जयन्ति सन्तः सदसद्विवेकवित्ताः प्रसादा हित सर्व वित्ताः । यदन्तरङ्ग श्रयदन्तरङ्गसूरित्रजम्ये शितुरस्ति रङ्गम् ॥ हरयसंबन्धानुपपत्तिमानिभिः दृशि ब्रह्मणि दृश्यस्य सर्वस्य आध्यासिकमेव संबन्धमभिप्रयद्भिः दृशि कव्यमाना येथे दृश्यकल्पना, सोऽयं दृश्यानुभवः दृनिष्ठ एवान्ततः तैराशयितव्यः । तच ब्रह्मयज्ञानानुभवासंभवो पपादकेन माप्येणैकहेलयैव निरस्तमिति निरुरूपयिषया प्रवृत्य, “अनुभूतिसद्विशेषयोश्च विषयविषयिभावेन” इति भाष्यव्याख्यारूपं दृग्दृश्यसंबन्धानुपपत्तिवादमनु अनुभूनेरननुभाव्यत्वनिरासकभाष्यविवरणरूपात् अवेद्यत्व-भङ्गवादात् प्राक् वादद्वयमन्तर्भावितं शतदूषण्याम् । तत्र प्रथमे बाह्यप्रकाशानुपपत्तिवादे शतभूषणी संभ्रमः प्रसृतः संप्रति परिहियने ॥ ब्रह्मणो नित्यमुक्तत्वात् स्वप्रकाशत्वात् चैतन्यैकस्वरूपत्वाच्च नाज्ञानानुभवितृत्वसंभव इत्यज्ञानानुभवासंभव भाष्यमज्ञानकार्य सर्वानुभवस्याप्यसंभवाभिप्रायम् । तत्राज्ञानाननुभवे उपपादिते बाह्यसर्वाननुभवोऽप्युपपादित एव भवति । अत्र शतभूषणी निर्विशेषचिन्मात्रस्य ब्रह्मणः अज्ञानं प्रति आश्रयत्वं विषयत्वं च विवरणमत एवेष्टम् । अथापि ब्रह्मसिद्धिकारादिभिर्जीवानामेवाज्ञानाश्रयत्वमभिहितम् । जीवब्रह्मणोरेकत्वेऽपि जैवरूपेणैवाविद्याश्रयत्वात् अविद्याद्यनुभवादिकं जीवानामेवेति न नित्यमुक्ते ब्रह्मणि तत्प्रसक्तिरिति । तथा च ब्रह्मण्यज्ञानानुभवाद्यसंभवोपपादने इष्टापत्तिरिति शतभूषण्याशयो वाच्यः । अत्रोच्यते अज्ञानं ब्रह्माश्रितं वा जीवाश्रितं वेति विचारोऽन्यः । स च ब्रह्माज्ञाननिरासवादेनानन्तरेण, जीवाज्ञाननिरासवादेन च चत्वारिंशेन करिष्यते । तत्र ब्रह्मसिद्धिकारेण यावदुक्तं शतभूषण्यामप्यनुवदिष्य v बाह्यप्रकाशानुपपत्ति-प्रसाधनम् ५०३ माणं चत्वारिंशवादे, तावदपि श्रीभाष्ये आरम्भणाधिकरणे तथैव ब्रह्माज्ञानवादिमुखेनैवानूदितं निरस्तञ्च । विशिष्य चात्र चत्वारिंशे आचार्यैरपीति । अत्र ब्रह्मसिद्धिकारपक्षपस्तारेण वादवर्धनं वृथेति तमंशं तत्रैव शोधविष्यामः । अत्र पुनरिदं पृच्छामः -भवता ब्रह्मणः किं जैवरूपं बिना स्वरूपेणाज्ञानानुभवितृत्वमस्तीति विवरणमतमिति मन्यते, उत ब्रह्मसिद्ध्यादिवत् जैवरूपेजैवेति । आद्ये श्रीमाप्ये चात्र च ब्रह्मण्यज्ञानानुभव । संभवोपपादनं नास्थाने । अन्त्ये, किंमिति भवता ब्रह्मसिद्धिकारपक्षोपन्यासविस्तरेण जीवानामेवाज्ञानानुभवादिसंसारित्वोपपादनम् । यदि च, “ब्रह्माश्रिताज्ञानपक्षस्य ब्रह्माज्ञानाननुभववादस्य च न कोऽपि संबन्धः “, तर्हि ब्रह्मसिद्धिकारोक्तनानाजीवाश्रितनानाविद्यावादस्य क इह संबन्धः : विवरणकारोऽपि ब्रह्मणः अज्ञानाश्रयत्वं तद्विषयत्वमपि खीकुर्वाणोऽपि तदनुभवनं जैवरूपविशिष्ट एव यधुररीकुर्यात्, वृथैव हि जीवाश्रयाविद्याविचार इह । यदि पुनरविद्याश्रयत्वं शोध्यमानमविद्यानुभवितृत्व एव पर्यवसास्यति, ब्रह्मण्यज्ञानानुभवासंभवोपपादनमास्माकग्रन्थकृतमुपपन्नं संगतमेव । न च ब्रह्मसिद्धिकारस्वीकृतत्व एव स पक्षः खण्डनीयः, न तु विवरणकारस्वीकृतत्वे इति नः पक्षपातः । यदि च विवरणोक्तमयुक्तमित्यभिमत्य ब्रह्मसिद्धिपक्ष एव भामत्यादिपरिगृहीतत्वादादरणीय इत्यर्वाचां भवतामाकूतम् तर्हि समनन्तरः ब्रह्माज्ञाननिरासवादो भवद्भिः शिरोवाहं लाघनीय इति तद्वादपरीक्षण प्रवृत्तिरेव न युक्ता, यथा निष्प्रपञ्चीकरणनियोगवादादिविषये । अथ डोलायमानमानसैरुभयमपि गृहीतपरित्यक्तमेव क्रियमाणम्, तत्र ब्रह्मसिद्धिकारपक्षवीक्षणं न दूषणान्मोचयिष्यतीति ॥ अज्ञानाद्यनुभवो जीवानाम् ; न तु नित्यमुक्तब्रह्मण इति वदद्भिः को जीव इति वक्तव्यम् । तत्र यत्र भवत् चित्प्रतिबिम्बमीश्वरः तस्या मायायाः प्रदेशेष्वेवाविद्याशब्दवाच्येषु भवन्तश्चित्प्रतिबिम्बा एव जीवा इति प्रकटार्थविवरणकारः । मायाविद्याभेदवादी तत्त्वविवेककारः । एकैव मूलप्रकृतिर्विक्षेपप्राधान्येन ५०४ परमायभूषण मायेति, आवरणप्राधान्येनाविद्येति व्यपदिश्यमाना यथाक्रममीश्वरजीवोपाधिरित्यपि किश्चिन्मतम् । अविद्याप्रतिबिम्ब ईश्वर इति कृत्वा अन्तःकरणप्रतिबिम्बमेव जीवं मन्यते संक्षेपशारीरककृत् । योगिनः एकस्यैव कायव्यूहे नानान्तःकरणविशिष्टनानाकायाधिष्ठानस्य भाष्यादिसिद्धत्वात अन्तःकरणप्रतिबिम्बजीवत्वपक्षे तत्रापि जीवभेद । पत्तेरज्ञान प्रतिविम्ब एव जीवः । ईश्वरस्तु न प्रतिविम्बः, किन्तु बिम्बभूत इति विवरणानुसारिणः । अचाक्षुषस्य प्रतिबिम्बायोगात् अवच्छेदवाद एव युक्त इत्यन्तःकरणावच्छिन्नं चैतन्यमेव जीवः । न च भुवि कर्तृत्वावस्थायामन्तः करणावच्छिन्न चैतन्यप्रदेशात् दिवि भोक्तृत्वदशायामन्तः कारणावच्छिन्नः प्रदेशो भिन्न इति अकृताभ्यागमकृतविप्रणाशप्रसङ्ग इति वाच्यम् एकान्तःकरणावच्छिन्नप्रदेशत्वरूप सामान्यपुरस्कारेणैकजीवत्वमिति समर्थनेनादोषात् । अस्तु वा अविद्यावच्छिन्नं चैतन्यं जीव इति चावच्छेदपक्षरुचयः । परिमले (1-1-4) च, -~ " इत्थं सत्संप्रदायाश्वमाप्तयोः पक्षयोर्द्वयोः । समर्थनं यथाबुद्धि कृतं प्रीत्यै विपश्चिताम् ॥” इति पक्षद्वयमपि समर्थितम् । अत्र प्रतिविम्वजीववादे बिम्बप्रतिबिम्बयोः वस्तुतो भेदोऽस्ति न वा । आद्ये प्रतिविम्बधर्माणामौपाधिकानां बिम्बे तु प्रतिविम्बानामुपाध्यधीनस्थितिकानामुपा प्रसक्तयभावः संभाव्यते । परं घिनाशे नाशात् जीवनाश एव मोक्ष इति वक्तव्यम् । न चैतत् युक्तम् । न हि नाशो मोक्ष इति चैक तत्त्वम् । बद्धस्य बन्धं विना स्थितेरेव मोक्षशब्दार्थत्वात् । अहं मुक्तः स्यामिति च मुमुक्षुप्रवृत्तिरानुभविकी । किञ्च प्रतिविम्बस्य भिन्नत्वे तत्त्वमसीति वाक्यप्रतिपाद्यमेकत्वं नोपपाद्येत । तथा च ’ यदर्थमयमारम्भः तत्कार्थमवसादितं ’ भवति । महावाक्य तात्पर्यविषयैक्यनैर्भर्येण ह्यद्वैतं रोचयन्ते । यद्यद्वैततवादेऽपि तत्रैक्यप्रत्यायनायोगः, अन्यथैव वर्णनं च तदा किमद्वैताभिनिवेशेन ? अतो बाधार्थसामानाधिकरण्यपक्षाश्रयणमद्वैतत्याग एव । यदि तु भामत्यां दर्पणप्रतिहतचाक्षुषरश्मिभिर्थथावस्थितमुखग्रहणे प्रतिबिम्बव्यवहार इति बाह्यप्रकाशानुपपत्तिः ५.०५ प्रतिबिम्बस्यैव सद्भावकथनात् जले सूर्यप्रतिबिम्ब इत्यस्य जलोपाधिकप्रतीतिविषयसूर्य इत्येवार्य इतिरीत्या अन्तःकरणोपाधिकमानावच्छिन्नं चैतन्यमेव प्रतिविम्बपदविवक्षिले जीव इत्याशयः, तदा अवच्छेदवादसमानगुणदोषोऽयमपि पक्षः । 1 तत्र ब्रह्मसिद्धौ ’ मणिकृपाणाद्युपाधिगतश्यामत्वहस्वत्वादीनां यथा न विम्बे संभव, किन्तु प्रतिविम्बमात्रे । कुतः उपाधेः प्रतिविम्बपक्षपातित्वात्ःतथा जीवेष्वेवाज्ञानतदनुभवसुखदुःखादी ‘ति कथनात् जीवानामविद्या प्रतिबिम्बत्वमिष्टम् । भवता पुनरवच्छेदपक्षे एव ब्रह्मसिद्धिमपि तिष्ठापयिषुणा प्रतिबिम्बस्थल व ब्रह्मणि अज्ञानाद्यनुभवाद्य संभवकथनमात्रे मन्तात्पर्यम् । न सिंह प्रतिबिम्बवाद इति चत्वारिंशवादे वक्ष्यते । अतः जीवो नाम अविद्यावच्छिन्नं चैतन्यम् । तत्राविद्यानां नानात्वात् बटमणिकशरावाद्यवच्छिन्ना काशप्रदेशभेदवत् तत्तदविद्यावच्छिन्न जीवभेद इति स्थितम् । तत्राविद्यावच्छिन्नब्रह्मण्यज्ञानानुभवितृत्वमित्यस्य किमविद्यायामनुभवितृत्वमस्तीत्यर्थः, उत ब्रह्मगीति । न हि अविद्याब्रह्मोभयातिरिक्त किञ्चिदस्ति । योऽप्यविद्यायाः प्रकृतब्रह्मणश्च संबन्धः स संबन्धिस्वरूपात्मक इति पूर्वोक्त विकल्पान्तर्भूत एव । तत्राविद्यायाः अज्ञानानुभवितृत्वमयुक्तम्, अचेतनत्वात् । अज्ञानस्य ज्ञाननिवर्त्यत्वात् सामानाधिकरण्यमावश्यकमिति च नाज्ञानानधिकरणेऽविद्यायां ज्ञातृत्वप्रसक्तिः । अपि चाज्ञानानुभवो नाम साक्षिचैतन्याधीनः अज्ञानप्रकाशः । न च सोऽविद्यानिष्ठः; किन्तु अज्ञानविषयकः । तदाश्रयत्वं चात्मन एव वक्तव्यम् । एवञ्च जीवस्याज्ञानानुभवितृत्वपक्षेऽपि जीवशब्दार्थघटकंचतन्यांश एवाज्ञानप्रकाशरूपानुभवाश्रयत्वस्य वक्तव्यत्वात् आत्मनो ब्रह्मणोऽज्ञानानुवाद्याश्रयत्वे नित्यमुक्तत्व कथम्, नित्यमुक्तत्वेष्टौ चाज्ञानानुभवादिरूपं संसारित्वं कथमिति शतदूपणी प्रश्नस्तदवस्थ एव । I अथावच्छेदवादेऽपि कतिपय प्रतिबिम्बवादिपक्ष इवाविद्यावच्छिन्नचैतन्यरूपो जीवः ब्रह्मापेक्षया भिन्न एवेत्यास्थीयेत, तर्हि तत्त्वमसि वाक्यार्थवर्णनादाक्सामञ्जस्यमिति प्रागेवोक्तम् । किम्वा विद्यावच्छिन्न चैतन्यात्मको जीवो ब्रह्मणो 64 ५०६ परमार्थ भूषणे भिन्नः सत्यश्चेत्, अद्वैतासिद्धिः; असत्यश्चेत्, स कदा केन कल्पितः ? अकल्पितश्चेत्, नासत्यस्स्यात् । ब्रह्मणश्च शुद्धस्य न कल्पकत्वसंभवः । तदतिरिक्तो यः कल्पकः, तत्रापि सत्यासत्यविचारे पूर्वोक्तदोषस्य तथैवावतारः । स्वेनैव स कल्पित इति चेत् — कल्प्यमान त्रस्त्वतिरिक्तकल्पकपुरुषकल्पनाकारणाद्यभावेऽपि कल्प्यमानसिद्धिस्वीकारे लोकेऽपि सर्वं कल्प्यमानमेवं निरपेक्ष सेद्धुमर्हति । अनादिभूतत्वात् स्वयं कल्पक निरपेक्षमिति चेत् -किमिदं प्रवाहानादित्वम् उत मुख्यम् ? आद्ये, आमोक्षात् प्रतिजीवं रथै सर्वसंमतं न सिद्ध्यतीत्यपसिद्धान्तः । अन्त्ये, कल्पितत्वमनादित्वञ्च व्याहतम् । यदि चानुभवविरोधमपि सोढा कल्पितस्यानादित्वं कल्पकान्त’ निरपेक्षत्वञ्च मन्यते, तथाऽधिष्ठानं विनाSपि कल्पनं कामं स्वीक्रियेत । ततस्तदविशेषात् सर्वत्र निरधिष्ठानभ्रमानुज्ञानप्रसङ्गात शून्यवाद एवाक्तारितः स्यात् । कल्प्यकोटिनिविष्टतयेश्वरस्यैव मिथ्यात्वे तत्प्रवर्तितं वेदाख्यं शास्त्रमपि तथैवेत्यप्रमाणतया किमपि न सिद्धयेत् । दिष्ट्या तु भवता ब्रह्मसिद्ध्याद्यनुसारेण जीब्रह्मणोरैक्यमेवोररीकृत्य जीवरूपेण ब्रह्मैव अज्ञानादिकमनुभवति, स्वरूपतस्तु नित्यमुक्तत्वमित्युच्यत इति तत्र ब्रह्माभिन्ने जीवे अविद्यादिरूपे विशेषणांशे अज्ञानाश्रयत्वतदनुभवादेरुक्तरीत्य वायोगात् विशेष्यभूतब्रह्मांश एव तदिति नित्यमुक्ते विशेष्यांशे तदयोगोपपादनं शतदूषणीकल्पितं सुस्थम् । यद्यपि शुद्धाकाशघटाकाशवत् ब्रह्मजीवयोर्भेदः, तथापि आकाशे घटसंबन्धः, किं शुद्धे उत किञ्चिदवच्छिन्ने इति प्रभे यथा शुद्ध एवेत्येतत् अनपलप्यम् । घटमणिकादेः परिच्छिन्नतया तत्संयोगस्याव्याप्यवृत्तितया च तत्तदवच्छिन्ना काशप्रदेश भेदस्यौपचारिकस्य सद्भाववर्णनवत् इह तत्तदविद्यावच्छिन्नब्रह्मप्रदेशभेदस्य कथञ्चिद्वर्णनेऽपि तथा तत्तदविद्यासंबन्धरूपमज्ञानाश्रयत्वं विशेष्ये ब्रह्मणि नापलपितुं शक्यते । तथा प्राप्ताप्राप्तविवेके अज्ञानाद्यनुभवाश्रयत्वमपि तत्र न शक्यमपहोतुम् । एवमेतदुपपादनश्च कथं स्यात्, यदि ब्रह्म विशेष्यभूतं नित्यमुक्तं स्यात् । आकाशः पूर्वमनवच्छिन्नः स्थित इदानीं घटाबवच्छिन्न इतिवत् पूर्व मुक्तं ब्रह्म पुनरविद्यावच्छिन्नमा पति बाह्यप्रकाशानुपपत्तिः ५०७ तमिति तु कामं स्यात् । न पुनर्नित्यमुक्तं च तत् अज्ञानाद्यनुभवशालितया संसारि चेति । किञ्चिद्विशेषणविशेषितत्वमात्रेण वस्तु न भिद्यते । न खलु देवदत्तः स्वयमकृतकलञ्जभक्षण एवं कलञ्जभक्षकवृन्दनिविष्ट एव कलमभक्षयदित्येतावता निविष्टानिविष्टयोर्भेदात् देवदत्तो नित्यं कलञ्जभक्षणप्रत्यवायरहित एवेति प्रत्येतुं युक्तम् । एतेन श्रीभाव्यमतेऽपि ब्रह्मणः संविन्मात्रस्य जैवाज्ञानानुभवसत्त्वात् बन्धापत्तिः । यदि परगताज्ञानानुभवरूपत्वान्न बन्धकत्वम्, तदत्रापि तुल्यमित्युक्तं प्रत्युक्तम् । इदञ्च शतदूषण्यामेवोद्भाव्य परिहृतमिति नूनं तंत्रो पूर्वपक्षोद्विरणमात्रमेतत् । श्रीभाष्यमते जीवपरयोर्व्यक्तयोरेव भेदात् इह च तदैक्याच्च विशेषात् । यथा हि मायाशबलं ब्रह्मोपादानमिति भवत्पक्षे ब्रह्म उपादानमिति व्यवहारो न बाधितः, तथा अविद्यावच्छिन्नब्रह्मात्मकस्य जीवस्याज्ञानानुभववत्त्वे ब्रह्म अज्ञानानुभावीत्यप्यवाधितमिति कथं तदभावरूपं नित्यमुक्तत्वम् ? नित्यमुक्तत्वे चाज्ञानानुभावित्वायोग एव । यत्तु —— सुषुप्तौ अज्ञानेनान्तः करणाद्यात्मनोपहितस्य जीवस्य सत्त्वा न्नाज्ञानानुभव-भङ्गप्रसङ्ग इति तदयुक्तम् । जीवस्वरूपान्तर्गत चैतन्यांशस्याज्ञानाश्रयत्वमस्वीकृत्यान्तः करणस्याज्ञानाश्रयत्वाङ्गीकारे सुषुप्तावन्तः करणविलयस्य भवदिष्टत्वान्नाज्ञानानुभवप्रसङ्ग इति ह्युच्यते । तत्र कारणात्मना अन्तःकरणसद्भावमात्रेण कथमज्ञानानुभवः । अज्ञानानुभवस्य ह्याकारः, अहं न जानामीति । तत्राहमिति कारणात्मकं वस्तु न गृह्यते; किन्त्वन्तःकरणम् । न च तदा तत् अज्ञानाश्रयो भवितुमर्हति । एवं निराश्रयत्वे सति, अहं नावेदिषमिति न युज्यते प्रतिसन्धानमिति निरूपणे क्रियमाणे अन्तःकरणाश्रितत्वरूपप्रकृतपक्ष विस्मृत्य सुषुप्तौ जीवसत्त्वात् अविद्यायाः जीवाश्रितत्वान्न निराश्रयत्वमिति समाधानवर्णनमसङ्गतम् । अन्तःकरणावच्छिन्नचैतन्यं जीव इतिपक्षे सुषुप्तौ जीवाभाव एव ; विशिष्टस्यैव जीवत्वात् विशेषणस्य च तदानीं विलयात् विशिष्टस्य विरहात् । अज्ञानं सुषुप्तिकाले किमनुभूयते, उत स्थितं पश्चादनुमीयत इत्यन्यदेतत् । “स एव तु” ( ३-२-९) इति सूत्रकलपतरौ, “सुषुप्तया दौ ५०८
अन्तःकरणाद्युपाधिरभिभूतो भवति ; संस्कारात्मनाऽवतिष्ठते ; न तु सर्वात्मना नश्यति” इत्युक्तत्वात् यद्यपि अन्तःकरणस्य न निश्शेषविलयः अधापि घटविलय इत्युक्तौ घटत्वावस्था प्रहाणमित्यर्थवत् अन्तःकरणविलय इत्यस्यान्तः करणावस्थाप्रहाणमित्येवार्थो भवति । तदा चान्तःकरणत्वेन तस्य जीवोपाधित्वं न युक्त वक्तुम् । बाल्य चैवनाद्यवस्था भेदेऽप्येकदेहत्वप्रसन्धानवत् अविद्याकार्यविशेषः अनेकावस्थासहः अन्तःकरणपदेन लक्षणीयः स्यात् । एवमपि कल्पभेदेनान्तः करणभेदात् स्थिरजीवासिद्धिरेवेति वक्ष्यते ॥ एकानेकजीववादप्रस्तावश्चात्राप्रसक्तः । ब्रह्माश्रिताज्ञानपक्षेऽपि ब्रह्मणोऽज्ञानाश्रयत्वमात्रम्, अज्ञानानुभवस्तु जीवस्यैवेति तु न वक्तुं शक्यम् । अहं न जानामीत्याकारस्यैवानुभवस्य विवरणाद्युक्ततया अहमिति अज्ञानानुभवितुरज्ञानाश्रयस्येकस्यैव ग्रहणात् आश्रयोऽन्यः, अनुभविता अन्य इत्यस्यावोगात् । न ह्यज्ञो देवदत्त इतीश्वरस्य अज्ञानानुसन्धानतुल्यमिद भवितुमर्हति । तस्मादाश्रयस्यैवानुभवितृत्वम् । एवं ब्रह्मसिद्धिपक्षेऽपि अविद्यावच्छिन्नचैतन्यरूपजीवविशेषणभूता विद्यांशेऽज्ञानाश्रयत्वस्य दुरुपपादतया विशेष्यांश एव तदाश्रयत्वपर्यवसानमिति अज्ञानानुभवितृत्वमपि तस्याक्षत मिति न नित्यमुक्तत्वप्रसक्तिः । यत्तु दर्पणस्य प्रतिविम्वाद्वहिभूर्तस्य यथोपाधित्वम्, न तथा अविद्याश्रयप्रतिबिम्ब स्थानीयजीवानन्तर्गतमुपाधिरिति । अत एव प्रसिद्ध प्रतिबिम्बवैलक्षण्यादवच्छेदवाद एव ब्रह्मसिद्धिकारमते इति च तदनन्वितमस्पष्टार्थमनुपपन्नञ्च । अविद्यान्तर्गतस्य चैतन्यस्याविद्यायां प्रतिबिम्बायोगस्य परिमलसिद्धान्तलेशसंग्रहादौ दर्शितत्वात् वास्तव प्रतिबिम्बभावस्तावन्न भवत्येव । इष्टौ तु दर्पणे मुखप्रतिबिम्बवत् अविद्यायां चैतन्यप्रतिविम्वे प्रतिस्योपवेश्व संबन्ध उभयत्राविशिष्टः । बिम्बभूतस्य मुखस्य दर्पणस्य च संबन्धो नास्ति । इह तु बिम्बभूतचैतन्यस्याविद्यायाश्च तथा बर्हिर्भावो दुर्वच इत्येव तत्त्वम् । अविद्यावच्छिन्नं चैतन्यमित्येव जीवस्वरूपं निरुच्य तदुपाधिरविद्येत्युक्तावपि चैतन्यांश बाह्यप्रकाशानुपपत्तिः H ५०९ प्रत्येवाविद्याया उपाधित्वम् ; न तु स्वविशिष्टं प्रति स्वस्योपाधित्वमित्यवश्यं वक्तव्यम् । अन्यथा घटावच्छिन्ने आकाशे घटः संबध्नाति, कर्णशष्कुल्यावच्छिन्नाकाशे कर्णशष्कुलीसंबन्ध इत्युक्तावात्माश्रयो दोषः । विस्तर उपरिष्टात् ॥ यत्तु परमार्थतस्तु विशिष्टोपहितयोरपि भेदात् तयोः शुद्धब्रह्मरूपत्वाभावात् ब्रह्मण्यज्ञानानुभवोपपादनं वाधितमिति तन्न -विशिष्टोपहितयोः काल्पनिक भेदव्यवहारेऽपि परमार्थतस्तावदभेद एव हि भवन्मते । यथा कर्णशष्कुल्यवच्छिन्ने आकाशे शब्दः उत्पद्यते इत्युक्तौ शब्दसमवायित्वमाकाशरूपविशेप्यांशस्यैव, यथा च गृहाकाशे शुको डयन इत्युक्तौ गृहान्तर्गताकाशप्रदेशस्यैव डयनाधिकरणत्वम् न तु भित्तिस्तम्भस्थलादेः, तथा आविद्यावच्छिन्नवैतन्यरूपो जीवोsविद्यामनुभवतीत्युक्तौ चैतन्यांशस्त्रैवानुभवितृत्वम् ; नाविद्यारूपविशेषणस्येति तस्य नित्यमुक्तत्वे तदनुभवितृत्वायोग एवेति ॥ यत्तु -अज्ञानानुभवोऽययम विद्याश्रयस्य वृत्तिरेव, अखण्डाकारवृत्त्युपहितेन बाधकज्ञानेनाज्ञानस्येव तदनुभवरूपस्य साक्षिणोऽपि निवृत्तिरिऐवेतितदपि व्याहतम् । अज्ञानानुभवस्त्र यदि वृत्तिरूपत्वम्, कथं तदनुभवरूपस्य साक्षिण इत्युक्तिः ? अज्ञानस्य साक्षिमास्यतया साक्षिणस्तदनुभवरूपत्वे च कथमज्ञानानुभवस्य वृत्तिरूपत्वम् । वृत्तिसाक्षिणोर्भेदात् । वृत्तेरेव बाधकत्वस्य पर्यवसितत्वात् वृत्त्युपहितेन बाधकज्ञानेनेत्यप्यसंगतम् । उपहितचैतन्यरूपसाक्षिणः उपाधिचैतन्योभयातिरिक्तत्वाभावेन चैतन्यस्य चाबाध्यतया उपाधिमात्रनिवृत्तिरित्येव निष्कृष्ट भवतीति अज्ञानस्येव साक्षिणोऽपि निवृत्तिरिष्टेति उभयसमुच्चयोऽप्यसंभावित एवेति ॥ यत्तु –प्रकाशस्वरूपस्य ब्रह्मणः अविद्यातिरोधाने स्वरूपनाशापत्तिरिति न; वृत्ते रेवाविद्याविरोधित्वात् ब्रह्मणस्तदविरुद्धत्वादिति -तदिदमाम्रप्रश्ने कोविदाराख्यानम् । ब्रह्मातिरिक्तप्रकाशरूपधर्मानङ्गीकारिमते प्रकाशनिवृत्तौ ब्रह्मनिवृत्तिरिति तिरोधानशब्दार्थशोधनेन दूषणे उद्भाव्यमाने वृतिरविद्यानिवर्तिका, उत ब्रह्मापीति विचारस्य किमर्थः प्रस्ताव इति ।५१०
1 यच्च — अगतिकतया तिरोधानमाश्रीयते दृश्यते हि सर्वेषां खरूपाज्ञानम्, तन्निबन्धनबन्धानुभवश्च । कां गतिं तस्य शतदूषणी पश्यति । अद्वैतिमते चेत् परस्सहस्राणि दूषणानि, श्रीभाष्यमतेऽपि तादृशि सन्त्येवेति कथनम् तदपि परिहारप्रकारमविदुषः सर्वसाम्यापादनेन तृप्तिसंपादनाय । नून मीशं वचनमेषां पारम्परिकमेव । तथा हि ब्रह्मसिद्धिकारः -, “ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकात् विशुद्धखभावाः, तत् कथं तेष्वविद्यावकाशः -वर्तमे तत् अवदातात् विवात् कृपाणादिषु प्रतिविम्बं हि न तावद्भिन्नम्अन्यथा दुरवापैव विशुद्धिः स्यात्” इत्याह । सूत्रभाष्येऽप्यादौ, “युष्मदस्मप्रत्ययगोचरः” इत्यारभ्य " मिथ्येति भवितुं युक्तम्" इत्याशंक्य अध्यासमूलकव्यवहारस्यानादेरनुभूयमानतया कथञ्चित् कारणमेष्टव्यमिति भाषणादनुपपत्तेरगत्या सोढव्यत्वमाविष्क्रयते । अत एव श्रीमाये आनन्दमयाधिकरणे अद्वैतिवचनमनूद्य, " वैदिकः पक्षः परिगृह्यता" मित्युपदिष्टम् । न च वयं निधर्मकं संविन्मात्रमात्मानं ब्रूमः । न च लाघवादतिरोहितस्वरूपस्यैव स्वीकारापत्तिरिति भवदुक्त युक्तम् । “न हि दृष्टेऽनुपपन्नं नाम " इति भवतैवोपर्युक्तेः । अस्मदनीकृतमप्रामाणिकमर्थमस्माखारोप्य भवता दूषणमुद्भावयितुं यत्यते । अस्माभिः पुनभर्वदङ्गीकृतांश एव दोषः उद्भाव्यत इतीह भेदः प्रतिसन्धेयः । अपरिहार्यदोषजालजटिल कन्थाशतग्रन्थिलमपि शास्त्रार्थत्वबु या स्वीक्रियते इति चेत् — भास्कराद्यभिमतभेदाभेदपक्षादयः आश्मरथ्यौडुलौम्याद्यभिप्रायाश्च कथं शास्त्रार्थत्वबुद्धया नामोद्यन्ते । परोक्तमनुपपन्नं परित्याज्यम्, खोक्तं तु सर्वानुपपत्तिसन्दोहरूपमपि संग्राह्यमिति न हि युक्तम् । कर्मानादितामाश्रित्य संसारवैचित्र्यनिर्वाहस्तावत् सर्वसैद्धान्तिकसंमतः । ततः ईश्वरस्य वैषम्यनैर्नृण्यदोषपरिहारश्च भगवता बादरायणेनापि प्रत्यबोधि । तत्र कथं वैषम्यादिदोषपरिहार इति चार्वाकीभूय भवता प्रश्नं क्रियमाणं जाबालवादमिव राघवो न मर्षयिष्यति । पदेपदे धर्मभूतज्ञानप्रद्वेषेणाधर्मज्ञानरुचिवशेन क्रियमाणो विस्तरश्च सकृत् दूषणेनैव संशमित इति किमत्र पुनः प्रस्तावेन । धर्मभूतज्ञानं विनैव ब्रह्मणो बाह्यप्रकाश उपपद्यत इत्यादिप्रतिज्ञामात्र तु कः बाह्यप्रकाशानुपपत्तिः ५११ श्रद्धास्यति ? तथा सति ब्रह्म सर्वगोचरज्ञानमेव वा, सर्वगोचरज्ञानाश्रयत्वरूपसार्वस्यशालि वा इति कुत्र प्रयोग सौष्ठवमितीदमेकं विभावयताऽपि धर्मभूतज्ञानं दुष्प्रतिषेधम् ॥ 1 यत्त –यावद्ब्रह्मसाक्षात्कारं जैवेन रूपेण ब्रह्मणोऽन्तःकरणधर्म वृत्तिज्ञानद्वारा बाह्यप्रकाशोपपत्तिरिति तदपि विचार्यम् । किं जीवोऽन्तःकरणावच्छिन्नं चैतन्यमुताविद्यावच्छिन्नम् आद्ये, अन्तःकरणं किं नित्यम्, उतानित्यम् ? प्रथमे आविद्यापरिणामत्वानिष्ट्या अपसिद्धान्तः; अविद्यापलापश्च । द्वितीये अन्तःकरणोत्पत्तेः प्राक् जीवाभावात् जीवस्यानादित्व-भङ्गः । जीवसन्तानस्वीकारे आमोक्षाज्जीवैक्यमिष्टं त्यक्तं भवति । भौतिकसवान्तानस्य जीवत्वादिचार्वाकतौल्यञ्च । अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च । अविद्यावच्छिन्न चैतन्यपक्षे चान्तः करणवृत्त्या कथं जीवस्य ज्ञानाश्रयत्वम् । अविद्यावच्छिन्नस्यैवान्तःकरणं विशेषाभिव्यक्तिस्थानमिति चेत् — एवमपि वृत्तिरूपपरिणामाश्रयत्वमन्तःकरणस्येति तदेव बाह्यप्रकाशवत् स्यात् । न तु जीवः । वृत्तौ प्रतिफलनात् जीवस्याश्रयत्वमिति चेत् -जीवो नामाविद्यावच्छिन्नचैतन्यम् । तत्र किमविद्या विशिष्टवेषेण स प्रतिफलति उत चैतन्यमात्ररूपेण ? आद्यमनिष्टम् । अन्त्ये शुद्धचैतन्यमेव वृत्त्याश्रयः स्यात्, न जीव इति ब्रह्मण एवं बन्धः स्यात् । न च वृत्त्याश्रयत्वमित्ययमाश्रयाश्रयिभावोऽपि सुवच इति च प्रागेवोक्तम् ॥ सांख्यपक्षमाश्रित्यास्माभिः चैतन्यस्वरूपत्वमन्तःकरणवृत्त्यादि चेप्यत इति चेत् — श्रुत्या साक्षात् यदुक्तम्, तद्विरोधे सांख्यपक्षः कथनवलम्ब्यं स्यात् ? श्रुतिश्च, “जानात्येवायं पुरुषः, द्रष्टा श्रोता मन्ता,” “विज्ञातारमरे केन विजानीयात् " इत्यादिः स्पष्टमेव ज्ञानाश्रयत्वमाह । " सत्यं ज्ञानम्” इत्यत्रापि ज्ञानपदस्यान्तोदात्तत्वात् अर्शआद्यजन्तत्वमावश्यकमिति ज्ञानगुणकत्वमेव स्वरसम् । सूत्रकारोऽपि " ज्ञोऽत एव" इत्येवाह । “चिति तन्मात्रेण तदात्मकत्वात् " इत्यौडुलोमपक्षमुपक्षिप्य, “एवमप्युपन्यासात् " इति मुक्तावपि धर्मभूतज्ञानमनपलप्यमाशेते । एतावद्विरोधे सति प्रतिक्षिप्त सांख्यपक्षावलम्बनं कथंकारं युज्यताम् । न ५१२
चान्तःकरणवृत्तौ चैतन्यप्रतिफलनादिकल्पनागमकं तुषमात्रमपि श्रुतौ संलक्ष्यमस्ति । अश्रुतमपि सति लाघवे कथञ्चिदामोद्येत । तार्किक पक्षात् सांख्यपक्षस्य गौरवग्रस्तत्वं च सुस्पष्टम् । न च सांख्यमतमपि यथावदनुत्रियते । अव्यक्तमहदहङ्कारतन्मात्रभूतानां सृष्टौ क्रमः इन्द्रियाणामेकादशानामाहङ्कारिकत्थं च सांख्यसंमतम् । भवन्मते तु परिभाषायाम्, अव्यक्तात् तन्मात्रभूतसृष्टौ अपञ्चीकृतभूतेभ्यः ज्ञानेन्द्रियाणां कर्मेन्द्रियाणामिन्द्रियातिरिक्तस्य अन्तःकरणस्य च मनोबुद्धयहंकारचितात्मकस्य सृष्टिवर्णनात्, “पञ्चप्राणमनो बुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्यं सूक्ष्मांग मोगसाधनम्” इति स्थूलशरीरातिरिक्तं सूक्ष्मशरीरं प्रतीपाद्य, ‘तत्र परं हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वम्, अस्मदादिलिङ्गशरीरं अहङ्कार’ इति चाभिधानात् सांख्यमताद्भेदः सुस्पष्टः । अतः श्रुतिसांख्योभयरीतिविलक्षणैव भवन्मतप्रक्रिया ॥ किमनेनेह बहुना । नित्यमुक्तत्वात् खप्रकाशत्वात् चैतन्यमात्रत्वाच्च ब्रह्म न बाह्यानुभवशालीति हेतुत्रयमप्यविचाल्यम् । बाह्यानुभवस्य संसाररूपस्य सद्भावे नित्यमुक्तत्वायोगात् स्वप्रकाशत्वे स्वरूपस्य प्रकाशमानतया तद्विरोधिनोऽज्ञानस्य तत्कार्यस्य बाह्यस्य चानुभवायोगात् । चेतनस्यैवानुभवशालित्वसंभवात् अनुभवमात्रस्य ब्रह्मणोऽनुभवशालित्वायोगाच्च । न च स्वरूपप्रकाशो न बाह्यानुभवविरोधी, किन्तु वृत्तिरूपः प्रकाश एवेति वाच्यम् अयुक्तेः । वृत्तिः किं वृत्तित्वात् संसारविरोधिनी ? उताखण्डाकारत्वात् ? आये, वटपटादिवृत्तिोऽपि संसारनिवृत्तिप्रसंगः । अन्त्ये अखण्डाकारवृत्तेः ब्रह्ममात्रप्रकाशत्वेन विरोधित्वे ब्रह्मखरूपस्तथात्वेन कथं विरोधित्वायोगः । अन्यथा ब्रह्मणः स्वयंप्रकाशत्व एवं मानाभावः । यद्धि ज्ञानान्तरनिरपेक्षमेव संशय विपर्यय निरोधि, तद्धि स्वयंप्रकाशम् । अडमिति प्रकाशस्य नाहमस्मीति दिपयविचिकित्सादिविरोधित्वात् स्वयंप्रकार स्वीक्रियते । यदि तद्विरोधित्यं नेष्यते, तहिं तस्य स्वयंप्रकाशत्व एव न किञ्चित् प्रमाणम् । यदि तु स्वप्रकाशेन ब्रह्मणा निवत्य यः संशयादिः, तद्विलक्षणसंशयादिनिवर्तकत्वं ब्रह्मातिरिक्तायाः तद्विषयिण्याः बाह्यप्रकाशानुपपत्तिप्रसधानम् ५१३ वृत्तरिष्यते ; तर्हि तत्राखण्डब्रह्मातिरिक्तांशविषयकत्वमप्येष्टव्यम् । ब्रह्मणो वा किञ्चित्संशयादिनिवर्तकत्वमपि नास्तीत्यभिधायास्वयंप्रकाशत्वमेवाभिमन्तव्यम् । अन्यथा तु निर्मुक्तिकवादः शपथमात्रमिति न श्रद्धीयेतेति । एवं चैतन्यमात्रत्वे अज्ञानतत्कार्याद्यनुभवाश्रयत्वमपि दुर्वचमेव । चैतन्यातिरिक्तानुभवाभावात् । तन्मात्रत्वेन समतेऽनुभवाधारत्वायोगाच्च । अचैतन्यस्य कस्यचिदनुभवशब्दवाच्यत्वानुपपत्तेश्चेति कृतमधिकेन ॥ बद्धोऽस्मि संप्रति, विवेकधिया क्रमेण मुच्येय जात्विति मतिप्रभृतेरवश्यम् । स्वीकार्यतामभिविमृश्य तदर्ह मई मात्मस्वरूपमुपगन्तुमितीह सूक्तम् ॥ दृग्दृष्टभेदमभिमत्य दृशः परेणा प्यैक्यम्, दृशस्त्वपलपन्त्यपि दृश्ययोगम् । मुक्तस्वयंप्रभचिदात्मनि हन्त शंस न्त्यज्ञानतज्जनिखिलानुभवाश्रयत्वम् ॥ ॥ शुभमस्तु ॥ 65 श्रीः