२० ब्रह्माश्रयाज्ञान-भङ्ग-प्रसाधनम्

स्वप्रकाश चितोऽप्युक्ता खाज्ञानाश्रयतां हि ये स्वात्मानं मन्वतेऽभिज्ञं सर्वज्ञस्तन्मतं तु (स्तु) ॥ ब्रह्मविषयकत्वमज्ञानस्य सर्वाद्वैतिसंगतम् । जीवानामेवाज्ञानाश्रयत्वमिति ब्रह्मसिद्धिभामत्यादिपक्षः । ब्रह्मण एव तदाश्रयत्वमिति प्राचीनं प्रस्थानम् । जीवाज्ञानपक्षो यथावसरं खण्डयिष्यते । अत्र दृग्दृश्यसंबन्धप्रस्तावे ब्रह्मण्यज्ञानानुभवनिरासवत् अज्ञानाश्रयत्वमपि निरस्यते । तेनाज्ञानाद्यनुभवमेकतो ब्रह्मणि ब्रुवन्त एवान्यतो ज्ञातृत्वमहङ्कारगतमिति अज्ञातृत्वमेव ब्रह्मणि संगिरमाणाः अज्ञानाश्रयत्वं परमातिष्ठन्ते । पत्र यदि ब्रह्म अज्ञानाश्रयः स्यात् ज्ञात्रपि भवेत् ; ज्ञातृत्वाभावे अज्ञानाश्रयत्वाभावस्य घटादिषु दर्शनादिति प्रतितर्कप्रयोगे तत्परिजिहीर्षया यत्, ’ कृत्वाचिन्तया कथ्यत’ इति कथनपूर्वकमुक्तम् —घटादीनामज्ञानानाश्रयत्वमज्ञानकार्यत्वप्रयुक्तम् न त्वज्ञातृत्वप्रयुक्तम् । अन्यथा सुषुप्त्यादिकाले ज्ञातृत्वाभावात् अज्ञानाश्रयत्व-भङ्गप्रसङ्गात् इति तन्नकृत्वाचिन्तयाऽप्येवं वक्तुमशक्यत्वात् । अज्ञानानाश्रयत्वे अज्ञानकार्यत्वमेव प्रयोजकं चेत् —अज्ञानस्याज्ञानाश्रयत्वापत्तिः । तस्याज्ञानकार्यत्वाभावात् । अतः अज्ञानतत्कार्योभयसाधारणमज्ञातृत्वमेकमेव प्रयोजकम् । सुषुप्त्यादावज्ञानानाश्रयत्वं स्यात् ज्ञातृत्वाभावादिति तु न ब्रह्मणि ज्ञातृत्वस्य सर्वथैवाभावात् अज्ञानानाश्रयत्वे आपाद्यमाने सुषुप्तिकाले अज्ञानाश्रयत्व-भङ्गः स्यादिति केयं प्रत्युक्तिः ? किञ्च, " न तत् ज्ञातृत्वप्रसक्तिशून्ये ब्रह्मणि भवितुमर्हति “इत्येव शतदूषण्यामुक्तमिति सुषुप्तिकाले तृत्वाभावेऽपि अन्यदा ज्ञातृत्वसत्त्वात् ज्ञातृत्वप्रसक्तिशून्यता दुर्वचा । ब्रह्मणि ज्ञातृत्वप्रसक्तिशून्यत्वस्येटत्वात् तत्राज्ञानाश्रयत्वं न स्यादित्येवोच्यते । किश्च सुषुप्तावन्तःकरणलयेऽप्यज्ञानमस्तीत्यत्र किं प्रमाणम् ? न किञ्चिदहमवेदिषमिति प्रबुद्धस्य प्रतिसन्धान ब्रह्माश्रयाज्ञान-भङ्ग-प्रसाधनम् ५१५ मिति चेत्कोऽसौ प्रबुद्धः ? अहंकाररूपोऽहमर्थ इति चेत्-स सुषुप्तिकाले खसद्भावं स्वस्मिन् अज्ञानसद्भावं च यदि प्रतिसंघत्ते, कथं तस्याहङ्कारस्य तदा विलयो भवद्भिरिष्यते ? यद्ययं परामर्शः तदानीमहङ्कारसद्भावविषये न प्रमाणम् । अज्ञानसत्त्वविषये परं कथं भवितुमर्हति ? यदि तदाऽप्यहंकारः किञ्चिद्रषेणास्ति, तर्हि तद्विलयस्यात्र हेतुतया निर्देशो न युज्यते । अपि च ज्ञातयैवाज्ञानाश्रयत्वमिति वादिनः ज्ञानाज्ञानयोः समानकालिकत्वं हि नाभिप्रेतम् असंभवात् । अतश्च ज्ञातृत्वस्य कदाचिदभावः अज्ञानाश्रयत्वस्य न प्रतिपन्थी । किन्तु ज्ञातृत्वप्रसक्तभाव एवेति ॥

यत्तु — अज्ञानस्य संविन्मात्राश्रितत्ववादे अखण्डाकारवृत्तिरूपज्ञानस्यापि संविन्मात्रजीवाश्रयत्वात् समानाश्रयलं वर्तत एवेति । नैतत् संविन्मात्रस्य जीवस्य च भिन्नत्वात् । अज्ञानस्यैकत्वेऽपि तदेशानामकत्वेन तत्तदंशप्रतिबिम्बभूतानां जीवानां मिथो भेदमभिमत्य तत्तज्जीवगतात् ज्ञानात् तत्तदज्ञानांशनिवृत्तिमुपपाद्य एकज्ञानेन सर्वमुक्तिप्रसङ्ग परिहरद्भिः कथं तावत् ज्ञानं संविन्मात्रगतमिति सुवचम् । तथा सति संविन्मात्रगतेन ज्ञानेनैकेन संविन्मात्राश्रितस्याज्ञानस्य कार्त्स्न्येन निवृत्तौ तर्दशानामभावेन सर्वमुक्तेरेवापत्तेः । किंच ज्ञानपदेन किं चैतन्यं गृह्यते, उत वृत्तिः ? नाद्यः, संविन्मात्रस्य संविदाश्रयत्वायोगात् । अन्तःकरणेऽहमर्थे यदि संविदः प्रतिफलनम्, तर्हि व्ययस्य व्यञ्जकस्थतया भानस्वीकारेऽहंकाराश्रितत्वमेव ज्ञानस्य संविद्रूपस्य स्यात् । यदि च वृत्तिः, तदा नतरां संविन्मात्रनिष्ठत्वम् ; वृत्तिः यदीयः परिणामः, तत्रैव तत्स्थितेः अतो यादृशस्य धर्मिणो ज्ञानाश्रयत्वम् तादृशस्य तस्यैवाज्ञानाश्रयत्वं वाच्यमिति न शुद्धे संविन्मात्रे स्यादज्ञानम् । अन्यथा देवदत्तगतात ज्ञानात् यज्ञदत्तगतमज्ञानमपि निवर्तत । तदर्थं सामानाधिकरण्ये आवश्यके ज्ञानमपि संविन्मात्रे एषितव्यम् । अज्ञानं वा ज्ञानाश्रयत्वाभिमतेऽन्यत्र स्वीकर्तव्यमिति ॥ यत्तु देवदत्तीयघटज्ञानेन देवदत्तीयापाटाज्ञानानिवृत्त्या ज्ञानाज्ञानयोर्न सामानाधिकरण्यं निवर्त्य निवर्तकभावदयोजकम् ; किंतु समान विषय ५१६ परमाभूषणे कंत्वमिति सत्यमेतत् । अथापि देवदत्तीयघटज्ञानेन यज्ञदतीपद्यटाज्ञानस्य निवृत्त्यभावेन समानविषयकत्वमात्रमपि न तन्त्रम् । अतो ज्ञानं स्वविषयविषयकं स्वसमानाधिकरणमज्ञानं निवर्तयतीत्येव नियम इति सामानाधिकरण्यमप्यावश्यकमेवेति । यत्तु समानाथ त्वयोग्पत्यमेव निवर्तनिवर्तकभावे प्रयोजकमितितेन किमुक्तं भवति ? न हि संविन्मात्रे कदापि ज्ञानाविकरणत्वप्रसक्तिरहिते योग्यत्वमपि संभाव्यते । न च योग्यतामात्रमज्ञाननिवर्तकम् । तथा सति कस्यापि किञ्चिद्विषयेऽप्यज्ञानासद्भावप्रसङ्गात् । विशिष्टदशायां ज्ञातृत्वम्, उपलक्षितदशा याञ्चाज्ञातृत्वमित्यपि न संसारदशायामहङ्कारविशिष्टतायाः संविन्मात्रे सत्त्वेनाज्ञातृत्वदशायाः उपलक्षितदृशात्वायोगात् । सामानाधिकरण्ये सिद्धे किल दशाभेदचिन्ता । तदेव नेति किल संप्रत्युच्यते । यदि च ज्ञानं परं परयैव संविन्मात्र प्रत्यानीयते, तर्ह्यज्ञानमपि तथैवानेतव्यम् । तयोस्साक्षादधिकरणस्यैकत्वानुभवादिति अज्ञानाश्रयत्वमपि संविदो न स्यादेव । असामानाधिकरण्येऽपि दीपतमसो निवर्त्य निवर्तकभाव इष्ट इति भवदुद्भावनं भवतैव दीपप्रभामादाय सामानाधिकर व्यस्य दर्शितत्वात् परिहृतमेव । ईश्वरसङ्कल्पस्य जीवगतकर्माख्याविद्यानिवर्तकत्वं दृश्यत इति निवर्त्यनिवर्तकयोर्वैयधिकरण्यशङ्कातत्परिहारौ शतदूषणीदर्शितावेव ; नापूव । किञ्च, जीवगतकर्मेति किमुच्यते ? न तावत् मनोवाक्कायव्यापारः जीवनिष्पाद्यः, तस्य तदैव नष्टत्वात् विलम्वितोत्पत्तिकेश्वर सङ्कल्पानिवर्त्यस्वात् । न चादृष्टं जीवात्मनिष्ठम् अस्माभिस्तदनभ्युपगमात् । नापि निग्रहानु ग्रहरूपावीश्वरज्ञानविशेषौ ; तथा सति सङ्कल्पसामानाधिकरण्यस्याक्षतत्वात् । अतः शतदूषण्यां जीवगताज्ञानेत्यत्राज्ञानपदेन कर्मग्रहणमिति न मन्तव्यम् । यत्त ’ शक्तिविशेषोपबृंहितत्वेन तदुपपत्तेरिति वाक्यात् वैयधिकरण्येऽपि शक्तिविशेषे सति निवर्त्यनिवर्तकभावो भवतीत्याशय कल्पनम् -तदपि न युक्तम् । “ईश्वरादिगतेन ज्ञानेन तदनुग्रह विषयजीवगताज्ञाननिवृत्तिः” इति अनुग्रहविषयपद निवेशेन विधान्तरेण सामानाधिकरण्यसंपादनस्य दर्शितत्वात् । विषहविषयिभावेन सामानाधिकरण्ये वर्ण्यमाने शक्तिविशेषोऽप्यपेक्षित इत्येतावत ब्रह्माश्रयाज्ञान-भङ्ग-प्रसाधनम् ५१७ एवात्र कथनात् । भवन्मते शक्तिविशेषस्य सहकारित्वखीकारे तु तत्त्वज्ञानादज्ञाननिवृत्तिरूपलोकदृष्टप्रक्रियापरित्यागात् जगन्मिथ्यात्वाद्यसिद्धिप्रसङ्गः । शापानुग्रहादिना वस्तुभूतपदार्थ नाशाभ्युदयादिकल्पनरीतेरेव तदेष्टतया वस्तुसत्यत्वस्यैव तदानीं सिद्धेः । एवं सामानाधिकरण्येन स्वगतदोषस्य खसङ्कल्पतो नाशे प्रभविष्णुग्यपि शक्तिविशेषसहकारेणैव तन्निवर्तक इति शक्तिविशेषापेक्षायां वैयधिकरण्यनियम इत्य् अपि न मन्तव्यम् । यतु शास्त्रप्रामाण्यात् ज्ञानाज्ञानयोर्मिन्नगतयोरपि निवर्त्यनिवर्तकमावः किं न स्यादिति तन्न –तथासत्येकज्ञानेन सर्वमुक्तेरपि स्वीकार्यत्वात् । जीवगतं वृत्तिज्ञानं सविन्मात्रगतमज्ञानं निवर्तयती, लोकमुल्लङ्ग्व्य शास्त्रबलात् स्वीकारे लोकन्यायेन जगतो मिथ्यात्वमप्रकल्प्य वस्तुभूतमेव जगत् वृत्तिज्ञानेन निवर्त्यते । तस्य तथाविधा च शक्तिः शास्त्रबलादेष्टव्येत्येव वर्णनसंभवादपसिद्धान्तावरुम्बनं स्यात् । अयमेवाद्वैति परमाशय इति चेत् अद्वैतिनिरसन परिश्रमस्तर्हि लघुकृतो भवति । तथ्यमेव जगत् सर्व स्थितमेवात्मनो बन्धाय न प्रभवति विवेकवैशेप्यादिति वयम् । यूयं तु जगत्सत्यत्वे कदापि कथमप्यधःपातः स्यादिति भिया सर्व ज्ञानमहिना विनाश्य केवलीबुभूषथेत्येतावान् भेदः । जगद्विनाशमन्तरैव स्वात्मप्रवृत्तिप्रयोजक सामग्री विवटनेन केवलीकरणं तु तार्किकेटम् । अन्ततो भवन्मतेऽपि पाषाणकल्प एव मोक्ष इति च वक्ष्यते इत्यलम् । जीवनिष्ठादृष्टादिनैव जैमिन्युक्तरीत्या निर्वाहे किमीश्वरसंकल्पेनेत्याद्यर्धनास्तिकवादस्तु बादरायणेन, भवद्भाष्यकृदादिभिश्च शमित इति किं वृथा केवलमहृदयं तत्प्रस्तावे । अतो जगन्मिथ्यात्वादिभिर्लोकन्यायेन तत्त्वज्ञाननिवत्त्वस्याज्ञानमिथ्याज्ञानादौ वक्तयत्वात् लोके च समानाधिकरणस्थल एव निवनिवर्तकभावदर्शनात् न जीवगतेनान्तःकरणगतेन वा ज्ञानेन ब्रह्माज्ञाननिवृत्तिसंभवः । अत एवाखण्डाकारवृत्तेः निवर्तकत्वं निरस्तम् । वृत्तेर्ब्रह्मनिष्ठत्वाभावादसामानाधि करण्यात् । ५१८ •

ज्ञानाधारत्वयोग्यस्य त्वज्ञानाधारता भवेत् । ज्ञानगोचरतार्हश्च भवेदज्ञानगोचरः ॥ ब्रह्मणस्तूभयाभावान्नाज्ञानास्पदतोभयी । दृश्यत्वे ब्रह्मणो जाड्यमिध्यात्वादि प्रसज्यते ॥ यत्तु —वृत्तियाप्यता न जडत्वादिप्रयोजिका । चैतन्यविषयत्वं तु तथा, नैतच्चितस्त्विति —॥ तन्न; वृत्तिजडा यस्मात् चैतन्यग्रहणाक्षमा । रहस्ययोगव्यासेधात् न चिद्विषयता कचित् ॥ वृत्तेरज्ञानरोधित्वे मा भूत् चिगोचरो जगत् । वृत्त्यास्पदत्वं दृश्यत्वं स्यात् तज्जाड्यादिसाधकम् । चितत्वज्ञानरोधित्वे ब्रह्माज्ञानं न नङ्क्षयति । न ब्रह्मगोचरा यस्मात् चिदेषैतच्च चिन्तितम् । ब्रह्माज्ञानं ब्रह्मनिष्ठं शुतज्ञानं च शुक्तिगम् । वदन्नुपेक्ष्यो ज्ञात्रैकनिष्ठत्वानुभवात् तयोः ॥ अत एव ब्रह्मशक्तिविषयाज्ञानमिष्यते । जीवे ज्ञानाश्रये भामत्यादिग्रन्थनिबन्धुभिः ॥ तद्वैलक्षण्यसिद्धयर्थं ब्रह्मण्यज्ञानसंश्रये । ज्ञातृत्वेष्टौ तुल्यनयात् नित्य सर्वज्ञता ध्रुवा ॥ तथा च कथमज्ञानसंश्रयत्वं भवेदिह । तत् सिद्धं प्रथमो हेतुरज्ञत्वं वारयेदिति ॥

यत्तु स्वप्रकाशत्वात् ब्रह्म नाज्ञानाश्रय इति द्वितीयमनुमानं दूषयितुमनसोक्तम् – स्वप्रकाशत्वादपि अज्ञानाश्रयो ब्रह्मेति – तदयुक्तम् । खप्रकाशत्वस्याज्ञानाश्रयत्वसाधकत्वाभावात् । अन्यथा मुक्तावप्यज्ञानापत्तेः । तदत्र स्वप्रकाशत्वेऽप्यज्ञानस्याश्रय इति भाव्यम् । यत्तु स्वप्रकाशस्य नाज्ञानविरोधित्वम्, अपि तु वृत्तेरेवेति – तत्र वक्तव्यम् ; किं स्वरूपप्रकाशः सर्वथैवाज्ञाना निवर्तकः, ब्रह्माश्रयाज्ञान-भङ्ग-प्रसाधनम् ५१९ उत आंशिक ज्ञानानिवर्तक इति । नाद्यः, नाहमस्मीति, अहं नैक इति च विपर्थयादिरूपस्याज्ञानस्याभावेन स्वरूपप्रकाशस्य तदज्ञानेन साकं विरोधस्य भाष्यादिसंमतत्वात् संविदात्मवादे भवतैवोक्तत्वाच्चं तद्विरोधप्रसंगात् । नान्त्यः, निरंशे ब्रह्मणि आंशिकाज्ञानस्य दुर्वचत्वात् । सत्तांशेऽज्ञानाभावेऽपि आनन्दांशे तदस्तीति चात एव दुर्वचम् । आनन्दांशः कल्पितश्चेत् तदज्ञानं गुण एव, सर्वज्ञस्य शुक्तिरजताज्ञानवत् । तदज्ञाननिवृत्तौ प्रयतमानस्तु कल्पिताकारग्रहणरूपविपरीतज्ञानसंपादने प्रयस्यन् तत्, तन्नूलमज्ञानञ्चात्मनि स्थापयतीति नैवं मोक्षः स्यात् । अतस्तेजस्तिमिरयोरिव स्वप्रकाशब्रह्म तदज्ञानयोर्विरोध एवेति । अग्निरिव धूमेनाज्ञानेन ब्रह्मss वियत इत्यप्ययुक्तम् । जन्यजनकयो र भिधूमयोरविरोधात् ॥ सुषुप्तावात्मा प्रकाशत इति च सुप्तोत्थितपुरुषगतपरामर्शविशेषात् कल्पनीयम् । तथापि तस्यात्मनः संविन्मात्रत्वं स परामर्शो न स्थापयितुभीष्टे ॥

यत्त – प्रत्यक्षस्थले विषयदेशेऽन्तः करणव्याप्तिरेषितव्या, अन्यथा प्रत्यक्षपरोक्षविभागानुपपत्तेरिति तन्न परोक्षत्वव्याप्यस्मृतित्वानुमितित्वशाब्दबोधत्वा दिवैजात्यमन्तःकरणव्याप्त्यभावाविशेषेऽपि यथा सामग्रीवैलक्षण्यान्निरुह्यते, तथैव प्रत्यक्षत्वमपीति सुवचत्वान् ॥ यच्च–शुत्तयज्ञानमसत्त्वा पादकमात्रम्ः न त्वभानानानन्दतापादकमपीति —— तत्र किं नियामकम् ? ब्रह्माज्ञानस्य त्रैविध्यं तावदिष्टं शाब्दप्रत्यक्षविचारावसरे भवताऽप्युक्तम् । तत्र श्रवणं ब्रह्मासत्त्वविषयाज्ञानम्, मननं ब्रह्मानानन्दत्व विषयाज्ञानम्, ध्यानमभानापादकमज्ञानं च निवर्तयतीति चोक्तम् । तद्वदेव शुक्तिश्रवणं शुक्तिमननादिकं चान्यादृशमज्ञानं निवर्तयतीति किं न स्यात् । एवं ज्ञानसामान्यस्याज्ञान निवर्तकत्वे शुक्तिरजतज्ञान निवर्त्यमप्यज्ञानं स्वीकर्तव्यम् । प्रमात्मकज्ञानस्यैवाज्ञाननिवर्त कत्वे तु शुतज्ञानमपि न सिद्धयेत् । शुक्तिज्ञानस्य वस्तुतो भ्रान्तिरूपत्वात् । शुक्तयज्ञानं नाम शुत्यवच्छिन्नचैतन्याज्ञानमिति चेत् -शुक्तिरजताज्ञानमपि रजतावच्छिन्नशुक्तयवच्छिन्नचैतन्याज्ञानमित्यस्तु । वस्तुतः शुत्यवच्छिन्नचैतन्यमपि शुद्धचैतन्यादन्यात्वात् मिथ्यैवेति तदज्ञानायोग एव । असत्त्वा-५२०

पादकाज्ञानविषयत्वप्रयोजकवृत्तिविशिष्टचैतन्यं जानात्यर्थ इत्यापि न ; विकल्प विपर्ययादेरपि ज्ञानावान्तर भेदरूपतायाः लोकप्रसिद्धतया शशविषाणविकल्पस्य च भवदिष्टतया तत्सत्त्वानङ्गीकारेण तत्रासत्त्वापादकाज्ञानाविषयत्वप्रयोजक विशिष्टचैतन्यरूपत्वस्य दुर्वचत्वात् । अखण्डाकारवृत्तिस्त्रिविधाज्ञानाविषयत्व प्रयोजिकेत्यपि न ; अखण्डाकारवृत्तिप्राग्भाविश्रवणमननवृत्तिदशायामेव नियमेन द्विविधाज्ञाननिवृत्त्या त्रिविधाज्ञानाविषयताप्रयोजकत्वस्यात्र वृत्तावयोगात् । वस्तुतो ब्रह्मणः, अस्ति भाति प्रियमिति गृह्यमाणतया असत्त्वाभानानानन्दतापादकमज्ञानं दुर्वचम् ; सुतरां स्वप्रकाशत्वादपीति, अज्ञानत्रैविध्यमयुक्तमिति च, अन्यच्च शब्दजन्यप्रत्यक्ष-भङ्गप्रसाधन एवं प्रत्यपादीति कृतं बहुना ॥ यत्तपा धिवर्णनम् iv अज्ञानमिदं न ज्ञानमात्रव्रह्माश्रयमज्ञानत्वात् शुक्तिकाद्यज्ञानवदित्यत्रासत्त्वापादकशक्तिमात्रविशिष्टाज्ञानत्वमुपाधिरिति तन्न ; असत्त्वमात्रापादकत्वमित्यत्र नियामकाभावस्योक्तत्वात् । शुक्तिकाद्यज्ञाने Sp शक्तिद्वय विशिष्टाज्ञानत्वे ज्ञानमात्राश्रितत्वं भवितुमर्हति न त्वेकशक्तिमात्रा ज्ञानत्वे इत्यत्र नियामकाभावाच्च न तस्योपाधिता । संभवति सामान्यस्याज्ञानत्वस्य प्रयोजकत्वे विशेषप्रयोजकतावर्णनस्यैव गुरुत्वाच्च । अन्यथा तुल्यनयात् ब्रह्माज्ञानं वृत्त्येकनाश्यमज्ञानत्वात्, शुक्तिकाद्यज्ञानवदित्यत्रापि असत्त्वा पादकशुक्तिमात्रविशिष्टाज्ञानत्वमुपाधिः स्यात् । अज्ञानस्य ज्ञानस्य च निवत्यनिवर्तकभावस्य संगतत्वात्, असमानाधिकरणत्वे च तदयोगात् ज्ञात्राश्रितत्वमावश्यकमित्यनुकूलतर्कपुरस्सरमज्ञानत्वहेतुना ज्ञानमात्रानाश्रितत्वे साध्यमाने उपाधिवर्णनस्यासंभवाच्च । श्रीभाष्यमते जीवस्य संविन्मात्रत्वमित्येतच्चायुक्तम् । संविदाश्रयत्वस्यापीष्टत्वात् । अन्यदध्येवमपार्थ विस्तरणमपास्यम् ॥ नित्यमुक्तत्वात् ब्रह्म नाज्ञानाश्रय इति तृतीयप्रयोगे यदुक्तम्, नाविद्याश्रयत्वमात्र बन्धः, किन्तु अन्तःकरणधर्म सुखदुःखाद्याश्रयत्वम् । तच्च प्रतिविम्बविशेषरूपजीवनगतम् । सुषुप्तावविद्याश्रयत्वेऽपि निरतिशयानन्दानुभवस्य सर्वसाक्षिकत्वात् । प्रकृत्याक्षश्रऽपीश्वरे बद्धत्वस्य परैरनङ्गीकाराश्चति ब्रह्मश्रयाज्ञानभ-प्रसाधनम् ५२१ तदपि न प्रकृत्याश्रयत्वं प्रकृतिनिरूपितशरीरात्मभावः, प्रकृतिनियामकत्वमिति भवत्वानूदिततया अज्ञत्वरूपाज्ञानाश्रयत्वस्य तावता प्रसत्त्यभावात् परमते दोपानापत्तेः । न हीदृशमज्ञानाश्रयत्वं ब्रह्मणि प्रकटार्थकारो वा विवरणकारो वाऽन्यो वा कश्चिद्वैती विवक्षति । सुषुप्तौ निरतिशयानन्दानुभवः सर्वसाक्षिक इत्य् अपि विचार्यम् । तार्किकमीमांसकादिभिः सुखमहमस्वासमिति प्रतीतेरन्यथैव निर्वाहः क्रियते । न चैतत्प्रतीतेरन्यत् प्रमाणमानन्दानुभवेऽस्ति । यद्यपि वेदान्तिनस्तदा सुखरूपात्मप्रकाश न-भङ्गुरमा शेरते तथापि शोधने क्रियमाणे तस्य सुखस्य निरतिशयत्वं तदाऽनुभूयमानमिति, सुखखरूपमात्रस्यापि तदाऽनुभवान्तरगोचरत्वमेव वा दुरुपपादमेव ; वृत्तिज्ञानस्य कस्यचित्तत्राभावात् । अन्यथा सुषुप्तिविरोधात् । वस्तुतो ग्रहणरूपवृत्तीर्विना स्वरूपमात्र स्वयंप्रकाशमित्येतावदेव तदा सेत्स्यतीति निरतिशयानन्दानुभवेत्यादिवाग्विस्तरस्य न पुत्र प्रसक्तिः । किञ्च सुषुप्तोऽपि बद्धत्वेनैव सर्वेष्टःतत्रान्तःकरणधर्मभूतसुखदुःखाद्याश्रयत्वरूप भवदुक्तो बन्धश्च दुर्वचः । अतोऽविद्याश्रयत्वमेव तदा स्थितं बन्धो भवितुमर्हति । अत एवोक्तं शतदूषण्याम्, न ह्मज्ञानाश्रयत्वमनन्तभव्य बन्धो नाम " इति । सुषुप्तौ च जीवस्याज्ञत्वमज्ञानाश्रयत्वमस्तीति स बन्धः । तच्चेत् ब्रह्मणि, तदपि बद्धमेवेति ॥ अस्तु सुखदुःखौपयिकसंसर्गविशेषो बन्ध इति चेत् स यदि ब्रह्मणः, तर्हि नित्यमुतत्वविरोधः धः । यदि तदन्यस्य, तर्हि कस्य ? ब्रह्मातिरिक्तस्या विद्यावस्थागतप्रतिबिम्बरूपस्य जीवस्यैवेति चेत् — भवतैव प्राक् ब्रह्मसिद्धिवाक्यशोधनावसरे चिन्मात्रस्य प्रतिबिम्बवर्णनायोगात् अनवच्छिन्नजीववाद एव भामत्यादिहृदयारूढ इत्युपवर्णिततथा अन्तः करणावच्छिन्नचैतन्यं जीव इति पक्षे प्रलयादावन्तः करणाभावेन जीवहानिप्रसङ्गात् अविद्यांशावच्छिन्नत्वरूपजीवत्वप्रयोजकाकारे स्वीकृते ब्रह्मानादिवद्धमेव भवतीति कथं तस्य नित्यमुक्ततेति । विशिष्टं शुद्धाद्भिन्नम्, शुद्ध नित्यमुक्तम्, विशिष्टं बद्धमित्यादिकं तु प्रागेव परास्तम् । तथा सति डित्थाकारेण कृतं कर्म जन्मान्तरे डपित्थीभूय नानुभवितुमईति । 66 66 ५२२

कर्तुर्विशिष्टस्य भोक्तश्च विशिष्टस्य भिन्नत्वात् । अन्यथा कृताभ्यागमकृतविप्रणाशप्रसङ्ग इति । किश्च प्रकटार्थकारेण मायाप्रतिबिम्बत्वेन, विवरणकारेण मायाबिम्बत्वेन च स्वीकृतादीश्वरात् बद्धाज्जीवाच्च विलक्षणं शुद्धं ब्रह्म नित्यमुक्तं किमित्यविद्याश्रयत्वेन स्वीक्रियते । अन्येषामविद्याकार्याश्रयतया नाविद्याश्रयत्वं भवतीति चेत् भवतु काममज्ञानमनादि निराश्रयमेव । ब्रह्मविषयकज्ञानं मुक्तिहेतुरिति तन्निवर्त्याज्ञानविषयत्वस्य ब्रह्मणि स्वीकार्यत्वे ऽप्याश्रयत्वस्वीकारस्यानपेक्षितत्वात् । अज्ञानाश्रयत्वं यद्यनुभवानुसारा दुच्येत, त हमज्ञ इत्यनुभव एव ग्राह्यः । स चाहमर्थस्याज्ञानाश्रयत्वं ज्ञापयेत् । तत्तु भवतामनिष्टम् । " मानि तु महेश्वरम्" इत्यादिश्रुतिश्च न शुद्धब्रह्मणि अविद्याश्रयत्वबोधनक्षमम् । एवं " तमसा गूढम् " इत्यादिकमपि कथञ्चित् विषयत्वं बोधयेत्, नाश्रयत्वम् । एवं नित्यमुक्ताश्रितत्वे अविद्यायाः हेयत्वमपि न स्यात् । अतो मुक्तावपि तदनुवृत्तिप्रसङ्गः । निवर्तनीयत्वे च हेयत्वमवार्थम् । हेयभूता विद्यावत्त्वं नित्यमुक्तत्वं च मिथो व्याहतमेव । यदि च कल्पितेनाविद्याश्रयत्वेन नित्यमुक्तत्वस्य न विरोधः, तर्हि तन्निवर्तनप्रयत्न एव व्यर्थः । तथा सति, तत्त्वाभिज्ञेषु जीवन्मुक्तेषु च नित्यमुक्तत्वव्यवहारः, न तु यत्किञ्चिन्मात्रज्ञजीवविषये स व्यवहार इति भवदुक्तं न युक्तम्, तस्यापि जीवत्वस्य मिथ्यात्वेन नित्यमुक्तत्वाविरोधात् ॥ अथ सर्वज्ञत्वात् ब्रह्मणोऽविद्याश्रयत्वं न भवतीति शतदूषण्युक्ते यदुच्यते शुद्धं ब्रह्म अविद्याश्रयः, मायोपहित ईश्वरो जगत्कारणं सर्वज्ञ इति तयोर्भेदात् सर्वज्ञे अविद्याश्रयत्वस्यास्माभिरनुक्तेरदोष इति तत्रेदं वक्तव्यम्—सिद्धान्तलेशसंग्रहे विवरणानुसारिमतं प्रस्तुत्य सर्वज्ञत्वादिविशिष्ट मायाशबलमीश्वररूपमेवोपादानम् बहुभाष्यग्रन्थानुरोधात् । संक्षेपशारीरके शबलोपादानत्वनिराकरणमपि मायाया अप्युपादानकोटिनिवेशवारणाभिप्रायेण । अतो न " वोक्तम् । ब्रह्माश्रयाज्ञानभज प्रसाधनम् "" ५२३ जीवसाधारणरूपेणोपादानत्वमित्युक्तं विवृण्वता, अच्युतकृष्णानन्दतीर्थेन “ वियदादिप्रपञ्च ईश्वराश्रितमायापरिणामः " इत्युतरग्रन्थमप्यनुसृत्य ईश्वरस्यैव मायारूपाविद्याश्रयत्वं वदता मायाप्रतिबिंबभूतस्येश्वरस्य कथं मायाश्रयत्वमित्या शङ्कय अविद्यागताघटित घटनापटीयस्त्वादिना तदुपपाद्य, “ न च शुद्धचैतन्याश्रितैव माया तत्र प्रतिविम्बभावं घटयतीति कुतो नाश्रीयत इति शङ्कयम् — ‘मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम् ’ इति श्रुतिविरोधात् । मायिनमिति तस्या ईश्वराश्रितत्वप्रतीतेः ।" इति शुद्धचैतन्यस्याविद्याश्रयत्वं निरस्य ईश्वरस्याविद्याश्रयत्वं प्राच्याभिमतमुपपादितम् । ईश्वरश्च सर्वज्ञ इति तत्रैसंप्रतिपन्नञ्च । एवंच सर्वज्ञत्वमीश्वरे, अविद्याश्रयत्वं शुद्धचैतन्य इति विवरणमत विवरणं भवतस्तद्विरुद्धम् । वस्तुतः सर्वज्ञत्वं नाम मायाशबलचैतन्यस्य सर्ववस्तुना साकं संबन्धः । ईश्वरस्याविद्याश्रयत्वं नामाविद्याप्रतिबिंबभूतचैतन्यस्याविद्या संबन्धः । न चाविद्याप्रतिबिंबस्याविद्यां प्रत्याधारत्वं संभवति ; प्रतिबिंबं प्रत्येवाविद्याया आधारत्वौचित्यात् यथा जलस्य सूर्यादिप्रतिबिंबं प्रति । अतः प्रतिबिंबत्ववाचोयुक्तिरियमिति माया संबन्धिनि अविद्याश्रयत्वनित्येव वक्तव्यम् । तत्र मायायां चैतन्ये चोभयत्राविद्याश्रयत्वस्यासंभवात् चैतन्यांश एवाविद्याश्रयत्वमुक्तं भवति सर्वज्ञत्वमपि तत्रैवेति कथं तयोर्वैयधिकरण्यम् । तस्मात् तयोर्विभिन्नवृत्तित्वोपपादनमयुक्तम् । सर्वज्ञत्वेन साकमस्याविद्याश्रयत्वस्य विरोधो नास्तीति कामं चिन्त्यताम् ; न तु वैयधिकरण्यम् । अस्तु तथैवेति चेत् — किमिदं सर्वज्ञत्वम् ? जीवानां प्रपञ्चे पारमार्थिकत्वभ्रम इवेश्वरस्यापि सोऽस्तीति कृत्वा तत्सहमेव किं सर्वविषयकं ज्ञानम्, किं वा सर्वमिदं समूलकमपरमार्थः, चैतन्यमेव सत्यमिति विवेक विशिष्टम् । आद्ये, तस्य भ्रान्तत्वम सर्वज्ञत्वं च स्यात् । अन्त्ये, तत्त्वसाक्षात्कारात्मक सार्वश्यशालिनि कथमविद्येयमनुच्छिद्यमानाऽवतिष्ठताम् ! यदि सत्यपि साक्षात्कारे सा न निवर्त्यते सा तर्हि सत्यैव स्यात् । एवञ्च जैवात् तत्त्वसाक्षात्कारादपि न निवत्स्यति । ; ५२४

किञ्चेयमविद्या सर्वेश्वरं प्रति किमपि प्रतिक्लमाचरति, वा ? आधे अपसिद्धान्तः, यतः सिद्धान्तलेशसंग्रह एवान्ते, च " न न परमेश्वरस्य रघुनाथाद्यवतारे तम ( प ) खित्यदुःखसंसर्गादिश्रवणात (प) मुक्तानामीश्वरभावे पुनर्बन्धापत्तिः । तस्य विप्रशापामोघत्वादिस्वकृतमर्यादापरिपालनाय कथञ्चित् भृगुशाप दिसत्यत्वं प्रत्याययितुं नटवदीश्वरस्य तदभिनयमात्रपरत्वात् । अन्यथा तस्य नित्यमुक्तत्व निरवग्रहखातन्त्र्य समाभ्यधिकराहित्यादिश्रुतिविरोधात् " इति भगवतोऽवतारदशायामपि दुःखाभिनयमात्रमित्यखिलहेयप्रत्यनीकत्वस्य स्वीकृतत्वात् । अन्त्ये तु एवमीश्वरस्य सर्वविधविभूतिमुखेनानवधिका धिराशनन्दसन्दोह दुहस्तदाश्रितायाः अविद्यायाः स्वयं जीवैस्तत्त्वज्ञानमुखेन विलयविधानं तदैश्चर्यानन्दभञ्जकमेव स्यादिति वरं तदनिवर्तनम् । यद्वा, मायाविद्याभेदमङ्गीकृत्य मायाश्रयत्वमीश्वरस्य, अविद्याश्रयत्वं जीवानामिति स्वीकृत्य जैवतत्त्वज्ञानात् माया न निवर्तते ; न च जीवैस्तदानन्दविघात इत्यप्यभ्युपेत्यम् । एवमपीयं माया न कदाचित् निवर्त्स्यति । निवर्त्यत्वे च यत् दुष्टं हेयम्, तदेव निवर्त्यमिति तदाश्रयस्येश्वरस्य ब्रह्मगो वा मोचनीयाश्रयत्वापत्तिरिति नित्यमुक्तत्वहानिः स्यात् । अतोऽविद्याश्रयत्वमयुक्तमेव । यदा पुनरेकजीववादे स्थित्वा जीवान्तराणामीश्वरस्य च तज्जीवकल्पनामात्रत्वमित्यद्वैतिपक्ष आद्रियते, तदा ब्रह्मैव बद्धयते मुच्यते चेत्यतो नित्यमुक्तत्वाविद्याश्रयत्वयोर्विरोध एव । वस्तुतस्तु छत्रित्ववासखित्वकुण्डलित्वादिविशेषणभेदेऽपि देवदत्त व्यक्ति भेदाभाववत् जीवत्वेश्वरत्वादिना ब्रह्मस्वरूपे भेदायोगात् अज्ञत्वसर्वज्ञत्वसर्वनित्यमुक्तत्वसार्वश्यान्तर्गताविद्यानिवर्तकज्ञानवत्त्वाविद्याश्रयत्वादीनां मिथो विरोध एव । भवताऽत्र, " सविशेषस्यानधिष्ठानत्वात् शुद्धब्रह्मण एवाधिष्ठानत्वात् " इति विलिख्य, " अविद्यानाश्रयस्यानधिष्ठानत्वात् " इति व्याहतं लिख्यते । अथाविद्याश्रयत्वेन ब्रह्मण्यारोपः सर्वज्ञत्वादिविशिष्टस्येत्युक्तमपिं न युक्तम् । जीवसृष्टि ब्रह्माश्रयाज्ञान प्रसाधनम् प्रयोजकसार्वश्या दिविशिष्टस्य जीवकल्पितत्वायोगात् । ({ ५२५ शुद्धं ब्रह्म खप्रकाश । त्वात् न सर्व जानाति । शुद्धस्य केवलस्य सर्वासंबन्धात् " इत्यप्यनुपपन्नम् । स्वप्रकाशत्व सर्वज्ञत्वयोर्विरोधाभावात् । मायोपहितेश्वर चैतन्यघटक चैतन्यांश स्यापि खप्रकाशतया सर्वज्ञत्वमायाश्रयत्वाद्ययोगप्रसङ्गाच्च । अविद्योपहितचिन्मात्रे सर्व संबन्धे सति उपहितस्य शुद्धस्य चैकव्यक्तितया शुद्धे सर्वसंबन्धो नास्तीति दुर्वचत्वाच्च ॥ अपिचेदं शुद्धचैतन्ये भवदिष्टमविद्याश्रयत्वं किंरूपम् ? न तावत् विशिष्टाद्वैतमत इव नियन्तृत्वादिरूपम् । शुद्धे तदयोगात् ; ईश्वर एव तस्य कथञ्चित् पर्यालोचनीयत्वात् । न च संयोगादिः । मिथ्याभूताविद्यायाः सत्यब्रह्मसंयुक्तत्वायोगात् । नाप्यविद्याश्रयत्वेन कल्प्यमानत्वम् । तद्धटकस्याश्रयत्वस्यापि शोधनीयत्वात् । अविद्याप्रकारककल्पनाविषयत्वमविद्याश्रयत्वमित्युक्तावपि प्रकारतावच्छेदकसंबन्धस्य निरूपणीयत्वात् । ब्रह्मण्यविद्याश्रयत्वसिद्धयनन्तरभूतायाः कल्पनायाः अविद्याश्रयत्व निरूपकत्वायोगाच्च । अविद्याप्रकारककल्पनाऽप्यविद्यावत् अनादिरिति चेत् — कल्पनायाः ब्रह्मणश्च कः संबन्धः : मिथ्याभूतायास्तस्याः सत्येन वास्तवसंबन्धायोगात् । कल्पनाविषयत्वप्रकारककल्पनाकल्पनापरम्परायाञ्चानवस्था । कल्पनाश्रयश्च कः ? ब्रह्मैवेति चेत् — शुद्धत्व-भङ्गः । ईश्वर एवाविद्याश्रय इति सिद्धान्तलेशसंगृहीतपक्षे च सर्वज्ञे तत्र कल्पनाश्रयत्वं व्याहृतम् । यत्किञ्चित् भवत्विदमविद्याश्रयत्वम्, तस्य शुद्धत्वेन साकं विरोधः स्यादेव ॥ यत्तु शैववैष्णवगाणपत्यादीनां यथासंभवं प्रामाण्याभ्युपगमेन जगद्गुरवः षण्मतस्थापकाश्च हि भगवत्पादा इति तदिदं स्तवनं प्रस्तवनं वा नून मकाण्डे । किमिदं यथासंभवं प्रामाण्यम् ? तत्त्वज्ञानोत्पत्तेः प्राक् प्रामाण्यमिति चेत् — — शैवो विष्णुपारम्यवेदनात् प्राक् शैवं प्रामाण्यं मन्यत एवेति किमत्र स्थापनाप्रयासेन ? शिवपारम्यं विष्णुपारम्यं गणपत्यादिपारम्यं च ५१०

अविशेषं न भगवत्पादा अपि स्थापयन्तीति तदीयश्रीविष्णुसहस्रनामादिभाष्यादिष्ववहितमनसां सहृदयानां व्यक्तम् । वस्तुतो वेदप्रामाण्यस्यैवाद्वैतमते अभावात् बौद्धजैनादिबाह्यपक्षवैलक्षण्येन शैवादिपक्षं स्थापयितुं नाद्वैतिन पारयन्तीति प्रागेवाssवेदि । एवञ्च षण्मतस्थापनाचार्या इति किं सङ्कोचेन,
सर्वमतस्थापनाचार्या इत्येव घुप्यताम् । सर्वमिथ्यात्ववादिन एव सर्वमतस्थापका इतीयमपि काचित् प्रतारणसरणिरित्येव प्राज्ञाः । सत्यत्ववादिनस्तु वेदतदितरयोवैलक्षण्यव्युत्पादनेन वेदवेद्याः सर्वा अपि देवताः तत्प्रभावांश्चानपलपन्तः तत्र तत्र श्रद्धया अवतरतां तत्तत्प्रदेयफलप्राप्तिं तादृशफलप्राप्त्यादेः पुरुषोत्तमाधीनत्वं पुरुषोत्तमवेदिनाम पुनरावृत्तिरूपतत्परम साम्यप्राप्तिं च प्रतिपादयन्तः शैववैष्णवादीनि मतानि सर्वथाऽनुपेक्ष्य, “निष्ठा नारायणः प्रभुः” इति भगवद्धादरायणवचनं प्रमाणयन्ते । एवं वस्तुतत्त्वं व्युत्पादयन्त एव सर्वजनाज्ञानान्धकार निरोधकत्वात् अशेषगुरवः सर्ववैदिकमतस्थापकाश्चेति । विस्तरस्त्वन्यत्र ॥ सार्वश्यं ब्रह्मणो मा भूदित्यद्वैतिविभाषणे । ‘नाय शाप’ इति प्रोच्य प्रत्याह शतदूषणी ॥ इदमेव किञ्चिदुपधीकृतं ध्रुवं ‘शतदूषणी हि शपती ‘ति वादिना । परिहासजल्प इति बालजल्प इ त्यतिशान्त एष किमिति ब्रवीत्यहो ॥ अविद्याश्रयतेदृक्षी ब्रह्मणीव न युज्यते । अस्माखपि ततः स्निग्धाः स्याम विद्यक संश्रयाः ॥ शुभमस्तु श्रीः