्योपाधित्वात् व्याप्यत्वासिद्धिश्च 1 यत्र यत्र खप्रकाशत्वम्, तत्र तत्र यावत्संत्तं प्रकाशमानत्वमप्यस्ति । अनुभाव्यस्तु घटादिश्चक्षुरादिसन्निकर्षकाल एव भासते ; अभानकाल एव चाधिक इति । यदि च घटादेः खप्रकाशत्वे किञ्चित् प्रमाणं स्यात्, तर्हि तत एव तत्सिद्धिरिति नानुभाव्यत्वं तत्र प्रयोजकम् । न च घटादौ तत्सत्त्वे किञ्चित् प्रमाणं भवति ॥ यत्तु पुनः अननुभाव्यत्वमसत्त्वप्रयोजकं न भवति । असतःशशशृङ्गादेर्धर्मिण एवाभावेन तत्र हेतुसाध्यान्वयवर्णनायोगेन हेतोर्दृष्टान्तरहि तत्वादिति तन्न अभावयोर्व्याप्यव्यापकभावग्रहे तुच्छस्य गगनकुसुमादेर्दृष्टान्तीकरणस्य भवन्मतसुप्रसिद्धतया तथैव प्रकृतेऽपि संभवस्य भवतः प्रति वर्णनात् । असत्त्वरूपसाध्याभावस्य सत्त्वस्य अननुभाव्यत्वरूप हेत्वभावस्य च ’ यत् सत् तत् अनुभाव्वम् यथा घटः इत्येवं सर्वत्र व्याप्तेः सुग्रहतया व्यतिरेकव्याप्त्यैवानुमाननिर्वाहाच्च । एवं घटः स्वप्रकाशः अनुभाव्यत्वादित्यत्राज्ञानविरोधित्वमुपाधिः, स्वप्रकाशत्वव्यापका ज्ञानविरोधित्वाभावालादिवृत्तित्वादनुभाव्यत्वं स्वप्रकाशत्वव्यभिचरितमिति ॥ , यत्तु -घटादेरननुभूतित्वे अज्ञानाविरोधित्वं निबन्धनमिति श्रीभाष्यमयुक्तम् । स्वप्रकाशाया अनुभूतेरपि अज्ञानाविरोधित्वात् प्रमाणजन्याया वृत्ते रेवाज्ञानविरोधित्वान अनुभूतेरप्यननुभूतित्वापत्तरित्युक्तम्-तन्न ज्ञानखरूपमपि ब्रह्म नाज्ञानविरोधि किन्तु वृत्तिरेव तद्विरोधिनीति भवत्सिद्धान्तस्यास्मदनभिमतत्वात् । न च भवद्भिरपि शुद्धचैतन्यस्याज्ञानविरोधित्वं नास्तीति सुवचम् । तथा सति चिन्नान्ति, अहं नास्मीत्यादिप्रतीत्यापत्तेः । असत्त्वापादकाज्ञानविरोधित्वस्वभावादेव हि तस्य तादृशाज्ञानाविषयत्वम् । अपरिच्छिन्नानन्दत्वाज्ञानमात्रमेव खल्वनुभूतिस्वरूपमात्रेण न निवर्त्यते । अतोऽनुभूतेरज्ञानविरोधित्वमसत्त्वादिव्यवहाराविषयत्वमस्त्येवेति । प्रपञ्चमूलभूताज्ञानविशेषविरोधित्व तु अनुभूतिस्वरूपस्य भवर्द्धिनेष्यते, “तत्त्वमसी” तिवाक्यजन्यवृत्तिनिरोध्यत्वस्य ५३२
तत्र संप्रत्यर्थं । तस्मादक्षतं सामान्यतोऽनुभूतेरज्ञानविरोधित्वम् । यत्किञ्चिदज्ञानाविरोधित्यं तु सर्वविषयकज्ञानातिरिक्तस्य सर्वस्य ज्ञानस्य । तत्तु ज्ञानानां सर्वप्रकाशकत्व स्वीकारे बाधकं स्यात् ; न तु स्वप्रकाशकत्वरूपविशेषे । यदि चानुभूतेश्चैतन्यस्यात्मभूतस्य सर्वविधाज्ञानाविरोधित्वमेवास्तीति मन्यते, तर्हि चैतन्यमस्वप्रकाशमज्ञानाविरोधित्वात् घटादिवदिति जडत्वमेवापद्येत । अत्र, ‘अनुभूतिखप्रकाशत्वानुमानेऽज्ञानाविरोधित्वमुपाधिरिति विवक्षणात् उपाध्यभावेन साध्याभावसाधनमत्या अनुभूतिरखप्रकाशा अज्ञानविरोधि त्वादित्यनुमानं विवक्ष्यते । तत्र हेत्वसिद्धिः । अनुभूतेरज्ञाना विरोधित्वस्यैवाद्वैति स्वीकृतत्वात्’ इति कथनमनुक्तोपालम्भः, असदर्थकथनमपसिद्धान्तश्चेति ध्येयम् । यदि तु अनुभूतिः स्वप्रकाशा अनुभूतित्वादित्यनुमाने स्वप्रकाशत्वरूपं साध्यं स्वाधीनप्रकाशकत्वमित्येतावति तृप्तिमनुपगम्य स्वेतराधीनप्रकाशरहितत्वं स्वप्रकाशत्वं सिषाधयिषितम्, तदा तत्र व्यतिरेकव्याप्तौ यत्र स्वेतराधीनप्रकाशवत्त्वम्, तत्राननुभूतित्वमिति गृह्यमाणायामज्ञानाविरोधित्वमुपाधिर्भवत्येव । तत्र साध्यस्थानापन्न मननुभूतित्वं यत्र घटादौ, तंत्राज्ञानाविरोधित्वसत्त्वात्। साधनस्थानापन्नं स्वेतराधीनप्रकाशवत्त्वं यत्र परानुभवादौ, तत्राज्ञानविरोधित्वसामान्याभावरूपमज्ञानाविरोधित्वं नास्तीति साधनाव्यापकत्वमिति । न हि भवन्मतसिद्धं यत् त्रिविधाज्ञानविरोधित्वं तदभावोऽस्माभिरज्ञानाविरोधित्वमित्युपाधितयाऽत्र विवक्ष्यते, येन साधनव्यापकत्वप्रत्याशा स्यात् । अज्ञानविरोधित्वसामान्याभावस्यैव सामान्यतोऽत्रोपाधितया विवक्षितत्वात् । एतेन वस्तुतस्त्वित्यादिकमुपपाद्य निरस्तं वेदितव्यम् ॥ यच्चोक्तम् -अननुभूतित्वं स्वप्रकाशप्रत्यक्ष संविद्रूपत्वाभाव इति-तन्त्र-स्वप्रकाशपदवैयर्थ्यात् । प्रत्यक्षेति विशेषणायोगाच्च । प्रत्यक्षानुमित्युपमितिशाब्दबोधादीनामनुभवत्वं हि सर्वदर्शनसमतम् । स्मृतिभिन्नं ज्ञानमनुभव इति च निब्रुवन्ति । उपलब्धिपदमपीदृशसर्वविषयं प्रयुज्यते न्यायसूत्रताप्यादिषु ; अवेयत्व-भङ्ग-प्रसाधनम् ५३३ किमुत अनुभवपदम् । भवद्भिश्च घटोऽनुभूयते, पटोऽनुभूयत इति, घटः सन् पटः सन् इति सत इव सर्वानुगताया एवानुभूतेर्ब्रह्मत्वं वक्तव्यम् । तथैव प्राच्यैरुक्तञ्च । न चातीन्द्रियेषु प्रत्यक्षरूपानुभूतिग्रहणेऽनुगतिवर्णयितुं पार्थते । संवेद्मि, जानामीत्येतत्पर्यायाया एवानुभूतेर्विवक्षेति चेह स्पष्टम् । अतोऽनुभूतिः स्वप्रकाशेत्यत्रानुभूतिपदेन ज्ञानमित्येवविवक्षितत्वात् प्रत्यक्षेति विशेषणदानं कथं घटतामिति । एवञ्चानुभूतित्वादिति हेतुरपि भागासिद्धिपरिहाराय सर्वपक्षव्यत्तत्यनुगतं ज्ञानत्वमेवेति व्यतिरेकव्याप्तौ अननुभूतित्यं ज्ञानत्वाभाव एव । सर्वथा अभानापादकाज्ञानाविरोधित्वमितिविशेणरूपेणोपाधिवर्णनं नैव चिकीर्षितम् । चिकीर्षितेऽपि नानुपपत्तिः, परानुभवस्य परं तदाश्रयं प्रत्यभानापादकाज्ञानविरोधितयोपाघेरभावेन साधनाव्यापकत्वस्याक्षतत्वादिति ॥ एवं तावत् परीक्षाग्रन्थकृतोपपादनसरणिः परीक्षिता । अथ विशिष्य शोधनेनानुभूतेरवेद्यत्ववादो निरस्यते अनुभूतिरननुभाव्या अनुभूतित्वात् व्यतिरेकेण घटादिवदिति भावत्कमनुमानम् । अत्रानुभूतिरिति अनुभाव्यत्व मितिच किं विवक्षितमिति विवेक्तव्यम् । संवेद्यत्वं हि पञ्चविधं भवदिष्टन् । स्ववेद्यत्वम्, स्वाकारवृत्तिप्रतिफलित चैतन्यवेद्यत्वम्, साक्षिवेद्यत्वम्, प्रमाणजनितवृत्तिविषयत्वम्, विकल्पाख्यवृत्तिविषयत्वं चेति । तत्र प्रथमं चतुर्थञ्च संविन्मात्रस्य द्वितीयं घटादेर्जडस्य, तृतीयमज्ञानस्य प्रातिभासिकादीनाञ्च, पञ्चमं तुच्छस्येति च विभागः । तत्रानुभूतिरिति संविन्मात्रविवक्षणे तस्य स्वसंवेद्यत्वतत्त्वमसि वाक्यजनितवृत्तिविषयत्वयोः सत्त्वान्नाननुभाव्यत्वरूप साध्यवत्वम् । वृत्तिविवक्षायां तासामपि साक्षिवेद्यत्वात् बाध एव । न च संविन्मात्रस्य वृत्तिविषयत्वेऽपि संविन्मात्रविषयत्वं नास्ति तथा च चैतन्य चैतन्याविषयः चैतन्यत्वादित्येव प्रयोग इति वाच्यम् — ब्रह्मसिद्धौ, असंवेद्यत्वे अपुरुषार्थतेत्यशङ्कय, “तस्मात् संवेद्यम्, आत्मप्रकाशत्वात्; असंवेद्यञ्च विषयवत् कर्मभावाभावात् " इति विषयतुल्यकर्मभावाभावेऽपि चैतन्य प्रकाश्यत्वस्य स्वीकृतत्वात् । पुरुषार्थत्वं ह्यनुकूलतयाऽनुभूयमानत्वम् । यदि चानुकूल्यविशिष्टस्वप्रकाशो न मुक्तौ स्यात्, कथं पुरुषार्थः प्राप्तः स्यात् । तत्र यदि ज्ञानान्तरेणानुकूल्य वि ५३४
शिष्टं स्वमनुभूयत इति नेष्यते, स्वेन वा तत्प्रकाश एष्टव्यः । न चेत्, पाषाणकल्पमुक्तिवादादविशेषः स्यात् । तर्हि निर्विशेषत्वं कथमिति चेत् — मा भूत् । आस्तामेष विचारः । संविदन्तरावेद्यत्वमेव शतभूषण्यां सिषाधयिषितमिति चेत्भवन्मते पक्षीभूतसंविन्मात्रातिरिक्तसंविदप्रसिद्ध्या साध्याप्रसिद्धिः । अस्तु तर्हि अननुभाव्यत्वं वृत्त्यविषयत्वमिति चेत्-तत्त्वमसिवाक्यजनितवृत्तिविषयत्वात् बाधः । प्रपञ्च विषयकवृत्त्यविषयत्वसाधने चार्थान्तरम् । अन्यविषयकवृत्त्यविषयत्वस्य घटादावपि संभवेन सर्वप्रकाराननुभाव्यत्वस्यासिद्धेः । वृत्तिप्रतिफलितचैतन्याविषयत्वं साध्यमिति चेत्र – अज्ञानस्य प्रातिभासिकादेश्च साक्षिवेद्यत्वस्य वृत्तिप्रतिफलित चैतन्याविषयत्वस्य च भवदिष्टतया ततो वैशेप्यासिद्धेः । सामान्यतश्चतन्याधीनप्रकाशराहित्यमेव साध्यमिति चेन्न स्वस्य स्वयंप्रकाशत्ववादिना स्वात्मकचैतन्याधीनप्रकाशाङ्गीकारेण बाधात् । ननु अज्ञानादिषु, यदि चैतन्यं न स्यात्, तर्हि तत्प्रकाशो न स्यादिति विमर्शमूलं चैतन्याधीनप्रकाशत्वमिष्यते । चैतन्ये तु स्वस्मिन् स्वाधीनः प्रकाशः कश्चिन्नेष्यत एव । तथा च स्वयंप्रकाशत्वं नाम स्वेतराधीन स्वव्यवहारकत्वाभावः साध्यम् । इदञ्च सर्वव्यावृत्तमिति चेत्–पक्षीभूतस्य चैतन्यस्य स्वपदग्राह्यतया तद्भिन्नं चैतन्यमेव । न च तदधीनश्चैतन्यव्यवहारः परैरपीप्यत इति सिद्धसाधनम् । स्वेतरचैतन्याधीनेति निवेशे चाप्रसिद्धिः ; चैतन्यद्वयस्य भवन्मते अभावात् । स्वाधीनस्वविषयकव्यवहार सामान्यकत्वं साध्यम् । स्वविषयव्यवहारो यदि स्वेन कदाचित् परेण च कदाचिदिति परैरिवास्माभिरिष्येत, तदा व्यवहारसामान्यं स्वाधीनं न भवेत् । न च तथेप्यत इति न दोष इति चेत्-नसामान्यदलाभावेऽपि घटादिजडवैलक्षण्ये सिद्धे तन्निवेशस्यानपेक्षितत्वात् । घटादिविषयकव्यवहारस्य नियमेन चैतन्याधीनतया चैतन्यस्य यया विधया चैतन्यकारणत्वं तया घटादेस्तद्व्यवहारकारणत्वाभावेन घटादौ स्याधीन किञ्चित्स्वव्यवहारकत्वमपि नास्ति अनुभूतित्व हेतुरपि नास्तीति अनुकूलतर्कस्य वा व्यतिरेकव्याप्तेर्वा " सुवचत्वात् ॥ अवेद्यत्वप्रधानम् I ५३५ किञ्च चैतन्यमिति शुद्धसेविन्मात्रस्य पक्षीकरणम्, किं वा वृत्तिप्रतिफलित चैतन्यादेरपि । नाद्यः, चैतन्यपदस्य साधारणतया संकोचायोगात् । शुद्धचैतन्यविषयकव्यवहारस्याप्रसियथा साध्यसमन्वयायोगाच्च । प्रत्यक्षानुमित्यादिवृत्तिचैतन्यानां वृत्तिचैतन्यान्तराधीनव्यवहारकत्वाभावस्य प्रकृतानुमानतोऽसिद्धिप्रसङ्गाच्च । मा भूदिति चेत् ब्रह्मसिद्धयादिप्राच्यग्रन्थविरोधः । येषामनुभवानामनुमेयत्वं भाट्टैरिष्यते, अनुव्यवसायादिविषयत्वं च तार्किकैः, तेषामेव परप्रकाशकत्वेन हेतुना खप्रकाशकत्वसाधनस्यैव तत्र तत्र वर्णितत्वात् । ताहशानुभवानामेव घटोऽनुभूयते, पटोऽनुभूयत इति प्रसिद्धत्वात् । प्रत्यक्षानुमित्यादिलोकप्रसिद्धचैतन्य विलक्षणस्य चैतन्यस्याप्रसिद्धतया आश्रयासिद्धयादिदोषापाताच्च । श्रुतिप्रसिद्धं तदिति चेत् — तत्र तत् यादृशं प्रसिद्धम्, तादृशं तत् सिद्धयत्येवेति किं तत्रानुमेयं किञ्चिदस्ति । यदि तत् स्वव्यवहारं स्वयमेव कुर्यात्, तस्य श्रुतिप्रसिद्धत्वगवेषणमपि खलु व्यर्थमेव । अविशेषात् तस्य सर्वं प्रति स्वप्रकाशत्वसंभवात् । तदभावे चावकाशत्वस्यैव सिद्धया स्वप्रकाशत्वानुमानस्य बाधितत्वात् । तत् यदि चैतन्यं ब्रह्मभूतम् स्वं प्रति स्वप्रकाशम्, परं प्रति चान्यथा, तथापि खाधीनस्वव्यवहार सामान्यकत्वानुमानं बाधितम् ॥ ननु पक्षीकृता अनुभूतयः प्रत्यक्षादय एव । तदन्तर्गतकै कव्यक्तेरपि तदितराधीनव्यवहारकत्वाभावः साध्यत इति चेत् -ता अनुभूतयः खसिद्धान्तसमतब्रह्मरूपचैतन्यातिरिक्ता वा तदेव वा ? आद्ये, तस्यैकस्यैव सत्यत्वं स्वप्रकाशत्वं च, अन्यस्य सर्वस्य मिथ्यात्वं जन्यत्वञ्चेति सिद्धान्तात् प्रत्यक्षाद्यधीनत्वं व्यवहारस्य दुर्घटम् । " तस्य भासा सर्वमिदं विभाती ‘ति तदेकाधीन प्रकाशत्वं किल सर्वस्य । अनुभवानुरोधात् अन्यासामप्यनुभूतीनां प्रकाशकत्वं व्यवहारहेतुत्वमिष्यत इति चेत् — तर्हि परानुभवादिविषयत्वमप्यनुभवाविरोधायैवेष्यतामिति बाघ एव । सर्वेयमनुभूतिः तदेकं चैतन्यमेवेति चेत् —तदा प्रत्यक्षादेरनुमित्याद्यधीनव्यवहारकत्वस्य परानुभवस्य परानुमेयत्वानुमानानुसारेण स्वीकारेऽपि तत्तत्प्रत्यक्षानुमित्यादीनामन्ततस्तच्चैतन्या भिन्नतया प्रत्यक्षानुमित्योर्वि • ५३६
- शिष्टविधया भेदेऽपि विशेष्यांशेनैक्यमेवेति अनुमित्यधीनव्यवहारोऽपि प्रत्यक्षाभीन एवेति नात्र परं प्रति साधनीयं किञ्चिदवशिष्यते । केवलमेतावदुपदेष्ट व्यम्, यत् एकैवानुभूतिः विशेषणादिभेदात् प्रत्यक्षानुमित्यादिसंज्ञाभेदं लभत इति । अतः किमनेनावेद्यत्वानुमानेन ? अस्तु तावदेवेति चेत् — लोकप्रसिद्धानुभूतीनां तस्य चैतन्यस्य चैक्यसाधकं प्रमाणं किम् ? अनुभूयते इत्यनुगप्रतीतिरेवेति चेत्अनुगतप्रतीतिर्विभिन्नत्वेनावगतास्वनुभूतिव्यक्तिषु धर्ममेकममुवृत्तं कथमपि साधयेत्, न त्वनुभवविरोधेनानुभूत्यैक्यम् । अन्यथा घटपटनीलपीततिक्तमधुरोत्क्षेपणा वक्षेपणादितत्तत्पदार्थविषयेऽपि व्यत्तत्रैक्यम् एकस्या एव बहुभेदभावश्च स्वीकार्य स्यात् । न ह्येक एव लोके घटः, एक एव च पट इति कश्चित् प्रावादुकः प्रत्येति । श्रुतिः प्रमाणमिति चेत् — ब्रह्मरूपस्य चैतन्यस्य सर्वजगदैक्यं यादृशन्, तादृशमेव सर्वानुभूत्यैक्यमपि तदर्थो भवितुमर्हति । न च विशिष्यानुभूतीनां परमतादृशमैक्यं क्वचित् श्रूयमाणमस्ति । कथञ्च धर्मतया प्रतीयमानामनुभवानां स्वतत्र्वचैतन्यैक्यस्य श्रुतिविवक्षितत्वसंभावना ?
- *
- अथ
- प्रत्यक्षरूपाऽनुभूतिरनुमित्यादिरूपानुभूत्यधीन स्वव्यवहारशून्येति
- साध्यत इति चेत् — तत्र प्रत्यक्षानुमितिपदाभ्यां चैतन्यरूप विशेप्यांशमात्रग्रहणम् उत विशिष्टस्य ? आये बाधः स्पष्टः । तस्य चैतन्यस्यैकतया स्वाधीनव्यवहारत्वे अनुमित्याद्यधीनव्यवहारकत्वस्याप्यक्षतत्वात् । चैतन्यस्यानेकत्व स्वीकारे च तत्र वृत्तिविशेषप्रति फलितत्वादिविशेषणदानं व्यर्थम् । परसंमतलोकप्रसिद्धरीत्यैव नानाभूतिग्रहणेन निर्वाहात् । विशिष्टचैतन्य विशेषस्यैव तचत्पदेन ग्रहणेऽपि परप्रत्यक्षमनुमिनोभि, परानुमितिं शाब्दयामीत्येवं बिशिष्टप्रत्यक्षस्य विशिष्टानुमित्याद्यधीनव्यवहारकत्वस्य आनुभविकतया बाथ एव । न च वृत्तिविशेषप्रतिफलित चैतन्यरूपप्रत्यक्षान्तर्गतविशेषणांश एवानुमितिरूपचैतन्याधीनव्यवहारः, विशेध्यांशस्तु स्वत एवेति वाच्यम् विशेष व्याशविशेषणांशयो विंश कलितव्यवहारभावात् विशेषणभावस्यापि भानात्
- अवेद्यत्व-भङ्ग-प्रसाधनम्
- ५३७
- — तस्य
- वैशिष्टयस्य प्रतियाग्यनु योग्युभयग्रा हिज्ञानग्राह्यत्वात् । परकीय प्रत्यक्षस्य नष्टस्य परेणानुमाने विशिष्टस्य नष्टतया विशेष्यस्वाप्यभावेनानुमितिकाले स्वयंभानायोगाच्च । विशेप्यभूतचैतन्यांशस्य नित्यतया मानमक्षतमिति चेत् न अनुमित्यन्तर्गतविशेभ्यां शचैतन्यस्य चैकतया चैतन्यस्यास्यैव तत्र प्रत्यक्षवृत्तौ प्रतिफलितत्वात् चैतन्याधीनस्य तादात्विक प्रत्यक्षवृत्तिप्रकाशस्य चैतन्यापेक्षयाऽ तिरिक्तत्वाभावाच्च सर्वदा सर्वे प्रति तत्प्रत्यक्षण काशस्य तदानीं तं पुरुषं प्रतीव संभवात्; अनुमित्यादिना तद्ग्रहणपर्यन्तविलम्बस्याभावप्रसङ्गाच्च । उक्तञ्च परिमले " चैतन्यस्यान्तःकरणादौ प्रतिफलने, तस्य निरवयवतया कृत्स्नमेव प्रतिफलेत् ; नैकदेश”: इति । अतश्चैत्रीयप्रत्यक्षस्य मैत्रचैतन्यभास्यत्वमपि स्यादेव । तस्मादनुभवानुरोधात् विशेष्यांशेऽपि भास्यत्वस्वीकारे बाधकाभावाच्च प्रत्यक्षवृत्तिविशेषविशिष्टचैतन्यमनुमितिवृत्तिविशेष विशिष्ट चैतन्यभास्यमित्येव युक्तम् ; शुद्धचैतन्यं तु मा कामं मास्यतामिति वृत्तिचैतन्यानामननुभाव्यत्वं दुःसाधम् । विशिष्टं शुद्धादतिरिक्तमित्यद्वैत सिद्ध्यभिमतपक्षे तु विशिष्टचैतन्यस्यानुभाव्यत्वं
- सुतराम् ॥
- 1
- अतो
- अपि च वृत्तिश्चैतन्यमित्यंशद्वयं प्रतिज्ञानमस्तीत्यत्रापि न किञ्चित् प्रमाणम् । द्रागेव त्वन्तःकरणं बहिर्निष्क्रम्य विषयं व्याप्नोतीत्यत्र । देवदत्तो घटप्रत्यक्षवान् तथा आप्तेनोक्तत्वादित्यनुमानादौ विषयभूतं प्रत्यक्ष चैतन्यापरपर्यायमेवंति अनुभूतिरननुभाव्येत्यनुमानं बाधितमेव । एवं शुद्धचैतन्यस्याप्यनुमित्यादिरूप विशिष्टचैतन्यविषयत्वाङ्गीकारे काऽनुपपत्तिः ? एकस्यैव विशेषणभेदेन भेदकल्पनया चैत्रः स्वं पश्यतीत्यादौ कर्तृकर्मभाववत् आकारभेदेन विषयविषयिभावस्यापि संभवात् । शब्द एव प्रमाणनिति चेत्-कोऽसौ ? " विज्ञातारमरे केन विजानीयात् “,
- " यस्यामतं तस्य मतम् “, न शब्द गोचरो यस्य योगिध्येयं परं पदम् " इत्यादिरिति चेत्—ज्ञप्तिमश्रित्यादिशब्दानां किं वृत्तिमात्र मुख्यार्थः, उत वृत्तिप्रतिफलितं वृत्त्यवच्छिन्नं वा चैतन्यम् आद्यार्थस्वीकारे ब्रह्मणि वृत्तिविषयत्वस्य भवदिष्टतया
- "
- 68
- ५३.८
- परमार्थ भूषणे
- तद्विरोधः । ज्ञानप्रकाश्यत्वस्य वस्तुविष्टतया वृत्तेर्जडतया प्रकाशकत्वाभावात् प्रकाशकवाचिनां श्रुतिमतिध्यानादिपदानां वृत्तिमात्रपरत्वमयुक्तञ्च । वृत्तिविशिष्टचैतन्यमर्थ इति चेत् तदविषयत्वे कथ्यमाने एव तस्य मतमिति तद्विषयत्वकथनं न घटते । अथ अमतमिति वृत्त्यवच्छिन्नचैतन्याविषयत्वमुच्यते, मतमिति वृत्तिविषयत्वम्, एवमनुभूत्यादिशब्दैरनुभूतेः प्रतिपाद्यत्वेऽपि वृत्तिविषयत्वमात्रस्येष्टत्वान्न दोषः । अतो वेद्यत्वविषयश्रुतीनां वृत्तिविशेषविशिष्टचैतन्याविषयत्वे तात्पर्यम्। वेद्यत्वश्रुतीनां वृत्तिविषयत्वमात्रे तात्पर्यमिति चेत्सहश्रुतयोर्मतामत शब्दयोरर्थवैरूप्यकल्पनमनुपपन्नम् । न ज्ञानविषयत्वं ब्रह्मणः, किन्तु वृत्तिविषयत्वमात्रमिति कथनार्थम्, " अन्यदेव तद्विदितादथो अविदितादधि " इति महान् प्रघट्टक इनि च व्यर्थम् । स्वस्मिन् स्वविषयत्वायोगस्यामुक्तिसिद्धत्वात् । प्रघट्टकोऽयम्, ‘ब्रह्म अंशतो वेद्यते, अंशतो न वेद्यते च अपरिच्छिन्नत्वात् पूर्णं न वेद्यत’ इत्येवम्पर इति च, अथ नु मीमांस्यमेव " इत्यन्तसन्दर्भश्राविणां स्पष्टमिति परमार्थप्रकाशिकादौ द्रष्टव्यम् । तथा वृत्तितत्प्रतिफलन तद्धेतुचैतन्यरूपत्रितयसद्भावे प्रमाणं न किञ्चिदिति च प्रागेवावोचाम ॥
- "”
- तस्मात् चैतन्ये चैतन्यविषयत्वस्यानुभूयमानतया चैतन्यैक्ये च स्वस्मिन् स्वविषयत्वायोगेन चैतन्यभेद एव स्वीकार्य इति कथमेकस्य चैतन्यस्यानुस्यूतत्वमिति शङ्कितवद्भिः वृत्तिविशिष्टचैतन्यस्यैकस्य प्रत्यक्षादिपदार्थत्ववादिभिः चैतन्ये चैतन्यविषयत्वस्यैवास्वीकारेण तत्परिजिहीर्षया अनुभूतीनामननुभाव्यत्वं कल्पयितुमुपक्रान्तमिति तत्त्वम् । तथाचानुभूतेरेकत्वात् स्वस्य स्वविषयत्वायोगात् अनुभूतिविषयत्वाङ्गीकारे अनुभूतेरननुभूतित्वप्रसङ्ग इत्यद्वैतिहृदयम् । अनुभूत्यतिरिक्त वृत्त्यभावात् अनुभूतीनामनेकत्वस्य प्रत्यक्षादिसर्वप्रमाणसिद्धतया स्वस्य स्वविषयत्वायोगेऽपि स्वभिन्नानुभूतिविषयत्वं नानुपपन्नमिति न तावता अननुभूतित्वप्रसङ्ग इति सिद्धान्त्याशयः । अतोऽनुभूत्येकत्वनानात्वान्यतरनिर्धारणाधीनोऽयं विचारः । तन्नानात्वं च कालभेदाधारभेदादिना सिद्धयतीति समनन्तरवादेषु व्यक्तीभविष्यति ॥ अवेद्यत्य-भङ्ग-प्रसाधनम् ५३९ यत्तु — अनुभूतिः स्वप्रकाशाऽप्यज्ञानाविरोधिनी । वृत्तिरेव विरोधिनी । प्रमाणजन्य परोक्षवृत्तिरसत्त्वापादकाज्ञानविरोधिनी । सर्वविधाज्ञानविरोधित्वं चापरोक्षवृत्तेरिति तन्त्र —— अनुभूतिर्हि अहमिति भासमानादात्मनो नातिरिच्यते । अहमिति मानादेवासत्त्वापादकाज्ञानं न स्थास्यतीति न तत्र परोक्षादिवृत्त्यपेक्षा । एवम् जानामि, संवेद्मीत्याद्यनुभवेष्वपि अनुभूतेर्भानात् अनुभूत्यसत्त्वापादकमज्ञानं दृरापेतम् । नित्यमेकमनुभूतितत्त्वं ततो न वेद्यते इति प्रमाणापेक्षेति चेत्-तर्हि तद्गत नित्यत्वैकत्वाद्य सत्त्वार्थाज्ञानमेव वृत्तिनिरोध्यम् । नत्वनुभूत्यज्ञानम् । यदि त्वनुभूतिः साऽन्या, ज्ञानसंवेदनादिरूपा वृत्तिविशिष्टा त्वनुभूतिरशुद्धत्वान्मिथ्याभूता ततोऽन्येत्युच्यते, तर्हि सिद्धे भेदे किमित्यनुभाव्यत्वाननुभाव्यत्वकलहः । भिन्ना इमा अनुभूतयः किं वृत्तिविशिष्टाः, शुद्धा वा? मिध्या तथ्या वेत्यादि तु विचार्थं स्यादिति ॥ I एकैकस्याप्यात्मनः स्वं स्वं प्रति खप्रकाशत्वेऽपि परं प्रति स्वप्रकाशत्वस्यास्वीकारात् स्वयंप्रकाशस्यापि परात्मस्वरूपस्य जीवगतश्रवणमननादिधर्मभू ज्ञानविषयत्वस्य प्रमाणप्रतिपन्नत्वाच्च न धर्मभूतज्ञानस्य तत्रानपेक्षितत्वम् । न वा तादृशज्ञानं विना बन्धनिवृत्तिः । ईश्वरसंकल्पस्यापि प्रसत्तिहेतुभत्तत्याद्यायत्तत्वात् । न च कतिपयविषयत्वे ईश्वरसंकल्पः संकुचित इत्येतावता तदीयः ज्ञानस्य जीवज्ञानस्येव संकुचितत्वापत्तिः; संकल्पान्तरेणान्यस्यापि विषयकरणात् सार्वज्ञस्यस्य निर्विवादत्वाच्च जीवतुल्यज्ञानसंकोचस्याप्रसक्तेः । तत् सिद्धमनुभूतीनां स्वप्रकाशानामेव सतीनामनुभाव्यत्वमप्यनुभवसिद्ध न निषेद्धुं शक्यमिति ॥ बाह्याक्षवृत्तिरिव मानसवृत्तिरिष्टा व्यापार एव करणस्य धियां प्रसूतिः । प्रत्यक्ष लैङ्गिकमुखाश्च धियो विचित्राः प्रख्यातमाभिरिह साधनमात्मनाश्च ॥५४. परमार्थ भूषणे लोकानुभूतिमपलप्य वृथा प्रकल्प्य त्वेकैकधीघटकतां चितिवृत्तियुग्मे । नित्यां च तां चितिमनात्मगतां तथैका मिष्टा बत श्रुति गिरोऽपि कदर्थयन्ति ॥ अत एतदुपेक्ष्य सर्वलोकप्रथितां ज्ञानविधां प्रवेदयन्तः । अमताननुभाव्यता द्यमन्यैरुदितं साधु विशोधयन्ति सन्तः ॥ श्रीः