१८ दृग्दृश्यसंबन्ध-प्रसाधनम्

अदृश्यमपि दृश्यतां नयति यस्य दिव्या दया फलञ्च यदनुग्रहः सुखमिहापि सूते स्थिरम् । अनर्धगुणशेवधिर्हयमुखावतारः श्रित त्रयीशिखरदेशिको जयति रङ्गरामानुजः ॥ विमतं मिथ्या दृश्यत्वादित्यनुमाने विपक्षजिज्ञासायामुक्तमद्वैत सिद्धौ, ‘सत्यत्वेऽपि दृश्यत्वोपपर्त्तिनं वक्तुं शाक्यते; दृग्दृश्यसंबन्धानुपपत्तेः’ इति । विव च संबन्धविषये विविधान् विकल्पान् विधायाध्यासिक संबन्धमात्र परिशेषणेन । ईदृशाद्वैतिहृदयोद्घाटनेनैवोत्तरितं शतदूषण्याम् दृग्दृश्यसंबन्धोऽनुपपद्यमानोऽर्थापत्तिविधया प्रपञ्चमिध्यात्वं कल्पयतीति यद्यभिप्रेयते तन्न घटते । दृश्यमिथ्यात्वं हि दृग्दृश्यसंबन्धप्रतिक्षेपकम् ; न तु स्थापकमिति । बहुधा विकल्प्य संबन्धं निरस्यन्त एव एवं संबन्ध स्थापयन्तीति विचित्रमेतत् । यदि च दृग्दृश्यसंबन्धो नास्ति, दृश्यत्वादिति हेतुप्रयोग एव न घटते । युक्तं पुनः अदृश्यत्वान्मिथ्येति प्रयोक्तम् । तदा हि तदुपरि दृश्यत्वसद्भावात् हेत्वसिद्धाचाशंकायां संबन्धं विकल्प्य निरस्यादृश्यत्वस्थापनं क्रियमाणं सुलग्नं स्यात् । शतभूषण्यनूदित ब्रह्मसिद्धिवाक्यमव्यवशादागतमदृश्यत्वस्य हेतुत्वौचित्यमाविष्करोतीव, “परमार्थतश्चादृश्यमानं दृष्टुव्यतिरिक्तमस्तीति दुर्भणम्” इत्यदृश्यमानपदप्रयोगात् । कस्यापि दृक्संबन्धित्वाभावे दृक् संबन्धित्वरूपदृश्यत्वस्यैवाप्रसिद्धया तदभावः कथं हेतुरिति चेत् — दृश्यत्वं हेतू कुर्वद्भिरपि भवद्भिस्तत् परिचिन्त्यमेव । सुवचश्च हेतुः दृनिष्ठाभावप्रतियोग्यनुयोगिताकसंबन्धन्धसामान्यकत्वं खासंबन्धिदृक्कत्वरूपमदृश्यत्वं प्रपचे । दृशि आत्मनि प्रपञ्चप्रतियोगिकतया प्रसिद्धसंयोगसमवायादिसकल cret संबन्ध-प्रसाधनम् ૪૩ संबन्धानुयोगित्वाभावस्य भवदित्वात् । अतो दृश्यत्व संबन्धानुपपतिवादिभिः दृश्यत्वादिति हेतुप्रयोगो न स्वरसः ॥ सत्यत्वे संबन्धायोग इति चेत् मिथ्यात्व स्वीकारेऽप्ययोगस्तुल्यः । तत्राssध्यासिक संबन्धखीकारे हरयानां सत्यत्वेऽपि स सुवचः, यथा लोहितः स्फटिक इत्यत्रेति न दृश्यत्वं वस्तु मिथ्यात्वसाधकम् । संबन्धानिर्वचनीयत्वेनैवोपपत्तौ संबन्ध्यनिर्वचनीयत्वस्यानावश्यकत्वात् नानिर्वचनी स्वीकारपक्षेऽपि दृश्यमिध्यात्वसिद्धिः । यदि च हगनुयोगिकापारमार्थिक संबन्धवत्त्वरूपं दृश्यत्वं हेतुरिष्यते, तर्हि अवश्यघटनीयस्यापारमार्थिकत्वस्याप्रयोग दोषः । अपारमार्थिकत्वे च तस्य हगनुयोगिकत्वं प्रपञ्चप्रतियोगिकत्ववासभावितमिति शङ्कया हेत्वसिद्धयापत्तिश्च । लोहितः स्फटिक इत्यादौ लौहित्यस्फटिकयोः संनिकृष्टतया संसर्गारोपादन्यथाख्यातिरिति परिभाषायुक्तस्व शतभूषण्यामपि स्वीकृतत्वात् तद्वत् अपारमार्थिक संबन्धवत्त्वेऽपि प्रपञ्चस्य लौहित्यस्येव सत्यत्वसंभवात् तावतापि प्रपञ्चमिथ्यात्वं न सेत्स्यति । ननु मानाधीनत्वात् मेवसिद्धेः ज्ञानस्य च ज्ञेयेन वास्तवसंबन्धाभावात् कथं दृश्यसिद्धिरिति चेत् — कुत्रापि मेयस्य मानतः सिद्धिमनिच्छतां भवताम्, ‘मानाधीनत्वान्मे सिद्धेरिति वचनमेवासंभावितम् । अन्यच्च शतदूषण्यामुक्तम्, संबन्धापारमान संबन्धिनो दृश्यस्यापारमा संवन्ध्यन्तरस्य दृशोऽप्यपारमार्थमेवेति । स्वतः सिद्धत्वात् दृगस्तीति चेत्—दृशः स्वतः सिद्धत्वमेव कथं सिद्धम् ? दृक् खप्रकाशा, परप्रकाशकत्वात् इत्यनुमानादिति चेन्न परप्रकाशकत्वाभावस्यैवैतावता भवदुक्तत्वाद्धेत्वसिद्धेः । न च दृशः स्वप्रकाशकत्वमपि स्वप्रकाशम् । तीर्थकराणां ज्ञानखप्रकाशत्वे विवाददर्शनादेव तस्य मानान्तरवेद्यस्वस्यावश्यकत्वात् । युक्तञ्च घटादेरपि खप्रकाशत्वम् । घटादीनां व्यवह्नियमाणतया प्रकाशावश्यम्भावे दृक्संबन्धस्य च तत्र दुर्वचत्वे स्थिते पराप्रकाश्यस्यापि व्यवह्रियमाणत्वं स्वप्रकाशनिबन्धनमित्येष्टव्यमिति । तर्हि सर्वदा व्यवहारोऽस्त्विति चेत् — दृशोऽपि सर्वदाऽस्तु । सामग्री समवधानतदभावाभ्यां कार्यतदभावाविति तु सर्वत्र समानम् ॥ 61 J ૪૮૩

शतभूषण्या तु दृश्यत्वं द्वेधा विभज्य आत्मरूपदृक्संबन्ध एव प्रपञ्चे दुर्वच इत्युच्यते ; वृत्तिरूपदृक्संबन्धस्तु न निषिध्यत इति मन्यते । ‘अद्वैतसिद्ध्यादौ पुनः, “आत्मस्वरूपस्य तद्गुणस्य वा ज्ञानस्य ज्ञेयेन संयोगसमवाययोरभावात् " इत्यादिना ज्ञानसामान्यस्य, अथ वा लोकप्रसिद्धस्य ज्ञानस्यैव शेयसंबन्धाभाव उपपादितः । पूर्वञ्च दृश्यत्वात् इति हेतुविकल्पावसरे फलव्याप्यत्वातिरिक्ताः दृश्यत्वप्रकाराः हेतुतया सूपपादा इति सिद्धावुक्ततया वृत्तिव्याप्यत्वरूपदृश्यत्वस्यापि दृश्यत्वपदार्थतया तत्संबन्धानुपपत्तिरपि दुर्वचेत्यभिमतमिति गम्यते । अपरि, “ज्ञानजन्यफल”, “ज्ञानजन्यहानादि” ज्ञानकर्म । त्व" -ज्ञानाकारार्पकत्वा" दिविकल्पांशाः वृत्तिरूपहम्ग्रहणेनैव प्रवृत्ताः । आह च, “अनुमित्यादिविषये आकारापैकत्वं नास्तीत्यादि । तेन प्रत्यक्षवृत्त्यादौ चतुर्थ पक्षादिसमन्वयो ऽनुमन्यते । " वृत्तिग्रहणेन विकल्प्य दूषणं प्रौढिवाद इत्येव वयं ब्रूमः” इति शतभूषणी ब्रवीति । तदा चापसिद्धान्तः । सर्वाद्वैति दूषणमस्मत्कर्तव्यं शतभूषणी स्वयमेव चरतीति संपन्नमनुकूलम् ॥

अपि च विचार्यते – दृश्यत्वमित्यत्र दृपदेन निर्विशेषचिन्मात्रं जिघृक्षितं चेत् — हेत्वप्रसिद्धिः । तस्य खसिद्धान्तमात्रत्वात् । सत्यासत्य सर्वदृक्साधारणस्य दृक्त्वस्यासंभवात् न सामान्यतो दृक् तदर्थः स्यात् । वृत्तिरूपडक्संबन्धित्वस्य शतभूषणीष्टतया न मिथ्यात्वाभावे हेत्वनुपपत्तिरपि ; सत्यत्वेऽपि सांख्यमत इव तत्संभवात् । एतेन मुख्यगौणयोर्मुख्ये कार्यसंप्रत्यय इति शुद्धचैतन्यमात्रपरं दृक्पदमित्यप्यपास्तम् ; तस्याप्रसिद्धेः । आत्मा स्वयंप्रकाशः संमन्यत एव विशिष्टाद्वैतिभिरिति चेत् -तस्य खप्रकाशत्वेऽपि सूर्यादेरिव परप्रकाशत्वानङ्गीकारात् तद्धर्मभूतज्ञानस्यैव प्रभाया इव परप्रकाशकत्वात् तादृशदृग्विषयत्वं प्रपञ्चे नेष्टमिति दृश्यत्वासिद्धिरेव ॥ कुतश्वात्मभूतक संबन्धः प्रपचे दुर्वचः ? वृत्तिरूपज्ञानस्य चेत् संबन्धः सुवच इति शतभूषणी मन्यते, सोऽवश्यं सत्यहग्ग्रहणेऽपि संभवत्येव । यदि तु संबन्धस्य द्विनिष्ठत्वात् तस्य च संयोगरूपस्य दृग्दृश्यविषये अयोगात् विषय. दृग्दृश्यसंबन्ध-प्रसाधनम् ४८३ संब विषयिभावादेश्व द्विष्ठत्वाभावेन संबन्धत्वायोगात् संबन्धाभाव एवेत्युच्यते, तर्हि तुल्ययुक्तया वृत्तिज्ञानसंबन्धोऽपि सर्वत्र दुर्वच एव । तथैव खण्डनप्रन्थादिषूक्तं खण्डितमेवाल शतदूषण्याम् । कथञ्च द्विष्ठः संबन्ध इति निर्णीतम् ! प्रायः प्रतियोग्यनुयोगिभावाधाराधेयभावजन्यजनकभावपितापुत्रभावस्वस्वामिभावादीनां न्धानामद्विष्ठत्वेनैवानुभवात् । संयोग एकस्तु द्विष्ठोऽनुभूयते इति स्यात् । बहुविधसंबन्धानुभावाविरोधायान्यादृशसंयोगस्यैव संबन्धत्वं त्याज्यमस्तु । aust पुरुष इत्यादौ कः संबन्ध इति चेत् — यत्रैकस्यानुयोगित्वम्, अन्यस्य तु प्रतियोगित्वमिति नियमः, तत्र प्रतियोगिनिरूपितः संयोगोऽनुयोगिमात्रनिष्ठ इत्येवास्तु । यत्र तु संयोगे अनुयोगिप्रतियोगिभाव नियमगमकदुर्भिक्षम्, तत्र संयोगद्वयं जायते । एकैक एकैकत्र संबन्धः । अविवेकात्तु संयोगैक्यव्यवहार इत्यस्तु । विमतं मिथ्येत्यत्र पक्षशोधनावसरे चन्द्रिकायाम्, इदं रजतम्, रजतमिदमित्यत्र इदप्रतियोगिकतया रजतप्रतियोगिकतया च तादात्म्यद्वयस्वीकारोऽत्रापि स्मर्तव्यः । द्विष्ठत्वेन संयोग स्वीकृत्यानुभवसिद्ध सर्व संबन्धापलापापेक्षया संबन्धस्वभावदर्शनाविरोधेन संयोगस्याप्येकस्थताया एव सुवचत्वात् । संयोगो द्विष्ठ इति तु तार्किकवासनाविजृम्भितम् । स्वीक्रियतां वा संबन्धस्य द्वैविध्यमनुभवानुरोधात् । अतः संबन्धं प्रति एकस्य निरूपकत्वम्, अन्यस्य चाश्रयत्वमेव भूम्ना प्रसिद्धमिति न तदपलापः शक्यः ॥ 1 दृक्प्रपञ्चयोराध्यासिक संबन्धवादिभिर द्वैति भिरुच्यमानः स एव सबन्धः किं द्विष्ठः उतैकनिष्ठ इति चिन्तनीयम् । कोऽयमाध्यासिकसंबन्धो नाम ? किमध्यासप्रयोजकः संबन्धः ! उताध्यासविषयः ? उभयथापि स संबन्धो न संयोगसमवायादिभवति । ज्ञानस्य पदार्थैः सह तस्य संबन्धस्यानभिमतत्वात् । न च व्यवहारानुगुण्यम् तस्य वस्तुगत्या स्थितत्वेनाध्यासिकत्वायोगात् । अस्य ज्ञानस्यैतद्वयवहारानुगुण्यमेव, न तु तद्वयवहारानुगुण्यमित्यत्रापि नियामकस्य संबन्धान्तरस्य वक्तव्यत्वाच्च । विषयविषयिभावरूपविलक्षण संबन्धस्वीकारे तु तस्य वास्तवत्वान्नाध्या सिकत्वम् । तादात्म्यं संबन्ध इति चेत् कस्य केन A res

किं चिद्रपात्मनो दृश्येन, उत वृत्तेर्दृश्येन ? आद्ये आत्मनि सर्वस्यापि पदार्थस्य कल्पितत्वात् सर्वतादात्म्यं तत्रास्तीति अयं घटः, घटोऽस्तीत्यादौ सर्वप्रकाशापत्तिः । वृत्तितादात्म्यमिति चेत् कथं वृत्तेर्विषयस्य च तादात्म्यम् । वृत्त्यवच्छिन्नचैतन्यविषयावच्छिन्न चैतन्ययोरैक्यादिति चेत् – स्यादिदं प्रत्यक्षे; न तु परोक्षे । इदं रजतमिति प्रत्यक्षमेऽपि दुवचमिंद वृत्त्यनङ्गीकारात् वृत्त्यवच्छि न्नचैतन्या भेदायोगात् । वृत्त्याद्यवच्छिन्नत्वमेव चैतन्यस्य किंरूपम् ; सत्यानृतयोः संबन्धस्य साक्षादयोगात् । वृत्तिः विषयश्च चैतन्येऽध्यस्यत इति चेत् — चैतन्यस्य सर्वाध्यासाधिष्ठनतया वृत्त्यवच्छिन्न चैतन्यस्यैव विषयवाच्छिन्नचैतन्यैक्यमित्यत्र न किञ्चिन्नियामकमस्ति । अतो वृत्तेः विषयस्य च सर्वत्र तादात्म्य न संभवति । आरोपितं तादात्म्यम्, न तु वस्तुत इति चेत् — घटमहं जानामीत्यत्र घटस्य वृत्तेश्च तादात्म्यमारोपितमपि नानुभूयते । घटोऽन्यो विषयभूतः, ज्ञानमयद्विषयिभूतमिति भेदएवानुभूयते । भेदेऽपि संभाव्यमानमन्यादृशं तदात्म्यमिदमिति चेत् तदेव कीदृशम् ? कुत्रेयं तादात्म्यपरिभाषेत्येव पृच्छामः ॥ एतेन इदं रजतमित्यादौ शुक्तिरजतयोस्तादात्म्यं संबन्ध इत्य् अपि व्युदस्तम् । वस्तुगत्या तत्र तादात्म्यायोगात् । आध्यासिकतादात्म्यमित्युक्तावपि किं शुक्तितादात्म्यं रजते आध्यासिकम् उत रजततादात्म्यं शुक्तौ ? अविशेषादुभयमपि वा । उभयमित्यपि हि शक्यं वक्तुम् ; यतः पञ्चपादिकायामुक्तम्, " यद्यनात्मन एवाध्यासः, तदा आत्मा न भ्रमे भासेत । तस्मादात्मानात्मनोद्वयोरप्यहमनुभवेऽध्यासः" इति । संक्षेपशारीरके च, “इदमर्थवत्वपि भवेजते परिकल्पितं रजतवस्त्विदमि । इतरेतराध्यसनमेव ततश्चितिचेत्ययोरपि भवेदुचितम् " इत्यादि परंतु आत्मनोऽप्येवं देहादावध्यासस्येष्टत्वेऽध्यस्यमानं मिथ्या, अध्यासाधिष्ठातं तदपेक्षया सत्यमिति व्यवस्था त्यक्ता भवति । तथा च सर्वत्राधिष्ठानमपि परमार्थतोऽसदेव भवितुमर्हतीति गतमद्वैतेनेत्यन्यदेतत् । अध्यासाभाष्येऽप्युक्तम्, “अन्योन्यस्मिन् अन्योन्यात्मकता मन्योन्य हर दृश्यसंबन्ध-प्रसाधनम्

४८५ धर्माश्वाध्यस्य " इति । तत्र शुक्तितादात्म्यं चेत् — तद्वास्तवं नापरमार्थरजतनिष्ठं भवितुमर्हति । रजततादात्म्यं तु मिथ्याभूतं न शुक्तौ सत्यायां स्यात् । अतः आध्यासिकतादात्म्यमित्यस्य तादात्म्याध्यास इत्येवार्थो वर्णनीयः । तत्राध्यासस्य वस्तुनश्च कः संबन्धः ? यदि कश्चिदिष्टः तर्हि, से एव सर्वत्र ज्ञानविषययोरिति किमाध्यासिक किञ्चित्कल्पनेन ? एतेन, “आध्या सिकसंबन्धः अधि ष्ठानारोप्ययोः स्तादाम्यम्; ज्ञानखरूपस्याधिष्ठानत्वात् विषयस्यारोप्यत्वात् । तत्रापीदम् " इति चन्द्रिका भिमतमप्यपास्तम् । अधिष्ठानारोप्ययोर्वस्तुतस्तादास्पायोगात् । “दो वह्निमान्” इत्यत्र वह्निह्रदयोः तादात्म्यस्य कथमप्यभा वाच । अपि चेह तादात्म्यमित्यत्र तत्पदं किम्परम् ? यदि ज्ञानपरम् ? तर्हि तत्प्रतियोगितादात्म्यं विषयगतमेव, यदि विषयपरम्, ततादात्म्यं ज्ञानैकस्थम् । तत्प्रतियोगिक संबन्धस्य तन्निष्ठत्वायोगात् । तदिदं न द्विष्ठमिति कथं संबन्धता? अस्य संबन्धत्वे विषयविषविभावजन्यजनकभावादीनां संबन्धत्वायोगवर्णनं संरम्भमात्रम् । सर्वथा वास्तवसंबन्धाभावेन संबन्धाभ्यासे स्वीकर्तव्ये, अध्यासस्य ज्ञानरूपतया तस्य संबन्धस्य च कः संबन्ध इति विमर्श अवश्यमेव कश्चिदनुगतो विषयविषयिभावनामा स्वीकर्तव्य इति किं तदपलापेन । अध्यासभाष्ये च परत्र पूर्वदृष्टावभास इति अध्यासलक्षणमुक्तम् । “ अध्यस्य मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्य लोकव्यवहार” इति भाष्ये च सत्यमनृतं च एकबुध्यारूडे कुर्वतः अध्यासरूपमिथ्याज्ञाननिमित्तको व्यवहार इति अध्यास मिथ्याज्ञानयोरैक्यं भामत्युक्तम् । अतो ज्ञानविषययोः संबन्धोऽनिर्वचनीयोऽपि दुर्वचः । अध्यासस्य संबन्धोऽप्याध्यासिक इति चेत्, ध्यासस्य संबन्धोऽपि तथेत्यनवस्थैव स्यात् । अध्यास एव संबन्ध इति चेत् तर्हि एकविषयकमिथ्याज्ञानविषयत्वमन्यस्येत्युक्तं भवतीति सिद्धं ज्ञानस्य सविषयकत्वम् ॥ अनुभवापलापाग्रहे तु संयोगमपि संबन्धं घटपटादौ निराकुर्वन् ’ सौगत एवान्ततो भवति । तेन द्वयोर्नेरन्तर्यातिरेकेण संयोगस्य गुणस्यासंमतेः । तस्या ૪૮૬

। समवायस्तु वेदान्तिभिरपि नेष्टः । अतः स्वरूपसंयोगादिवत् अनुभूयमानत्वाविशेषात् ज्ञानविषययोरपि विषयविषयिभावसंबन्धोऽस्तु । यद्यपि ज्ञानस्य द्रव्यत्वपक्षे संयोग एव विषयतेति सत्यमिष्यते, अथापि द्रव्ये संयोगः, अन्यत्र संयुक्ताश्रितत्वमित्यादिसर्वसङ्ग्रहाय घटपटादिसंयोगव्यावृत्तये च तस्य तस्यैव संबन्धस्य विषयविषयिभाव इति सामान्यपरिभाषेति । अतीतानागतविषये कथं संबन्धोत्पत्तिरिति चेत् –संबन्धोऽयं ज्ञाननिष्ठः, विषयस्तु निरूपकमात्रमि त्यस्तु । निरूपकविशेष नियमश्च सामग्र्यायत्तः, यथा ध्वंसप्रागभावयोरसमानकालिको भावः प्रतियोगी, तथात्रातीतानागते अपीत्यनुभवानुरोधात् समन्तव्यम् । अतीतानागताद्यवच्छिन्नं ज्ञानमित्युक्तावपि तत् अवच्छेदकत्वमेव विना संबन्धं न भवितुमर्हतीति स कश्चिदेष्टव्य एव । योगिनां सर्वसाक्षात्कारनिर्वा हाय योगजधर्म संबन्ध बाह्यान्तरेन्द्रियसंबन्धञ्चातीतानागतविषयेष्वपि प्रशस्तदेवादयः प्राहुरिति स्थिते ज्ञानस्य विषयसंबन्धे कः सन्देहः ? किच लोके मिथ्याज्ञानं सत्यानृतयो मिथुनीकारमूलकम् । तत्र सत्ये कस्यचिदसत्यस्याभ्यासः किञ्चित्संबन्धपुरस्कारेणैव भवति । यथा शुक्तौ रजतस्य तादात्म्येन शङ्खे पीतिनः समवायेन, अभावे प्रमेयत्वस्य प्रतियोगितया, अन्यधने चैत्रस्य खत्वेन, हृदे वहेः संयोगेनेत्येवं यथायथम् । अतश्चाध्यासिकसंबन्धवादिनाऽपि येन संबन्धेन कस्यचित् क्वचिदध्यासः, स वक्तव्यः । तत्र घटं जानातीति वक्तव्ये यदि कश्चित् परं जानातीति भ्राम्यति, तदां घटविषयकज्ञाने विषयतया पटमध्यस्यतीत्येव व्यवहारः । तस्मात् शुक्त्यादौ रजतादेखि eetस्याध्यासोsपि किञ्चित्संबन्धगर्भ एवेति सर्वसंबन्धनिषेधेऽभ्यासोऽपि दुर्वच एवं । अपि च दृशो दृश्येन साकमध्यासिकः संबन्ध इति कं परीक्षकमात्रविदितम्, किं वा लौकिकपरीक्षकसाधारण्येन व्यवहियमाणम् ? नाद्यः; तस्म सर्वजनीनव्यवहारविषयसंबन्धनिर्वचन परत्वायोगात् । नान्त्यः, तथाऽननुभवात् । दृग्दृश्यसंबन्ध-प्रसाधनम् / rav न हि कश्चिल्लोके घटं जानामीति वदन्, मया ज्ञाने घटोऽध्यस्यत इति विवृणोति । ननु लौकिकज्ञानस्य विषयेण संबन्धोऽस्त्येव । परमार्थभूतस्य चिन्मात्रस्य तु विषयेणाध्यासिक संबन्धं ब्रूम इति चेत्-नलौकिकज्ञानविषयसंवन्धस्यैवाद्वैतसिद्ध्यादिग्रन्थेषु निराकरणात् तद्विरोधात् । यदि चिन्मात्रात्मकदृनिरूपिताध्यासिकसंबन्धकत्वरूपदृश्यत्व हेतुविवक्षा, तर्हि स हेतुः पक्षे शुक्तिरूप्यादिदृष्टान्ते च प्रागसिद्ध एव । वस्तुमिथ्यात्वसिद्ध्यधीनत्वादाध्यासिकसंबन्धग्रहस्य । शुक्तिरूप्यादे श्चिन्मात्रेऽध्यासस्यासंप्रतिपत्तेश्चेति कृतमधिकेन ॥

अथात्र शतभूषणयुक्त परिशीलनं क्रमेण सङ्ग्रहीष्यते यत् पञ्चदशी द्वैत विवेकप्रकरणप्रमाणीकरणेनोक्तम् — स्वरूपतो विद्यमानमज्ञातश्च जगत् ईश्वरसृष्टम्, ज्ञातत्वा दिवेषेण जीवसृष्टम् । ईश्वरसृष्टत्वं मायोपहितचैतन्यांशे जगदध्यासात् ; जीवसृष्टत्वमीश्वरसृष्टे तत्तदाकारवृत्युपहित चैतन्यतादात्म्येने ति-तत्र मिथ्याभूतस्य जगतः स्वरूपतो विद्यमानत्वं तावन्न भवति । कल्पनैकप्राणताया एव तत्रानुभवसिद्धत्वात् । अत एवेश्वरेण सदाज्ञायमानत्वावाज्ञातत्वमपि न घटते । ईश्वरज्ञातत्वेऽप्यस्मदज्ञातत्वमस्तीति चेत् — एकबु
या कल्पितम निर्वचनीयमन्येनाज्ञातमेवेति कोऽत्र विशेषः ? अत एवेश्वरसृष्टवस्तुनि जीवीयवृत्त्यवच्छिन्न चैतन्यतादात्म्यवचनमप्ययुक्तम् । चैत्रकल्पिते वस्तुनि मैत्रवृत्तिविषयत्वायोगात् । न हि चैत्रकल्पितमेव रजतं मैत्रः इदं रजतमिति साक्षात्कारोतीति भवद्भिः सुवचम् । यदि च विद्यमान एव वस्तुनि वृत्त्यव च्छिन्नचैतन्यतादात्म्यमात्रम्, तावता तत्र जीवसृष्टत्वव्यपदेशश्चायुक्तः, तदेतत् दृष्टमिति वक्तव्ये सृष्टमिति संभ्रमापतितमनुवर्तत इत्येव तत्त्वम् । दृष्टिसृष्टिवाद एवास्माकमिति चेत् — तर्हि अनिर्वचनीयमेव न स्थापनीयम् । दृष्टौ सृष्टयारोपात् रजतोत्पत्तिकारणादिकल्पनक्लेशस्य हेयत्वात् । ‘आत्मन आकाशः संभूतः’, ‘तत् सृष्टा’ ‘तत् तेजोऽसृजत’ इस्यादीनि वाक्यानि चान्या विशेषमकूपारे प्रक्षेपणीयानि । तदा च तदैक्षत, तत् तेजोऽसृजतेति वाक्यद्वयवैयर्थ्यम् । ईक्षणसर्जनयोः शोधने भेदाभावात् । भ्रमो मे भूयादित्यशास्य भ्रममलभतेत्यर्थ
rrr
1
परमार्थभूषमे
इति चेत् — संकल्पकाले जगत्प्रत्यक्ष भ्रमात्मकमीश्वरस्यास्ति वा न वा ? न चेत्, सदा सर्वज्ञत्वस्य हानिः । अस्ति चेत्, अमोऽस्त्येवेति किमर्थः संकरूपः ! उत्पादनार्थमिति चेत् — ननूत्पादनं भ्रान्त्या विषयीकरणमिति प्रागेवोक्तम् । एवमेकतरेणापि यत् सृष्टं न भवति, तत्र एकैकस्मिन् वस्तुनि ईश्वरसृष्टत्वं जीवसृष्टत्वमित्युभयसद्भाववचनम्, शोधने जीवानामानन्त्यात् जीव भेदेनापि नानानि सृष्टत्ववचनं च नूनमद्वैतरक्षण श्रद्धामूलानेकद्वैत कल्पनासाहसमात्रमिति न क्षोदक्षमं भवति ॥
यदुच्यते मायाशरीरक त्रह्मपरिणामवादे गौणे ब्रह्मणा प्रपञ्चस्य न साक्षात संबन्धः, किन्तु विवर्तवाद एवेति तत्र तादृशब्रह्मपरिणामवादो नैव गौण इति स्थाने स्थास्यति । विवर्तवादस्यामुख्यत्वञ्च प्रागप्युक्तम् । तत्र वक्ष्यते च । तदैव प्रपञ्चस्य ब्रह्मणा साक्षात् संबन्ध इति तु कथम् । ब्रह्मप्रपञ्चयोराध्यासिक संबन्धस्यैव भवदुक्तेः ततः साक्षात् संबन्धाभावस्यैव सिद्धेः । यस्य वस्त्वेव नास्ति, स कथं तेन कस्यचित् साक्षात्संबन्धं ब्रूयात् । अस्माकं तु ब्रह्मप्रपञ्चयोराधाराधेयभावादयोऽनेके साक्षात्संबन्धा आगमगन्या अबाधिताः सन्ति । अतो विपरीतमिदं भवद्वचनम्, असंबन्धे सति साक्षात् संबन्ध इति कथनादत्यन्तासंबद्धमिति । अध्यासाधिष्ठानभावस्थले कार्यकारणभावव्यवहारस्य लोकेऽभावात् प्रपञ्चस्य ब्रह्मकार्यतया कार्यकारणभावप्रयुक्तः संबन्ध इत्यध्यनुपपन्नम् । न हि, इंदं रजतमिति भ्राम्यन् कश्चित् अहमत्र रजतमुत्पादयामीति मन्यते । एवमेवेश्वरोऽपि चैतन्यमात्रे जगदहमुत्पादयामीति नाध्यवसातुमर्हति । विशिष्य च तत्त्वज्ञः कथं सृजेयमिति संकल्पयेत् ।
अपि चाध्यस्यमानत्वेन ब्रह्मकार्यत्वस्वीकारे अविद्याया अध्यनादिभूतायाः कार्यत्वापत्तिः । भावरूपाज्ञानस्य, अज्ञानं मेऽस्तीति सत्सामानाधिकरण्येन प्रतीतिश्व दुरपलपा । अध्यस्यमानत्वाभावे च मिथ्यात्वमेव न स्यात् । अध्यस्यमानत्वेपि नाविद्यायाः कार्यस्वमिति चेत् प्रापश्चिकपदार्थ एकैकोऽप्ये
दृग्दृश्यसंबन्ध-प्रसाधनम्
४.८९
वमस्तु । तथा कल्पनयैवं सर्वनिर्वाहे कस्यापि कार्यत्वं न स्वीकर्तव्यम् । अज्ञाने उत्पत्तिप्रतीत्यभावादनादित्वम् प्रपञ्चे पुनस्तत्प्रतीत्या कार्यत्वमपीप्यत इति चेन्न कल्पनाया उत्पत्तेश्च विरुद्धत्वात् । अन्यथा शुक्तिरजतमुत्पद्यत इति प्रतीयेत । नेदानीमुत्पद्यत इति बाधोऽप्यस्ति । अभ्यस्यमानेष्वधिष्ठानगतोत्पत्तिप्रणाशयोरारोप एवानुभविकः । शुक्तिनाशे रजतं नष्टमिति, शुक्तिजन्म मनसिकृत्य च पूर्वमेव रजतं जातं तत्र स्थितमिति च प्रतीयमानत्वात् । यदि च चिन्मात्रे प्रपञ्च आरोपितः स्यात्, चिन्मात्रगतस्यैव धर्मस्य तत्रारोपः स्यात् ; नोत्पत्तिप्रणाशादेः । चिन्मात्रे तदभावात् । अधिष्ठानान्तरस्य चाखीकारात् । अतः काल्पनिकमपि कार्य न घटते । यत्तु — यत्र संबन्ध अध्यासिकः तत्र संबन्धप्रतियोगिन एव मिथ्यात्वं दृष्टम् ; न त्वनुयोगिनः । शुक्तौ रजताध्यासे रजतमेव नृतम् ; न शुक्तिरनुयोगिनीति तन्न –परस्पराध्यासस्य सूत्रभाष्यादिसिद्धत्वात् । चितोऽप्यन्तःकरणादावारोपस्य तत्र तत्रोक्ततया चाध्यासप्रतियोगित्वस्य चित्यप्य
क्षतेः
;
। शुक्तिरजतयोर्लोकप्रसिद्धः कोऽपि संबन्धो नास्तीति च यदुक्तम्तत्र किं काल्पनिकोऽपि कश्चित् संबन्धो नास्तीति मन्यते ? नैतद्युक्तम् । तादात्म्यस्यैव तत्र कल्प्यमानत्वात् । अन्यत्र संयोगसमवायादिरपि कल्प्येत, इह तु तादात्म्यम् । अन्यथा समानाधिकरणप्रीतिरेव नोदियात् । आध्यासिकसंबन्धस्तादात्म्यमिति चन्द्रिकाऽपि शोधने तादात्म्यसंबन्धेन वस्त्वध्यास इत्यत्रैव पर्यवस्येत् । " विकल्पासह त्वेन संबन्धाभावं सिद्धं कृत्वा " इति शतदूषणीग्रन्थस्य अनिर्वचनीयसंबन्ध सिद्धं कृत्वेत्यबद्धव्याख्यानं विधाय, " मेरुमन्दरयोः" इत्याधुपरितनग्रन्थानुस्थितिवर्णनमध्ययुक्तम् । उपरि वक्ष्यमाणदूषणानुगुणं यथाश्रुतं स्वरसमर्थं स्वयं विसृज्य ग्रन्थानुत्थिक्तिवर्णनायोगात् । अथ वक्तृतात्पर्याभावेऽपि अद्वैतिनामिहायं दूषणपरिहारप्रकार इति यद्युच्यते -तत् पृथगुच्यताम् । किं ग्रन्थस्यान्यथा व्याख्यानेन ? दूषणपरिहारप्रकारश्च न घटते । संबन्धस्यापि तत्वेऽपि अनिर्वचनीयत्व स्वीकारात् । अनिर्वचनीयत्वेऽपि संबन्धस्य द्विष्ठताया 62४९० परमार्थ भूषणे भवदिष्टत्वात् अनुयोगिरूपाधिष्ठाने प्रतियोगिरूपाधिष्ठाने च कश्चित् संबन्धोऽध्यस्त इति सुवचतया दृशिवत् दृश्यस्यापि सत्यत्वमेवोपपन्नमिति नातस्तन्मिध्यात्वानुमानप्रसक्तिः । अनिर्वचनीयसंबन्धप्रतियोगित्वमनिर्वचनीयत्वसाधक मिति च प्रागेव परास्तम् । शुक्तिरजतादावप्यनिर्वचनीयत्वस्यानिष्टत्वात् । अथ सद्भावे किं प्रमाणमिति चेत् भवदिष्टनिर्विशेषदृशिसद्भावेऽपि न किञ्चित् प्रमाणमिति व्यक्त शतदूषभ्याम् । संबन्ध एव प्रतियोग्यनुयो ग्युभयाभावेऽनुपपद्यमानः दृशिमिव दृश्यमपि कल्पयन् दृशिवदेव पारमार्थ्यमपि दृश्यस्य स्वीकारयति । यदि च दृक्संबन्धाभावेऽपि हर प्रकाशते, तर्हि स्वयंप्रकाशत्वमवर्जनीयम् । तर्हि सर्वदा स्वप्रकाशी स्त्विति चेत्—-चिन्मात्रीयानन्दांशस्येव तिरोधान कल्प्यम् । अज्ञानकार्य जयं प्रपञ्चमज्ञानमेव कथं तिरोदध्यादिति चेत्-यप्रकाशत्वे समापतिते जडत्वं कुतः ? कादाचित्कप्रकाशबलेन तिरोधाने सिद्धे तिरोधायकमज्ञानं वा भवतु, अन्यद्वा किञ्चित् कार्येण कारणस्य सिद्धत्वात् । यत्तु कदापि न निर्विशेषतया स्वयं प्रकाशते, तत् स्वप्रकाश चिन्मात्रमिष्यते ; यत्तु कदाचिदपि प्रकाशते घटादि, तस्य तु तन्नेप्यत इति च विलक्षणमेतत् । खप्रकाशत्वे प्रपञ्चस्य चित इव ज्ञानरूपत्वापत्तिरिति चेत् — किमिदं ज्ञानत्वम् ? यदि सविषयकत्वम् तन्नापाद्यम् । चित्यपि दृश्यसंबन्धसुदूरायां तदभावात् । यदि प्रकाशरूपत्वम् ? तत् स्वीकृतस्वयंप्रकाशत्वानतिरिक्तमिति नानिष्टापादानं तत् । तर्हि ज्ञानातिरिक्तविषयाभावात् " नाभाव उपलब्धेः " इति दूषितयोगाचारमतप्रवेशः स्यादिति चेत् –कं प्रत्येतद्दोषापादनम् ? न विशिष्टाद्वैतिनं प्रति । ज्ञानस्य तज्ज्ञेयस्य बाह्यस्य चोभयस्य तदिष्टत्वात् । न च योगाचारमतैक्यप्रसक्तिः । योगाचारो हि बाह्यं ज्ञेयमपलपन् ज्ञानमात्रमिच्छति । इदानीं तु — आन्तरज्ञानवत् बाह्य ज्ञेयमपि बाह्यमेव सत् खप्रकाशत्वमात्रेण ज्ञानपदवाच्यं भवेत्, यदि ज्ञानेन ज्ञेयस्य संबन्धो नेष्यते इत्युच्यते । तत्रास्त्येव वैलक्षण्यम् । एवमप्यैक्यमभिप्रेयते चेत् तर्हि दृग्दृश्यसंबन्ध-प्रसाधनम् ४९१ भवन्तं प्रत्येव खल्विदमापादनम्, ज्ञेयस्य स्वप्रकाशतयैव सिद्धयावश्यकत्वेन ज्ञेयज्ञानतावादियोगाचारमता वैलक्षण्यं भवतः स्यादिति । वैधर्म्यसूत्रप्रस्तावश्च न प्रकृतोपयोगी । स विषयः प्रागेव परास्तश्च ॥ सूत्रकारश्च, “न खमादिवत्” इति प्रथममुक्त्वा स्वाशयमुद्घाटयत्येवानन्तरसूत्रेण, ‘न भावोऽनुपलब्धेः ‘, इति । यत्तच्यते-दृश्यस्य संविद्वेद्यत्वं नाम दृश्याकारपरिणतान्तः करणवृत्तिफलित चित्तादात्म्येनेति तन्त्र अनुमित्यादिस्थले अन्तःकरणवृत्तेः दृश्याकारेण परिणामे प्रमाणाभावात् । दृश्याकारत्वं हि दृश्यगत संस्थानवत्त्वमिति । न । च तादृशसंस्थानोत्पत्तौ किञ्चिन्नियामकम् । न च विना संबन्धं दृश्यं वृत्तौ स्वसंस्थानं जनयितुं प्रभवति । संबन्धान्तरस्वीकारे च, “अर्थेनैव विशेषो हि निराकारतया धियाम् " इत्युक्तनयेन घटवृत्तिः पटवृत्तिरित्यादेर्निर्वाहे आकारा न्तरोत्पादकल्पना सौलान्तिकमत इव व्यर्था । न चान्तःकरणस्य वहिर्निर्गम्य कुल्याद्वारा क्षेत्रप्रसृतस्य सलिलस्येव विस्तरणे प्रमाणमस्ति । न च वृत्तौ चिलि प्रतिफलितुमर्हति, नीरूपत्वात् । “विज्ञातृपुरुषाभिमुखेप्वादर्शादकादिषु खच्छेषु चाक्षुषं तेजो लममपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रतर्तितं मुखसंयुक्त मुखं ग्राहयत दोषवशात् तद्देशतामनभिमुखतां च मुखस्याग्राहयत् पूर्वदृष्टाभि मुखादर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति” इति लिखन्त्या भामत्यैव चैतन्यप्रतिफलनं प्रतिक्षिप्तमेव । न चान्तःकरणवृत्त्यवच्छिन्नं . चैतन्यमित्यवच्छेदवादः । सत्यस्यानृतावच्छिन्नत्वरूपसंबन्धे प्रमाणाभावात् । न चान्तःकरणसंबन्धित्वेनाध्यास एवेहान्तः करण संबन्धित्वमिति सुवचम् ; अन्तःकरणस्य घटादिग्रहकाले मानाभावात् । न च हक्कादात्म्यं दृश्यस्य । सत्यानृतयोरत्यन्तभेदात् । तादात्म्यमित्यस्य परिभाषितोऽर्थोन्य इति चेत स किमभेदघटितः, अघटितो वा ? अन्त्यः सर्वथैवासम्भवी । आद्ये च भेदो दुर्घट इत्युक्तम् । दृश्ये दृशितादात्म्यभ्रम इति चेत् भ्रमस्यैव दृश्येन साकं कः संबन्ध इति कथ्यताम् । तस्मात् प्रत्यक्षरमबद्धमेतत् । ४९२

अनुमानादिस्थले चितोऽसत्त्वा पादकाज्ञाननिवकवृत्त्यवच्छिन्नत्वमात्रम्, न तु विषयतादात्म्यं तस्येत्युच्यते । तत्र वृत्तेरज्ञान निवर्तकत्वमेव कथम् ? न हि प्रदीपः कचिदरोपितोऽस्तीति स्थलान्तरे तमसो निवृत्तिः । तदर्थे दृश्येन साकं वृत्तिसंबन्धः कश्चिद्वक्तव्य एव । तत्र यदि स सुवचः, सुवच एव तर्हि दृशोऽपि दृश्यसंबन्धः । दृशः सत्यत्वात् दृश्यस्यासत्यत्वाश्च स न भवतीति तु दृश्यमिध्यात्वसिद्धेः प्राणिदानीं दुरुपपादम् ॥

यत्तु – दृशो न दृश्यत्वम्, अखण्डाकारवृत्त्या आवरणनिवृत्तौ स्वयमेव प्रकाशादिति तत्र वृत्तेः किमिदम खण्डाकारत्वं ? निराकारे ब्रह्मण्यखण्डाकारायोगात् । निर्विशेषब्रह्मविषयकत्वमेव चेत् ननु वृत्तिरपि दृश्यान्तर्गता । तथा कथं दृशेः कश्चित् संबन्धः ? अथ दृशेः किञ्चित्पति विषयत्वमस्ति किञ्चिद्विषयकत्वं तु नास्तीति चेत् तदनुभवविपरीत मत्यन्तदूरं वा । दृश्यस्य खल्वयं स्वभावः, न दृशेः ॥

यत्तु शतदूषण्यामपि दृग्दृश्यसंबन्धस्यानिर्वचनीयत्वमेव हृदयेनानुमन्यते, संज्ञाविशेषादेर्दुचत्वस्याभिमतत्वादिति तन्न दुर्दचत्वाभिमत्यभावात् । विषयविषयिभावादिपुरुषेच्छावशाने कसंज्ञा संभवस्यैवोक्तत्वात् । न च लक्षणाद्यनुक्तिमात्रेण सदसद्विलक्षणत्वरूपा निर्वचनीयत्वप्रसक्तिः । न होक्षुक्षीरगुडादिरसाः निर्वक्तुमशक्या अपि अनुभवदूराः अपलप्याश्च भवन्ति । आख्यातुमशक्यत्वेऽप्यर्थसत्यत्वमेव खल्वाह, “इक्षुक्षीरगुडादीनां माधुर्थस्यन्तरं महत्” इति । अनुभवसिद्धेऽर्थे लक्षणमेव स्वनपेक्षितम् । प्रत्यक्षदृष्टेऽर्थेऽनुमानशब्दादीनामनपेक्षितत्वात् । यदि शतदूषण्यभिमतरीत्यैव दृग्दृश्यसंबन्धो भवदिष्टः, यदि वा स्वाभिमतमेव शतदूषणयुक्तमित्याशयः, सर्वथा न तत्र प्रत्युत्तर विधाने प्रयतनीयम् । नानासंज्ञासंभवं दृग्दृश्यरूपानुयोगिप्रतियोगिकत्वं तत एव बाह्यसंबन्धवलक्षण्यम्, अतीतानागतादिप्रतियोगिकत्वं दृक्समसत्ताकत्वमेवमादिकमनेकमाकारं तस्य निबुवाणायां शतदूषण्याम्, अद्वैत्यभिमतमनिर्वचनीयत्वमेव सा मन्यत इति वचनमनार्जवकृतम् । उपरि स्वण्डनादिप्रन्याश्च तत्राखण्डिषत । दृग्दृश्यसबन्ध-प्रसाधनम् ४९३ यत्त संविद उपादानत्वात् उपादानत्वस्य च विवर्तविधयैव वक्तव्यत्वात् अन्यथा प्रपञ्चस्य भास्कराभिमतब्रह्मपरिमाणतापत्तेः शुक्तिरजतयोरिव संवित्पञ्चयोर्विषमसत्ताकत्वात् दृश्यमिध्यात्वमिति दृश्य मिथ्यात्वात् दृग्दृश्यसंबन्धो मिथ्याभूतः । न च मिथ्याभूतसंबन्धः सत्यप्रतियोगिको भवति, शुक्तावारोपितस्य रजतसंबन्धस्य मिथ्यारजतप्रतियोगिकत्वादिति तन्न लोके दृश्यमिति व्यवहारः जगत्कारणभूतां संविदमादायेति न कस्याप्यानुभविकम् । अतः संविदः कारणत्वमेव न सिद्धम् ; नतरामुपादानत्वम्, नतमां विवर्तोपादानत्वम् । एवं दृग्दृश्य मिथ्यात्वे पूर्वमेव सिद्धे तत एव दृग्दृश्यसंबन्धे चाध्यवसीय -: माने हक्संबन्धबलान्मिथ्यात्वानुमानमिति संप्रत्युच्यमानमपि न घटले । आरोवितसंबन्धस्यानारोपितप्रतियोगिकत्वं लोहितः स्फटिक इत्यत्र परिभाषाद्युक्तमेवेति नैतदनिष्टम् । तर्ह्यन्यथाख्यातिः स्यात् अनिर्वचनीयख्यात्यभावप्रसंग इति चेत् — नास्माकमिदम निष्टम् । " इदं रजतमित्यत्र इंदंरजततत्संसर्गविषयकैकज्ञान-भङ्गापत्तममांसाभिमताख्यातिमत प्रवेशापत्तिः । श्रीमाण्यानुयायिनामपीद 1 मनिष्टम् " इति लेखन तु सर्वथैवायुक्तम् । अख्यातिपक्षस्यैवास्माभिराश्रयणात् । यत्र विशिष्टज्ञानमेकं भ्रमस्थलेऽपि संभाव्यते त्रिवृत्करणादिश्रुत्यनुरोधात् तत्र परमनुभावानुरोधादेकं ज्ञानम् । अन्यत्र लाघवादख्यातिरेव । सर्वथा यथार्थं सर्वविज्ञानमिति प्रकरणपञ्चिकोक्तं मीमांसकमतमादृतमेवास्माभिः । अभिहितञ्चाचार्यै देव – “स्वारस्यमन्यथाख्यातौ भख्यातं लाघवं स्मृतम् " इति । तस्माल्लाघवोपेक्षायां लोहितः स्फटिक इत्यादाविव सर्वत्रान्यथाख्यातिरेवेति नानिर्वचनीयख्यातेरवकाशः । विशिष्य चेयं निराकरिष्यते । यदपि यदि दृश्यस्य सत्यत्वं स्यात् संवेदनसंबन्धाभावप्रसंग इति तर्कस्य विपर्यय पर्यवसानं दुर्वचमिति कथितोपरि समाधानन् प्रतीयते चाय संबन्ध इति विपर्ययपर्यवसानं घटते । परिदृश्यमानसबन्धोपपत्तये दृश्य मिध्यात्वमाश्रीयते । संबन्धानुपपत्त्या विश्वमिथ्यात्वमित्यर्थः । आरोपित संबन्धानुप ४९४

पतिवचनेन तत्प्रतियोगिनोऽप्यारोपितत्वमा क्षिप्तम् इति तन्न प्रतीयते चाय संबन्ध इति प्रतीयमानत्वेन स्वीकृतः संबन्धः किं संबन्धत्वेन प्रतीयते, उत विशेषरूपेण ? अन्त्ये, किमाध्यासिकत्वरूपविशेषेण ? उत, विषयविषयिभावादिरूपेण ? अन्त्यप्रथमनानुभविकम् । दृश्यस्येव दृग्दृश्यसंबन्धस्यापि निर्विशेषब्रह्मज्ञानवाध्यत्वेनैवापारमार्थस्वीकारात् व्यवहारदशायां तत्प्रतीतेराभ्यासिकत्वगोचरत्वायोगश्च । यदीदानीमप्याध्यासिकत्वप्रतीतिः, तर्हि शुक्तिरजतादिवत् प्रातिभासिकत्वमेव स्यात् । एवञ्च दृश्यतत्संबन्धयोः समसत्ताकत्वं भवदिष्ट भज्येत । द्वितीये तु परसंमतसंबन्धविशेषस्वीकारात् न संबन्धानुपपत्तिरस्ति । पारमार्थिकसंबन्धानुपपत्तिरस्तीति चेत् प्रतीतस्य विषयिविषयभावादिरूपसंबन्धस्य पारमार्थिकत्वानुपपत्तिरित्यत्रैव हि त्वदुक्तेः पर्यवसानम् । संबन्धविशेषस्य भासमानत्वापलापायोगात् । अस्तु तथैवेति चेत् संबन्धपारमार्थिकत्वानुपपत्तिः, संबन्धिपारमार्थिकत्वानुपपत्तिसंवलितैव प्रमाणेन युगपज्ज्ञेयेति नैतदपारमार्थ्यस्य दृश्यापारमार्थसाधकत्वम् । सामान्यरूपेणैव संबन्धभानमित्याद्यपक्षे तु सामान्यस्य सत्यत्वमिथ्यात्वसाधारणतया न मिथ्यात्वानुमापकतेति । आरोपित संबन्धातिरिक्तसंबन्धानुपपत्तिरिति, आरोपित संबन्धानुपपत्तिरिति च व्यामिश्रलेखनमपि न सुष्ठु । अनारोपित संबन्धकल्पने परिणामवादापत्तिरिति च तदा स्यात्, यदि विषयग्राहिकाणां दृशां जगदुपादानस्य ब्रह्मणश्चै क्यमवतिष्ठेत – तत्तु लोकवेदविरुद्धमिति स्फुटम् । यत्तु दृशि दृश्यारोपो नान्यथाख्यातिः, दृश्यस्य कारणात्मनाऽवस्थानदशायाम सन्निकृष्टत्वादिति – तत्रोच्यते अन्यधाख्यातावारोप्यसन्निकर्षो नापेक्षितः । वस्तुतस्तु दृश्यप्रतीतिस्तावत् दृश्यरूपकार्यात्मनाऽवस्थानदशायामेव । तदा दृश्यं सन्निकृष्टमेव । चक्षुरादिसन्निकर्षसद्भावात् । दृशः सन्निकृष्टत्वमावश्यकमिति चेत् तन्नास्तीति कथं सिद्धम् ? घटोऽस्तीत्यादौ सन्मात्रस्य तस्य मानस्वीकारेण सन्निकर्षकार्यस्यापेक्षितस्याक्षतेः । " दूरस्थवनस्पत्योः संयोगभ्रमोऽपि चण्डमारुतोपक्षिप्तो व्याख्यातः इत्येतदप्ययुक्तम् । असन्निकृष्टत्वादन्यथाख्यातिर्न भवतीति व्यव ÷ दृग्दृश्य सबन्ध-प्रसाधनम् ४९५ वक्तुं न शक्यते । दूरस्थत्वे सन्निकृष्टत्वं कथमिति चेत् — दूरस्थलं ह्यन्तरालाग्रहणप्रयोजकम् । न वनस्पत्योः चक्षुस्सन्निकर्षस्तेन विवारयिषितः । अतोऽक्षतं सन्निकृष्टत्वम् । तथा च तत्रैव दृग्दृश्ययोः पारमार्थिकत्वेऽपि संबन्धापारमार्थसंभवात् संबन्धापारमा मनैकान्तिकमिति ॥

शतभूषणी च शतदूषण्युक्तं दूषणं हृदि निधाय तत्त्वदीपिका खण्डनखण्डखाद्यादौ – संबन्धसामान्यं दुर्वचत्वात् खण्डितम् तस्यैव समर्थन कृत्वा चिन्तया प्रौढिवादमात्रमवलम्ब्याद्वैतसिद्धिलघुचन्द्रिका दौ कृतमिति लिखन्तीयावद्दृश्यसत्त्वं तत्समसत्ताकः संबन्धोऽभ्युपेय एव । वृत्त्यवच्छिन्न चैतन्यरूपदृशेदृश्यस्य चानुभवसिद्धस्य संबन्धस्याप्रतिषेध्यत्वात् । यदा तु दृदय नास्ति, तदा दृश्यसंबन्धप्रसत्त्यभावात न तदात्वे संबन्धो निषेधनीयः, दृश्यस्थितिकाले वास्त्येव संबन्ध इति मन्यमाना, शुद्धदृशा सहैव प्रपञ्चस्य संबन्धायोगमभिप्रेति । तेन दृश्यस्य वृत्त्यवच्छिन्नचैतन्येन सह यादृशोऽनिर्वचनीयसंबन्धः, तादृशोऽपि मुख्यदृशा सह दुर्वच इति तदाशयः सिद्ध्यति । सर्वविधदृग्दृश्यसंबन्धखण्डनप्रवृत्तः सिद्धिकारोऽपि " न च प्रमाणजात स्वविषयावरणेत्युतया, दृग्विषयत्वरूप दृश्यत्वस्येहैव हेतूकरणेन च त्वयाऽपि विषयत्वं निर्वाच्यमेवेति वाच्यम् । तत्त्वतोऽनिर्वाच्यत्वेऽपि अध्यस्तत्वेन घटादिसमकक्ष्यनिर्वाच्यत्वस्य संभवात्" इति लिखन् विषयविषयिभावरूपं संबन्धं प्रपञ्चतुल्यमनिर्वचनीयं स्वीकृतवानेव । एवञ्च ब्रह्मणि चिदात्मके सर्वप्रपञ्चाध्यासवत् प्रपञ्चविषयकत्वस्याप्यध्यास इत्येवोक्तं भवति । तत्र दृश्यसत्यत्ववादिनः दृश्यसंबन्धमपि सत्यमातिष्ठन्ते, दृश्यासत्यत्ववादिनस्तु तत एव संबन्धमप्यसत्यमित्येतावति स्थिते -यद्यनिर्वाच्यसंबन्धो हेतूक्रियेत, तदा दृश्यमिध्यात्वमनुमातुं शक्यम् । यदि निर्वाच्यसंबन्धः, तदा दृश्यसत्यत्वम् । यदि तु सामान्यतः संबन्धमात्र हेतुः, तावता संबन्धिनं विना संबन्धायोगात् दृक्सबन्धरूप हेतुः संबन्धिनमेवाssक्षिपेत्, न तु संबन्धिनः सत्यत्वमसत्यत्वं वेति दृश्यत्वान्मिथ्यात्वसिद्धिवचनमयुक्तमेव । मिथ्याभूतसंबन्धत्वेन हेतूकरणमशक्यमिति च सिद्धिकृतोऽपीष्टम्, ४९६

“न मध्यस्तसंबन्धत्वेनाक्षेपकता, किन्तु संबन्धत्वेन” इति लेखनात् । वस्तुतः अध्यस्तत्वेन मिथ्यात्वेन विना सामान्यतः हक्संबन्धज्ञाने सति ज्ञानस्य स्वतः प्रामाण्यात् पारामर्थ्यमपि ज्ञानान्तरन्यायेन गृहीतमेवेति दृक्संबन्धज्ञानं जातं सत्त्वेन हक्संबन्धज्ञानरूपमेव । तच्च दृश्यसत्यतां प्रत्येव प्रयोजकमिति तस्य मिथ्यात्वप्रतिकूलत्वमेवेति च ध्येयम् । अपि च दृक्संबन्धत्वेन सामान्येन रुपेण तस्य हेतुत्वे, यदि दृश्यस्य सत्यत्वं स्यात् दृग्दृश्यसंबन्धोऽनुपपन्नः स्यादिति सामान्येनानुपपत्तिवचनं कथम् ? अभ्यस्तसंबन्धस्योपपन्नत्वात् । अतः पारमार्थिक संबन्धोऽनुपपन्न इति वा अपारमार्थिक संबन्धोऽनुपपन्न इति वा वक्तव्यम् । तत्र नाद्यः; तर्कस्य विपर्ययपर्यवसानरूपाङ्ग विशिष्टत्वधौव्या द्विपरीतसिद्धेः । यदि दृश्यं सत्यं स्यात्, दृग्दृश्यपारमार्थिक संबन्धोऽनुपपन्नः स्यात् । यतः पारमार्थिक संबन्धोऽस्ति, अतो दृश्यं मिथ्येति किल विपरीतपर्यवसानरीतिः । न च पारमार्थिक संबन्धो भवदिष्टः । न च तादृशसंबन्धस्य मिथ्यात्वसाधकत्वं भवदिष्टम् । न च तत् संभवति । नान्त्यः; अपारमार्थिक संबन्धोऽनुपपन्न इति वचनमपारमार्थिकत्वस्य संप्रतिपन्नत्वादेव न युक्तमित्युक्तत्वात् ॥ किमध्यासरूपारोप विषयः अथ दृशि प्रपञ्चस्याध्यास इति वदता कश्चित् संबन्ध इष्यते, उताध्यास एव संबन्धः ? आधे संबन्धिद्वयसत्यत्वेऽपि स्फटिकलौहित्ययोरिव संबन्धस्यारोपसंभवान्न ततो दृश्य मिथ्यात्वमित्युक्तमेव । अन्त्येऽध्यासस्य कः प्रपञ्चेन दृशा च संवन्धः ? न हि विषयविषयिभावः, तदनङ्गीकारात् । अन्यथा दृक्प्रपञ्चयोरेव तदुक्तिसंभवात् । अध्यासस्य संबन्धोऽध्यासान्तरमिति चेत् अनवस्था । ‘वृत्त्यवच्छिन्न चैतन्यरूपज्ञानेऽवच्छेदिकायाः वृत्तेर्जडायाः अध्यस्तत्वेऽप्यवच्छेद्यस्य चैतन्यस्य प्रकाशरूपस्यानभ्यस्तत्वेन तत्र दृश्यस्यानध्यासान्नः नवस्था’ इति सिद्धिग्रन्थो नेमामनवस्थां परिहर्तुं प्रभवति । अध्यासो हि वृत्तिविशेषावच्छिन्न चैतन्यम् । तत् किं सत्यमुतासत्यम् ? नाद्यः, अपसिद्धान्तात् । शुद्धचैतन्यं विहायान्यत् किञ्चिदुपहितं eetसंबन्ध-प्रसाधनम् ४९७ चैतन्यमचैतन्यं वा सर्व मिथ्येत्येव हि भवद्भिरुच्यते । नान्त्यः, तस्य दृशि संबन्धस्य दुर्वचत्वात् । वृत्त्यवच्छिन्न चैतन्यघटकं विशेप्यं चैतन्य ब्रह्मैवेति पारमार्थ्यपचेऽपि तस्याध्यासपदार्थस्य दशा संबन्धः, प्रपञ्चेन दृश्येन संबन्धश्च पुनर्दुर्वच एव । अथ वृत्तिमात्रमध्यास इति चेत् तस्याः प्रपञ्चविषयकत्वमेव कथम् ? वृत्तिप्रपञ्चयोरिष्टः संबन्धो दृक्प्रपञ्चयोरेवेप्यताम् । एवं वृत्तेर्दृशश्च कः संबन्धः ? घटोऽस्तीति सद्रूपचितो विषयत्वात् विषयत्वमेवेति चेत्एवं सत्यमिथ्या साधारण्येनानुभविके विषयत्वे सति कथमसंबन्धवर्णनम् । एवं वृत्त्यवच्छिन्नचैतन्यतादात्म्यमेव दृशेरित्युक्तावपि तदपेक्षया वृत्त्यवच्छिन्नत्यमेव संबन्ध इत्येवालम् ; तदप्यवच्छिन्नत्वं विविच्यमानं दुर्निरूपमेव । न चानिर्वचनीयवादिनां दुर्निरूपत्वं साधकमेवेति वाच्यम्—एवं तर्हि ब्रह्मलक्षणस्य कारणत्वस्य सत्यत्वज्ञानत्वानन्दत्वादेः सर्वस्यापि दुर्निरूपतया ब्रह्माप्यनिर्वचनीयमापद्यते । इक्षुक्षीरगुडादिरसानामप्यभावः स्यात् । अथ सत्त्वे ऽप्यनिर्वाच्यत्वोपपत्तेः न तावन्मात्रेण मिथ्यात्वम् । आकारान्तरनिर्वचनाभावेऽपि अनुभूततया सत्त्वेन निर्वक्तुं शक्यत्वेव मिथ्यात्वं न भवति । लक्षणा निरुत्यादिकं तु मिथ्यात्वबाधकानुपलब्धौ मिथ्यात्वसाधकमाने वा सति मिथ्यात्वं स्थारविष्यतीति चेत्-न ; त्त्वव दुर्निरूपत्वे सत्त्वेन निर्वक्तुं शक्यत्वस्यानिर्धारणात् । बाधकानुपलब्ध्या साधकमानेन च मिथ्यात्वे सिषाविषिते लक्षणानिचनादिखण्डनप्रयासस्य खण्डनादिपरिगृहीतस्य व्यर्थविस्त ररूपत्यात् । मिथ्यात्वसाधकमानस्यानुमानरूपस्यैवाद्य विचारदशापन्नत्वात् तत्सद्भावकथनायोगात् । श्रुतेश्च मिथ्यात्वसाधिकाया अन्यत्र प्रतिक्षिप्तत्वात् । अतोऽद्वैतसिद्धधुक्तं सर्वमेवमसाधकमिति सिद्धम् ॥ शतभूषण्यनूदित ब्रह्मसिद्धितद्वयाख्याग्रन्थतोऽप्येतावदेव निष्क्रष्टव्यम् । हम्वत् दृश्यस्यापि पार्थक्ये संबन्धो दुर्वचः । भिन्नयोस्तादात्म्यायोगात् । संयोगादेश्चाननुभवात् । न च दृशेरर्थस्य चैकान्तःकरणसङ्क्रान्त्या दृग्दृश्यसंबन्धः । शुद्धायाश्चितः अन्तःकरणसङ्क्रमेऽपि करणवत् परिणामायोगात् । निक्रिय 63 ४९८ तया सङ्क्रमाभावाच्च ।

अन्तःकरणरूपजडसङ्क्रम एवं शुद्धायाश्चितः कथमिति विचार्यत्वाच्च । ननु शब्दार्थयोर्वाच्यवाचकभाववत् दृम्हश्ययोः ग्राह्यग्राहकभावे संबन्धेऽनुभूयमाने कथं तन्निषेध इति चेत् — सत्यमनुभूयते । बिम्बप्रतिविम्वस्थल इव वस्त्वैक्ये सत्येव स उपपादनीयः । चितः वस्तुग्रहणरूपविलक्षण क्रियायाः शब्दार्थस्यले वचनक्रियया इवादर्शनादिति । अत एव, " आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति" इति श्रुतिरिति ॥ अत्रेदं समाधानम् -भवतां मते आत्मविज्ञानात् पूर्वमेव प्रपञ्चस्य दृश्यमानतया सर्वस्य विज्ञातता, न त्वात्मनि विज्ञाते । तस्मिन् ज्ञाते तु सर्वस्य विलोपितत्वान्न किञ्चित् ज्ञायते । आत्माऽप्यथ न ज्ञास्यते । स्वयंप्रकाशत्वरूपं चेत् ज्ञातत्वं विवक्षितम्, तत् सर्वदेवास्तीति ‘आत्मनि विज्ञाते’ इति कादाचित्कता प्रतीयमाना बाध्येव । तथा सति आत्मना चिता सर्वे जडभूतं भास्यत इत्येतावान् अर्थः स्यात् । तेन दृग्दृश्यसंबन्धोऽस्तीत्येव श्रुत्या बोधितं स्यात् । ज्ञानस्य विषयग्रहणरूपक्रिया नास्तीत्यपि वार्तम् । ज्ञान विषयं गृह्णातीति, शब्दोऽर्थं वक्तीतिवत् क्रियाप्रतीतेरानुभविकत्वात् । निर्विकारायां चिति कथमिदामिति चेत् तहीँय सविकारा चित् ततोऽन्येति मन्यताम् । अत एव धर्मभूतज्ञानमन्यदिति वयम् । अपि च ज्ञानं खतो निर्व्यापारमपि इन्द्रियव्यापारादिसहकारिसमवधानबलात् वस्तु विषयीकरोतीति यथानुभवमेष्टव्यम् । अनुभवापलापे संयोगोऽपि संबन्धो दुर्निरूप एव । संबन्धसामान्यानुपपत्तिवादिना तु स्ववाक्यगत पदार्थ मिथोऽन्वयस्य दूष्यदूषण भावादेश्चानुपपन्नतायाः समन्तव्यतया सर्वोच्छेद एवेति न, विमतं मिथ्येत्याद्यनुमानाद्यवकाशः । तत्रापि संबन्धानुपपत्तेरित्येवालम् । किमिति दृग्दृश्यसंबन्धानुपपत्तेरिति कथनम् ? एवं संबन्धसत्त्वाद्विमतं मिथ्येति विपर्यये पर्यवसानञ्च दुष्करम् । किञ्चाद्विष्ठत्वाद्विषयविषयिभावादिकं संबन्धमस्वीकुर्वता कार्यकारणभावोऽपि त्याज्यः । तथा च कथं ब्रह्मप्रपञ्चविषये उपादानोपादेयभावात्मक दृग्दृश्य संबन्ध-प्रसाधनम् .. , ४९९ तत्र विवर्तवादस्य प्रसक्तिरिति तन्मूलकमिष्ट कारणात्कार्यस्यान्यत्वाभाव इत्याद्यपि दुर्वचं भवेत् । अपि च संयोग एकः संबन्धो भवेत्, द्विष्ठत्वात् न त्वन्य इति वदन् दृग्दृश्य संबन्धमपि न निषेद्धुमर्हति । अस्यापि प्रायः संयोगरूपत्वात् । भवति हि दृश्यस्य प्रकृतिप्राकृताद्यात्मकस्य सर्वस्य दृशा क्रयेण संयोगः । प्रदीपादिप्रभावत् ज्ञानमध्यात्मगतं द्रव्यं सङ्कोचविकासाद्यवस्थाश्रयभूतमिन्द्रियादिप्रणालिकया निःसृत्य विषयेण संयुज्यते । प्रत्यक्षत्वानुमितित्वादिकं सामग्रीभेदायत्तं वैलक्षण्यम् । यानि तु द्रव्याश्रितीनि तेषु दृशः कः संबन्ध इति चेत् द्रव्यस्य तेषां च मिथः संबन्धः कः । आधाराधेयभावस्याद्विष्ठत्वादनङ्गीकारात् । समवायस्य वेदान्तिभिरनभ्युपगमात् । अथ संबन्धाभावात्तेषां मिथ्यात्वमस्त्विति चेत् तावता न प्रपञ्चापलापः । द्रव्यस्य स्वीकारात् । अस्तु तादात्म्यं गुणगुणिनोरिति चेत् तर्हि दृशस्तेषाञ्च स्वसंयुक्तद्रव्यतादात्म्यमेव संबन्धोऽस्तु । तदूघटकयोः संयोगतादात्ययोः संबन्धत्वसंमत्या विशिष्टस्यापि संबन्धत्वोपपत्तेः । सर्वथा द्रव्यविषये न तदपलापप्रसक्तिः । अतीतानागतद्रव्यविषये कथं संयोग इति चेत् — सत्कार्यवादिनामवस्थानामेव कादाचित्कतया द्रव्यस्य त्रैकालिकतया न तत्र साक्षादतीतत्वानागतत्वे भवितुमर्हतः । तहिं तत् द्रव्यं ब्रह्मैवेति चेन्न " नित्यो नित्यानां चेतनश्चेतनानाम्", “प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि”, “अनादिभंगवान् कालो नान्तोऽस्य द्विज विद्यते”, ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’, ‘अक्षरे परमे व्योमन् ’ इत्यादिना अन्येषामपि, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्याद्यवगतनित्यभावब्रह्मतौल्यश्रवणात् त्रैकालिकं यत्, तत् ब्रह्मैवेति निर्णयायोगात् । सर्वथानुपपत्तौ खलु तेषां मिथ्यात्वं शङ्कनीयम् । भवत्येव संयोगः संबन्ध इति न यक्तिकबाधोऽपि ॥ यदि मन्येत ब्रह्मरूपां दृशमादायैव सर्वनिर्वाहे हगन्तराणि न स्वीकार्याणि । ब्रह्मणोऽपिं दृश्येन साकं कार्यकारणभावरूपः संबन्ध एष्टव्यः एक विज्ञानेन सर्वविज्ञानप्रतिज्ञानिर्वाहाय । तथा च तदतिरिक्तसंबन्धो.५००

नापेक्षितः । स चोपादनोपादेयभावः विवर्तात्मा । तेन शुक्तिरजतादिवन्मिथ्यात्वं दृस्य सिद्धमिति तर्हि उपादानोपादेयभावसंबन्धानुपपत्त्या मिथ्यात्वाभिमतौ दृक्कार्यत्वादिति हेतुः प्रयोक्तव्यः ; न तु दृश्यत्वादिति । विवर्तवादस्योपरि दूषयिष्यमाणत्वात् रजताद्यनुपादाय मृग्यादिद्यान्नव शिश्रुतिविरोधात् अनेक नित्यपदार्थमा हिपूर्वोक्तानन्तश्रुतिविरोधाच्चायुक्तमेतत् । अनुमानात् प्रागेव ब्रह्मातिरिक्त सर्वाभावे सिद्धे तु मिथ्यात्वानुमानमनपेक्षितमेव ॥ यत्तु — जीवं प्रति प्रकाशप्रतिबन्धकनिरासमात्रार्थं घर्तभूतज्ञानमिति नैतत् विशिष्टाद्वैतिसंप्रतिपन्नत्वेन सुवचम् । न हि चक्षुरालोकप्रदीपप्रकाशादितुल्यत्वं धर्मभूतज्ञानस्य । साक्षात् वस्तुयवहाररूपप्रकाशकारणत्वाच्च न प्रकाशप्रतिबन्धकनिरासमात्रार्थता । यदि धर्मभूतज्ञानेन प्रतिबन्धे कस्मिंश्चिन्निरस्ते आत्मरूपं ज्ञानं प्रकाश स्वयं जनयतीति स्यात्, तदेत्भं स्यात् । न चैतदस्ति । आत्मनो यावदंशप्रकाशकत्वं स्वतः तावदेशप्रकाशे धर्मभूतज्ञाननैरपेक्ष्यस्य सार्वकालिकत्वात् । अधिकांशप्रकाशे तु साक्षात् धर्मभूतज्ञानमेव कारणम् । न तु प्रतिबन्धकनिरासमात्रे । भवन्मतेऽपि वृत्तिरावरण-भङ्गार्थेति कथम् ? किं चैतन्यांशस्य आवरणभञ्जनं वृत्त्या क्रियते, उत घटादिविषयस्य ? नाद्यः, तस्य स्वयंप्रकाशत्वात् सर्वदा स्फुरणात् । आनन्दांशो न स्फुरितीति चेत् — न स तर्हि स्वयंप्रकाशः । घटादिवृत्त्या तदेशस्फूर्तिरपि न लक्ष्यते । घटादिरूपविषयावरणभञ्जनमेव वृत्तिकार्यमिति चेत् तदपि न विषयस्याज्ञानका तया तदभिन्नत्वात् अज्ञानस्याज्ञानेनाऽवरणास्वीकारात् । किं बहुना अन्ततः शोधने भवद्भिरेवमेव वक्तव्यम् । विमतं मिथ्या अध्यस्तत्वादिति । तत्रासिद्धिशंकायाम्, विमतं दृश्यभ्यस्त प्रकारान्तरेण हगसंबन्धित्वे सति दृक् संबन्धित्वादित्येव वक्तव्यम् । तत्र प्रथमप्रयोगे अभ्यस्तत्वमात्रं हेतुः । न तु दृश्यध्यस्तत्वम् ; व्यर्थविशेषणत्वात् । शुक्तिरजतादौ दृश्यध्यस्तत्वस्य लोकतोइसिद्धया साधनवैकल्यशङ्कापत्तेश्च । दृश्यध्यस्तत्वं तु उत्तरप्रयोगावसेयम् । ततः दग्दृश्य संबन्ध प्रसाधनम् ५०१ पूर्वहेत्वसिद्धिपरिहारश्चेति नैतत् युक्तम् दृश्यध्यासे दृक्पदेन वृत्तिज्ञानग्रहणे घटो ज्ञानमिति प्रयोग आपद्यते । आत्मभूत चैतन्यग्रहणे च अहं घट इति । अथ तादात्म्येनारोप एव तथापत्तिः, न त्वन्यथेति चेत्, तर्हि येन संबन्धेनारोपः, स कः ? घटं जानामीति द्वितीयावगतं कर्तत्वं विषयविषयिभावरूपमिति चेत् तर्हि तस्मिन् संबन्धे सति प्रकारान्तरेण हगसंबन्धित्वरूपविशेषणासिद्धिः । निर्विषये चैतन्ये कथं विषयविषयिभावः । तादृशचैतन्यातिरिक्ता च दृक् नास्तीत्यादिकं तु स्वमतसिद्ध वत्कारमूलकं स्वगोष्ठीमात्र विश्रान्तं न परप्रत्यायनायोपयुज्यते । तत्वादित्यन्यत्र विन्तरः ॥ आगमादेरन्यविधार्थपरत्वस्यैवान्यैरवधारि नित्याने कवकाशात्मधर्म स्थास्नुज्ञानस्थाप्य सत्यार्थपूर्णम् । ज्ञानानन्दं ज्ञानशक्तिप्रकर्षात् सर्व हेतुं श्रीनिवासं श्रितोऽस्मि ॥ शुभमस्तु श्रीः