१७ व्यावर्तमानत्व-भङ्ग-प्रसाधनम्

भक्तिज्ञानविरक्तिभूर खिलतो व्यावर्तमानः सतां वेलातीतदया पयोधिलहरीमालापनीतक्लमः । श्री मल्लक्ष्मण वेदमौलिगुरुराणमुख्यावतारायितः श्रीमान् दीव्यतु रङ्गलक्ष्मणमुनिः वः श्रेयसायेह नः ॥ "

दृश्यत्वात् मिध्यात्वमिति वदद्भिः मिथ्यात्वे व्यावर्तमानत्वादिति हेत्वन्तरमप्युच्यते । दृश्यत्वं वृत्त्यवच्छिन्नचैतन्यविषयत्वम् । तस्य हेतुत्वं वदन्त एव कतिपयवृत्त्यवच्छिन्न चैतन्यविषयत्वरूपव्यः वर्तमानत्वमपि मिथ्यात्वे हेतुं मन्यन्त इति विचित्रमेतत् । तत्र तेषाम्, “नासतो विद्यते भावः " इति गीताशाङ्करं प्रमाणम् । सन्मात्र प्रत्यक्षभप्रसाधनावसरे च तत्र वक्तव्यमुदितमेव । शेषमत्र संगृह्यतेयद्विषया बुद्धिर्न व्यभिचरति, तत् सत्; यद्विषया बुद्धिर्व्यभिचरति, तदसत् इति सदसद्विभाग" इति भाव्याद्धि सर्वबुद्धिविषयः सत्, कतिपयबुद्ध्यविषयोऽसत् इत्येव स्वरसतः प्रतीयते । इदमेव कतिपयबुद्धयविषयत्वं व्यावर्तमानत्वम् । तद्विहाय – सद्बुद्धिव्यभिचरितत्वं व्यावर्तमानत्वमिति निर्वचने तु सदसद्विभागौपयिकं व्यावर्तमानत्वं सद्बुद्धिः व्यभिचरितत्वरूपमित्युक्त्या सत्त्वमादायैव सत्त्वनिरूपणादात्माश्रयः स्यात् । किञ्च व्यावर्तमानत्वात् मिथ्या, अनुवर्तमानत्वात् सत्यमित्यनेन सद्बुद्धिव्यभिचरितत्वात् असत्यम्, सद्बुद्धिव्यभिचरितत्वाभावात् सत्यमित्युक्तं भवेत् । एवं हि सति घटबुद्धिव्यभिचरितत्वात् अघटः, घटबुद्धिव्यभिचाराभावात् घट इतीदृशमिदं स्यात् । अथ सद्बुद्धीत्यत्र सत्पदं नामिध्यात्वरूप सत्यत्वार्थकम्, किन्तु अन्यैव सत्तेति चेत्तादृशसत्ता विशिष्टविषयकबुद्धिव्यभिचरितत्वस्य मिथ्यात्वप्रयोजकत्वे मानाभावः । सद्बुद्धिव्यभिचरितत्वं हि न सद्बुद्धयतिरिक्तबुद्धिविषयत्वम् । सर्वस्या अपि बुद्धेः सद्विषयकत्वमिति भवत्सिद्धान्त-भङ्गप्रसङ्गात् । 1 ४६२

सदबुद्धयविषयत्वं तद्वयभिचरितत्वमिति चेत् -शशविषाणातिरिक्तस्य सर्वस्य सद्बुद्धिविषयतया अविषयत्वाभावात् शाशविषाणादावेव तद्र्यभिचरितत्वमिति सिद्धसाधनात् कतिपय सदबुद्धयविषयत्वमेव तद्वयभिचरितत्वं वाच्यमिति तत् मिथ्यात्वं प्रत्यप्रयोजकमेवेति । " यत्किञ्चिदनुद्धिव्यभिचरितत्वं न मिथ्यात्व प्रयोजकम् तेन घटबुद्धिव्यभिचरितत्वेन पटस्य न मिथ्यात्वम्" इति विलिख्य, “ब्रह्म न सद्बुद्धिव्यभिचरितम्, घटादिबुद्धिव्यभिचरितं वा घटादिबुद्धावपि ब्रह्मणः सद्रूपेण भानात् इति लेखनं व्याहृतम् । घटादियत्किञ्चिदबुद्धिव्यभिचरितत्वेन पटादिमिध्यात्वस्यैवोत्तरवाक्यतः सिद्धेः । तथैव सन्मात्र प्रत्यक्षवादिनामिष्टत्वाच्च ॥ शतदूषणीकृनेषु व्यावर्तमानत्व विकल्पेषु यतः कुतश्चिदन्यत्वमिति प्रथमः कल्पः । तत् युष्मदस्मत्प्रत्ययगोचरयोरिति सूत्रभाष्यबलात् ब्रह्मण्यपि परागर्थ भिन्नेऽस्तीत्यनैकान्तिकमित्युक्तम् । तत्र यदुक्तम् युष्मदस्मदित्यादिकं पूर्वपक्षभाष्यम् ; न सिद्धान्त्यभिमतमिति तत्रोच्यतेपूर्वपक्षवाक्यगतं सर्वं सिद्धान्त्यनभिमतमिति न नियमः । अत्र हि अहमिति आत्मप्रत्ययस्य सर्वदा सत्त्वात् तद्विरुद्धोऽध्यासः कथं भवितुमर्हतीति शङ्का । अनादेरभ्यासाधीनव्यवहारस्यानुभविकत्वात् आत्मानात्मविवेकाग्रहादभ्यास इत्येष्टव्यमिति परिहारः । एवञ्च आत्मानात्मविवेकस्य स्थितस्याग्रहणमिति भामत्यादौ सिद्धान्ते इष्टमेव । एवञ्च तत् नेतितीति घुष्टे ब्रह्मण्यस्तीत्यनैकान्त्यवर्णनं शतदूपणीकृतं दुष्परिहरमेव ॥ सद्विशेप्यकस्वातिरिक्तविषयकबुद्ध्यविषयत्वं व्यावर्तमानत्वमिति परिष्कारं विधाय शतदूषणीविकल्पस्य सर्वस्यात्रैव पर्यवसानमिति दूषणोन्मोकोद्योगश्चायुक्तः । यतः कुतश्चिदन्यत्वमित्यादेः बुद्धधघटितत्वेन तथा पर्यवसानवर्णनायोगात् । किञ्च दुःसमन्वयमिदं घटादौ ; घटपटाद्यनेकविषयक सद्विषयक बुद्धावपि स्वातिरिक्तविषयकत्वसत्त्वेन तदविषयत्वस्य घटे दुर्वचत्वात् । स्वातिरिक्तमात्रविषयकेति च न युक्तम् -स्वातिरिक्तसद्विषयकत्वात् । सद्विषयकत्वाविषयकबुद्ध्यविषयत्वं व्यावर्तमानत्वमित्येवास्तु तदपेक्षया सद्विषयक स्वाविषयक ; व्यावर्तमानत्व भङ्ग प्रसाधनम् ૪૬૩ बुद्धिकत्वमित्येव लध्विति चाधिकं व्यर्थम् । सद्विषयकेति च व्यर्थम् । स्वाविषयकबुद्ध्यविषयत्वस्यैव पर्याप्तत्वात् । सति ब्रह्मणि सर्वबुद्धिविषयत्वसत्त्वेन स्वाविषयक बुद्धयप्रसिद्धया खपदेन सद्ग्रहणायोगेन तत्रानैकान्त्याभावात् । अन्ततो यत्किञ्चिद्ध्यविषयत्वादित्येवालम् । बुद्धिनिष्ठ भावप्रतियोगि विषयिताकत्वादिति निवेशे तु यक्तिञ्चिदित्यप्यनपेक्षितम् । अन्यथा सद्विशेष्यकेत्येवं निवेशे साधनवैकल्यमपि रज्जुसर्पादी इयमम्बुधारेत्यादिबुद्ध्यविषयत्वस्य वक्तव्यत्वात् तत्र इयमिति रज्ज्वा एव विशेष्यतया सद्विशेष्यकत्वाभावात् । रज्ज्वच्छिन्न चैतन्यमिदमर्थः । अतः सद्विशेष्यकत्वमस्तीति चेत्–तत् लोकप्रसिद्ध्यभावात् प्रतिवाद्यसंमतमिति हेत्वप्रसिद्धिरेव । अथ स्वाधिष्टानविशेप्यकस्वातिरिक्तविषयक युद्धयविषयत्वमिति पक्षदृष्टान्तानुगत हेतु निष्कर्ष इति चेत्स्वाधिष्ठानमित्यस्य कोऽर्थः ? घटोऽस्तीत्यादौ सतो घटाद्याधारत्वरूपाधिष्ठानत्वमिति चेत् सति घटादेरध्यास इत्यसिद्धम् । घटादेर्मिथ्यात्व सिद्धौ सति तदध्यास सिद्धिः, तत्सिद्ध चेतत्सिद्धिरित्यन्योन्याश्रयश्च । खनिष्ठप्रकारताविरूपितविशेष्यताश्रयत्वं स्वाध्यासाधिष्ठानत्वमिति चेत् — घटः सन् इत्यादौ सदेव विशेष्यम्, न तु घट इत्येतदनुभवविरुद्धम् । अथ स्वविषयतानिरूपिततादात्म्यसंसर्ग विषयतानिरूपितविषयताश्रयविषयकखातिरिक्तविषयकज्ञानाविषयत्वं हेतुरिति चेत् — यत् सत् घटसमानाधिकरण प्रतीतम्, तदेव पटतादात्म्येनापि प्रतीयत इत्यत्र मानाभावात् इयमम्बुधारेत्यादिवैलक्षण्यात् हेत्वसिद्धिः । विषयतापदेन सत्त्वावच्छिन्नविषयतात्वेनानुगतविषयताग्रहणात् सतो विभिन्नत्वेऽपि न क्षतिरिति चेन्न विभिन्ने सति विभिन्नवस्तुतादात्म्यस्याविरुद्धत्वेनान्यतर मिध्यात्वमप्यनाश्रयणीयम्; कुत उभयस्येति । घटः पृथिवी, घटो द्रव्यमिति, घटो नीलः, घटः शुक्ल इति प्रतीतिमादाय पृथिवीत्वादेः नीलत्वादेश्च मिथ्यात्वापत्तिश्च । अध्यासाभावात् तत्र मिथ्यात्वस्यानेनोपपादनायोगात् ॥ एवं यत्र कुत्रचित् देशादावसत्त्वमिति द्वितीयकल्पस्य पूर्वोक्तखाधिष्ठानविशेष्यक बुद्धिघटितपरिष्काररूपत्वमप्ययुक्तम् । बुद्धयघटितस्य तदूघटितरूप **

त्वायोगादिपूर्वोक्तदोषात् । यत्तु यत्र कुत्र चिदसत्त्वमित्यनेन विषयतायां देशकालविशेषाववच्छिन्नत्वलाभ इति स्वाधिष्ठानविशेप्यकस्वातिरिक्तविषयक बुद्धिविषयता निरूपित देशकालविशेषावच्छिन्न विषयत्वाभावो हेतुरिति फलतीति -इयमम्बुधारेत्यादौ अम्बुधाराविषयतायां देशकालविशेषावच्छिन्नत्वाभा वात् । भवत्वम्वधारायामपि साध्यसत्त्वात् तत्प्रतीतिमादायापि तादृशविषयत्वाभाव इति चेतू तर्हि स्वातिरिक्तविषयकेति दलनिवेशः कुतः ? एवमनपेक्षितानेकदलघ टितपरिष्कारपरत्वं द्वितीयकल्पवाक्यस्य स्वीकर्तुं न साम्प्रतमिति । यत्तु – सतो व्यावृत्तत्वस्य असत्यत्वं विनाऽनुपपन्नत्वाद्धेतुर्नाप्रयोजक इति तन्न-सतो व्यावृत्तत्वं हि निरुक्तरूपमेव । तच्च एकबुद्धावन्यस्याविषयत्वम् । तत् तत्तदंशग्राहकसा मंत्र यभावप्रयुक्तम्, न तु मिथ्यात्वप्रयुक्तम् । यत् यत् सत्यम्, तेन सर्वेजैकैकबुद्धयुपारूढेन भाव्यमिति नियमे नानाभावात् । प्रमाणानि यथायथं कचित् संप्लवन्ते, क्वचित् व्यवतिष्ठन्ते च । न चैकप्रमाणगम्यस्य प्रमाणान्तरागम्यत्वमात्रेण मिथ्यात्वम् । न च ज्योतिष्टोमेनेति वाक्याविषयत्वात् अग्निहोत्रमिति वाक्यविषयो मिथ्या । तस्मात् यत्रक्वचिद्देशादावसत्त्वमित्यस्य यो वास्तवोऽर्थः किञ्चिदनुयोगिक भावप्रतियोगित्वमिति, तस्येव भवदुक्तस्य सद्बुद्धिव्यभिचरितत्वरूप क्लिष्टार्थस्याध्यप्रयोजकत्वम विशिष्टम् । यत्तु ब्रह्मणः सर्वत्राधिष्ठानत्वात् स्वाधिष्ठानविशेष्यकस्वातिरिक्तविषयकबुद्ध्यविषयत्वरूपनिरुक्तहेतुस्तत्र नास्तीति नानै कान्त्यमिति – तन्न शुक्तिरजतबुद्धौ शुक्तेरेवाधिष्ठानत्वस्य लोकसंप्रतिपन्नत्वात् शुत्तच्चवच्छि चैतन्यस्यानुभवानारूढत्वात् ब्रह्मणि स्वाधिष्ठानविशेष्यकस्वातिरिक्तविषयक बुद्धिविषयीभूतं यत् तदन्यत्वस्य सत्त्वादनैकान्त्यात् । अतः, ‘अधिष्ठानविशे-यकोक्तबुद्धिविषयत्वात् ब्रह्मणो न हेतुमत्त्व’ मिति भवदुक्तमयुक्तम् । किञ्च शुत्त यवच्छिन्नचैतन्यमधिष्ठानम्, उत शुद्धम् ? शुद्धं तु इदं रजतमित्यत्र न सर्वथा भानमर्हति । अवच्छिन्नचैतन्यं तु मिथ्या । वृत्त्युपहितचैतन्यस्यैव मिध्यात्ववादिभिः शुतयवच्छिन्न चैतन्ये सत्यत्वाङ्गीकारस्यायोगात् । एवञ्च तस्याप्यधिष्ठानत्वमनुपपन्न व्यवर्तमानत्व-भङ्ग-प्रसाधनम् ४६५ मेव । तच्चेदुपपद्यते, शुक्तेरेव तदुपपद्येतेति न युक्तमभासमानस्यावच्छिन्नचैतन्यस्याधिष्ठानत्वकल्पनम् । विशिष्टाद्वैतिनः सर्वत्रान्तर्यामि ब्रह्म प्रमाणबलादभ्युपयन्तः आपातप्रत्यक्षे तद्भानायोगात् शास्त्र-तन्मूलयोगिप्रत्यक्षादिमात्र गोचरं तदाहुः । अद्वैतिनस्तु तद् ब्रह्म तत्तद्विषयावच्छिन्नेचतन्यरूपं वदन्तोऽप्यन्तर्यामिरूपं तदिति न मन्वते । परंत्वनुभवविरोधमप्यनाकलय्य सर्वत्र बुद्धौ तद्भानमप्याशेरते । तदयुक्तं शुक्तिरजतज्ञानादेरधिष्ठानतया ब्रह्मविषयकत्वम् । एवं तु कथञ्चित् स्यात् – प्रकृतहेतौ बुद्ध्यविषयत्वरूपे प्रतियोगिनिस्वत्वं न विवक्ष्यते ; किंत्वनुयोगिनि ; तथा च यत्र हेतुसमन्वयः कार्यः, स एव स्वपदार्थः; तत्र स्वपदेन ब्रह्मग्रहणं न भवति, तत् प्रति कस्यचिदधिष्ठानस्याप्रसिद्धेः; अतो ब्रह्मणि नानैकान्त्यमिति । इदमपि स्वाधिष्ठानविशेप्यकत्वं घटादिबुद्धावप्रसिद्धमित्युक्तिपूर्वकं तन्निर्वचनशोधनेनैव निरस्तं वेदितव्यम् । स्वतादात्म्यापन्नवस्तुविषयकत्वं स्वाधिष्ठानविषयकत्वमिति परि-ष्कारे तु शुभयवच्छिन्न चैतन्यं ब्रह्मेति ज्ञानमादाय निरुक्तस्वाधिष्ठानविषयकत्वं संपाद्य तादृश-खातिरिक्तविषयकलोकप्रसिद्ध-बुद्ध्यविषयत्वं ब्रह्मणीत्यनैकान्त्यमिति । अस्तु तावदिदम् । सर्वथा न द्वितीयकल्पस्य चास्य चैक्यम् । तथापि तत् अप्रयोजकमिति च सिद्धमित्यलमधिकेन पिष्टपेषणेन । 1 यत्तु ध्वंसवत्त्व व्यावर्तमानत्वमिति पक्ष समर्थयितुमुक्तम् ध्वंसबाध योद्यपि प्रतिनियतव्यवहारोऽस्ति, लब्धसत्ताकस्य स्वरूपप्रच्युतिर्विनाशः, कारणात्मन, प्यसत्त्वं बाध इति तथापि तस्य, कारणात्मना सत्त्वं विनाशः, कारणात्मनाऽप्यसत्त्वं बाध इत्यभिप्रायकत्वात् बाधस्य कारणात्मनापि ध्वंस रूपत्वात् ध्वंसपदनुभयसाधारणमिति तन्न; प्रतिनियतव्यवहारदर्शनेऽपि तद्विरोधेन स्वयमर्थान्तरकल्पनामात्रेण मुख्यार्थविरोधस्यापलापायोगात् । अमुख्यतादृशप्रयोगसाध्यस्य कस्याचिदभावाच्च । कारणात्मनापि ध्वंसो बाघ इत्यस्य दुर्वचत्वाच्च । ध्वंसो हि प्रकृतावस्थाविरोध्युत्तरावस्था, यथा घटध्वंसः कपालत्वावस्थेति । सा चेत् कारणावस्था, तर्हि लय इत्य् अपि व्यवह्नियते, अन्यथा ध्वंस 59 ४६६

इत्येवेत्यन्यदेतत् । तत्र कारणात्मनाऽपि ध्वंस इत्यस्य प्रकृतावस्थातत्कारणावस्थोभयविरोध्यवस्थेत्यर्थः । न चावस्था द्रव्यं धर्मि विहाय स्थातुमर्हति । एवञ्च तत्त्वज्ञानात् प्रपञ्चबाघ इत्यस्येदृशावस्थारूपत्वं कथं वक्तुं शक्यम् ; मूलाज्ञानप्रभृतिनः सर्वस्य निवृत्तत्वात् अवस्थाविशेषतदाश्रयोभयस्य तदानवस्थितेः । अतो धर्मिनिवृत्तेः त्रैकालिकात्यन्ताभावरूपायाः धर्मिगतावस्थान्तररूपध्वंसस्य च नैक्यसंभवः । अद्वैतिभिस्तु बाधे क्वचित् ध्वंसशब्दप्रयोगः कामं मोहनाय वा लक्षणां भिप्रायेण वा भवतु किं तेन ? अतः प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमिति चतुर्थकल्पस्य बाध्यत्वपर्यवसितस्य ध्वंसवत्त्वरूपतृतीयकल्पस्य च भेदे शतदूषण्यभिमते जाग्रति किमिति छलेन सर्वस्य कल्पस्य खाभिम तयत्किञ्चिद्रूपेण नयनम् दूषणपरिहरणप्रयत्नश्च । एतदपेक्ष्य नायं कल्प इप्यत इत्येवोत्तरमृजु । , बाघपक्षश्च प्रतिपन्नोपाधौ निधप्रतियोगित्वमिति चतुर्थः कल्पः । तच्च स्वाधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वमिति निर्वचनमसाधु । शुक्तिधिष्ठानं रजतस्य । तत्र शुक्तिनिष्ठात्यन्ताभावप्रतियोगि रजतमिति ज्ञाने सति शुक्तिः रजतवतीति ज्ञानमेव प्रतिबध्येत, न तु शुक्तिविषयकम् इदं रजतमिति ज्ञानम् । तादात्म्यभ्रमं प्रति अत्यन्ताभावप्रतियोगित्वज्ञानस्य बाधकत्वायोगात् । तत्तादात्म्यस्य तदत्यन्ताभावस्य च सामानाधिकरण्यसंभवादविरोधात् । अथाधिष्ठानसाक्षात्कारनिवत्र्यत्वमेव तदिति पर्यवसानविधानमप्ययुक्तम् । निवर्त्यस्य सर्वस्य मिथ्यात्वं संप्रतिपन्नमिति अधिष्ठानसाक्षात्कारेति दलवैयर्थ्यात् । अधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वं वा निवर्त्यत्वं वा न प्रपञ्चे सिद्धमिति च न तेन मिथ्यात्वानुमानम् । ‘नेह नानास्ती ‘ति सिद्धं तत् दृश्यत्वहेतुना साध्यत इति चेत्, श्रुतिसिद्धस्यार्थस्य हेतुना साधनं किमर्थम् ? एवं बाधितेनानेन साधनीयस्य मिथ्यात्वस्य अस्य चैक्यादपि नेदं व्यावर्तमानत्वम् । नन्वधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वरूप व्यावर्तमानत्वेन ज्ञाननिवर्त्यत्वरूपं मिथ्यात्वं साध्यत इति चेत् व्यावतमानत्वभश-प्रसाधनम् ४६७ पूर्वमत्यन्ताभावप्रतियोगित्वस्याधिष्ठान साक्षात्कारनिवर्त्यत्वे पर्यंसानमुक्तत्वा पुनस्तस्य तत्साध्यत्वस्वीकारो व्याहतः । स्वाधिष्ठाननिष्ठेत्यस्य स्वाध्या साधिष्ठानेत्यर्थाश्रयणे अत्रैव मिथ्यात्वस्यान्तर्गततया न पृथक् तत् साधनीयमपि । अधिष्ठाननिष्ठात्यन्ताभावप्रतियोगित्वे सत्यपि अद्वैतीतरसंमतरीत्या इंदं रजतमिति ज्ञानमात्रनिवृत्त्यैव कार्यसिद्धौ शुक्तिरजतादिरूपानिर्वचनीयकल्पन एव मानाभावेन ज्ञाननिवत्र्त्यत्वं शुक्तिरजतादावेवासिद्धमिति न प्रपञ्चे ततस्तत्सिद्धिरिति च भाव्यम् । सन्निष्ठात्यन्ताभावप्रतियोगित्वं व्यावर्तमानत्वमिति निष्कर्षविधानमप्ययुक्तम् ; शुक्तिरजतादेः शुक्तिदेशनिष्ठात्यन्ताभावप्रतियोगित्वस्यैव लोकगृहीतत्वात् सन्निष्ठात्यन्ताभावप्रतियोगित्वस्याग्रहात् । शशविषाणादावपि हेतुसत्त्वे नानैकान्त्याच्च । तदर्थं सत्त्वेन प्रतीयमानत्वरूपविशेषगदाने च सन्निष्ठेत्यादिनिष्कर्षविधानस्य व्यर्थत्वात् । सति घटादितादात्म्यस्य भ्रान्त्या गृहीतत्वस्य भवद्भिर्वक्तव्यतया तत्र सन्निष्ठात्यन्ताभावप्रतियोगित्वग्रहस्याविरोधितया ततस्तन्मिथ्यात्वस्यासिद्धेश्च । घटः सन् इत्यादौ गुणक्रियान्तरवत् सत्तैव विशेषणम् ; न तु सन्मात्र किञ्चित् तत्र विशेष्यतया भासत इति च शतदूषण्यामुपपादितमेव । यत्तु घटादीनां कल्पितत्वात् कल्पितानाञ्चाधिष्ठानेन सहभानस्यैवानुभवसिद्धत्वात् घटादिना सह भासमान सत तादृशब्रह्मैवेति-तन्न ; घटादीनां कल्पि तत्व एव प्रमाणाभावात् । भवन्मते शुक्तिरजतस्याप्रातिभासिकस्य इदं रजतमिति प्रत्यक्षविषयतयां तद्गोचरे, रजतं प्राक् तत्राहमद्राक्षम् इति ज्ञाने तद्रजतोल्लेखमात्रस्य पर्याप्ततया अधिष्ठानग्रहो भवन्मते तत्र न वक्तव्यः; नास्ति चेति । कदा चित् क्वचिदेव प्रकाशमानत्वमिति पञ्चमपक्षे एवकारादधिष्ठानविशेष्यक खातिरिक्तविषयक बुद्ध्यविषयत्वस्यैवोत्तया द्वितीयकल्पाविशेष इति न दोष इति यदुक्तम् — तदपि न । एवकारेण कालान्तरे देशान्तरे अप्रकाशमानत्वमित्येव लभ्यते । तेन कालान्तरावच्छिन्नं यत् देशान्तस्थतया किञ्चिज्ज्ञानम्, तदविषयत्वमित्युक्तं भवति । तावता अधिष्ठानविशेष्यकत्वादिलाभः

४६८

कथम् ? यदि स्वविषयकज्ञानाविषयत्वस्य स्वस्मिन् वक्तुमशक्यत्वात् ज्ञानस्य च निर्विषयत्वायोगात् स्वातिरिक्तविषयकत्वं सिद्धम् ; अधिष्ठानभूतस्य च सतः सर्वत्रापि ज्ञाने मानस्य समतत्वात् अधिष्ठानविशेष्यकत्वमपि लभ्यते इत्युच्यतेतर्हि अनुक्तिसिद्धस्याधिष्ठ नविशेष्यकत्वस्याधिकस्य हेतुकोटिप्रवेशे धूमादित्यत्र नीलधूमादित्यस्येव व्याप्यत्वासिद्धिप्रसंगः । तावता द्वितीयकल्पाविशेष इत्य् अपि न युक्तम् — यत्र कचिदसत्त्वस्य यत्र कचिदप्रकाशमानत्वस्य चैकत्वायोगांत् । असत्त्वमप्रकाशमानत्वमिति लाक्षणिकभवद्विवक्षानुरोधे तु भवता, यतः कुतश्चिदन्यत्वमिति प्रथमकल्पमपि यतः कुतश्चिद् व्यभिचरितत्वमिति कृत्वा, “यतः कुतश्चिद् व्यभिचरितत्वं व्यावृत्तत्वम्” इति शतदूषण्यनूदित प्रथमकल्पे यतः कुतश्चित् सद्बुद्धेर्व्यभिचरितत्वमित्येवार्थः इति निष्कृष्टत्वात् प्रथम कल्पाविशेषोऽपि भवता सुवचः । एवञ्च तत्रोक्तस्य दोषस्य जागरूकत्वात् कथं निर्दोषता । यत्तु एवकारार्थघटनेन यत्रक्वचित् प्रकाशमानत्वस्य हेतोरप्रयोजकत्वे ऽपि एवकार सिद्धार्थस्य नाप्रयोजकत्वमिति तन्म; कचिदेशे कदाचिदप्रमितत्वस्य एवकारार्थस्यापि मिथ्यात्वं प्रति अप्रयोजकतायाः शतदूषण्यामेव विशदितत्वात् । भवदुक्तैवकारार्थस्याप्रयोजकत्वं प्रागेवावोचाम । सद्विशेप्यकघटादिबुद्धौ पटादेरविषयत्वं हि पटादिग्राहकसामध्यभावात् घटस्य पटादिभिन्नत्वाच्च स्यात् ; न तु तस्य मिध्यात्वात् । सर्वप्रतीतिविषय एव सत्यम्, अन्यदसत्यमित्यत्र नियामकाभावात् । परिभाषिककल्पनया लोकव्यवहार नियन्त्रणायोगात् । यद् यत्र नास्ति, तत् तत्र बाधितमित्यपि नास्तीति सन्मानप्रत्यक्षभने प्रसाधितमेव । अन्यथा ब्रह्मण आनन्दांशस्यास्फूलैव संसारं वर्णयतां भवतां तस्य कथञ्चिच्चरमवृत्तिविषयत्वसंमतावपि सर्वप्रतीतिविषयत्वस्य दुर्वचतया तस्य मिथ्यात्वापत्तेः । यत्र कचित् प्रमितत्वमपि सत्यत्वप्रयोजकमिति च दर्शितमेव शतदूषण्याम् । “कालदेशविशेषे प्रकाशमान प्रमैवेति न नियमः " इति चेत् — प्रमीयमाणमेवेति न नियम इत्युच्यताम् ; न तु प्रमैवेति ; अन व्यावर्तमानत्व-भङ्ग-प्रसाधनम् ૪૬ न्वयात् । तथापि न वक्तव्यम् । देशकालविशेषे अप्रकशमानमसदित्यपि नियमाभावात्ः तथा च यत्र देशे काले यत् प्रकाशते, असति बाधे तत्र तत् सदेव ; यत्र न प्रकाशते सत्यामपि सामग्र्याम्, तत्र तन्न सदित्येव नियमः । तावता कचित् प्रतीयमानस्य सर्वस्य न मिथ्यात्वंम् । " न वयं कालान्तरादावप्रकाशमात्रेण घटादिप्रतीतीनां भ्रमत्वं वदामः ; किंतु घटाद्यधिष्ठानाश्रयविषयकाज्ञानकल्पित विषयकत्वेन " इति चेत् — अत्राधिष्ठानाश्रयेति पदद्वयं कुतः । किञ्चैवं सति अधिष्ठानाज्ञानकल्पितत्वात् प्रपञ्चो मिथ्या ; न त्वधिष्ठानविषयककिञ्चिज्ज्ञानाविषयत्वादित्येवोक्तं भवतीति प्रागूर्ध्वञ्चाधिष्ठान विशेष्यकस्वातिरिक्तविषयक ज्ञानाविषयत्वस्य हेतूकरणं व्याहतम् । मिथ्यात्वं विनैव स हेतुर्निर्वहतीति च प्रागेोक्तम् । यत्तु ब्रह्मणः सर्वाधिष्ठानत्वात् तत् प्रति अधिष्ठानस्यान्यस्याप्रसिद्ध्या सर्वप्रतीतिषु सतस्तस्य विषयत्वाच्च न व्यावर्तमानत्वं निरुक्तं तत्रेति -तत्, दृश्यत्वान्मिथ्या प्रतीतिविषयत्वे मिध्यात्वमिति पूर्वोक्तिव्याहतम् । यदि यत्किञ्चित्प्रतीतिविषयस्यापि मिथ्यात्वम्, तर्हि तस्य प्रतीतिविषयत्वरूप हेतोः पुष्कलत्वात् सर्वप्रतीतिविषयस्य सतो ब्रह्मण एव प्रथमं मिथ्यात्वेन परिगणनं कार्यम् । यत्तु ब्रह्मणोऽप्रकाशमानत्वमज्ञानावरणप्रयुक्तम् । अतस्तस्य न मिथ्यात्वम् । घटादेस्त्वप्रकाशमानत्वं व्यावर्तमानत्वरूपमिति तन्मिथ्येति तन्नः व्यावर्तमानत्वं किमित्येवेदानीं विमर्शात् । यथाकथञ्चिदप्रकाशमानत्वं तदिति पक्षे अज्ञानकृतम प्रकाशनमादाय ब्रह्मण्यतिप्रसंगो हि भवत्येव । यदि तु अज्ञानप्रयुक्ताप्रकाशवद्वस्तुवारणायाप्रकाशे अभावप्रयुक्तत्वं निवेश्य अभावप्रयुक्ताप्रकाशवत्त्वान्मिथ्येति मन्यते, तर्हि अभावप्रतियोगित्वरूप मिथ्यात्वस्य साध्यत्वात् साध्या विशिष्ट हेतुः । अलञ्च अभावप्रतियोगित्वमात्रमिति अप्रकशमानत्वमुपेक्षणीयं स्यात् । द्वितीयकल्पादविशेष इति तत्रोक्ताः दोषाश्च सन्त्येव । यदि पुनरज्ञानावरणप्रयुक्ताप्रकाशाभाववत्त्वं हेतुक्रियते, तदा चिन्मात्रेणानैकान्त्यम्, स्वप्रकाशस्य स्वरूपस्याज्ञानावरणप्रयुक्ताप्रकाशस्याभावात् । कथश्चre

घटादेस्ताशहेतुमत्त्वम् । घटाद्यपि कदाचित् यथा कचिदविद्यमानं न गृहपते, तथा विद्यमानमपि दोषवशान्न गृह्यत एव । अत एव हि शुत्त्यज्ञानात् रजतप्रतिभासः । एवञ्च शुक्तत्याद्यज्ञानावरणप्रयुक्तः शुक्तत्याद्यप्रकाश इति पुनर्हेत्वसिद्धिः । अज्ञानकार्याणां शुक्तिघटादीनामज्ञानेनावरण न भवतीति चेत्–अज्ञानावरणस्यानुभविकत्वात् अज्ञानकार्यत्वमेव तर्हि तेषां त्याज्यं स्यात् । मूलाज्ञान कार्यत्वं तूलाज्ञानावृतत्वञ्चाविरुद्धमिति वा वाच्यम् । अवश्यश्च वृत्ते रावणमङ्गार्थत्वपक्षे चैतन्येनैव घटादेः प्रकाश्यमानत्वात् वृत्तिरज्ञानरूपमाव रणमेव भक्तीति वक्तव्यम् । घटावच्छिन्नं चैतन्यं तिरोहितम् ; न तु घटइति चेत्-चैतन्यस्य सर्वदा खप्रकाशस्यातिरोहितत्वात् प्राप्ताप्राप्त विवेके विधीयमाने घटावच्छेदो वा घटो वा तिरोहित इत्येव वक्तव्यं भवति । घटावच्छिनत्वश्वेंद चैतन्यस्य किं घटविषयकत्वम् किं वा गगनादेखि संयोगादिना तद्विशिष्टत्वम् । आद्ये घटांशाज्ञान एवं पर्यवसानम् । अन्त्यं त्वसिद्धम् । लोके घटानुभवकाले घटसंयुक्त चैतन्यं मयानुभूयत इति अवहितमनसाऽप्यनुच्यमानत्वात् । घटोऽस्तीति सदनुभूयते । सच्च चैतन्यञ्चेत्येकं तत्त्वमिति चेत् -तर्हि घटावच्छिन्नसदित्येवोच्यताम् ; किमिति चैतन्यपद प्रयोगः । सतो जडत्वे प्रकाशकत्वस्य दुर्ब्रहत्वात्, वृत्तेश्च जडाया अग्राहकस्वात् चैतन्येन घटप्रकाश उपपादनीय इति घटावच्छिन्नचैतन्यमित्युच्यते ; न तु घटावच्छिन्न सदिति ; तथापि तदेवोक्तं भवतीति चेत् इदमपि नानुभविकम् । सतो घटस्य चाभेदस्यैवोपलम्भात् गगने घटावच्छिन्नत्वस्येव सति तदवच्छिन्नत्वस्याग्रहात् । यदि च घटो नाज्ञानतिरोहितः, तर्हि सर्वदा प्रकाशेत, यावत्सतं वा प्रकाशेत । अपि च यथा-यत् सत्, तत् सर्वदा सत्; अन्यत्तु न सदित्युच्यते -तथा यत् प्रकाशते तत् सर्वदा प्रकाशते, अन्यत्तु न प्रकाशत इति च स्वीक्रियताम् । घटादीनां कदाचित् प्रकाशमानत्वानुभवविरोध इति चेत् सत्त्वविषयेऽपि तुल्यम् । तस्मात् कदाचित् प्रकाशमानानां विद्यमानत्वेऽपि कदाचिदप्रकाशमानानां घटादीनामज्ञानतिरोहितत्वमस्त्येवेति नाज्ञानावरणप्रयुक्ताप्रकाशवत्त्वाभावस्तत्र । व्यावर्तमानत्वभन-प्रसाधनम्

४७१ अथाज्ञानावरणाप्रयुक्ताप्रकाशवत्त्वं हेतुरिति मन्येत तदापि अयमप्रकाशो नाज्ञानावरणप्रयुक्त इति कथमवसीयेत । विद्यमानस्याप्रकाशः अज्ञानप्रयुक्तः, अविद्यमानत्वे तु अभावप्रयुक्त एवेति चेत् — एवं खल्वभावप्रतियोगित्वमेव मुखान्तरेण हेतूकृतं भवति । तत्र तथैव हेतुप्रयोगे वा अज्ञानावरणाप्रयुक्ताप्रकाशवत्त्वादिति प्रयोगे वा हेतोरप्रयोजकत्वं स्थितमेव । अप्रकाशस्याभावप्रयुक्ततायाः कदाचित् भावप्रयुक्तप्रकाशस्य च स्वीकारात् मिथ्यात्वं हि दूरापेतमेव । प्रतिपन्नोपाधावत्यन्ताभावप्रतियोगित्वस्यैवमसिद्धिदर्शनात् । यावच्चाज्ञानं भावरूपमावारकमसंप्रतिपन्नम् तावत् प्रतिवादिनं प्रति ईदृशहेतुप्रयोगो न शक्य इति च भाव्यम् ।

उपरि च शतदूषण्यामत्र पञ्चमकल्पे अत्यन्तमप्रकाशमानत्वं वा, नित्यप्रकाशराहित्यं वा, नित्यप्रकाशवत्त्वेनास्माभिरज्ञायमानत्वं वा, अस्मान् प्रति नित्यमप्रकाशमानत्वं वा न व्यावर्तमानत्वम् ; घटादेः सर्व प्रकाराप्रकाशमानत्वायोगात् । घटादेः स्वरूपतः, शुक्तिरूप्यादेः भ्रान्तिबुद्धिगोचरत्वेन चेश्वर नित्यप्रकाशविषयत्वात्, ईश्वर नित्यप्रकाशवत्त्वेनास्माभिर्ज्ञायमानत्वाच्च हेत्वसिद्धेः। ब्रह्मणोऽप्यस्मान् प्रति नित्यमप्रकाशमानत्वेनान्तिम पक्षे ऽनैकान्त्या श्चेति यत् सूक्तम्, तद्विषये किञ्चिद्विवक्षया यदुल्लिखितम्, “ घटादीनां तिरोधानं जीवानामेव तत्प्रकाशप्रतिबन्धकम् । ईश्वरस्य तु मायोपहितचैतन्यस्य न स्वोपहितब्रह्मावरणम् ; न वा प्रमाणजनितवृत्त्यपेक्षा । घटादिभानं तस्य वाश्रितमायावृत्त्या । अत एव सर्वज्ञत्वम् । न तावता जीवानां नित्यं घटादिप्रकाशो वा” इति — सर्वमिदमसंबद्ध विस्तरमात्रम् ; उद्भावित दोषाणामपरिहारात् ; प्रत्युत तद्दादर्थस्यैवापादनात् । न चात्र नित्येश्वरबुद्धिविषयत्वेन सर्वेषां सर्वप्रकाशापत्तिः क्रियते । आपादने कृते तु भवद्भिस्तत्परिहारो दुष्कर एव । जीवब्रह्मणोर्वस्तुत एकत्वात् सौभर्यादिभिरे कशरीरावच्छेदेनानुभूतस्यान्यशरीरावच्छेदेनप्रतिसंधानवत् एकैकेनापि जीवे नब्रह्मजीवान्तरानुभूयमान सर्वप्रति i ४७२

संधानस्य कर्तुं शक्यत्वात् । न च भेदग्रहरूपप्रतिबन्धकवशात् तदुपपत्तिः, स्वरूपस्य छेदन भेदनानर्हतया स्वरूपतः कार्त्स्न्येन विज्ञानघनस्य खयंप्रकाशमानतया देहेषु मिथो भेदग्रहसद्भावेऽपि आत्मनि भेदग्रहस्यायोगात् । एवं सत्येव यदि भेदमहोऽनुभवसिद्धः, तर्हि स्वरूपैक्यस्य वस्तुगत्या लाभावादित्येव वक्तव्यम् । न च भेदग्रहोऽप्रतिसंधान नियामकः ; देहात्मभ्रान्तिमतां बाल्ययौवनादिभेदेनात्मभेदग्रहेऽपि प्रतिसंधानस्याक्षतत्वात् । अतो वास्तवभेद एवाप्रतिसंधानहेतुः । न चायं प्रकृते इत्यलं प्रासङ्गिकेऽधिकक्षोदेन । तत्र तत्र शतदूषणीग्रन्थस्य, ‘भ्रमसंशय’ इत्याद्यशुद्धमुद्रणदर्शनानुसारमर्थग्रहणमन्तरैवा यथावदनुवादोऽप्यवधानमर्हति । एवमयथावदनुवादः, षष्ठकल्पविचारे, " स हि बाधितत्वम्, तत्फलभूतभ्रान्तिनिवृत्तिर्वा” इति वाक्येऽपि भाव्यः । बाधपर्यायः किल कश्चिदनुपलभ्यमानत्वेनोच्यते शतदूषण्याम् । बाघस्तु प्रतिपन्नोपाधौ निषेधः प्रागेव परास्तः । विषयत्वनिवृत्तिरित्यत्रापि विषयनिवृत्तिरिति व्यावृत्तिस्वरूप शोधक श्रीभाष्यानुसारेण मन्तव्यम् । भ्रमनिवृत्तिव्यवहार निवृत्तिश्चात्राभिसंहिते इति पक्षेऽपिं तदनुगुणं भाव्यम् । वस्तुभ्रान्तिविवृत्तिरेव वस्तुनि भ्रान्तिविषयत्वनिवृत्तिरिति वा, भ्रान्तेर्विषयत्वं मूलत्वं यत्र व्यवहारे तस्य व्यवहारस्य निवृत्तिरेव भ्रान्तिविषयत्वनिवृत्तिरिति वा क्लिष्टं कल्पनमिष्यते चेत्अस्तु कामम् । एवम्भूतार्थशोधनं भूषण्यां चेत् क्रियेत, तर्हि युक्तं स्यात् । तद् विहाय बाघनिरासनिरसनप्रयासः प्रयासमात्रम् । अनुपलम्भादिनिरस्तत्वादिति सूक्तेश्चायमर्थः मिथ्यात्वसाधकहेतुरुपलभ्यमान एव किल हेतुर्भवति । अनुपलभे च तस्यैवा सिद्धया तेन कथं मिथ्यात्वानुमानमिति । एवं स्थिते यद् भूषण्यामुक्तम् — निर्विचिकित्सपरोक्षज्ञानिनां विदुषां तत्त्वसाक्षात्कारानन्तरमनुवृत्ताज्ञानलेशानां जीवन्मुक्तानां वा तदुपलम्भोऽस्त्येवेति—-तन्न घटते । किं जीवन्मुक्तान् निर्विचिकित्सपरोक्षज्ञानिनश्च प्रति मिथ्यात्वं साध्यते, उत विवदमानान् प्रति । अतीतश्रवणमननपथानां तेषामनुमानापेक्षाविरहात् । तेषां निर्विचिकित्सं साध्यस्यैव ग्रहणं सुवचम् । यदि ते केचित् सन्ति, अन्यान् प्रति व्यावर्तमानत्व भङ्ग-प्रसाधनम् ४७३ हेतुरसिद्ध एव । ‘जीवन्मुक्तानां वा’ इति चकारं विना वाकारप्रयोगो भवतस्तत्र डोलायितमनस्कत्वं ज्ञापयति । अपरोक्षज्ञानमेव बाधकमिति मन्वानानां भवतां परोक्षज्ञानस्य बाधकत्ववर्णनमशक्यमिति जीवन्मुक्तिरनुधाविता । जीवन्मुक्तिमप्यद्वैनि एव कतिपये न स्वीकुर्वते । तत्त्वसाक्षात्कारे निष्पन्ने लेशतोऽध्यपरमार्थभूताया अविद्याया अवशेषस्य दुर्वचत्वात् । तान् मनसिकृत्य तत्राप्यनास्था वाकारेण सूचिता । एवञ्च न केऽपि सन्ति उपलब्धारः । परममुक्तौ तु उपलब्धा नास्त्येव । सर्वथा हेतुमात्रोपलम्भी साध्योपलम्भविधुरः कश्चिद् वक्त मशक्य एव । 1 1 p अस्मिन् व्यावर्तमानत्वानुमाने अप्रयोजकत्वं व्यतिरेकासिद्धिश्चेति दूषणद्वयमुपन्यासि । तत्राप्रयोजकत्वे उपरम्य व्यतिरेकासिद्धिविषये यदुक्तम्ब्रह्मणि प्रागुक्त षडिधमपि व्यावर्तमानत्वं नास्तीति तत् प्रतिज्ञामात्रम् । पूर्वोक्तेषु निर्वचनेषु बहूनां ब्रह्मणि सद्भावस्य तंत्र तत्रैवोपपादितत्वात् । सन् परमार्थ, अनुवर्तमानत्वादित्यनुमाने च सिद्धसाधनम् । सतः पारमार्थ्यस्यास्मादृशेष्टत्वात् । अनुवर्तमानत्वं तु तत्र न प्रयोजकम् ; वर्तमानत्वातीतत्वादिमतामपि परमार्थत्वात् । घटः सन् इत्यादिप्रतीतौ ब्रह्मणो विषयत्वस्यासं प्रतिपन्नतया तन्मुखेनानुवर्तमानत्वमसिद्धमपि । यदि च सद् ब्रह्म शास्त्रतः सिद्ध्यति, तर्हि परमार्थ एव सिद्धीत्यनुमानं व्यर्थम् । यदि न, तदा चाश्रयासिद्धो हेतुरि त्यलमत्र । अन्यान्यपि मिथ्यात्वसाधकानुमानानि उक्तयैव दिशा निरस्तानीति शतदूषणी । " विस्तरश्चाद्वैत सिद्ध्यादौ द्रष्टव्यः" इति शतभूषण्युक्ततया सिध्युक्तमेवात्र संग्रहेणानूद्य निरस्यते–जडत्वं नाम ज्ञानभिन्नत्वम्, अनात्मत्वम्, अस्वयम्प्रकाशत्वं वा मिथ्यात्वं प्रति हेतुरिति सिद्धिकारः । तत्र ज्ञानभिन्नत्वघटकं ज्ञानं नाम किम् । सविषयकत्वं ज्ञानत्वमिति तावत् सर्वलोकसंप्रतिपनम् ; तथा तस्य साश्रयत्वमपि । तादृशज्ञानभिन्नत्वं ब्रह्मण्यप्यस्तीति तस्य मिथ्यात्वापत्तिः । तथा लोकप्रसिद्धे ज्ञाने मिथ्यात्वानापतिश्च । एतेन व्यवहारहेतुत्व 60 ४७४ परमार्थभूषण ज्ञानत्वमित्यप्यपास्तम् । चिद्रूपत्वं प्रकाशरूपत्वं वा ज्ञानत्वमिति पर्यायपदप्रयोगेऽपि न लोक सिद्धज्ञानव्यावृत्तिः । निर्विशेषज्ञानभिन्नत्वं हेतुरिति चेत्ज्ञानपदं व्यर्थम् । व्याहतिश्च; ज्ञानत्वरूपविशेषवति निर्विशेषत्वायोगात् । अप्रसिद्धच निर्विशेषम् । ज्ञानपदवाच्यभिन्नत्वं हेतुरित्युक्तावपि ब्रह्मण्यनैकान्त्यम्; ब्रह्मणि वाच्यत्वस्यासंमतत्वात् । ज्ञानपदलक्ष्यभिन्नत्वमित्युक्तौ, ‘ज्ञोऽवि दर्थस्य करणे’ इत्युक्तरीत्या ज्ञानपदलक्ष्यानेकार्थसत्त्वात् तत्र मिथ्यात्वासिद्धिप्रसंगः । एतेन ज्ञानपदजन्नोपस्थितिविशेष्यभिन्नत्वभित्यपि प्रत्युक्तम् । 1 अर्थविषयकत्वोपलक्षितव्यक्तिभिन्नत्वं हेतुरिति चेत् — तार्किकादीन् प्रति हेत्वसिद्धिः । अर्थविषयीकरण विना ज्ञानसत्तायास्तदनङ्गीकृतत्वात् अर्थविषयकत्वोपलक्षितव्यक्तेर प्रसिद्धेः । आत्मातिरिक्तज्ञानस्यैव सविषयकत्वम्, न त्वात्मनामिति पक्षे तादृशव्यक्तिभिन्नत्वस्य ब्रह्मण्यपि सत्त्वेन तस्य मिध्यात्वमात्मगतज्ञानस्य सत्यत्वञ्चोक्तं स्यात् । दृग्दृश्ययो विषयविषयिभावादिसर्व संबन्धानङ्गीकारिभिरर्थविषयकत्वं चिन्मात्रे दुर्वचञ्च । किञ्च तदुपलक्षितत्वं नाम तदत्यन्तायोगव्यवच्छेदः । स च प्रतियोगिव्यधिकरणतदभावाभावः । काकवद्गृहमित्यादौ गृहे काकाभावः प्रतियोगिसमानाधिकरण इति प्रतियोगिव्यधिकरणतदभावस्याभावसिद्धिः । चिन्मात्रे च भवद्भिरर्थसंबन्धानिष्टेरर्थात्यन्ताभावस्यैवोक्तेः प्रतियोगिव्यधिकरणतदभाव एवास्तीति न तदभावरूपमुपलक्षितत्वम् । एवं स्वानुयोगिकार्थसंबन्धानवच्छेदककालावच्छिन्नत्वमर्थोपलक्षितत्वमित्युक्तावपि उपलक्षितत्वस्याभाव एव । ब्रह्मणि, अर्थाभावे कालस्यापि मिथ्यात्वेन कालाभावोऽपीति कालावच्छिन्नत्वस्य दुर्वचत्वात् । सर्वानधिकरणे कालावच्छिन्नत्वस्याप्ययोगाच्च । अर्थाध्यासाधिष्ठानभूतचिद्भिन्नत्वं हेतुरिति चेत् — तदापि हेत्वसिद्धिः । श्रुतितस्तदुपपादने च तत एव मिथ्यात्वसिद्धेरनुमानं व्यर्थम् । श्रुतिस्तु न काचित् तत्रेति वक्ष्यते । एवमनात्मत्वं जडत्वमित्यपि निरस्तम् । ज्ञानत्वातिरिक्तस्यात्मत्वस्यानुक्तत्वादपि तद्धेतुरुपपादयितुमशक्य इति सिद्धम् । अस्वय व्यवर्तमानत्व भङ्ग-प्रसाधनम् ४७५ प्रकाशत्वं जडत्वमिति चेत् — घटमहं जानामि, इच्छामि, सुख्यामि, दुःख्यामीत्यनुभावानुसारात्, ज्ञानाभावात् इच्छा सुखाद्यप्रकाश इत्यस्य चाभावात् तेषां स्वयम्प्रकाशत्वमेव युक्तमिति तद्भिन्नत्वाभावात् तेषु मिथ्यात्व न सिद्धयेत् । ब्रह्मत्वान्मिथ्येत्युक्तावपि अप्रयोजकत्वं दुर्वारम् । अथ परिच्छिन्नत्वं मिथ्यात्व हेतुरित्यत्र किमिदं परिच्छिन्नत्वम् ? अत्यन्ताभावप्रतियोगित्वमन्योन्याभावत्रतियोगित्वं वा । सर्वथा जगतो ब्रह्म प्रति अधिकरणत्वाभावेन जगति ब्रह्मभेदसत्त्वेन च ब्रह्मण्यप्युभयसत्त्वादनेकान्तः । खसमसत्ताकात्यन्ताभावान्योन्याभावप्रतियोगित्वं हेतुः । जगन्निष्ठश्च ब्रह्मात्यन्ताभावो भेदो वा जगदविशिष्टइति न तस्य ब्रह्मसमानसत्ताकत्वमिति यदुक्तम् तन्न ; जगतो मिथ्यात्वे प्रकारान्तरेण सिद्धे ब्रह्मसत्ता जगत्सत्ता च विषमेति हेतुनिश्चयः, तन्निश्चये च मिथ्यात्वानुमानमित्यन्योन्याश्रयात् । श्रुत्यादिना सिद्धौ चानुमानवैयर्थ्यम् । अत एवं स्वसिद्धान्तवासनामात्रमालम्व्य प्रतिवादिनां पुरतो मिध्यात्वसमर्थन मुधैवेति । + ; अथ चित्सुखाचार्योक्तत्वेन सिद्धावनूदितमंशित्वानुमानमप्यसाधकम् । तद्धि एवम् अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात् इतरांशिवत् । अत्रांशित्वं सोपादानकत्वरूपमुपादेयत्वम् । तन्तुकार्थमपि पटस्तन्निष्ठात्यन्ताभावप्रतियोगी पटान्तरादिवदिति इदमनुपपन्नम् -एतत्तन्तुरूपरसादौ हेतुमति साध्यस्याभावात् । सिद्धसाधनाच्च यतस्तन्तव एव व्यतिषङ्गविशेषभाजः पट इत्युच्यन्ते वेदान्तिमते, अतस्तन्तुपटद्रव्यैक्यात् उपादानोपादेयद्रव्ययोराधाराधेयभावाप्रसत्तथा तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं हि पटे इष्टमेव; स्वस्य स्ववृत्तित्वायोगात् । न च तादात्म्यस्य भेदघटितत्वात् तन्तुपटयोस्तादात्म्यमपि भेदसह मिति तद्वृत्तित्वमपि तस्येति वाच्यम् तादात्म्यस्यैक्यस्य भेदसह त्वाभावात् । नीलो घट इत्यादौ नीलघटयोस्तादात्म्यं हि न नीलद्रव्यस्य घटद्रव्यस्य च भेदं साधयेत् । विशेषण भेद सहितविशेष्यैक्यस्यैव सामानाधिकरण्यप्रयोजकतया तन्तुत्व पटत्वरूपावस्था भेदस्यैव ततः सिद्धेः तन्तुपटयोर्भेदायोगात् । मेदा ४७६

मेदयोरविरोधे चानेकान्तवाद एव परिगृहीतः स्यादिति जितं जैनैः । न च अभेदो नेष्यत एव । तदनन्यत्वाधिकरणस्याप्यभेदसाधनैदम्पर्यं नास्तिः किंतु मेदव्यासेधमात्र परतेति भामत्युक्तेरिति वाच्यम् तर्हि सत्कार्यवादत्यागप्रसंगात् । सत्कार्यवादो हि नाम कार्य कारणञ्चैकद्रव्यमिति वादः । कार्यकारणयोर्भेदे च तद्विरोध एव । न चैक्ये कार्यकारणभावव्याहतिः; कार्यतावच्छेदककारणतावच्छेदकधर्मभेदमात्रेण तदुपपत्तेः । अविकृतं कार्यं न भवति । अवस्थान्तररूपविकाराभावे कार्यकारणभावो दुर्वच इत्येतावदेव, " असंभवस्तु सतोऽनुपपत्तेः" इत्यत्र भाष्येऽप्युक्तम् । यदि कारणात् कार्यस्य भेद इष्टः, तर्हि कथम्, “भेदं व्यासेधामः” इति भामती । किञ्च तार्किकमते ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावस्यापि नव्यैः स्वीकारात् पटोत्पत्तेः प्रागृर्ध्वश्च पटस्य तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वमिष्टमेवेति न तावता मिथ्यात्वसिद्धिः । अतः सत्यस्यैव मिथ्येति स्वयं परिभाषणमात्रम् । संयोगसंबन्धेन पटकालेऽप्यभावसत्त्वेन सिद्धसाधनञ्च । समवायसबन्धावच्छिन्नप्रतीयोगित्वं विवक्षितमिति चेन्न वेदान्तिभिः समवायानङ्गीकारेण तदूघटितसाध्यस्याप्रसिद्धत्वात् । अत्यन्ताभावीयतादात्म्यसंबन्धावच्छिन्नप्रतियोगित्वं साध्यमिति चेन्न — अन्योन्याभावीय प्रतियोगिताया एव तादात्म्यसंबन्धावच्छिन्नत्वात् । अथान्योन्याभावप्रतियोगितायाः संबन्धावच्छिन्नत्वमेव नेष्यते । न च तर्हि ध्वंसप्रागभावयोरन्योन्याभावस्य चाविशेषः ; अनादिरनन्तोऽन्योन्याभाव इति वैषम्यस्य जागरूकत्वात् । तथा ध्वंसप्रागभावप्रतियोगितयोः संबन्धावच्छिन्नत्वं धर्मावच्छिन्नत्वञ्चेत्युभयं नेष्यते; पटभेदादिरूपान्योन्यामावप्रतियोगिता तु संबन्धानवच्छिन्नाऽपि पटत्वावच्छिन्ना भवतीति विशेषः । अतोऽत्यन्ताभावप्रतियोगिता तादात्म्यसंबन्धावच्छिन्नापीति चेन्न —तत्तद्धंसप्रागभावयोस्तत्तत्प्रतियोगिसमवायिदेशमात्रवृत्तितया ध्वंसप्रागभावसामान्याधिकरणस्य कस्य चिदभावात् इत्यादिना हेतुना ध्वंशप्रागभावयोः सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वादिकं नेष्यत इति तार्किकसरणिः । प्रकृते संयोगादि व्यावर्त मानत्व भन्न-प्रसाधनम् ४७७ संबन्धावच्छिन्नत्वस्यैवात्यन्ताभाबीयप्रतियोगितायां भूतले घटो नास्तीत्यादौ प्रसिद्धत्वात् तादाम्यसंवन्धावच्छिन्नत्वे मानाभावः । घटः पटो नेत्यत्र तु भेदप्रतियोगित्व । सा च संबन्धानवच्छिन्नेति भवदिष्टमिति । सदिदं प्राक् मृत्तिकेबासीत्, न तु घटादीत्यादिप्रतीतिरपि अन्योन्याभावमेवावगाहते । समानविभक्तिकप्रतियोग्यनुयोगिपदघटितत्वात् । मृत्पिण्डे घटो नास्तीत्यदौ तादात्म्यसंबन्धभानेष्टौ च न किञ्चित् प्रमाणम्; घटत्वावस्थाविरहस्यैव तत्र पर्यवसितत्वात् । किञ्चेदं तादात्म्यम् ? न तावदेव म् । तस्य संसर्गताया भवदनिष्टत्वात् । इष्टत्वे अन्योन्याभावीयप्रतियोगितायास्तदवच्छिन्नत्वप्रसंगः । न च तद्वृत्तिधर्मः, घटपटयोरपि तादात्म्यप्रसंगात् । द्रव्यत्वरूपधर्मसत्त्वात् । तद्वृत्त्युभयावृत्तिधर्म इति चेत् — ईदृशधर्मरूपतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वं घटः पटो नेत्यादावपि सुवचम् । अथ मृत्पिण्डेन घटस्य स्वरूपं संबन्ध इति चेत् — घटस्तद्भिन्नः सन् खरूपसंबन्धप्रतियोगी, उताभिन्नस्सन् । आद्ये, भेदप्रयुक्तस्वरूपसंबन्धगोचरसमानाधिकरणवाक्यप्रयोगस्वीकारे रूपवान् घट इत्येतत्स्थाने रूपं घट इति प्रयोगापत्तेः । यदि तु स्वरूपसंबन्धस्य तद्वत्ताबुद्धिनियामकत्वमेव तत्र दृष्टम् । तर्हि मृद्घट इति समानाधिकरण प्रतीतिर्न तत्संबधावगाहिनी । यावच्च मृन्न घटः, घटो न मृत् इत्येवं भेदप्रत्ययो मिथ्या, तावत् उपादानोपादेययोर्भेदस्वीकारोऽप्ययुक्तः । तर्हि कथमैक्येऽपि समानाधिकरणप्रयोगे घटः कलश इति न प्रयोग इति चेत् –ऐक्यसंबन्धावच्छिन्नार्थबोधं प्रति भिन्नप्रवृत्तिनि गित्तकपदजन्योपस्थित्योः कारणत्वस्वीकारेण तत्परिहारः । अत ऐक्यातिरिक्तस्य तादात्म्यस्यात्राभावात् तादात्म्यसंबन्धावच्छिन्नप्रतियोगि ताकात्यन्ताभावे मानाभावात् संबन्धान्तरेणात्यन्ताभावस्य घटीवस्य मृदीष्टत्वाच नैतत् साध्यं भवितुमर्हति । अपिचायं पट एतत्तन्तुनिष्ठाभा वर्मा योगीति साधयतः पटमिध्यात्वमेव खल्वभिमतम् । मिथ्यात्वश्चास्य किं ब्रह्मज्ञानबाध्यतया, किंवा तन्तुज्ञानबाध्यतया । अन्त्यमनुभवापेतम् । तन्तवः पट इति प्रतीतेरेवाबाधितत्वात् । आद्ये परमार्थ भूषणे तु पटेन सह तन्तवोऽपि बाधिता इति तदा तेषामेवाभावात् तन्निष्ठाभावप्रतियोगित्वं पटस्य दुस्साधम् । अन्यच्च एतत्तन्तु निष्ठाभावप्रतियोगित्वसिद्धावपि न सर्वत्र तदभावसिद्धिः । भूतलादौ पटादिसत्त्वस्यानुभविकतया बाधश्च । अथापि तत्र न कार्यतावच्छेदकसंबन्धेन पट इति चेत् — कोसौ संवन्धः ? समवाय इति चेत् — स वेदान्तिनामप्रसिद्धः । संयोग इति चेत् किं तन्तुषु संयोगेन पटो जायते ? तन्तुषु मा जनिष्टः तन्तवो यत्र तत्र तेन संबन्धेन पटो जायत इति चेत् -तर्हि भूलेऽपि तन्तुसंयुक्ते पटः संयोगेन जायत इति न कार्यतावच्छेदकसंबन्धेन भूतले पटात्यन्ताभावः । तादात्म्यं कार्यतावच्छेदकसंबन्ध इति चेत् तत् ऐक्यादविलक्षणमिति तत्संबन्धावच्छिन्नतत्तन्तुनिष्ठाभावप्रतियोगित्वमेव साधनीयम् । यदि पट ऐक्यसंबन्धावच्छिन्न वस्त्वन्तरनिष्ठाभावप्रतियोगी सन् तत्सन्धावच्छिन्नैतत्तन्तु निष्ठाभावप्रतियोग्यपि स्यात्, कार्यमेव न भवेत् । कार्यस्य कार्यतावच्छेदकसंबन्धेन कारणवृत्तिताया आवश्यकत्वात् । अन्यथा तस्य संबन्धस्य कार्यतावच्छेदकत्वेन व्यवहारोपि न घटते । तथाचांशित्वरूपकार्यत्व हेतुः पटस्य कारणवृत्तित्वं कारणनिष्ठत्रैकालिकाभावप्रतियोगित्वाभाव साधयन् रिरुद्ध एव स्यात् । एवं पट एतत्तन्तुनिष्ठत्रै कालिकाभावप्रतियोगी न भवति एतत्कार्यत्वात् यन्नैवम् तन्नैवम् यथा पटान्तरमिति सत्प्र तिपक्षश्च । न चात्र व्यतिरेकव्याप्तौ एतत्कार्यत्वाभावं प्रति एतत्तन्तुनिष्ठत्रै कालिका भावप्रतियोगित्वं न प्रयोजकम् ; किंतु एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वमेवेति वाच्यम् –प्रागभावप्रतियोगित्वतदभावयोः कार्योत्पत्तितदभावोन्नेयत्वेन पूर्वग्रहात् । तार्किकैरपि कैश्चित् प्रागभावानङ्गीकाराच्च । यत्तु तदुपादानकान्यत्वमेव तधुपाधिस्तत्र प्रयोजक इति चन्द्रिकोक्तम्-तन्न -एककार्थत्वाभावस्य एतदुपादानकभिन्नत्वस्य चैकतया तत्रैव तस्यानुपाधित्वात् । कार्यतावच्छेदकसंबन्धेन कारणे कार्यासत्त्वे कार्यकारणभावस्य दुर्महतया एतत्तन्तुनिष्ठत्रका लि काभावप्रतियोगित्वैतत्कार्यत्वाभावयोरनुकूलतर्कबलसिद्धायां व्याप्तौ अप्रयोजकशङ्काया अकिञ्चित्करत्वाच्चेति । व्यावर्तमानत्वभ-प्रसाधनम् པཔ་ विमतं मिथ्या ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात् खामवदिति विद्यासागरानुमानमप्यनूदितमेवं निरस्यम् । उस्य, “नाभाव उपलब्धेः " इति सूत्रतद्भाष्यादिनाऽप्यपास्तत्वात् । ज्ञानव्यतिरेकेणानुपलभ्यमानत्वात् यदि विषयो मिथ्या, विषयं विनाऽनुपलभ्यमानत्वात् ज्ञानमपि मिथ्या स्यात् । यत् केन चिद्विना नोपलभ्यते, तन्मिथ्येति च न व्याप्तिः । रूपं विना प्रभा नोपलभ्यते इति रूपं सत्यम्, प्रभा तु मिथ्यैवेत्यपि स्यात् । तेन विनानुपलभ्यमानत्वञ्च सहोपलम्भनियमः । तेन साहित्येनोभयमेव सिद्धयेत् । नैकतरमात्रम् । चन्द्रिकायां तु ज्ञानव्यतिरेकेणानुपलभ्यमानत्वादित्यस्य स्वप्रकाशभिन्नत्वादित्यर्थ उक्तः । तदा च विमतं मिथ्या स्वप्रकाशभिन्नत्वादिति तार्किकं प्रति कथने हेत्वप्रसिद्धिः; स्वप्रकाशस्य कस्यचित् तेनास्वीकारात् । अनुभूतिः स्वप्रकाशा परप्रकाशकत्वादित्यनुमानेन तत्साधने पराभावात् परप्रकाशकत्वस्य मिध्यात्वे स्वप्रकाशत्वमपि मिथ्यैवेति प्रकाशानात्मकं वा स्वरूपतोऽपि मिथ्यैव वा ज्ञानमपि स्यादित्यलं प्रासङ्गिकार्थप्रपञ्चनेन ॥ स्वमतैकसिद्धविविधार्थनिर्भरः उपजीव्य साध्यमतिभिर्मृषात्मकैः । अपि बाधितैर्बत मृषात्वसाधनैः अवधीरयन्ति जगदीशसत्यताम् ॥ शुभमस्तु श्रीः